← अध्यायः ३८ लक्ष्मीतन्त्रम्
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ४० →
लक्ष्मीतन्त्रस्य अध्यायाः

एकोनचत्वारिंशोऽध्यायः - 39
श्रीः---
शृणु भोगान् सुरेशान दत्तैस्तुष्यामि यैरहम्।
येषु मे वितता शक्तिर्भोग्यभोगाय तिष्ठते ।। 1 ।।
1. तिष्ठते; स्वाशयं प्रकाशयन्ती तिष्ठतीत्यर्थः। प्रकाशनार्थे तङ्।
यथाशक्त्यनुरूपेण तत्तद्भोगोपकल्पने।
दिव्यशक्तिप्रभेदैस्तैर्विचित्रैः स्त्यानतां गतैः ।। 2 ।।
2. - - - - - - - - - - - -
संपूर्णमीस्वरार्हं तद्भावनीयमशेषतः।
मृद्वास्तरणसंस्तीर्णमादावासनमुत्तमम् ।। 3 ।।
3. भोगविशेषा उच्यन्ते---मृद्वित्यादिना। भगवदाराधने षडासनानि; यथा---मन्त्रासनम्, स्नानासनम्, अलंकारासनम्, भोज्यासनम्, पुनर्मन्त्रासनम्, पर्यह्कासनं चेति। तत्र प्रथमं मन्त्रासनमत्रोच्यते।
अर्घ्यं पाद्यं मधूपर्कस्तथैवाचमनीयकम्।
प्रणामपूर्वकं पश्चादात्मात्मीयनिवेदनम् ।। 4 ।।
4. तस्मिन्नासने समर्पणीयानाह---अर्घ्यमित्यादिना। आत्मात्मीयनिवेदनप्रकारमाह पाद्मे (4-3-140)---"दासोऽहं ते जगन्नाथ सपुत्रादिपरिग्रहः। प्रेष्यं प्रशाधि कर्तव्ये मां नियुङ्‌क्ष्व हिते सदा।।" इति।
अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम्।
पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहः ।। 5 ।।
5. द्वितीयं स्नानासनमत्र। अत्र मन्त्रः सात्त्वते (6-26)---"स्फुटीकृतं मया देव त्विदं स्नानपरे त्वयि। सपादपीठं परमं शुभं स्नानासनं महत्। आसादयाशु स्नानार्थं मदनुग्रहकाम्यया।।" इति।
पाद्याम्बु पादुके स्नानशाटी मात्रा च शालिका।
दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम् ।। 6 ।।
6. मात्रा च शालिकेति। अक्षताग्रशुभ्रवर्णशालितण्डुलपूर्णपात्रमत्र मात्रापदार्थः। तथा च पाद्मे (4-6-36)---"शालितण्डुलमात्रया" इति। एतच्च मात्रादानमाराधनमध्यापतितवैकल्यपरिहाराय।
दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी।
गन्धतैलं च चूर्णं च शालिगोधूमसंभवम् ।। 7 ।।
7. - - - - - - - - - - - -
हरिद्राचूर्णसंमिश्रमीषत्पद्मकभावितम्।
उद्वर्तनार्थं तदनु स्नानार्थं खलिसंयुतम् ।। 8 ।।
8. खलिः मृगमदादिवासनावासितं घनीभूतगन्धतैलकिट्टकम्।
उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम्।
क्षीरं दधि घृतं गव्यं मध्वैक्षवरसं तथा ।। 9 ।।
9. चन्द्रः घनसारः।
सुगन्धामलकाभिश्च लोध्रतोयं ततः परम्।
रक्तचन्दनतोयं च रजनीवारि चोत्तमम् ।। 10 ।।
10. - - - - - - - - - - - -
ग्रन्थिपर्णीपयः पश्चात् ततश्च तगरोदकम्।
प्रियङ्गुजटिलासिद्धार्थकसर्वौषधीजलम् ।। 11 ।।
11. - - - - - - - - - - - -
पुष्पपत्रफलाम्भांसि बीजगन्धोदके तथा।
हेमरत्नसरित्तीर्थकेवलाम्बूनि च क्रमात् ।। 12 ।।
12. - - - - - - - - - - - -
स्नानीयांम्बुसमेतानि देयान्यम्बून्यमूनि तु।
अर्घ्यपात्रात्तथैवार्घ्यं स्नानानामन्तरान्तरा ।। 13 ।।
13. - - - - - - - - - - - -
दद्यात् सपुष्पतोयेन क्षालनं चान्तरान्तरा।
स्नानशिष्टाम्बुसंपूर्णं {1}हरिद्राशालिसंभृतम् ।। 14 ।।
14. स्नपनानन्तरं नीराजनमुच्यते---स्नानशिष्टेति।
{1. हरिद्राग्रन्थि B. }
स्रगादिसंयुतं कुम्भं हस्ते कृत्वापरत्र तु।
सिद्धार्थैर्धूपवत् पात्रं भ्रामयित्वा तु मूर्धनि ।। 15 ।।
15. हस्ते; वामहस्ते। अपरत्र; दक्षिणहस्ते।
बहिः क्षिपेत्ततो दद्यात् सुधौते चाङ्गशाटिके।
केशोदकापकर्षार्थमम्बरं देहवारिहृत् ।। 16 ।।
16. - - - - - - - - - - -
अन्तरीयोत्तरीये द्वे सुधौते वाससी शुभे।
भाविते गन्धधूपेन दद्याद् भद्रासनं ततः ।। 17 ।।
17. भद्रासनम्; स्नानासनम्।
शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम्।
अलंकारासनं पश्चाद्देयं मृद्वास्तरोल्बणम् ।। 18 ।।
18. खप्लुतम्; द्वादसान्तस्थितम्। तृतीयमलंकारासनमाह--अलंकारेति।
तत्र सर्वं प्रदातव्यमर्घ्यपाद्यादि पूर्ववत्।
{2}विवेचनं च केशानां कङ्कतेन प्रशोधनम् ।। 19 ।।
19. कङ्कतं केशप्रसाधनी।
{2. निवेशनं A. }
शीर्षण्यास्ताः सुमनसस्ततश्चूडोपकल्पनम्।
{3}चन्दनाद्याः सुगन्धाश्च व्यजनं शोषणार्थकम् ।। 20 ।।
20. - - - - - - - - - - - - - -
{3. चन्दनाद्यास्तु A. B. }
मकुटाद्या अलंकाराः प्रदेयाः परमाद्भुताः।
स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः ।। 21 ।।
21. - - - - - - - - - - - - - -
पुष्पाञ्जलिः पदद्वन्द्वे प्राकारः सुमनश्चयैः।
गन्धद्रव्यसुशीतेन ह्यञ्जनेनाञ्जनं दृशोः ।। 22 ।।
22. - - - - - - - - - - - -
तथैवालम्भनं चापि ललाटतिलकं तथा।
आदर्शो विमलो मृष्टः परितश्च समीक्षणम् ।। 23 ।।
23. - - - - - - - - - - - - - -
प्रदीपश्च प्रधूपश्च वाहनं चेतनेतरत्।
स्तुतिमङ्गलगीतानि नृत्तवादित्रदर्शनम् ।। 24 ।।
24. चेतनेतरत् वाहनमिति। सुवर्णादिनिर्मितं हस्त्यश्वादि।
मात्राश्च रत्नसंपूर्णा भोगच्छिद्रप्रपूरणाः।
बुद्ध्या विरचितास्तास्ता राजराजोचिताः क्रियाः ।। 25 ।।
25. - - - - - - - - - - - - - -
अलंकारासनस्थाय त्वेते भोगा हि मन्मयाः।
अथ भोज्यासनं देयमर्ग्यपाद्यादिकं तथा ।। 26 ।।
26. मन्मया इत्यनेनाध्यायादावुक्तो विषयः स्मार्यते। तुरीयं भोज्यासनमुपवर्ण्यते---अथेति।
यजेत मधुपर्केण {4}यथा तदवधारय।
पयसो मधुनो दध्नः संयोगो मधुपर्ककः ।। 27 ।।
27. मधुपर्कमाह--पयस इति।
{4. यथावत् B. F. }
पात्रं पुरः प्रतिष्ठाप्य मधुपर्केण पूरितम्।
अर्हणं तर्पणं चार्घ्यात् पृथक् पात्रद्वये भवेत् ।। 28 ।।
28. - - - - - - - - - - - - -
{5}अर्हणेनार्चनं पूर्वं ततश्च मधुपर्ककम्।
तर्पणं तर्पणीयाभिस्ततो निष्पुंसनं करे ।। 29 ।।
29. अर्हणमापोशनम्। तर्पणम्; पानीयतीर्थम्। निष्पुंसनम्; हस्तोद्वर्तनम्।
{5. अर्हणं चार्चनं B. }
देयमाचमनं पश्चान्मात्रा गौर्माधुपर्किकी।
यष्टव्यमन्नयज्ञेन साङ्गेन मधुपर्कवत् ।। 30 ।।
30. पुनः मधुपर्कदानसंभावितवैकल्यपरिहाराय गवा मात्रादानमत्रोच्यते।
{6}प्रदेया अन्नयज्ञार्था मात्राः शाल्यन्ननिर्मिताः।
सकर्पूरं च ताम्बूलं प्रदेयमनुवासनम् ।। 31 ।।
31. पञ्चमे मन्त्रासने समर्पणीयानि ताम्बूलादीनि।
{6. B. C. F. omit four lines from here. }
ततश्च विश्रमार्थाय विमानं परमाद्भुतम्।
प्रदेयं तत्र दातव्यं सर्वमर्घ्यादि पूर्ववत् ।। 32 ।।
32. षष्ठं पर्यह्कासनमुच्यते---ततश्चेति।
जपं समाचरेत् पश्चादलक्ष्यमितरैर्जनैः।
मन्त्रसंस्कृतया सम्यक् शुभया ह्यक्षमालया ।। 33 ।।
33. जपसंख्यागणनोपकरणेष्वक्षमाला प्रशस्ता।
प्राकृतस्त्वङ्गुलीभिस्तु पर्वभिस्तु दशोत्तरः।
शतोत्तरादिसंख्यस्तु विज्ञेयो ह्यक्षमालया ।। 34 ।।
34. - - - - - - - - - - - -
वाचिकः क्षुद्रकर्मार्थमुपांशु सिद्धिकर्मणि।
मानसो मोक्षलक्ष्मीदो ध्यानात्मा सर्वसिद्धिकृत् ।। 35 ।।
35. जपविशेषो वाचिकादिः।
अक्षमाला तथा कार्या न दृश्या प्राकृतैर्यथा।
अक्षास्थिमात्रा मण्य उत्तमाः परिकीर्तिताः ।। 36 ।।
36. - - - - - - - - - - - -
धात्रीफलास्थिसदृशा मध्यमाः परिकीर्तिताः।
{7}अधमा बदरास्थ्याभाः श्रेष्ठमष्टशतात्मकम् ।। 37 ।।
37. - - - - - - - - - - - - - -
{7. अथवा A. }
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं स्मृतम्।
सौवर्णं द्रव्यसिद्ध्यर्थे पुष्ट्यर्थे पितृकर्मणि ।। 38 ।।
38. अक्षमालामणिविशेषानाह---सौवर्णमित्यादिना।
राजतं ताम्ररूपं तु मेधावीर्यजयाप्तये।
त्रापुषं यक्षिणीसिद्धौ सैसं रक्षःपिशाचयोः ।। 39 ।।
39. - - - - - - - - - - - -
वेतालसाधनार्थं तु रीतिजं कांस्यजं तु तत्।
अक्षसूत्रं परिज्ञेयं नागपन्नगसाधने ।। 40 ।।
40. रीतिः पित्तललोहविशेषः।
आयसं क्षुद्रकर्मार्थमिति धातुमयो मणिः।
आयुरारोग्यभूत्यर्थः{8} सर्वो मणिमयो मणिः ।। 41 ।।
41. - - - - - - - - - - - - -
{8. वृद्ध्यर्थः C. }
मोक्षाय शान्तये चैव स्फाटिको मणिरुच्यते।
सौभाग्ये वैद्रुमः कार्यः सौत्रः कार्यस्तु मुक्तये ।। 42 ।।
42. सैत्रः; तन्तुनिर्मितः।
शान्तये मुक्तये पुष्ट्यै तुलसीमूलजो मणिः।
सर्वसिद्धिप्रदः पाद्मो मणिः शाङ्खः श्रियै मतः ।। 43 ।।
43. - - - - - - - - - - - - - -
आयुःप्रजायशोदः स्यान्मौक्तिको मणिरुत्तमः।
आदद्यादेकमेतेषां शुभकाले गुणाधिके ।। 44 ।।
44. - - - - - - - - - - -
अस्रेण गन्धतोयेन क्षालयेत्तदनन्तरम्।
{9}शाणकार्पासजोर्णानां कृत्वा सूत्रं नवं दृढम् ।। 45 ।।
45. - - - - - - - - - - - - -
{9. B. omits four lines from here. }
त्रिगुणं त्रिगुणीकृत्य चतुर्धा वा यथा दृढम्।
क्षालयित्वास्रतोयेन तेनैव ग्रथयेन्मणीन् ।। 46 ।।
46. - - - - - - - - - - -
अनूनानधिकांस्तुल्यानचलान् ग्रथितान्तरान्।
इष्टसंख्यामणिप्रोतसूत्रान्तद्वितयोपमम्।।
मणिं प्रकल्पयेन्मेरुमक्षमालाविधिस्त्वयम् ।। 47 ।।
47. मेरुः जपसूत्रप्रधानग्रन्थिस्थो बृहन्मणिविशेषः।
इति {10}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बहिर्यागप्रकाशो{11} नामैकोनचत्वारिंशोऽध्यायः
{10. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
{11. बहिर्यागो A. }
********इत्येकोनचत्वारिंशोऽध्यायः********