← अध्यायः ५० लक्ष्मीतन्त्रम्
अध्यायः ५१
[[लेखकः :|]]
अध्यायः ५२ →
लक्ष्मीतन्त्रस्य अध्यायाः

मद्रपुरीराजकीयप्राच्यलिखितपुस्तकालयस्थे (I) इति संकेतिते कोशे अधो निर्दिष्टा अध्याया अधिकाः पठ्यन्ते----
एकपञ्चाशोऽध्यायः - 51
शक्रः---
{1}उत्पत्तिप्रलयौ चैषां फलं चैवावधारितम्।
प्रतिपत्तिविशेषाश्च येषु तेषु यथा तथा ।। 1 ।।
{1. Evidently one or two verses are missiong in the beginning. }
नित्यानि पञ्च कृत्यानि कादाचित्कानि चैव ते।
चर्यापादक्रियापादौ पादौ च ज्ञानयोगयोः ।। 2 ।।
इति नानाविधं तन्त्रं चतुष्पादोपबृंहितम्।
पुराकृत्या पुराकल्पैरितिहासैश्च संमितम् ।। 3 ।।
रहस्यानेकसंभेदं नानावाक्योपशोभितम्।
लक्ष्मीतन्त्राह्वयं सम्यक् सद्यः प्रत्यायकं नृणाम् ।। 4 ।।
मया समाहितैनैव यथावदवधारितम्।
अस्य विस्तृतरूपत्वात् सम्यक्कालविपर्ययात् ।। 5 ।।
चेतसोऽल्पबलत्वाच्च यथावन्नैव भासते।
अस्मान्महार्णवाद्देवि त्वज्ज्ञानपरिपूरितात् ।। 6 ।।
सर्वतः सारमुद्धृत्य लोकानां हितकाम्यया।
तन्त्रसंक्षेपमाख्याहि नमस्ते प्दमसंभवे ।। 7 ।।
नारदः---
इति संचोदिता देवी वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् ।। 8 ।।
श्रीः---
साधु संबोधिता सम्यग् वत्स वृत्रनिषूदन।
शृणु संक्षेपमाख्यामि तन्त्रादस्मात् समुद्धृतम् ।। 9 ।।
अहंता सर्वभूतानामहमस्मि सनातनी।
आरोहेणावरोहेण विश्वसिद्धिकरी स्मृता ।। 10 ।।
परमं यदहंताख्यं तुर्यातीतं तदुच्यते।
परं ब्रह्म परं धाम लक्ष्मीनारायणं तु तत् ।। 11 ।।
न तत्र प्रविबागो नौ भवद्भावव्यवस्थितौ।
उन्मेषस्तत्र यो नाम यथा चन्द्रोदयेऽम्बुधौ ।। 12 ।।
अहं नारायणी शक्तिः सिसृक्षालक्षणा तथा।
तुर्यावस्था च सा मे स्यात् परिणामोद्भवात्मिका ।। 13 ।।
शुद्धाशुद्धमयो भावः सर्वोऽप्यन्तर्गतस्तदा।
व्यूहाश्च विभवाश्चैव तथा व्यूहान्तरादिकाः ।। 14 ।।
अयं शुद्धमयो भावो यच्चान्यद्भगवन्मयम्।
व्यूहे च विभवे चैव तथा व्यूहान्तरादिके ।। 15 ।।
सुषुप्ताद्या अवस्था मे प्रत्येकं चैवमुन्नयेत्।
अव्यक्तमहदाद्याश्च तथा वैकारिकं जगत् ।। 16 ।।
शुद्धेतरस्त्वयं भावस्तिस्रोऽवस्थाश्च तत्र वै।
प्रत्येकमुन्नयेच्चैवं तत्र तत्र दिवस्पते ।। 17 ।।
भूते स्थिते च विज्ञेया दसा एताश्चतुर्विधाः।
अपरोऽस्ति क्रमस्त्वेवं शुद्धाशुद्धमयेऽध्वनि ।। 18 ।।
प्रमातृकरणज्ञेयेष्वारोहेषु मदात्मके।
शून्यप्राणादिभेदेन क्रमान्मातृगणा दश ।। 19 ।।
करणं द्विविधं विद्धि बाह्यमाभ्यन्तरं तथा।
उभयोरपि तावद्धि तूष्णींभावादिके क्रमे ।। 20 ।।
ज्ञेयं बहुविधं प्रोक्तं तत्राप्येवं समुन्नयेत्।
तुर्यातीतत्वमेतेषां भगवद्भाववेदनम् ।। 21 ।।
अवरोहोऽयमुद्दिष्ट आरोहमपि मे शृणु।
चरमां कोटिमारभ्य मदन्तोऽभूद्व्यवस्थितः ।। 22 ।।
आरोहः स तु विज्ञेयः शुद्धाशुद्धमयेऽध्वनि।
आरोहमवरोहं च संततं भावयन्नरः ।। 23 ।।
मच्चित्तो मद्गतप्राणो मद्भावं समुपाश्नुते।
आकारकालदेशान्मे परिच्छेदोऽस्ति नैव च ।। 24 ।।
मयैव ज्ञानरूपिण्या व्याप्तास्ते पाकशासन।
आत्मभित्तौ जगत् सर्वमिच्छयोन्मीलयाम्यहम् ।। 25 ।।
तद्रूपतारतम्येन ग्राह्यग्राहकसंस्थितिः।
वाच्यात्मपरिणामोऽयं लेशतस्ते प्रदर्शितः ।। 26 ।।
वाचकात्मानमस्य त्वं समाहितमनाः शृणु।
शुद्धसंविन्मयी पूर्वं विवर्ते प्राणरूपतः ।। 27 ।।
तत्तत्स्थानप्रसङ्गेन विवर्ते शब्दतस्तथा।
शान्ता सूक्ष्मा तथा मध्या वैखरीति विवेकिनी ।। 28 ।।
चतूरूपं चतूरूपवाचि वाच्यं स्वनिर्मितम्।
शान्ता विवर्तमानाहं प्रपद्ये सूक्ष्मसंस्थितिम् ।। 29 ।।
शक्तिर्नाद इति द्वेधा सूक्ष्मरूपव्यवस्थितिः।
सूक्ष्मा विवर्तमानाहं प्रपद्ये मध्यमां स्थितिम् ।। 30 ।।
बिन्दुसंस्कारसंपत्तिः सावस्थाक्षरसंततेः।
मध्या विवर्तमानाहं प्रपद्ये वैखरीस्थितिम् ।। 31 ।।
पञ्चाशदादिभेदेन सावस्थाक्षरसंततेः।
आरोहमवरोहं च संततं भावयन्निमौ।
शब्दब्रह्मणि निष्णातः शब्दातीतं प्रपद्येत् ।। 32 ।।
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे एकपञ्चाशोऽध्यायः
********इति एकपञ्चाशोऽध्यायः********