← अध्यायः १ लक्ष्मीतन्त्रम्
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →
लक्ष्मीतन्त्रस्य अध्यायाः

द्वितीयोऽध्यायः - 2
श्रीरुवाच---
अस्ति निर्दुःखनिःसीमसुखानुभवलक्षणः।
परमात्मा परं यस्य पदं पश्यन्ति सूरयः ।। 1 ।।
1. निर्दुःखेत्यादिना निखिलहेयप्रत्यनीकत्वानन्तकल्याणगुणाकरत्वरूपोभयलिङ्गत्वं परमात्मन उक्तं भवति।
कश्चित्केषांचिदात्मा स्यात्तस्यान्येषां च कश्चन।
तस्याप्यन्य[1] इतीत्थं तु यत्रैषा[2] व्यवतिष्ठते ।। 2 ।।
2. आत्मा। नियन्तेत्यर्थः। एषेति। व्यवस्थेति शेषः। व्यवतिष्ठते समाप्नोति, स परमात्मेति पूर्वेणान्वयः।
[1. एवम् A. ]
[2. एषः E. I. ]
[3]अध्वनामध्वनः पारं परमात्मानमूचिरे।
अहं नाम स्मृतो योऽर्थः स आत्मा समुदीर्यते ।। 3 ।।
3. अध्वनामिति। त्रैवर्गिकाध्वापेक्षया परमो योऽध्वा मोक्षाध्वा अर्चिरादिः, तस्य पारं प्राप्यमित्यर्थः; "सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इति वचनात्। "अध्वनामध्वपते" इति श्रुत्युद्धरणमत्र। अहमिति। यः अहंप्रत्ययगोचरः स आत्मेत्यर्थः।
[3. अध्वानम् A. B. C. ]
अनवच्छिन्नरूपोऽहं परमात्मेति शब्द्यते[4]।
क्रोडीकृतमिदं सर्वं चेतनाचेतनात्मकम् ।। 4 ।।
4. अनवच्छिन्नेति। वस्त्वाद्यपरिच्छेदेन योऽहंशब्दापर्यवसानवृत्त्या प्रतीयते स परमात्मेत्यर्थः।
[4. शस्यते B. C. ]
येन सोऽहंस्मृतो भावः परमात्मा सनातनः।
स वासुदेवो भगवान् क्षेत्रज्ञः परमो मतः ।। 5 ।।
5. - - - - - - - - - - - -
विष्णुर्नारायणो विश्वो विश्वरूप इतीर्यते।
अहंतया समाक्रान्तं यस्य [5]विश्वमिदं जगत् ।। 6 ।।
6. आह च शक्रोऽन्यत्र---"त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम्" इति।
[5. सर्वं B. E. ]
[6]वस्त्ववस्तु च तन्नास्ति यन्नाक्रान्तमहंतया।
[7]इदंतया यदालीढमाक्रान्तं तदहंतया ।। 7 ।।
7. इदंतयेति। इदंशब्दार्थतया प्रतीतं सर्वं जगदित्यर्थः।
[6. वस्तुतस्तु A. B. C. ]
[7. A. B. C. D. omit this line. ]
[8]सर्वतः शान्त एवासौ निर्विकारः सनातनः।
अनन्तो देशकालादिपरिच्छेदविवर्जितः ।। 8 ।।
8. - - - - - - - - - - -
[8. सर्वः शान्तः स B. ]
महाविभूतिरित्युक्तो व्याप्तिः सा महती यतः।
तद्‌ ब्रह्म परमं धाम निरालम्बनभावनम्[9] ।। 9 ।।
9. - - - - - - - - - - - - - -
[9. निरालम्बमभावनम् I. ]
निस्तरङ्गामृताम्भोधिकल्पं षाड्‌गुण्यमुज्ज्वलम्।
एकं तच्चिद्घनं शान्तमुदयास्तमयोज्झितम् ।। 10 ।।
10. निस्तरङ्गेत्यादिना भगवतः शान्तोदितावस्थोच्यते। तदेवाह---शान्तमिति।
अपृथग्भूतशक्तित्वाद् ब्रह्माद्वैतं तदुच्यते।
तस्य या परमा शक्तिर्ज्योत्स्नेव हिमदीधितेः ।। 11 ।।
11. ब्रह्माद्वैतमिति। स्वापृथक्‌सिद्धशक्त्यहंताविशिष्टत्वात् तद्विशिष्टं ब्रह्‌मैकमेव तत्त्वमित्यर्थः। स्वस्वरूपस्य तदपृथक्‌सिद्धत्वमेव दृष्टान्तमुखेनाह---ज्योस्नेति।
सर्वावस्थागता देवी स्वात्मभूतानपायिनी।
अहंता ब्रह्मणस्तस्य साहमस्मि सनातनी ।। 12 ।।
12. सर्वावस्थागतानपायिनीत्यनेन "राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि। अन्येषु चावतारेषु विष्णोरेषानपायिनी" इति महर्षिवचनं स्मार्यते।
आत्मा स सर्वभूतानामहंभूतो हरिः स्मृतः।
अहंता सर्वभूतानामहमस्मि सनातनी ।। 13 ।।
13. - - - - - - - - - - -
येन भावेन भवति वासुदेवः सनातनः।
भवतस्तस्य देवस्य [10]स भावोऽहमितीरिता ।। 14 ।।
14. - - - - - - - - - - - - - - -
[10. सहायो B. C. ]
भवद्भावात्मकं ब्रह्म ततस्तच्छाश्वतं पदम्।
भवन्नारायणो देवो भावो लक्ष्मीरहं परा ।। 15 ।।
15. - - - - - - - - - - - -
लक्ष्मीनारायणाख्यातमतो[11] ब्रह्म सनातनम्।
अहं तया समाक्रान्तो ह्यहमर्थः प्रसिध्यति ।। 16 ।।
16. श्रीविशिष्टमेव परं ब्रह्म। न तु निःश्रीकमित्यर्थः। लक्ष्मीनारायणयोरुभयोरात्महविःशेषित्वेऽपि आग्नावैष्णवादिष्विव विशिष्टस्यैवे द्देश्यत्वात् तस्य चैकत्वात् न शेषिद्वित्वप्रसक्तिरिति भावः।
[11. णाख्यं तत् E. I. ]
अहमर्थसमुत्था च साहंता परिकीर्तिता।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ।। 17 ।।
17. - - - - - - - - - - - - -
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः।
अहंतया विनाहं हि निरुपाख्यो न सिध्यति ।। 18 ।।
18. निरुपाख्यो निर्विशेषः। लोके सर्वमपि वस्तु इदमित्थमिति प्रकारविशेषपुरस्कारेणैव सिध्यति; न तु निर्विशेषणिति भावः।
अहमर्थं विनाहंता निराधारा न सिध्यति।
भवद्भावात्मकं रूपं समस्तव्यस्तगोचरम् ।। 19 ।।
19. - - - - - - - - - - - - -
परोक्षमपरोक्षं च जगति प्रविचिन्त्यते[12]।
निरुन्मेषे निरुन्मेषा साहंता परमेश्वरी ।। 20 ।।
20. - - - - - - - - - - - -
[12. विभाव्यते E; विभज्यते I. ]
क्रोडीकृत्याखिलं [13]सर्वं ब्रह्मणि व्यवतिष्ठते।
उन्मेषस्तस्य यो नाम यथा चन्द्रोदयेऽम्बुधेः ।। 21 ।।
21. - - - - - - - - - - - - - -
[13. विश्वं B. ]
अहं नारायणी शक्तिः सिसृक्षालक्षणा तदा।
निमेषस्तस्य यो नाम संहृतौ परमात्मनः ।। 22 ।।
22. देव्याः शक्तिरूपत्वं पूर्वमुक्तम्। अधुना तद्भेद उच्यते---सिसृक्षाशक्तिः सुषुप्साशक्तिश्चेति। प्रथमया सृष्टिः, द्वितीयया संहारश्च जायते। तत्र नित्यविभूतिविषये प्रथमाया एव प्रवृत्तिः। द्वितीयायास्तु लीलाविभूतावेवोपयोगः।
अहं नारायणी शक्तिः सुषुप्सालक्षणा हि सा।
[14]सिसृक्षाया ममोद्यन्त्या देवाल्लक्ष्मीपतेः स्वयम् ।। 23 ।।
23. - - - - - - - - - - - - - - - -
[14. सिसृक्षायां ममोद्यन्त्यां E. ]
अव्याहतमसंकोचमैश्वर्यं प्रविजृम्भते।
ज्ञानं तत्परमं ब्रह्म [15]सर्वदर्शि निरामयम् ।। 24 ।।
24. ज्ञानादिषु षट्‌सु गुणेषु ज्ञानं तत्स्वरूपनिरूपकधर्मः। अन्ये गुणास्तु निरूपितस्वरूपविशेषणभूता इति विवेकः। तदेव वक्ष्यत्युत्तरत्र `शेषमैश्वर्यवीर्यादि ज्ञानधर्मः' इति। ज्ञानाख्यस्य स्वरूपस्य धर्म इत्यर्थः।
[15. सर्वादेशि B. ]
ज्ञानात्मिका तथाहंता सर्वज्ञा सर्वदर्शिनी।
ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः ।। 25 ।।
25. - - - - - - - - - - - - -
शेषमैश्वर्यवीर्यादि ज्ञानधर्मः सनातनः।
अहमित्यान्तरं रूपं ज्ञानरूपमुदीर्यते[16] ।। 26 ।।
26. - - - - - - - - - - - - -
[16. मितीर्यते E. ]
प्रकाशकादिकं रूपं स्फटिकादिसलक्षणम्।
[17]अतस्तु ज्ञानरूपत्वं मम नारायणस्य च ।। 27 ।।
27. - - - - - - - - - - - - - - -
[17. अतस्तत् I. ]
अव्याहतिर्यदुद्यत्यास्तदैश्वर्यं परं मम।
इच्छेति सोच्यते तत्तत्तत्त्वशास्रेषु पण्डितैः ।। 28 ।।
28. इच्छेति। सिसृक्षाशक्तेरैश्वर्यरूपत्वं पूर्वं चतुर्विंशे श्लोके वर्णितमत्र स्मर्तव्यम्। सिसृक्षा हि स्रष्टुमिच्छा।
जगत्प्रकृतिभावो मे यः सा शक्तिरितीर्यते।
सृजन्त्या यच्छ्रमाभावो मम तद्बलमिष्यते ।। 29 ।।
29. देव्या जगत्प्रकृतिभावो न स्वरूपतः, तथात्वे विकारित्वप्रसङ्गात्। किंतु स्वप्रकारभूतचिदचिदात्मनेति द्रष्टव्यम्। एषैव हि ब्रह्मणो जगत्प्रकृतित्वे गतिः।
भरणं यच्च कार्यस्य बलं तच्च प्रचक्षते।
[18]शक्त्यंशकेन तत्प्राहुर्भरणं तत्त्वकोविदाः ।। 30 ।।
  30. - - - - - - - - - - - - - -
[18. शक्यं शक्तेन च A. C. G. ]
विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा।
स्वभावं हि जहात्याशु पयो दधिसमुद्भवे ।। 31 ।।
31. विकारविरहित्वं, पूर्वोक्तरीत्या प्रकारांशे पिरणामः न तु प्रकार्यंश इति स्वीकारात्। प्रकारिभूते स्वरूप एव परिणाममङ्गीकृत्य अघटितघटनासामर्थ्यात् विकाराभावनिर्वाहस्तु न युक्तिसहः। अथ एव "मायां तु प्रकृतिं विद्यात्" इत्यत्रेश्वरोपाधिभूतमायायां प्रकृतित्वमर्थ इति केषांचिदभ्युपगमः।
जगद्भावेऽपि सा नास्ति [19]विकृतिर्मम नित्यदा।
विकारविरहो वीर्यमतस्तत्त्वविदां मतम् ।। 32 ।।
32. - - - - - - - - - - - - -
[19. प्रकृतिः I. ]
विक्रमः कथितो वीर्यमैश्वर्यांशः स तु स्मृतः।
सहकार्यनपेक्षा मे सर्वकार्यविधौ हि या ।। 33 ।।
33. - - - - - - - - - - - -
तेजः षष्ठं गुणं प्राहुस्तमिमं तत्त्ववेदिनः।
पराभिभवसामर्थ्यं तेजः केचित्प्रचक्षते ।। 34 ।।
34. - - - - - - - - - - - -
ऐश्वर्ये योजयन्त्येके तत्तेजस्तत्त्वकोविदाः।
इति पञ्च गुणा एते ज्ञानस्य [20]स्रुतयोऽमहाः ।। 35 ।।
35. - - - - - - - - - - - - - - -
[20. स्फूर्तयः E. I. ]
ज्ञानाद्याः षड्‌गुणा एते षाड्‌गुण्यं मम तद्वपुः।
उद्यतीत्थं सिसृक्षाया ममायुततमी कला ।। 36 ।।
36. उद्यतीति। उदयं प्राप्तेत्यर्थः।
शुद्धाशुद्धात्मको वर्गस्तया क्रोडीकृतोऽखिलः।
तत्र शुद्धमयं मार्गं व्याख्यास्यामि सुरेश्वर ।। 37 ।।
37. शुद्ध सृष्टिः, अशुद्धसृष्टिश्चेति द्विविधा सृष्टिः। तत्र शुद्धा त्नैगुण्यरहिता शुद्धसत्त्वमयी। तस्याः स्वयंप्रकाशत्वादजडत्वमिति केचित्। जडत्वमेवेति परे। अस्या एव नित्यविभूतिरिति व्यवहारः। अशुद्धसृष्टिस्तु त्रैगुण्यमयी जडरूपा लीलाविभूतिरिति व्यवहृता।
अभिव्यक्तानभिव्यक्तषाड्‌गुण्यक्रममुज्ज्वलम्।
आलम्बितचतूरूपं रूपं तत्पारमेश्वरम् ।। 38 ।।
38. न केवलं नित्यविभूतिरेव शुद्धसृष्टिः। किंतु तत्र विद्योतमानाः वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्या व्यूहा अपि तथेति मन्तव्यम्। तत्र प्रथमे वासुदेवे षाड्‌गुण्यक्रमस्य न स्फुटावभासः। तदनन्तरव्यूहेषु तु किंचित्किंचित् क्रमेणेति ज्ञेयम्।
[21]गुणकल्पनयाध्यस्तो गुणोन्मेषकृतक्रमः।
मूर्तीकृतगुणश्चेति त्रिधा मार्गोऽयमद्भुतः ।। 39 ।।
39. तेषु व्कचित् व्यूहे गुणानां सम्यगनुन्मेषात् न गुणात्मतया ज्ञानम्। व्कचित्तु क्रमेणोन्मेषात् क्रमादभिव्यक्तिः। व्कचित्तु गुणानामतिप्रकाशात् गुणात्मना परिज्ञानमिति क्रमः।
[21. गुणानां कल्पनावस्थो I. ]
युगानि त्रीणि षण्णं यान्याहुर्ज्ञानादिकानि वै[22]
समासव्यासतस्तेषां चातुरात्म्यं विविच्यते[23] ।। 40 ।।
40. - - - - - - - - - - - - - - -
[22. वेदिनः E. ]
[23. अमूर्तिमत् A. B. C. D. ]
[24]समस्तव्यस्तभेदेन गुणानां तद्युगत्रयम्।
विवक्ष्यते यदा सा मे शान्तायाश्चातुरात्म्यता[25] ।। 41 ।।
41. - - - - - - - - - - - - - - - -
[24. A. B. C. D. omit verses 41 and 42. ]
[25. चतुरात्मता I. ]
आकृतीरनवेक्ष्यापि [26]गुणानां कल्पनाकृतम्।
चातुरात्म्यमिदं प्राहुः शान्तायास्तत्त्वचिन्तकाः ।। 42 ।।
42. - - - - - - - - - - - - - -
[26. गुणकल्पनया I. ]
[27]शान्तातिशान्तादुन्मेषो मम रूपाद्युगत्रये।
क्रमव्यक्तं तदाद्यं मे चातुरात्म्यममूर्तिमत् ।। 43 ।।
43. - - - - - - - - - - - - -
[27. A. B. C. D. F. omit this verse. ]
अतरङ्गमनिर्देश्यं निःसत्तं सत्त्वमव्ययम्।
सच्चिन्मात्राख्य उन्मेषः साद्या मे शान्तताच्युतिः ।। 44 ।।
44. - - - - - - - - - - - - - - -
व्यक्तज्ञानबलाक्यायां पूर्वं संकर्षणात्मनि।
[28]तिलकालकवत्सर्वो विकारो मयि तिष्ठति ।। 45 ।।
45. तिलकालकवदिति। यथा प्राणिनां देहे तिलवत् सूक्ष्मः कालवर्णश्च बिन्दुविशेषोऽत्यल्पपरिमिते व्कचित्कोणे दृश्यते, तद्वत् सर्वोऽपि प्रपञ्चः ममैकदेशे तिष्ठतीत्यर्थः। संकर्षतीति संकर्षण इत्यन्वर्थं नाम। अत्र ज्ञानबलयोः समुन्मेषः।
[28. तिलकालिक E. I. ]
तन्मां संकर्षणात्मानं विदुर्ज्ञानबले बुधाः।
स्वयं गृह्णामि कर्तृत्वमुन्मिषन्ती ततः परम्[29] ।। 46 ।।
46. - - - - - - - - - - - - - - - -
[29. परा A. B. C. G. I. ]
प्रद्युम्न इति मामाहुः सर्वार्थद्योतनीं तदा।
युगं प्रस्फुरितं रूपं[30] तस्मिन्नैश्वर्यवीर्ययोः ।। 47 ।।
47. प्रकृष्टं द्युम्नं तेजो वा यस्येत्यन्वर्थं नाम। सृष्टिकर्तृत्वात् अत्र वीर्यैश्वर्ययोः समुन्मेषः।
[30. रूपे B. C. D. I. ]
ततस्तया क्रियाशक्त्या [31]लब्धावेशा चिकीर्षया।
युज्यमानानिरुद्धाख्यां लम्भिता तत्त्वकोविदैः ।। 48 ।।
48. अनिरुद्धेति। पालनकर्तैषः। अत्र शक्तितेजसोः समुन्मेषः। तथा च संजगृहुः---"षाड्‌गुण्याद्वासुदेः पर इति स भवान्मुक्तभोग्यो बलाढ्याद्बोधात्संकर्षणस्त्वं हरसि वितनुषे शास्त्रमैस्वर्यवीर्यात्। प्रद्युम्नः सर्गधर्मौ नयसि च भगवन् शक्तितेजोऽनिरुद्धो बिभ्राणः पासि सत्त्वं समयसि च तथा व्यूह्य रङ्गधिराज।। " इति।
[31. लब्धावस्था A. B. C. D. ]
अवस्थाः क्रमशो मे ताः सुषुप्तिस्वप्नजागराः।
तिस्रो मम स्वभावाख्या विज्ञानैश्वर्यशक्तयः ।। 49 ।।
49. सुषुप्तीत्यादि। संकर्षणप्रद्युम्नानिरुद्धानां सुषुप्त्याद्यधिष्ठातृत्वम्। वासुदेवस्तु तुरीयाधिष्ठातेति वेवेकः। अयमेव विभवगः माण्डूक्योपनिषदि विश्वतैजसप्राज्ञतुर्यनामभिर्निर्दिष्टः।
उन्मिषन्त्यः पृथक्तत्त्वत्रयेण परिकीर्तिताः।
बलं वीर्यं तथा तेज [32]इत्येतत्तु गुणत्रयम् ।। 50 ।।
50. - - - - - - - - - - - - - -
[32. इति तत्तु E. I. ]
[33]श्रमाद्यवद्याभावाख्यं ज्ञानादेरुपसर्जनम्।
इत्थं शान्तोदितावस्थाद्वयभेदजुषो मम ।। 51 ।।
51. शान्तोदितेति। शान्तावस्था परवासुदेवावस्था। उदितावस्था व्यूहावस्था। तत्रापि शान्तोदितावस्थः प्रथमव्यूहः। नित्योदितावस्था अन्ये त्रय इति विशेषः।
[33. श्रमाद्यविद्या A. B. C. G. ]
स्वधर्मोर्मिसमुल्लासो न भेदायाम्बुधेरिव।
प्रायो यद्‌गुणकर्तव्ये वर्ते कृत्या यया ह्यहम् ।। 52 ।।
52. - - - - - - - - - - - - - -
तत्र तद्‌गुणयुग्मं तु मम रूपतयोच्यते।
अतो ज्ञानबले देवः संकर्षण [34]उदीर्यते ।। 53 ।।
53. - - - - - - - - - - - - - -
[34. इतीर्यते B. ]
ऐश्वर्यवीर्ये प्रद्युम्नोऽनिरुद्धः शक्तितेजसी।
[35]आद्यस्त्वभिन्नषाड्‌गुण्यो ब्रह्मतत्त्वापृथक्‌स्थितौ ।। 54 ।।
54. - - - - - - - - - - - - - - - -
[35. आद्यं D. ]
एकोऽप्यनुनयौदार्यक्रौर्यशौर्यादिभिर्गुणैः।
नटः प्रवर्तते यद्वद्वेषचेष्टादिभेदवान् ।। 55 ।।
55. - - - - - - - - - - -
तद्वदेकापि सैवाहं [36]ज्ञानशक्त्यादिभिर्गुणैः।
संकर्षणादिसद्भावं भजे लोकहितेप्सया ।। 56 ।।
56. - - - - - - - - - - - -
[36. ज्ञानैश्वर्या E. I. ]
[37]क्रमशः प्रलयोत्पत्तिस्थितिभिः प्राण्यनुग्रहः।
प्रयोजनमथान्यच्च शास्त्रशास्त्रार्थतत्फलैः ।। 57 ।।
57. संकर्षणः प्रकलयकर्ता शास्त्रोपदेष्टा च। प्रद्युम्नः सृष्टिकर्ता शास्त्रार्थप्रवर्तयिता च। अनिरुद्धः पालनकर्ता शास्त्रार्थफलनिर्वाहकश्चेति प्रत्येकं व्यापारविभागः।
[37. क्रमेण I. ]
दशास्तुर्यसुषुप्त्याद्याश्चतुर्व्यूहेऽपि लक्षयेत्।
विभवोऽनन्तरूपस्तु पद्मनाभमुखो विभोः ।। 58 ।।
58. परव्यूहावुपवर्ण्य विभवः कथ्यतेऽत्र। विभवावताराः पद्मनाभादयो बहवः। मत्स्यकूर्मादयोऽप्यत्रैव परिगणिता अवताराः।
अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्त्वते।
अर्चापि लौकिकी या सा भगवद्भावितात्मनाम् ।। 59 ।।
59. अर्चा नाम देवालयेषु प्रतिष्ठिता बिम्बविशेषाः।
मन्त्रमन्त्रेश्वरन्यासात्सापि षाड्‌गुण्यविग्रहा।
[38]पराद्यर्चावसानेऽस्मिन्मम रूपचतुष्टये ।। 60 ।।
60. - - - - - - - - - - - - -
[38. पराद्यर्चावतारे A. B. C. D. ]
तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः।
ईषद्भेदेन विज्ञेयं तद्वयूहविभवान्तरम्।।
शुद्धेतरं त्वथो मार्गं मम शक्र निशामया ।। 61 ।।
61. - - - - - - - - - - - -
इति [39]श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे [40]शुद्धमार्गप्रकाशो नाम द्वितीयोऽध्यायः
[39. पाञ्चरात्रे I. ]
[40. A. B. C. D. F. omit the title; शुद्धसृष्टि G. ]
********इति द्वितीयोऽध्यायः********