लक्ष्मीतन्त्रम्/अध्यायः ३३
← अध्यायः ३२ | लक्ष्मीतन्त्रम् अध्यायः ३३ [[लेखकः :|]] |
अध्यायः ३४ → |
त्रयस्रिंशोऽध्यायः - 33
श्रीः{1}---
शृणु वत्स सुरेशान विद्यायास्तारिकाकृतेः।
अङ्गोपाङ्गानि मन्त्राणि नानामन्त्रमयानि मे ।। 1 ।।
1. - - - - - - - - - - - - -
{1. श्रीरुवाच C. }
गोपनं पञ्चबिन्दुं च ह्यूर्जमैरावणं तथा।
और्वं च पञ्चकं चैते प्रत्येकं व्यापिनान्वितम् ।। 2 ।।
2. गोपनः आकारः। पञ्चबिन्दुः ईकारः। ऊर्जः ऊकारः। ऐरावण ऐकारः। और्वः औकारः। व्यापी अनुस्वारः।
प्राणानलोपरिस्थं तु कृत्वैतत् पिण्डपञ्चकम्।
हृदादिनेत्रपर्यन्तमङ्गबीजमिदं स्मरेत् ।। 3 ।।
3. प्राणः हकारः। अनलः रेफः। पिण्डपञ्चकम्; ह्रां, ह्रीं, ह्रूं, ह्रैं, र्ह्रौ इति मन्त्रपञ्चकम्। हृदादीति। हृदयशिरः शिखाकवचनेत्राणीत्यर्थः।
{2}हृद्बीजात् परतो योज्यं ज्ञानायेति पदं ततः।
हृदयाय नमश्चैव मन्त्रोऽयं धारणप्रदः ।। 4 ।।
4. मन्त्रं निर्दिशति---हृदित्यादि। ओं ह्रां ज्ञानाय हृदयाय नमः।
{2. In the place of this and the next two lines, B. reads the following:
परं प्रणवबीजाभ्यां ज्ञानाय च पदं न्यसेत्।
हृदयाय नमश्चैवं मनुरेकादशाक्षरः।। }
प्रणवादिनमोऽन्तोऽयं मन्त्र एकादशाक्षरः।
परं प्रणवबीजाभ्यामैश्वर्याय पदं न्यसेत् ।। 5 ।।
शिरसे च {3}तथा स्वाहा ह्येष{4} एकादशाक्षरः।
परं प्रणवबीजाभ्यां शक्तये च पदं न्यसेत् ।। 6 ।।
शिखायै वौषडित्येवं शैखोऽयं तु दशाक्षरः।
परं प्रणवबीजाभ्यां बलायेति पदं न्यसेत् ।। 7 ।।
कवचाय हिमित्येवं मन्त्रोऽयं च दशाक्षरः।
परं प्रणवबीजाभ्यां तेजसे च पदं न्यसेत् ।। 8 ।।
नेत्राभ्यां बौषडित्येवं नेत्रमन्त्रो दशाक्षरः।
प्राणानलोपरिस्थं तु विन्यसेत् परमेश्वरम् ।। 9 ।।
तस्मात् प्रणवपूर्वात्तु पदं वीर्याय विन्यसेत्।
अस्राय च फडित्येवं मन्त्रोऽयं च दशाक्षरः ।। 10 ।।
5-10. ओं ह्रीं ऐस्वर्याय शिरसे स्वाहा। ओं ह्रूं शक्तये शिखायै वौषट्। ओं ह्रैं बलाय कवचाय हुं। ओं ह्रौं तेजसे नेत्राभ्यां वौषत्। ओं ह्रः वीर्याय अस्राय च फट्।
{3. ततः A. B. }
{4. सैष B. }
अङ्गषट्कमिदं प्रोक्तमुपाङ्गत्रियुगं शृणु।
तारिकान्ते क्रमाद्दद्यात् पूर्ववत् षड्गुणं पदम् ।। 11 ।।
ज्ञानादितेजःपर्यन्तं तदन्ते च क्रमान्न्यसेत्।
उदराय च पृष्ठाय बाहुभ्यामिति वै पदम् ।। 12 ।।
11,12. ओं ह्रीं ज्ञानाय उदराय नमः। ओं ह्रीं शक्तये पृष्ठाय नमः। ओं ह्रीं बलाय बाहुभ्यां नमः।
ऊरुभ्यामथ{5} जानुभ्यां चरणाभ्यामिति क्रमात्।
नमश्च परतो योज्यमुपाङ्गानामयं विधिः ।। 13 ।।
13. ओं ह्रीं ऐश्वर्याय ऊरुभ्यां नमः। ओं ह्रीं वीर्याय जानुभ्यां नमः। ओं ह्रीं तेजसे चरणाभ्यां नमः।
{5. इति B. }
इत्येवमङ्गोपाङ्गानां मन्त्रा द्वादश कीर्तिताः।
अलंकारास्रमन्त्रांस्तु ब्रुवत्या मे निशामय ।। 14 ।।
14. - - - - - - - - - - - - -
कौस्तुभो व्योमसंभिन्नः परमात्मा ततः परम्।
ऊर्ध्वाधोऽनलसंभिन्न ऊर्जेनापि समन्वितः ।। 15 ।।
सृष्टिकृत्संयुतो मूर्ध्नि कौस्तुभो व्यापिसंयुतः।
नमस्कृतिस्ततः पश्चात्ततः पश्चात् प्रभात्मने ।। 16 ।।
कौस्तुभाय ततः स्वाहा प्रणवाद्यस्तु कौस्तुभः।
मन्त्रः षोडशवर्णोऽयं सर्वकर्मप्रसाधकः ।। 17 ।।
15-17. ओं ठं र्ह्रूः ठं नमः प्रभात्मने कौस्तुभाय स्वाहा।
उद्धरेत् प्रथमं तारं {6}धरेशं तत उद्धरेत्।
तदधस्तृप्तिसंज्ञं{7} च वराहं तदधो न्यसेत् ।। 18 ।।
मायया भूषयेत् पश्चाद्व्यापिना चाङ्कयेत्ततः।
पञ्चात्मा वर्णपिण्डोऽयं नमस्कारं ततः परम् ।। 19 ।।
ततः स्थलजलोद्भूतभूषितेपदमुद्धरेत्।
वनमाले ततः स्वाहा मन्त्रः सर्वार्थसाधकः ।। 20 ।।
18-20. ओं ल्स्वीं नमः स्थलजलोद्भूतभूषिते वनमाले स्वाहा।
{6. धारेशं F. }
{7. संज्ञः B. }
एकोनविंशत्यर्णोऽयं वनमालामयो महान्।
तारकस्यावसाने तु वामनार्णं समुद्धरेत् ।। 21 ।।
तदधस्तृप्तिमायोज्य भूषयेदुदयेन तु।
व्यापिना चाङ्कितः पिण्डश्चतुरर्णो महाद्भुतः ।। 22 ।।
नमस्कारस्ततः पश्चाच्छ्रीनिवासपदं ततः।
पद्माय वह्निजाया च पाद्मोऽयं {8}त्रिदशाक्षरः ।। 23 ।।
21-23. ओं ब्सुं नमः श्रीनिवासपद्माय स्वाहा। त्र्यधिकाः दशाक्षराः यस्येति बहुव्रीहिः।
{8. द्वादशा A. B. C. }
आदायादौ तु वैकुण्ठं रेफं तदुपरि न्यसेत्।
आनन्देनान्वितं पश्चाद्व्यापिना चाङ्कयेत्ततः ।। 24 ।।
{9}कस्थकस्थपदं दद्यान्नेमिद्वन्द्वमतः{10} परम्।
वरपाशाय वै स्वाहा प्रणवाद्यस्तु पाशराट् ।। 25 ।।
24,25. ओं र्णां कस्थ कस्थ ठठ वरपाशाय स्वाहा।
{9. कस्यकस्य B. C. }
{10. नेमिद्वयमतः B. C. }
मन्त्रः पञ्चदशार्णोऽयं कामिनां क्षिप्रसिद्धिकृत्।
प्रणवान्ते विराट्संज्ञं व्यापिना मूर्ध्नि संयुतम् ।। 26 ।।
द्वयं पिण्डतया योज्यं रेफं कमलमङ्कुशम्।
व्यापिना संयुतं मूर्ध्नि तृतीयमिदमक्षरम् ।। 27 ।।
पदं निशितघोणाय चाङ्कुशाय शिखिप्रिया।
इति पञ्चदशार्णोऽयमाङ्कुशः शीघ्रसिद्धिदः ।। 28 ।।
26-28. ओं लॄंर्कृं निशितघोणाय अङ्कुशाय स्वाहा।
अलंकारास्रमन्त्राणामेतत् पञ्चकमीरितम्।
आधारासनमन्त्राणां शृणु रूपं पुरंदर ।। 29 ।।
यद्विना तारिकायास्तु पूरणं नैव जायते।
अनलद्वयमध्यस्थः प्राणो मायी स बिन्दुमान् ।। 30 ।।
तत आधारशक्त्यै च प्रणवादिर्नमोऽन्तिमः।
आधारशक्तिमन्त्रोऽयं विज्ञेयस्तु नवाक्षरः ।। 31 ।।
29-31. ओं ह्रीं आधारशक्त्यै नमः।
अनलद्वयमध्यस्थो बिन्द्वन्तोऽप्यूर्जसंयुतः।
ततः कालाग्निकूर्माय नमोऽन्तः प्रणवादिकः ।। 32 ।।
32. अनलद्वयमध्यस्थ इति। प्राण इत्यनुषज्यते। ओं र्ह्रूं कालाग्निकूर्माय नमः।
मन्त्रः कालाग्निकूर्मस्य विज्ञेयोऽयं दशाक्षरः।
गोपनेनाङ्कितं प्राणं मूर्ध्नि च व्यापिना युतम् ।। 33 ।।
प्रणवान्ते समुद्धृत्य ह्यनन्ताय नमस्ततः।
अष्टाक्षरो ह्ययं मन्त्रो नागराजस्य कीर्तितः ।। 34 ।।
33,34. ओं हां अनन्ताय नमः।
कमलं चाग्निरूपं च प्रधानं पुरुषेश्वरम्।
पिण्डीकृत्य चतुष्कं तु गोपनव्यापिसंयुतम् ।। 35 ।।
वसुधायै नमः पश्चात् प्रणवादिर्मनुस्त्वयम्।
विश्वंभराया विज्ञेय आधारः परिकल्प्यते ।। 36 ।।
35,36. ओं क्ष्म्लां वसुधायै नमः।
अमृतं वरुणं चार्णद्वयं पिण्डीकृतं सह।
गोपनव्यापिसंयुक्तं प्रणवान्ते समुद्धरेत् ।। 37 ।।
37. ओं स्वां क्षीरार्णवाय नमः।
क्षीरार्णवाय च नमः सोऽयं मन्त्रो नवाक्षरः।
पवित्रं सोदयव्यापिसंयुतं प्रणवान्तगम् ।। 38 ।।
38. ओं पुं आधारपद्माय नमः।
आधारपद्माय नमः पद्मस्यायं दशाक्षरः।
इत्थमाधारषट्कस्य मन्त्रषट्कं प्रकीर्तितम् ।। 39 ।।
39. - - - - - - - - - - - - -
आधारेशाख्यमन्त्राणां विधिं शृणु पुरंदर।
धर्ताजितोऽमृताधारो विबुधाख्यश्च वासव ।। 40 ।।
एतांश्चतुर उद्धृत्य वर्णानेषामथोपरि।
विन्यसेच्चतुरो वर्णान् सत्यादीन् साधकोत्तमः ।। 41 ।।
त्रैलोक्यैश्वर्यदं दद्याच्चत्वार्येतानि वासव।
बीजानि प्रणवादीनि धर्मादेः षोडशात्मनः ।। 42 ।।
धर्मादिकमधर्माद्यमृगाद्यं च कृतादिकम्।
चतुष्टयानि चत्वारि यानि {11}सिद्धानि लोकतः ।। 43 ।।
40-43. धर्ता धकारः। अजितो जकारः। अमृताधारो वकारः। विबुधो लकारः। सत्यः ऋकारः। ओं धृं, ओं धॄं, ओं ध्लृं, ओं ध्लॄं इति क्रमेण धर्मज्ञानवैराग्यैश्वर्याख्याधारेशबीजमन्त्राः। ओं जृं, ओं जॄं, ओं ज्लृं, ओं ज्लॄं इति क्रमेण अधर्माज्ञानावैराग्यानैश्वर्याख्याधारेशबीजमन्त्राः। ओं वृं, ओं वॄं, ओं व्लृं, ओं व्लॄं इति ऋग्यजुःसामाथर्वाख्याधारेशबीजमन्त्राः। ओं ल्ऋं, ओं ल्ॠं, ओं ल्लृं, ओं ल्लॄं इति कृतत्रेताद्वापरकल्याख्याधारेशबीजमन्त्राः।
{11. रूढानि B. }
चतुश्चतुर्विभागेन संज्ञाः षोडश विन्यसेत्।
बीजोपरि नमस्छान्ते मन्त्राः षोडश ते स्मृताः ।। 44 ।।
44. अथ धर्मादीनां षोडशानां शंज्ञामन्त्रा उच्यन्ते---चतुरित्यादिना। ओं धृं धर्माय नमः। ओं धॄं ज्ञानाय नमः। इत्यादिक्रमेण ज्ञेयाः।
सोदयं सामृतं ह्रस्वं प्रणवोपरि विन्यसेत्।
अव्यक्तपद्माय नमः स मन्त्रोऽव्यक्तपद्मकः ।। 45 ।।
45. ह्रस्वः बकारः। ओं ब्सुं अव्यक्तपद्ममाय नमः।
सूर्येन्द्वग्निपदेब्यस्तु प्रत्येकं मण्डलाय च।
नमोऽन्ते प्रणवश्चादौ ते मन्त्रा मण्डलत्रये ।। 46 ।।
46. ओं सूर्यमण्डलाय नमः। ओं इन्दुमण्डलाय नमः। ओं अग्निमण्डलाय नमः। इति मण्डलत्रयमन्त्राः।
प्रत्यगात्मपरामर्शिशब्दः सोमोऽथ सर्गवान्।
{12}चिद्भासनाख्यमन्त्रोऽयं त्र्यक्षरः परिकीर्तितः ।। 47 ।।
47. अहं सः। इति चिद्भासनमन्त्रः।
{12. चिद्भावना F. }
इत्यासनाख्यमन्त्राणां कथिता त्वेकविंशतिः।
इत्ययं पीठपूजान्तो मन्त्रग्रामो मयेरितः ।। 48 ।।
48. एकविंशतिरिति। षोडशाधारेशमन्त्राः। एकः अव्यक्तपद्ममन्त्रः। त्रयो मण्डलमन्त्राः। एकः चिद्भासनमन्त्र इति ज्ञेयम्।
रहस्यं परमं गुह्यमिदानीं परमं शृणु।
क्षेत्रेशाद्यं मन्त्रचयं विघ्ननिर्मथनक्षमम् ।। 49 ।।
49. - - - - - - - - - - - -
गरुडं कालमनलं पिण्डीकृत्याङ्कयेत् ततः।
सव्यापिनादिदेवेन क्षेत्रपालाय वै नमः ।। 50 ।।
50. ओं क्ष्म्रां क्षेत्रपालाय नमः।
प्रणवाद्यो मनुः सोऽयं क्षेत्रेशस्य नवाक्षरः।
अनुतारा श्रियै पश्चान्नमस्त्वादौ च तारकः ।। 51 ।।
51. ओं श्रीं श्रियै नमः।
षडक्षरः श्रियो मन्त्रश्चण्डादीनपराञ्शृणु।
सचञ्चलानलस्तारः केवलस्त्वादितो भवेत् ।। 52 ।।
52. ओं च्रो चण्डाय नमः।
चण्डाय नम इत्येव सप्तवर्णो मनूत्तमः।
सपवित्रानलस्तारः केवलस्त्वादितो भवेत् ।। 53 ।।
53. ओं प्रों प्रचण्जाय नमः।
प्रचण्डाय नमो मन्त्रः प्रचण्डोऽयं चतुर्युगः।
सशाश्वतानलस्तारः केवलस्त्वादितो भवेत् ।। 54 ।।
54. ओं ज्रों जयाय नमः।
जयाय नम इत्येवं जयस्य मुनिवर्णकः।
वराहानलसंयुक्तस्तारः शुद्धस्तथादिगः ।। 55 ।।
55. ओं व्रों विजयाय नमः।
विजयाय नमः सोऽयं विजयस्य चतुर्युगः।
गोविन्दः सानलो मायी व्यापिमान् प्रणवान्तगः ।। 56 ।।
56. ओं ग्रीं गङ्गायै नमः।
गङ्गायै नम इत्येवं गङ्गाया मुनिवर्णकः।
समायः सानलः सूक्ष्मो व्यापिमान् प्रणवान्तगः ।। 57 ।।
57. ओं य्रीं यमुनायै नमः।
{13}यमुनायै नमश्चायं {14}यामुनेयश्चतुर्युगः।
शंकरः सानलः सोर्जो व्यापिमान् प्रणवान्तगः ।। 58 ।।
58. ओं श्रूं शङ्खनिधये नमः।
{13. C. omits four lines from here. }
{14. यमुनायाः B. }
ततश्च शङ्खनिधये नमः सोऽयं नवाक्षरः।
पवित्रः सानलः सोर्जो व्यापिमान् प्रणवान्तगः ।। 59 ।।
59. ओं प्रूं पद्मनिधये नमः।
ततश्च पद्मनिधये नमः सोऽयं नवाक्षरः।
क्षेत्रेशात् पद्मनिध्यन्तं मन्त्राणां दशकं त्विदम् ।। 60 ।।
60. - - - - - - - - - - - - - -
गणेशाद्यादिसिद्धान्तमथ मन्त्रगणं शृणु।
ऊर्जव्यापिसमायुक्तो गोविन्दः प्रणवान्तगः ।। 61 ।।
ततो गोविन्दवैकुण्ठौ पवित्रः स्रग्धरस्तथा।
जगद्योनिगतः शङ्खो नरः कालो विसर्गवान् ।। 62 ।।
61,62. गणेशादीति। गणेशमारभ्य आदिसिद्धपर्यन्तानां मन्त्रा इत्यर्थः। ओं गूं गणपतये नमः।
नवाक्षरो ह्ययं मन्त्रो गाणपत्यः प्रकीर्तितः।
षोढा संयोज्य गोविन्दं युग्माद्यैर्गोपनादिभिः ।। 63 ।।
63. ओं गां हृदयाय नमः। इत्यादि ज्ञेयम्।
अङ्गक्लृप्तिरमुष्य स्यान्नमः स्वाहादिसंयुता{15}।
आद्यन्तानलसंयुक्तं मायाव्यापिसमन्वितम् ।। 64 ।।
गरुडं तारकस्यान्ते तदन्ते तारिकां स्मरेत्।
रेफशङ्खादिदेवाढ्यं {16}सोमं व्यापिसमन्वितम् ।। 65 ।।
चतुर्थं संस्मरेद्बीजं तदिदं बलसूदन।
वैराजानलशङ्खाढ्चं गोपनं व्यापिसंयुतम् ।। 66 ।।
सोमवर्णं स्मरेच्छक्र पञ्चमं परमाद्भुतम्।
अप्रमेयादिदेवादि यावद्गरुडवर्णकम् ।। 67 ।।
यथापाठं समुच्चार्य वागीश्वर्यै ततो नमः।
{17}एकषष्ट्यर्णको मन्त्रो वागीश्वर्या अयं स्मृतः ।। 68 ।।
64-68. ओं र्क्ष्रीं ह्रीं स्य्रां स्त्र्यां अ-क्ष (अकारादिक्षकारान्ता वर्णाः) वागीश्वर्यै नमः।
{15. संयुतम् F. }
{16. सोम B. C. }
{17. षष्ट्यर्णको महामन्त्रः A. }
कुर्याच्चतुर्थबीजेन गोपनादिविभेदिना।
अन्तर्जातियुतां सम्यगङ्गक्लृप्तिं विचक्षणः ।। 69 ।।
69. ओं स्य्रां हृदयाय नमः इत्यादयोऽङ्गमन्त्राः। जातिरित्यङ्गमुच्यते।
गोपनादिविभिन्नस्य बीजस्याद्यन्तयोर्न्यसेत्।
प्रणवं च नमश्चैव ततो जातिं प्रकल्पयेत् ।। 70 ।।
70. - - - - - - - - - - - -
प्रणवत्रितयं व्यापिसंयुतः सोदयश्च गः।
गुरवेऽथ नमः सोऽयं प्रथितो गुरुपूजने ।। 71 ।।
प्रणवत्रितयस्यान्ते पवित्रो व्यापिसंयुतः।
परमगुरवे नमः प्रथितस्तु गुरोर्गुरुः ।। 72 ।।
प्रणवत्रितयस्यान्ते व्याप्यानन्दयुतस्तु पः।
परमेष्ठिनेऽथ च नमो मन्त्रो गुरुगुरोर्गुरुः ।। 73 ।।
71-73. ओं ओं ओं गुं गुरवे नमः। ओं ओं ओं पं परमगुरवे नमः ओं ओं ओं पां परमेष्ठिने नमः।
तारपञ्चकमाह्लादं व्योम प्राणोपरि न्यसेत्।
कालानलौ तु तदधः सर्वलोकेश्वरोपरि ।। 74 ।।
यथाक्रमोदितैर्वर्णैः पिण्डं कृत्वा ततः स्वधा।
पितृभ्योऽथ नमः सोऽयं पितृसंघस्य मन्त्रराट् ।। 75 ।।
74,75. ओं ओं ओं ओं ओं ट्ह्म्रूं स्वधा पितृभ्यो नमः।
षट् तारा आदिदेवोऽथ व्योमवान् केवलोऽथ सः।
रामवान् दमनश्चाथ सिद्धेभ्योऽथ ततो नमः ।। 76 ।।
मन्त्रोऽयमादिसिद्धानां भगवद्भावितात्मनाम्।
क्षेत्रेशाद्यादिसिद्धान्तान् विघ्ननिर्मथनक्षमान् ।। 77 ।।
76,77. ओं ओं ओं ओं ओं ओं आं आदिसिद्धेब्यो नमः।
{18}प्रागेव पूजयेन्मन्त्री{19} समाराधनकालतः।
अथ लोकेशमन्त्राणां लक्षणं शृणु वासव ।। 78 ।।
78. - - - - - - - - - - - -
{18. F. omits three lines from here. }
{19. मन्त्रं B. }
प्राणं धरेशमानन्दं पिण्डीकृत्य क्रमस्थितान्।
मूर्ध्नि व्योमयुतं कृत्वा तत इन्द्राय वै नमः ।। 79 ।।
79. ओं ह्लां इन्द्राय नमः।
ऐन्द्रोऽयमीरितो मन्त्रः पावकादीन्निबोध मे।
कुर्यात् प्राणानलानदैर्व्यापिनापि च पिण्कम् ।। 80 ।।
प्राणकालादिदेवैश्च व्यापिनापि च पिण्डक्म्।
अग्नये नम इत्येवं यमाय नम इत्यापि ।। 81 ।।
80,81. ओं ह्रां अग्नये नमः। ओं ह्नां यमाय नमः।
नरः स भगवान् व्यापी पिण्डो निर्ऋतये नमः।
यातुधानेशमन्त्रोऽयं जलेशस्यावधाराय ।। 82 ।।
82. ओं न्लृं निर्ऋतये नमः।
प्राणं वरुणमानन्दं व्यापिनं पिण्डयेद् बुधः।
वरुणाय नमः पश्चाद्वारुणोऽयं मनूत्तमः ।। 83 ।।
83. ओं ह्वां वरुणाय नमः।
प्राणं सूक्ष्मं तथानन्दं व्यापिनं पिण्डयेद् बुधः।
वायवे नम इत्येवं वायवीयो मनूत्तम् ।। 84 ।।
84. आं ह्यां वायवे नमः।
घर्मांशुवरुणानन्दान् व्यापिना सह पिण्डयेत्।
सोमाय नम इत्येवं सौम्यो मनुरुदाहृतः ।। 85 ।।
85. ओं घ्वां सोमाय नमः।
सूर्यमूर्जं तथा व्योम चक्रिणं पिण्डयेत् क्रमात्।
ईशानाय नमः पश्चादीशानस्य मनूत्तमः ।। 86 ।।
86. ओं ह्चूं ईशानाय नमः।
प्राणं वैकुण्ठमानन्दं व्यापिना पिण्डयेत् क्रमात्।
अनन्ताय नमः पश्चान्नागराजमनुस्त्वयम् ।। 87 ।।
87. ओं ह्णां अनन्ताय नमः।
प्राणं खर्वं तथानन्दं व्यापिना पिण्डयेत् क्रमात्।
ब्रह्मणे नम इत्येवं ब्रह्मणो मनुरुत्तमः ।। 88 ।।
88. ओं ह्रवां ब्रह्मणे नमः।
सर्वेषां प्रणवः पूर्वमायुधानामथो शृणु।
अनलं जन्महन्तारं प्रधानमनलोर्जकौ ।। 89 ।।
89. ओं र्ज्म्रूः कुलिशाय नमः।
सर्गेण पिण्डयेत् संज्ञां नमः कुलिशमन्त्रराट्।
ऊर्जं विहाय तत्स्थाने मायया परिभूषितम् ।। 90 ।।
90. ओं ज्म्रीः शक्तये नमः।
तदेव पिण्डं संज्ञा च नमः शक्तिमनुस्त्वयम्।
अखण्डविक्रमं कालं लोकेशं परमेश्वरम् ।। 91 ।।
91. ओं ड्मूः दण्डाय नमः।
पिण्डीकृत्य {20}ततः संज्ञा नमो दण्डमनुस्त्वयम्।
विश्वाप्यायकरं कालं लोकेशं परमेश्वरम् ।। 92 ।।
92. ओं ट्म्रूः खड्गाय नमः।
{20. मनुं B. C. F. }
पिण्डीकृत्य {21}ततः संज्ञा नमः खड्गमनुस्त्वयम्।
चन्द्री शान्तादिदेवौ च सृष्टिकृत् पिणिडता इमे ।। 93 ।।
93. ओं ट्शाः पाशाय नमः।
{21. मनुः F. }
पाशाय नम इत्येवं पाशमन्त्रोऽयमद्भुतः।
अजितो वरुणानन्दौ सृष्टिकृत् पिण्डिता इमे ।। 94 ।।
94. ओं ज्वाः ध्वजाय नमः।
ध्वजाय नम इत्येवं ध्वजमन्त्र उदीरितः।
परमात्मानलोद्दामान् पिण्डयेत् सृष्टिकृद्युतान् ।। 95 ।।
95. ओं ह्रूः मुसलाय नमः।
मुसलाय नमः पश्चान्मौसलोऽयं मनूत्तमः।
अनलं जन्महन्तारमुदयं सृष्टिकृद्युतम् ।। 96 ।।
96. ओं र्जुः शूलाय नमः।
पिण्डीकृत्य ततः संज्ञा नमः शूलमनुस्त्वयम्।
करालमनलारूढमोदनं सृष्टिकृद्युतम् ।। 97 ।।
97. ओं क्रोः सीराय नमः।
पिण्डीकृत्य ततः संज्ञा नमः सीरमनुस्त्वयम्।
{22}वरुणं च नरं चैव गोपनं सृष्टिकृद्युतम् ।। 98 ।।
98. ओं व्नाः पद्माय नमः।
{23}पिण्डीकृत्य ततः संज्ञा नमः पद्ममनुस्त्वयम्।
सर्वेषां प्रणवः पूर्वो विष्वक्सेनमनुं शृणु ।। 99 ।।
99. - - - - - - - - - - - -
{23. C. omits five lines from here. }
अनलप्राणलोकेशान् व्यापिना पिण्डयेत् क्रमात्।
वरुणं भूधरं चैव व्यापिना पिण्डयेत् क्रमात् ।। 100 ।।
100. ओं र्हूं र्वौ ज्ञानदाय नमः।
पिण्डोऽयं ज्ञानदः पश्चाद्विष्वक्सेनस्य मन्त्रराट्।
प्रणवादिस्त्वयं मन्त्रः सर्वार्थकृदुदीरितः ।। 101 ।।
101. - - - - - - - - - - - -
ऊर्जहीनं तु यत् पूर्वं तेनानन्दादियोगिना।
अङ्गक्लृप्तिरमुष्य स्याज्जातिमुद्रासमन्विता ।। 102 ।।
102. ओं र्ह्रां हृदयाय नमः इत्यादि।
सोमं वरुणमीकारं व्यापिना पिण्डयेत् क्रमात्।
सुरभ्यै नम इत्येवं तारपूर्वो मनुस्त्वयम् ।। 103 ।।
103. ओं स्वीं सुरभ्यै नमः।
सुरभ्याः कथितः सर्वभोगसंपूरणार्थकः।
प्रणवद्वितयस्यान्ते तारिकाद्वयमुद्धरेत् ।। 104 ।।
ततः परमधामा चावस्थिते मदनुग्रहा।
अभियोगोद्यते चेह तथैवावतरेति च ।। 105 ।।
इहाभिमतशब्दं च सिद्धिदे इति च त्रयम्।
ततो मन्त्रशरीरे च तारस्तारा नमो नमः ।। 106 ।।
104-106. ओं ओं ह्रीं ह्रीं परमधामावस्थिते मदनुग्रहाभियोगोद्यते इहावतरेहाभिमतसिद्धिदे मन्त्रशरीरे ओं ह्रीं नमो नमः। इत्यावाहनमन्त्रः।
पञ्चचत्वारिंशदर्णो मन्त्र आवाहनार्थकः।
प्रणवस्तारिका प्राणास्रयः सव्यापिनस्ततः ।। 107 ।।
तिस्रश्च तारिकाः पश्चादिदं शब्दं त्रिरुच्चरेत्।
गृहाण वह्निजाया च भोगदानमनुस्त्वयम् ।। 108 ।।
107,108. ओं ह्नीं हं हं हं ह्नीं ह्नीं ह्नीं इदमिदमिदमर्घ्यं गृहाण स्वाहा इत्यादि।
ओंकारमुद्धरेत् पूर्वं विष्णुं व्योमान्वितं ततः।
तारिकामुद्धरेत् पश्चाद्भूयो विष्णुं तथाविधम् ।। 109 ।।
ततो व्योमान्वितं प्राणं सोमनामसमन्वितम्।
परे च परमेशे च प्रसीद प्रणवं ततः ।। 110 ।।
109,110. ओं ईं ह्रीं ईं हंसपरे परमेशे प्रसीद ओं ह्नीं नमः। इति प्रसादनमन्त्रः।
तारिका च नमश्चान्ते प्रसादनमनुस्त्वयम्।
प्रणवस्तारिका चैव ततो भगवतीति च ।। 111 ।।
मन्त्रमूर्तेऽथ स्वपदं समासादय तद्द्वयम्।
क्षमस्वेति द्विरुच्चार्य तारस्तारा नमो नमः ।। 112 ।।
111,112. ओं ह्रीं भगवति मन्त्रमूर्ते स्वपदं समासादय समासादय क्षमस्व क्षमस्व ओं ह्री नमो नमः। इति विसर्जनमन्त्रः।
वैसर्जनमनुः सोऽयमित्येते मन्त्रनायकाः।
कथिताः सुरशार्दूल सर्वपापमलापहाः ।। 113 ।।
113. - - - - - - - - - - -
अभक्तानां च ये नैव प्रदेयाः क्रूरकर्मणाम्।
नास्तिकानामसाधूनां धूर्तानां वञ्चनाजुषाम् ।। 114 ।।
114. - - - - - - - - - - - - -
भक्तानामास्तिकानां च श्रद्धासंयमसेविनाम्।
{24}मदीयक्रमसक्तानां संस्कृतानां विशेषतः ।। 115 ।।
115. - - - - - - - - - - - - -
{24. मदीयकर्म F. }
तत्त्वतश्चोपसन्नानां दृढश्रद्धावलम्बिनाम्।
वैष्णवानामिदं वाच्यमवाच्यमितरेषु तु{25} ।। 116 ।।
116. - - - - - - - - - - - - -
{25. तत् C. }
अन्यथा वक्ति यो मोहाल्लोभात् कामादथापि वा।
अज्ञानाद्बालभावाद्वा{26} स याति नरकान् बहून्{27} ।। 117 ।।
117. - - - - - - - - - - - - - - - - -
{26. भावाच्च C. }
{27. क्रमात् A. }
तस्मादालक्ष्य वै सर्वं गुणजातं यथोदितम्।
प्रब्रूयादुपसन्नाय धर्मेण न्यायतस्तथा ।। 118 ।।
118. - - - - - - - - - - -
प्रब्रूयाद्यो ह्यधर्मेण यो वाधर्मेण पृच्छति।
तावुभौ नरकं घोरमृच्छतः कालमक्षयम् ।। 119 ।।
119. अत्र "अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति। तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति।।" (2.111) इति मनुवचनमवधेयम्।
पृथिवीं रत्नसंपूर्णां दद्याद्यद्यपि वासव।
नैव देयं ह्यभक्ताय नापरीक्षितशीलिने ।। 120 ।।
120. - - - - - - - - - - - -
इति ते भवतो भक्तिर्मयि शक्र महीयसी।
तत्त्वतश्चोपसन्नस्य मयेह प्रीयमाणया ।। 121 ।।
121. - - - - - - - - - - - -
अङ्गोपाङ्गादिमन्त्राणां मन्त्रकोशः प्रकाशितः।
मुद्राकोशमिदानीं त्वं गदन्त्या मे निशामय ।। 122 ।।
122. - - - - - - - - - - - - -
इति {28}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे अङ्गोपाङ्गादिमन्त्रप्रकाशो नाम त्रयस्रिंशोऽध्यायः
{28. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
********इति त्रयस्रिंशोऽध्यायः********