← अध्यायः २९ लक्ष्मीतन्त्रम्
अध्यायः ३०
[[लेखकः :|]]
अध्यायः ३१ →
लक्ष्मीतन्त्रस्य अध्यायाः

त्रिंशोऽध्यायः - 30
श्रीः---
एषा ते कथिता शक्र मया शक्तिः क्रियात्मिका।
{1}तस्या व्याप्तिमवोचं ते सूर्यसोमाग्निभेदिताम् ।। 1 ।।
1. - - - - - - - - - - - - - - -
{1. In A. C. D. F. 13 lines from here are omitted but given in ch.29. Vide note on p.101. }
व्यूहिनीमप्यवोचं ते बीजपिण्डाभिधानतः।
पदमन्त्रस्वरूपं च तस्याः शक्र निबोध मे ।। 2 ।।
2. - - - - - - - - - - - - -
अजितानलसर्गाणां संयोगः पिण्ड आदिमः।
कमलानलसर्गाणां योगः पिण्डो द्वितीयकः ।। 3 ।।
3. अजितो जकारः। अनलो रेफः। सर्गो विसर्गः। ज्रः। कमलः ककारः। क्रः।
श्वेताद्याह्लादिसंयोगस्तृतीयः पिण्ड उच्यते।
सूर्योर्जव्यापिनां पिण्डश्चतुर्थस्तेन मध्यतः ।। 4 ।।
4. श्वेतः फकारः। आह्लादी टकारः। फट्‌। सूर्यो हकारः। ऊर्ज उकारः। व्यापी बिन्दुः। हुं।
त्रीण्यस्राणि ततः कालचक्राय हुतभुक्प्रिया।
तारकेणान्वितश्चादौ चक्रोऽयं पदमन्त्रराट् ।। 5 ।।
5. मध्ये त्रयः फट्‌मन्त्राः। ततः स्वाहा। ओं ज्रः क्रः फट् हुं फट्‌ 3 कालचक्राय स्वाहा।
नैव किंचिदसाध्यं हि मन्त्रेणानेन वासव।
{2}अभियुक्तमना अस्मिन्न गच्छति पराभवम् ।। 6 ।।
6. - - - - - - - - - - - - - -
{2. अभियुक्ता मनावस्मिन् I. }
यस्तु ते कथितः पूर्वं त्रियुगार्णो मनूत्तमः।
प्रभावमखिलं तस्य भूयो व्याख्यामि वासव ।। 7 ।।
7. त्रियुगार्णः षडक्षरमन्त्रः। सहस्रार हुं फट् इति।
अनामरूपवच्चक्रं षाड्‌गुण्यमहिमोज्ज्वलम्।
ध्यायन् सबीजमावर्त्य मन्त्रं बन्धात् प्रमुच्यते ।। 8 ।।
8. - - - - - - - - - - - - -
क्रियाशक्तेर्मदीयायास्तनुः साक्षान्महामनुः।
षडर्णोऽथर्ववेदान्तसंस्थितश्चक्रबृंहितः ।। 9 ।।
9. अथर्वेति। अत्राहिर्बुध्न्यसंहितायां विंशाध्याये 21-24 वचनान्यनुंसधेयानि।
षडध्वमयमोजस्वि चक्रं सौदर्शनं परम्।
भावयेदक्षनाभ्यादिविभक्तावयवोज्जवलम् ।। 10 ।।
10. - - - - - - - - - - - -
अमृतादीन् मनोरर्णानक्षाद्यङ्गेषु चिन्तयेत्।
अक्षे नाभौ तथारेषु नेमौ प्रधितदन्तयोः ।। 11 ।।
11. अमृतं सकारः। प्रकृत्यादीत्यादिना भुवनाध्वा निर्दिश्यते।
प्रकृत्यादिविशेषान्तैस्तत्त्वैः संग्रथितः{3} प्रधिः।
माया प्रसूतिस्रैगुण्यमपि नेमिः सुदर्शने ।। 12 ।।
12. - - - - - - - - - - - -
{3. संस्कृतः C. }
पदाध्वरचितारान्ता मन्त्रा अरसहस्रकम्।
अरान्तो व्यूहमार्गस्थो नाभिस्तत्र कलामयी ।। 13 ।।
13. मन्त्राध्वानमाह---मन्त्रा इति।
वर्णाध्वा ह्यक्षपर्यन्तो मध्ये शक्तिरहं परा।
मदन्तः परमं ब्रह्म ग्राह्यग्राहकतोज्झितम् ।। 14 ।।
14. - - - - - - - - - - - - -
मध्ये तु चिन्तयेत् तारं तारिकां तद्बहिः स्मरेत्।
तद्बहिश्च क्रियाबीजं तद्बहिश्चादिमाक्षरम् ।। 15 ।।
15. - - - - - - - - - - - - -
इत्यक्षकुहरे ज्ञेयं क्रमाद्बीजचतुष्टयम्।
नाभ्यरादौ तु सूर्यादीनिति पूर्वोक्तया दिशा ।। 16 ।।
16. - - - - - - - - - - - - -
ह्रस्राकारस्वरूपो यः स सहस्रविधान्वयी।
सूर्यकालानलद्वन्द्वैरप्रमेयादिभेदितैः ।। 17 ।।
17. सूर्येत्यादि। ह्रं ह्रां इत्यादिभिरित्यर्थः।
अमृतानलयुग्मैश्च तावद्भिस्तादृशैरपि।
संहत्य भेदयेत् कादीनग्नीषोममयैः स्वरैः ।। 18 ।।
18. अमृतेत्यादि। स्रं स्रां इत्यादिभिरित्यर्थः।
सूर्यसोमानिलान् हित्वा त्रिंशतं चैकमेव च।
अष्टन्यूनसहस्रं तदक्षराणि स्युरञ्जसा ।। 19 ।।
19. सूर्येत्यादि। हकारं सकारं यकारं च वर्जयित्वेत्यर्थः। अष्टन्यूनेति। 31X16X2=992 अक्षराणि ज्ञेयानि।
बीजाष्टकं तु तारादि ह्रस्रयुक्तं भवेदथ।
ईशाद्यनुप्रदेशस्थं {4}वह्नेर्वायुपदावधि{5} ।। 20 ।।
20. पूर्वोक्तैः 992 अक्षरैः सह बीजाष्टकयोगे सहस्रमक्षराणि। अहिर्बुध्न्ये तु प्रकारान्तरेण सहस्राक्षरत्वमुक्तम् (23 अ. 82, 83).
{4. वह्निना व्याप्तिरुच्यते A. C. D. }
{5. In A. C. D., verses 43 and then 34b to 42 follow on here. }
दत्त्वा {6}सूत्रयुगं चारीं चतुर्धा विभजेद्भुवम्।
पञ्च पञ्चाशतं कुर्यादराणां प्रतिभूमिकम् ।। 21 ।।
21. चारी तिर्यग्गतिः। पञ्चभिर्गुणिता पञ्चाशत् 250।
{6. अस्रयुग्मं चारीं च. A. }
सहस्रं तान्यराणि स्युस्तेषु वर्णसहस्रकम्।
न्यसेत् प्रागादि सोमान्तं कोणसूत्रेषु वै ततः ।। 22 ।।
22. - - - - - - - - - - - - -
न्यसेन्मन्त्राध्ववर्तिन्यश्चतस्रोऽग्निगुणाः क्रमात्।
जया च विजया चैव अजिता चापराजिता ।। 23 ।।
23. वर्तिन्यः; वर्तिनीरित्यर्थः। मन्त्रदेवता इत्युत्तरेणान्वयः।
अग्न्यादीशानपर्यन्तसूत्रस्था मन्त्रदेवताः।
अराणि पूरयन्ती सा नेमिः सौदर्शनी स्थिता ।। 24 ।।
24. - - - - - - - - - - - - -
अरनेम्यन्तरस्थानि सर्वास्राणि च वासव।
प्रवर्तकानि पुरतः सर्वास्राणि पुरंदर ।। 25 ।।
25. - - - - - - - - - - -
निवर्तकानि पुरतः शिरोभिः शक्रचिह्नितैः।
कृताञ्जलीनि दृप्तानि ध्यायेदुभयतः समम् ।। 26 ।।
26. - - - - - - - - - - - - -
नेमिक्षेत्रे महालक्ष्मीः पूर्वस्यां दिशि संस्थिता।
दक्षिणस्यां महामाया पश्चिमायां सरस्वती ।। 27 ।।
27. - - - - - - - - - - - - -
सौम्यायां दिशि विज्ञेया महिषासुरनाशनी।
तद्बहिः परितो देवा ब्रह्माद्यास्तु त्रिमूर्तयः ।। 28 ।।
28. - - - - - - - - - - - - -
तुर्यादिशक्तिसंयुक्ता अवतारास्ततः परम्।
प्रकृत्यादिविशेषान्तं चतुर्विंशतिसंमितम् ।। 29 ।।
29. तुर्यादीति। जाग्रत्स्वप्नसुषुप्तितुर्याख्येत्यर्थः। अवताराः व्यूहाः।
प्रधिपूर्वे स्थितं भागे तत्त्वजातमनुक्रमात्।
भवोपकारणा देवा मध्यमे परिनिष्ठिताः ।। 30 ।।
30. - - - - - - - - - - - - -
पृथक् चरमभागस्था भौवना भुवनैः सह।
ब्रह्माण्डोदरसंरूढा{7} भूर्भुवःसुवरादिकाः{8} ।। 31 ।।

31. - - - - - - - - - - - - - -
{7. संरूढं A. }
{8. आदिकम् A. }
मेर्वादयोऽखिलाः शैला गङ्गाद्याः सरितस्तथा।
क्षीराब्ध्याद्याः समुद्राश्च द्वीपा जम्ब्वादिसंज्ञिताः ।। 32 ।।
32. - - - - - - - - - - - - -
वैमानिकगणाः सर्वे ग्रहाः सूर्यादयस्तथा।
नक्षत्रतारकाताराभूतप्रेतादयस्तथा ।। 33 ।।
33. - - - - - - - - - -
तिस्रस्रिंशच्च याः कोट्यस्रिदशानां पुरंदर।
समाश्रिताः प्रधिं तास्तु सरघा इव सारघम् ।। 34 ।।
34. तिस्र इत्यादि। त्रयस्रिंशदित्यर्थः। सरघाः मधुमक्षिकाः। सारघं मधु।
अयुते द्वे सुरेशान ह्युभयोः प्रधिपार्श्वयोः।
{9}अग्नयः परिवर्तन्ते प्रवर्तकनिवर्तकाः ।। 35 ।।
35. - - - - - - - - - - - - -
{9. In A. C. D. verses 35b to 49 are in a different order. Vide note on page 104. }
कालानलसहस्राभाः स्फूर्जज्ज्वालाकुलाकुलाः।
प्रवर्तकानलास्तत्र दैत्यदानवदाहिनः ।। 36 ।।
36. - - - - - - - - - - -
धीराः प्रशान्तगम्भीराः प्रसन्नास्तिग्मतेजसः।
निवर्तका ममेच्छातः शमयन्ति प्रवर्तकान् ।। 37 ।।
37. - - - - - - - - - - - - -
सुदर्शनमनोरन्ते यत्तत् संकर्षणोद्भवम्।
लाङ्गलास्रं महाघोरं सर्वसंहारकारकम् ।। 38 ।।
38. लाङ्गलास्रम्; फट् मन्त्रः।
तिर्यक् स्थितस्य नेम्यन्ते तस्य पूर्वार्धसंभवाः।
प्रवर्तकास्तदूर्ध्वांशसंभवास्तु निवर्तकाः ।। 39 ।।
39. - - - - - - - - - - -
अग्नीषोममया एते प्रवर्तकनिवर्तकाः।
अग्नीषोममयास्रोत्था तदुत्था चास्रसंततिः ।। 40 ।।
40. - - - - - - - - - - - - -
द्वेऽयुते शृणु मूर्तीस्त्वं वह्नीनां विविधात्मनाम्।
याः स्मृत्वा पुरुषो घोरमापदर्णवमुत्तरेत् ।। 41 ।।
41. द्वे अयुते इति छेदः। सन्धिरार्षः।
अशेषभुवनाधारश्चतुर्गत्यूर्जबिन्दुमान्।
पिण्डोऽयं तारकः पूर्वंवह्नीनां वपुरुच्यते{10} ।। 42 ।।
42. अशेषभुवनाधारः रेफः। चतुर्गतिः यकारः। ऊर्जः ऊकारः।
{10. वह्नेर्वायुपदावधि A. }
अमृताधारवह्न्यूर्जबिन्दुमांस्तारपूर्वकः।
पिण्डो निवर्तकादीनां दिव्या तनुरुदीर्यते ।। 43 ।।
43. अमृताधारः वकारः।
प्रधिं कालपुमव्यक्तव्यक्तसप्तकरूपतः।
विभज्य दशधा तत्तद्रूपवर्णपुरोगमैः ।। 44 ।।
44. - - - - - - - - - - -
प्राग्भागादिक्रमेणैव स्वरपूर्वैः स्वरान्तिमैः।
सूर्यानलयुगैः काद्यैरष्टाभिर्बीजनायकैः ।। 45 ।।
45. - - - - - - - - - - -
युक्तास्तारनमोऽन्तास्ताः प्रवर्तकतनूर्लिखेत्।
अमृताग्नियुगैरेव निवर्तकतनूस्तथा ।। 46 ।।
46. - - - - - - - - - -
एकैकाग्नेः शिखाः सप्त घोराः शान्ताश्च संस्मरेत्।
आदितः सप्त युग्माद्याः स्वरसंभेदिताः क्रमात् ।। 47 ।।
47. - - - - - - - - - - - - - -
सूर्याग्नियुगसंभूता अमृताग्नियुगोत्थिताः।
वर्गान्तश्च प्रधानश्च सिद्धिदो वामनस्तथा ।। 48 ।।
48. सूर्याग्नियुगं ह्र इति। अमृताग्नियुगं स्र इति। वर्गान्तः हकारः। प्रधानः मकारः। सिद्धिदः भकारः। वामनः बकारः।
श्वेतश्च तत्त्वधारश्च झषः शाश्वत एव च।
छान्दःपतिस्तथा चक्री कालाद्यर्णाः सबिन्दुकाः ।। 49 ।।
49. श्वेतः फकारः। तत्त्वधारः ञकारः। झषः झकारः। शाश्वतः जकारः। छन्दःपतिः छकारः। चक्री चकारः। कालः मकारः।
नाभ्यरान्तस्थसूत्रस्थरूपास्चत्वार ऐश्वराः।
अरेषु परितो देवाः केशवाद्या व्यवक्थिताः ।। 50 ।।
50. - - - - - - - - - - - - -
स्वैः स्वैश्चिह्नैः सरोजाद्यैर्ध्येया दामोदरान्तिमाः।
अरनेम्यन्तसूत्रस्थाः पद्मनाभादयोऽखिलाः ।। 51 ।।
51. - - - - - - - - - - - - -
सर्वे समन्विता देवाः स्वाभिः स्वाभिश्च शक्तिभिः।
प्राग्भागे कमला देवी दक्षिणे कीर्तिरुज्ज्वला ।। 52 ।।
52. शक्तयो लक्ष्मीकीर्त्यादयः अत्रैव विंशाध्याये उक्ताः।
जया तु पश्चिमे भागे माया भागे तथोत्तरे।
प्रत्येकं कोटिसंख्याभिः शक्तिभिः परिवारिताः ।। 53 ।।
53. - - - - - - - - - - - - -
अधितिष्ठन्ति तेऽभीक्ष्णं सहस्रारं सुदर्शनम्।
कालचक्रमनाद्यन्तमस्य तेजः प्रकीर्तितम् ।। 54 ।।
54. - - - - - - - - - - - - -
संवत्सरर्तुमासार्धमासाहोरात्रसंज्ञितैः।
अक्षनाभ्यरनेम्यन्तैः कलृप्तपञ्चविभक्तिकम् ।। 55 ।।
55. विभक्तिर्विभागः।
{11}ध्रियन्ते कालचक्रेण पुमाद्याः पञ्च पञ्च च।
सहस्रारेण चक्रेण नेम्यरप्रधिशोभिना ।। 56 ।।
56. पञ्च पञ्च; पञ्चविंशतिः। पुमांसमारभ्य पृथिवीपर्यन्ता मादिकान्तवर्णदेवताः।
{11}श्रयन्ते A.
{12}ध्रियन्ते च षडध्वानो वर्णतत्त्वकलादयः।
सर्वतत्त्वमयं देहं वैष्णवं पुरुषोत्तमम् ।। 57 ।।
57. - - - - - - - - - - - -
{12. विद्यन्ते A. }
धार्यते भ्राम्यते चैव यन्त्रारूढमिदं परम्।
नाभिकन्दस्थितेनैव सहस्रारेण नेमिना ।। 58 ।।
58. - - - - - - - - - - - -
चक्रेणानेन हन्यन्ते रक्षोदैतेयदानवाः।
नानामन्त्रात्मना ते तदन्तः सुस्थितेन च ।। 59 ।।
59. - - - - - - - - - - - - -
विध्वंसयति शत्रूंश्च स्मृतमात्रमनन्तरम्।
अभ्यस्यमानमनिशं सहस्रारमिदं नरैः ।। 60 ।।
60. - - - - - - - - - - -
क्लेशकर्माशयान् दोषानशेषान् क्षपयेत् क्षणआत्।
बीजं पिण्डं च संज्ञां च मूर्तिं चेति चतुष्टयम् ।। 61 ।।
61. - - - - - - - - - - - - - -
पुष्यत्येतत् सहस्रारं चक्रमाद्यन्तवर्जितम्।
{13}सूर्येन्द