लक्ष्मीतन्त्रम्/अध्यायः २२
← अध्यायः २१ | लक्ष्मीतन्त्रम् अध्यायः २२ [[लेखकः :|]] |
अध्यायः २३ → |
द्वाविंशोऽध्यायः - 22
शक्रः---
अनादिनिधने देवि सर्वज्ञे हरिवल्लभे।
कथं वै ज्ञापयेन्मन्त्रांस्तेषां रूपं च कीदृशम् ।। 1 ।।
1. - - - - - - - - - - - - -
समप्रधानता वैषामुत ज्येष्ठकनिष्ठता।
एतत् पृष्ठा मया ब्रूहि नमस्ते सरसीरुहे ।। 2 ।।
2. - - - - - - - - - - - - -
श्रीः---
शृणु सर्वमशेषेण मत्तस्त्वं पाकशासन।
यथास्मि मन्त्ररूपाहं यथा च ज्ञापयामि तान् ।। 3 ।।
3. ज्ञापयामीति। आचार्यरूपेण बोधयामीत्यर्थः।
परं ब्रह्म परं धाम षाड्गुण्यममलोज्ज्वलम्।
देशकालानवच्छिन्नमनाकारमनूपमम् ।। 4 ।।
4. अनूपममिति। अनुपममित्यर्थः।
अहमित्येव तद्ब्रह्म स्वात्मसंबोधि निर्गुणम्।
अनादिनिधनं दिव्यं लक्ष्मीनारायणं महत् ।। 5 ।।
5. निर्गुणम्; सत्त्वादिप्राकृतगुणहीनम्।
चिदानन्दरसं दिव्यमखण्डमजरामरम्।
अनुन्मिषद्भवद्भावं ग्राह्यग्राहकवर्जितम्{1} ।। 6 ।।
6. अनुन्मिषदित्यादि। शान्तपरावस्थायां भवद्भावरूपोन्मेषरहितमित्यर्थः। तथा ग्राह्येत्यादिकमपि भाव्यम्।
{1. ग्राहकतोज्झितम् I. }
स्तिमितं तत् परं ब्रह्म तस्य स्तिमिततास्म्यहम्।
तत् कदाचित्परं ब्रह्म भवद्भावव्यवस्थया ।। 7 ।।
7. - - - - - - - - - - - - -
उन्मिषत्यजहद्रूपं स्वेच्छयैव कदाचन।
{2}साहं भावात्मिकाहंता {3}संपूज्या परमात्मनः ।। 8 ।।
8. उन्मिषति; प्रकाशत इत्यर्थः। अजहदित्यादि। स्वाभाविकं निर्विकारत्वमजहदित्यर्थः।
{2. अहं D. }
{3. संपूर्णा B.; पूजिता F. }
उदेमि भवतो देवादिच्छयैव विवस्वतः{4}।
संभृत्याखिलसंभारमिच्छयैव स्वनिर्मितम् ।। 9 ।।
9. विवस्वतः; तेजोमयाद्भगवत इत्यर्थः।
{4. व्यवस्थिता C. }
स्वभित्तौ लिखितं नीत्वा{5} प्रभवामि षडध्वना।
वार्णः कलामयश्चैव तात्त्विको मान्त्रिकस्तथा ।। 10 ।।
10. - - - - - - - - - - - - -
{5. नीतं A.; विलिखन्तीदं I. }
पादिको भौवनश्चैव षडध्वानः प्रकीर्तिताः।
परमं यदहंताख्यं {6}संविद्रूपमनामयम् ।। 11 ।।
11. - - - - - - - - - - - -
{6. सच्चिद्रूपम् B. }
उन्मेषः प्रथमस्तस्य वर्णाध्वा परिकीर्तितः।
व्याकृतिर्दशिता तस्य पूर्वं ते पाकशासन ।। 12 ।।
12. - - - - - - - - - - - -
तदेव परमं रूपं मम संविन्मयं महत्।
विवर्ततेऽध्वभावेन ज्ञानाद्येन कलात्मना ।। 13 ।।
13. - - - - - - - - - - -
ज्ञानादीनां कलानां तु गुणानां परमात्मनः।
पुर्वं ते कथिता सूक्तिर्यावन्तो यादृशाश्च ते ।। 14 ।।
14. - - - - - - - - - - - - -
अध्वद्वयमुपादाय तद्रूपं मम चिन्मयम्।
वासुदेवादिरूपेण वर्तते तत्त्ववर्त्मना ।। 15 ।।
15. अध्वद्वयम्; वर्णाध्वानं कलाध्वानं चेत्यर्थः।
व्यूहाश्च विभवाश्चैव यच्चान्यद्भगवन्मयम्।
तत्त्वाध्वनो विवृत्तिः सा कीर्तिता परमात्मनः ।। 16 ।।
16. अन्यत्; व्यूहान्तराणि विभवान्तराणि चेत्यर्थः।
पूर्वाध्वद्वयमादाय तदेव मम चिन्मयम्।
रूपं विवर्तते शश्वन्मान्त्रेण परमाध्वना ।। 17 ।।
17. - - - - - - - - - - -
उत्तारणाय जीवानां मग्नानां भवसागरे।
भोगाय भवसंस्थानां वैराग्यजननाय च ।। 18 ।।
18. मन्त्राध्वप्रयोजनमाह---उत्तारणायेत्यादिना।
{7}आराधनस्य सिद्ध्यर्थं मानसालम्बनाय च।
मन्त्राद्वा परमोदारो मम चिद्रूपलक्षणः ।। 19 ।।
19. मानसालम्बनायेति। शुभाश्रयरूपप्रदर्शनेन योगिनां मानसस्य ध्यानालम्बनप्रदानायेत्यर्थः। एतच्च श्रीविष्णुपुराणे प्रपञ्चितम्।
वासुदेवादिदेवानां मूर्तिभावं व्रजत्यसौ।
मन्त्राः सर्वे चिदात्मानः सर्वगाः सर्वसाधकाः ।। 20 ।।
20. अथ प्रकृतं मन्त्रमहिमानमाह---मन्त्रा इत्यादिना।
त्रायमाणाश्च मन्तारं गुप्तरूपाश्च शास्त्रतः।
भोगापवर्गदा ह्येते देवदेवस्य शार्ङ्गिणः ।। 21 ।।
21. महिमवर्णनमुखेन मन्त्रशब्दयौगिकार्थमाह---त्रायमाणाश्चेति। मन्धातोः त्रैधातोश्च व्युत्पन्न इति भावः। व्युत्पत्त्यन्तरमाह---गुप्तेति। "मत्रि गुप्तभाषणे" इति धातुः।
रूपं मे {8}भगवन्मन्त्रा विज्ञेया मूर्तयोऽमलाः।
जाग्रत्स्वप्नौ{9} सुषुप्तिश्च तुर्यं चेति चतुष्टयम् ।। 22 ।।
22. - - - - - - - - - - - - - - -
{8. मघवन् B. }
{9. स्वप्नः D. }
ज्ञेयं पदाध्वनो रूपं जाग्रद्बाह्येन्द्रियक्रमः{10}।
बाह्येन्द्रियाणां तमसाभिभूते विभवे सति ।। 23 ।।
23. स्वप्नावस्थां निरूपयति---बाह्येत्यादिना।
{10. क्रमात् D. }
अन्तःकरणवृत्तिर्या संस्कारपरिशेषिणी।
सा स्वप्न इति विज्ञेया तदभावे सुषुप्तिका ।। 24 ।।
24. तदभावे; संस्काराभावे।
तमसानभिभूतस्य सत्त्वस्थस्य विपश्चितः।
बाह्यान्तःकरणस्थाया वृत्तेरुपरमे सति ।। 25 ।।
25. - - - - - - - - - - -
शुद्धसत्त्वप्रसादस्य संततिस्तुर्यसंज्ञिता।
एवं चतुर्विधे मार्गे निर्दिष्टेऽस्मिन् पदाभिधे ।। 26 ।।
26. - - - - - - - - - - - -
तुर्यवर्जं सुषुप्त्यादिरशुद्धां भजते गतिम्।
मायादिक्षितिपर्यन्ता योक्ता भुवनपद्धतिः ।। 27 ।।
27. भुवनाद्वानं निरूपयति---मायादीति।
भुवनाध्वा स विज्ञेयो ह्यशुद्धो मलपङ्किलः।
प्रक्रीडयन्ति मन्त्रास्ते शश्वद्रागपरं नरम् ।। 28 ।।
28. - - - - - - - - - - - -
तत्तद्भोगेन्द्रजालानि दर्शयन्तो विमोहितम्।
गुरुणा सदयं सम्यग्वीक्षितं करुणादृशा ।। 29 ।।
29. - - - - - - - - - - -
उत्तारयन्ति वैराग्यं जनयन्तः पदे पदे।
ततः शुद्धमयान् मार्गान् प्रापयन्तः शनैः शनैः ।। 30 ।।
30. पदे पदे; जाग्रदादिक इत्यर्थः।
शब्दब्रह्मणि निष्णातं प्रापयेयुः परां श्रियम्।
एवंविधा महात्मानो मन्त्राः परमपावनाः ।। 31 ।।
31. शब्दब्रह्मणि; मन्त्रेष्वित्यर्थः।
त्रिविधास्ते तु विज्ञेया अधमा मध्यमाः परे।
भवोपकरणानां ये देवानां मूर्तितां गताः ।। 32 ।।
32. परे इति। उत्तमा इत्यर्थः। भवोपकरणानि; सर्गोपकरणभूतानि।
अन्तवत्फलदा मन्त्रास्ते ज्ञेया अधमा बुधैः।
मन्त्राविभवदेवानां सशक्तीनां तु मूर्तयः ।। 33 ।।
33. - - - - - - - - - - -
ते ज्ञेया मध्यमा मन्त्रा उत्तमा व्यूहमूर्तयः।
ये तु ब्रह्मावगाहन्ते लक्ष्मीनारायणात्मकम् ।। 34 ।।
34. - - - - - - - - - - - - -
भवद्भावव्यवस्थानास्ते मन्त्रा उत्तमोत्तमाः।
एवं च ज्यैष्ठ्यकानिष्ठ्यं विज्ञेयं मन्त्रकोविदैः ।। 35 ।।
35. - - - - - - - - - - - - - -
उत्तमाः पञ्चरात्रस्था मध्यमास्तु त्रयीमयाः।
तन्त्रान्तरस्था विज्ञेया अधमाः शास्रचक्षुषा ।। 36 ।।
36. पञ्चरात्रस्था इति। अनन्यपरसात्त्विकतमभागवतोद्देशप्रवृत्तत्वात् तेषामुत्तमत्वम्। त्रयीमया इति। त्रैगुण्यविषयत्वात्तेषां मध्यमत्वम्।
कलाङ्गा उत्तमा ज्ञेया अन्याङ्गा मध्यमाः स्मृताः।
अनङ्गा अधमा मन्त्रा भूयः शृणु सुरेश्वर ।। 37 ।।
37. कलाः ; ज्ञानादयः।
बीजपिण्डादिसंयुक्ता उत्तमाः परिकीर्तिताः।
बीजाद्यन्यतमान्तःस्था मन्त्रा मध्यमसंज्ञिताः ।। 38 ।।
38. - - - - - - - - - - - - -
अबीजादियुता ज्ञेया मन्त्रा अधमसंज्ञिताः।
एवं मन्त्रविधा ज्ञात्वा ह्याचार्यः शास्रलोचनः।
{11}यथास्वरूपतः शिष्यान् ज्ञापयेदर्थितो मनून् ।। 39 ।।
39. - - - - - - - - - - - - - - -
{11. यथानुरूपतः D. F. }
इति {12}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे {13}षडध्वमन्त्रस्वरूपकथनं नाम द्वाविंशोऽध्यायः
{12. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
{13. I. omits the title. }
********इति द्वाविंशोऽध्यायः********