← अध्यायः ४७ लक्ष्मीतन्त्रम्
अध्यायः ४८
[[लेखकः :|]]
अध्यायः ४९ →
लक्ष्मीतन्त्रस्य अध्यायाः

अष्टचत्वारिंशोऽध्यायः - 48
श्रीः---
विधिं तृतीयतन्वा मे जयाया वृत्रसूदन।
शृणु सिद्धिप्रकारं च सिद्धसंघैरभिष्टुतम् ।। 1 ।।
कृत्वा तु पूर्ववन्न्यासमिष्ट्वा च हृदये जयाम्।
मण्डलं पूर्ववत् कृत्वा तन्मध्ये पङ्कजं लिखेत् ।। 2 ।।
नीलोत्पलाभतुल्येन रजसा च सुपत्रकम्।
तत्रोत्सङ्गातां विष्णोर्हृदयाद्योजयेज्जयाम् ।। 3 ।।
कर्णिकोपरि मन्त्रांश्च न्यसेत् पूर्वक्रमेण तु।
किंतु ध्यानानि सर्वेषां यथावदवधारय ।। 4 ।।
नीलनीरदवर्णाश्च प्रसन्नवदनेक्षणाः।
पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः ।। 5 ।।
सितचामरहस्ताश्च चित्रवेत्रलतोद्यताः।
निरीक्षमाणा वदनं जयाया अजितस्य च ।। 6 ।।
कुन्दकुड्‌मलवर्णाभाः प्रसन्नमुखपङ्कजाः।
रक्ताम्बरधराश्चैव चतुर्हस्ता महाबलाः ।। 7 ।।
धनुर्बाणकराश्चैव गदाचक्रकरान्विताः।
चत्वारोऽनुचरा ध्येयाः पुष्पाभरणभूषिताः ।। 8 ।।
सर्वाश्च दर्शयेन्मुद्राः प्रतिस्वं याः प्रकीर्तिताः।
पूजयेच्च ततो भक्त्या होमं कुर्यादनन्तरम् ।। 9 ।।
तिलैः सिद्धार्थकोपेतैर्हविषा {1}गुल्गुलेन च।
होमावसाने मन्त्री स्वं कृत्वा रूपं जयात्मकम् ।। 10 ।।
{1. गुग्गुलेन F. }
जयाहमिति वै बुद्ध्वा चेतसोपस्थितं महत्।
तीरस्थानं समासाद्य निःशङ्कं जनवर्जितम् ।। 11 ।।
{2}वर्मणास्रेण दिग्बन्धं कृत्वा दुष्टनिबर्हणम्।
प्रारभेत जपं पश्चात् पयोऽन्नफलभुक् सदा ।। 12 ।।
{2. वर्मास्रेण च G. }
प्रणिपत्य हरिं भक्त्या प्राक् स्वमन्त्रेण वासव।
एकान्तशीलो लघ्वाशी मौनी ध्यानपरायणः ।। 13 ।।
जपेल्लक्षचतुष्कं तु जपान्ते होममाचरेत्।
समित् प्रादेशमात्रा तु रक्तचन्दनसंभवा ।। 14 ।।
तासामयुतमव्यग्रो घृताक्तानां तु होमयेत्।
सिद्धार्थैर्नियुते द्वे च मधुमिश्रैर्महामते ।। 15 ।।
अयुतं नियुतं चाथ जुहुयादसितैस्तिलैः।
मधुत्रितयसंयुक्तैरन्ते पूर्णाहुतित्रयम् ।। 16 ।।
मधुक्षीरघृतैः शक्र क्रमेण परिहोमयेत्।
ततो भगवती देवी समायाति जया स्वयम् ।। 17 ।।
सिद्धास्मीति च ते पुत्र मन्मन्त्रेण समाचर।
यदभीष्टं तु वै कार्यं निःशङ्को विगतज्वरः ।। 18 ।।
इत्युक्त्वादर्शनं याति शक्तिर्नारायणात्मिका।
ततः कर्माणि कुर्वीत विविधानि त्वनेकशः ।। 19 ।।
लोकेऽस्मिन् यान्यभीष्टानि स्वात्मनश्च परस्य वा।
तत्राप्युद्देशतो वक्ष्ये शृणु तत्त्वेन वज्रधःत् ।। 20 ।।
ज्वालावद्रसनां ध्यायेद्देवीमन्त्रेण साधकः।
उद्‌ग्राहयति वै यस्य यस्मिन् यस्मिन् हि वस्तुनि ।। 21 ।।
विजित्य न्यायतस्तं वै जयमाप्नोत्ययत्नतः।
गजाश्वशस्रभृत्पूर्णमपि सैन्यं बलान्वितम् ।। 22 ।।
दृष्ट्वान्यस्य {3}समायुक्तं हन्तुमभ्युद्यतं{4} रणे।
परिजप्य धनुः खड्‌गं खेटकं बाणपञ्चकम् ।। 23 ।।
{3. समायान्तं A. F. G. }
{4. अब्युत्थितं B. }
प्रेरयेद्यस्य वै दत्त्वा स गत्वा तु चमूमुखम्।
विदारयति चैकाकी जयमाप्नोति शाश्वतम् ।। 24 ।।
द्यात्वा दक्षिणपाणिस्थं त्रिकोणं चाग्निमण्डलम्।
तन्मध्ये चिन्तयेद्देवीं परिवारसमन्विताम् ।। 25 ।।
मत्तेबसिंहसर्पाणामशनीनां च दर्शने।
क्षिप्रं पराङ्‌मुखा यान्ति दृष्ट्वा हस्ततलं तु तत् ।। 26 ।।
खादिरं मुसलं स्पृष्ट्वा चादाय शतमन्त्रितम्।
कृत्वा गत्वा बिलद्वारं चतुर्वर्णं जयान्वितम् ।। 27 ।।
मुसलाहननान्यष्टौ दद्यात् तत्र शनैः शनैः।
देवीमन्त्रेण देवेश स्वास्रसंपुटितेन तु ।। 28 ।।
फट्‌कारान्तेन तु ततो बिलयन्त्रं यजेदथ।
समस्तजनसंयुक्तो विशेत् साधकसत्तमः ।। 29 ।।
भित्त्वा यन्त्राण्यनेकानि जित्वा दानवपुंगवान्।
जनानां योजनं तत्र कृत्वा कान्तागणैः सह ।। 30 ।।
पीत्वा तु सात्त्विकं पानं स्वहस्तेन महाबलः।
स निर्याति स्वमार्गेण तेनैव स्वनिवेशनम् ।। 31 ।।
करोति यदि देवेश मतिं मन्त्री जगत्त्रये।
जयं प्रत्यविचारेण गदाचक्रकरोद्यतः ।। 32 ।।
पाशाङ्कुशधरो वाथ जयं प्राप्नोति नान्यथा।
लिखेद्रोचनया भूर्जे कुङ्कुमेन घनेन च ।। 33 ।।
संपुटीकृत्य वै नाम निधाय जनमध्यगम्।
तदा सुजयमाप्नोति दिव्यैः सर्वैस्तु लीलया ।। 34 ।।
विलिख्य चन्दनेनैव पयसा कुङ्कुमेन च।
धारयेद्यो गले वक्त्रे{5} करे वामेऽथ दक्षिणे ।। 35 ।।
{5. वस्रे A. C. G. }
सर्वदा तु जयं शक्र संप्राप्नोत्यविचारतः{6}।
जयार्थं त्रिदशेशान मन्त्रं वै यत्र कुत्रचित् ।। 36 ।।
{6. अनिवारितः F. }
मन्त्री प्रयोजयेच्छश्वत् तत्र तत्राप्नुयाज्जयम्।
जया नाम तृतीया मे या तनुः परिकीर्तिता।
तस्या विधानमित्येतत् तव शक्र प्रदर्शितम् ।। 37 ।।
इति {7}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे जयामन्त्रसिद्धिप्रकाशो नामाष्टचत्वारिंशोऽघ्यायः
{7. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
********इति अष्टचत्वारिंशोऽध्यायः********