← अध्यायः ५३ लक्ष्मीतन्त्रम्
अध्यायः ५४
[[लेखकः :|]]
अध्यायः ५५ →
लक्ष्मीतन्त्रस्य अध्यायाः

चतुष्पञ्चाशोऽध्यायः - 54
श्रीः---
चतुरश्रां समां पीतां वज्रचिह्नां वसुंधराम्।
मन्त्रेणाकृष्य देहान्तः स्वस्थाने च लयं नयेत् ।। 1 ।।
गन्धमात्रे ततस्तच्च स्वबीजेनास्तमानयेत्।
स्वबीजेन निवृत्तौ तां स्वमन्त्रेणास्तमानयेत् ।। 2 ।।
मय्यधिष्ठानभूतायां मां च बाह्येऽम्भसि क्षिपेत्।
मन्त्रेणार्धेन्दुसंकाशं पद्माङ्कं तच्च देहतः ।। 3 ।।
स्वस्थानस्थं लयं नीत्वा रसमात्रे स्वमन्त्रतः।
मन्त्रेण तत्प्रतिष्ठायां तच्च मय्यानयेल्लयम् ।। 4 ।।
मां च वह्निमनावृत्त्या प्रकृत्या च ततः क्रमात्।
सर्वत्र नैकं बुध्येत मच्छक्तेर्विलयं बुधः ।। 5 ।।
यथा हि सर्पिरासिञ्चेत् क्षीरे तन्मथनोद्भवम्।
सर्पिरन्यत्र च क्षीरे तत्सर्पिरपि चान्यकम् ।। 6 ।।
एवमा प्रकृतेः शक्तिमधिष्ठात्रीं स्मरेद् बुधः।
एवं मां परमां शक्तिं शक्तिसप्तकसंयुताम् ।। 7 ।।
द्वादशान्तान्तमुन्नीय मन्त्रमय्यां मयि क्षिपेत्।
अग्नीषोमार्ककोट्याभा सर्वतोऽक्षिशिरोमुखी ।। 8 ।।
सर्वजीवोपकाराय सा मे मन्त्रमयी तनुः।
शक्रः---
कानि स्थानानि देहेऽस्मिन् यत्र कार्यो लयः क्रमात् ।। 9 ।।
कीदृशानि च बिम्बानि भूरादीनां वदाम्बुजे।
श्रीः---
आ जानुतो भुवः स्थानमा कट्याः पयसः स्मृतम् ।। 10 ।।
आ नाभेस्तेजसः स्थानं वायोः स्थानं तदा हृदः।
आ कण्ठान्नभसः स्थानमा बिलाच्चाप्यहंकृतेः ।। 11 ।।
आ भ्रुवोर्महतः स्थानमाकाशे तु परं स्मृतम्।
चतुरश्रं भवेद्बिम्बं वज्राङ्कं पार्थिवं महत् ।। 12 ।।
अर्धेन्दुसदृशं शुक्लं पद्माङ्कं पयसः स्मृतम्।
त्रिकोणं स्वस्तिकाङ्कं च रक्तं तेजस उच्यते ।। 13 ।।
धूम्रं षड्‌बिन्दुसंयुक्तं वृत्तं वायव्यमुच्यते।
अञ्चनाभं तथाकाशं बिम्बमात्रं स्मृतं पदम् ।। 14 ।।
एवं तत्त्वोपसंहारे कृते हृत्कोटरोद्गतम्।
ज्ञानरज्ज्ववलम्बं च सुषुम्नामध्यमार्गगम् ।। 15 ।।
ऊर्ध्वमात्मन उन्नीय शक्तिसोपानपङ्‌क्तिभिः।
द्वादशान्तं महापद्ममध्यस्थायां मयि क्षिपेत् ।। 16 ।।
द्वादशान्तं महापद्मं सहस्रदलसंयुतम्।
सूर्यकोटिसहस्राभमिन्दुकोट्ययुतप्रभम् ।। 17 ।।
अग्नीषोमद्वयान्तःस्था महानन्दमयी तनुः।
अनिर्देश्योपमा संविन्माया सा मामिका तनुः ।। 18 ।।
अंशतः प्रसरन्त्यस्या जीवानन्दा सरिद्वरा।
स्वानन्दमेनमानीय महानन्दमयीं नयेत् ।। 19 ।।
ततो लवणकूटाभं पिण्डमस्मन्मुखोद्गतैः।
महाज्वालावलीजालैश्चिन्मयैः परितौ दहेत् ।। 20 ।।
रक्ततामरसः षष्ठो बिन्दुमान् देहपावकः।
सोममय्या ममास्योत्थैः पीयूषैः प्लावयेत्ततः ।। 21 ।।
सिसृक्षाया ममोद्यन्त्या संवित्प्र णोपगूढया।
प्रेरितास्ताः स्मरेच्छक्तीर्मन्त्रमय्यां तनौ स्थिताः ।। 22 ।।
तत्सताभिः स्वशक्तीभिश्चोदनद्वारपूर्वकम्।
प्रकृत्यादि विशेषान्तं निर्मितं संस्मरेत् क्रमात् ।। 23 ।।
ततः पिण्डसमुत्पत्तिं कारणव्यञ्जनोज्ज्वलम्।
एवं पिण्डं समुत्पाद्य शुद्धलक्ष्मीमयं महत् ।। 24 ।।
पूर्वोक्तगतिमार्गेण व्युत्क्रमेणानयेद्धृदि।
महानन्दात् स्वमात्मानं संविदानन्दलक्षणम् ।। 25 ।।
ततः करशरीरेषु मन्त्रन्यासं समाचरेत्।
अङ्गुष्ठादिकनिष्ठान्तमङ्‌गुलीस्थेषु पर्वसु ।। 26 ।।
तलयोः पृष्ठयोश्चैव करयोरुभयोरपि।
नाभितश्चाङ्‌घ्रिपर्यन्तं नाभेरा मूर्धतस्तथा ।। 27 ।।
न्यस्य संधिषु मद्बीजं हृदाद्यङ्गानि च न्यसेत्।
पुनर्हृदादिषट्‌केन नाभिपृष्टकरोरुषु ।। 28 ।।
जङ्घापदोश्च ज्ञानादि षाड्‌गुण्यं विन्यसेद् बुधः।
एवमुत्पादिते देहे शुद्धे लक्ष्मीमये शुभे।
आधारषट्‌कविन्यासं ज्ञानदृष्ट्या समाचरेत् ।। 29 ।।
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे चतुष्पञ्चाशोऽध्यायः
********इति चतुष्पञ्चाशोऽध्यायः********