← अध्यायः ३१ लक्ष्मीतन्त्रम्
अध्यायः ३२
[[लेखकः :|]]
अध्यायः ३३ →
लक्ष्मीतन्त्रस्य अध्यायाः


द्वात्रिंशोऽध्यायः - 32
श्रीः ---
या ह्येषा परमा विद्या तारिका भवतारिणी।
स्थूलं सूक्ष्मं परं चेति तस्या रूपत्रयं शृणु ।। 1 ।।
1. विद्या चिद्रूपेत्यर्तः। भवतारिणीत्यनेन तारिकाया अन्वर्थत्वमाह।
पञ्चवर्णं चतुर्वर्णमिति स्थूलात्मकं वपुः।
त्रिवर्णा सूक्ष्मसंज्ञा मे परा विष्णुमयी स्थिता ।। 2 ।।
2. ह्री इति बिन्दोरुपरि घण्टानादवत् श्रूयमाणं नादं संयोज्य पञ्चवर्णत्वं, तं विहाय चतुर्वर्णत्वमुपपादनीयम्। त्रिवर्णेति। ईंरूपेत्यर्थः। पररूपमाह---विष्णुमयीति। केवलेकाररूपेत्यर्थः।
इमास्तिस्रो ह्रवस्था मे प्रत्येकं तु त्रिधा त्रिधा।
स्थूले तु या परावस्था परमात्माश्रया तु सा ।। 3 ।।
3. प्रत्येकं त्रिधेति। स्थूलरूपे स्थूलसूक्ष्मपररूपेण, सूक्ष्मरूपे स्थूलसूक्ष्मपररूपेण, पररूपेऽपि स्थूलसूक्ष्मपररूपेणेति त्रैविध्यमिति भावः। स्थूले पररुपमाह---स्थूले त्विति। परमात्मा हकारः।
अशेषभुवनाधारविष्णुव्यापिसमाश्रया।
भोक्तृभोग्यात्मिका चेयं तस्या रूपं निबोध मे ।। 4 ।।
4. अशेषभुवनाधारो रेफः। विष्णुः ईकारः। व्यापी अनुस्वारः। आहत्य ह्रीं भवति।
अशेषभुवनाधारनिलयव्यापिजन्मना।
परमात्मादिकेनैव ललाटतटमेयुषा ।। 5 ।।
5. ललाटतटमेयुषेत्यस्य रूपेणेति शेषः।
आक्रम्य वैष्णवं रूपं स्वे पुनः प्रतितिष्ठति।
तारकारणनादेन शोभमाना हरिप्रिया ।। 6 ।।
6. आक्रम्येति वैष्णवरूपस्यानभिव्यक्तिरुच्यते।
भोक्तृभोग्यादिकं सर्वं भुवनं बिभ्रती धिया।
व्यापिनं सर्वतो देवी परमात्मानमाश्रिता ।। 7 ।।
7. - - - - - - - - - - - -
तावत्तया स्थिता विष्णुरूपा स्थूला गतिः परा।
पञ्चकृत्यकरी शक्तिस्रिविधैश्वर्यबृंहिता ।। 8 ।।
8. तावत्तयेति। भोक्तृभोग्यरूपेणेत्यर्थः। अथ स्थूले सूक्ष्ममाह---पञ्चकृत्येत्यादि। सर्गादीनि पञ्च कृत्यानि।
{1}प्राणयन्ती श्रिया देवं जृम्भमाणोदधिप्रभम्।
आश्रित्य ह्यानलं भावमियं सूक्ष्मा गतिर्मता{2} ।। 9 ।।
9. - - - - - - - - - - - - - -
{1. प्राणयन्तं A. B. }
{2. मम C. }
सृष्ट्यादिकं विधायाथ व्योमस्थं परमास्थिता।
सर्वाश्चर्यकरी देवी सृष्टिस्थित्यन्तकारणम् ।। 10 ।।
10. स्थूले स्थूलरूपमाह---सृष्ट्यादिकमिति। सर्वाश्चर्येत्यादि। पूर्वं सूक्ष्मे जगतः सृष्टिसंकल्प उक्तः। अत्र तु तस्य सृष्टिरुच्यत इति धेययम्।
सूर्यं समाश्रिता विष्णुं कलयन्ती{3}जगत्स्थितिम्।
कालपावकतेजोभिः स्थूला स्थूलमयाद्भुता ।। 11 ।।
11. - - - - - - - - - - - -
{3. कलयन्तं A. B. G. }
कथिता गतयस्तिस्रः स्थूलाया मम वासव।
सूक्ष्मायास्तु गतीस्तिस्रः शृणु वृत्रनिषूदन ।। 12 ।।
12. - - - - - - - - - - - -
अकालकलना सेयं सूक्ष्मा तु परमेश्वरी।
व्यापिनं परमात्मानं श्रयन्ती वर्तते ध्रुवा ।। 13 ।।
13. सूक्ष्मरुपस्य साधारणं स्वभावमाह---अकालेति। अनेन पूर्वोक्तस्थूलरूपस्य कालकाल्यत्वमभिमन्यते।
शुद्धो वर्गस्तथाशुद्धो द्विविधं सृज्यमुच्यते।
शुद्धेतरे स्थिता स्थूला शुद्धे सूक्ष्मा प्रतिष्ठिता ।। 14 ।।
14. विशेषान्तरमाह---शुद्ध इति।
तिस्रोऽप्यासां गतीः सम्यक् स्थूलाया इव लक्षयेत्।
परा या मे तनुः शक्र तस्या रूपं निशामय ।। 15 ।।
15. प्रस्तुते त्रिवेधे सूक्ष्मरूपेपूर्वोक्तस्थूलगतीरतिदिशति--तिस्र इति। परमियान् भेदः---पूर्वोक्तस्थूलगतिरशुद्धविषया; इयं तु शुद्धविषयेति।
सर्वव्याप्तिमती दिव्या निष्कला सा निरञ्जना।
सा परा मन्मयी शक्तिः कथिता विष्णुसंज्ञया ।। 16 ।।
16. अथ परायाः साधारणं रूपमाह--सर्वव्याप्तिमतीत्यादि।
एषा सा वैष्णवी सत्ता सैषाहंता हरेर्मता।
एषा सा योगिनां निष्ठा सैषा सांख्यात्मनां गतिः ।। 17 ।।
17. सांख्यात्मनाम्; प्रकृतिपुरुषविवेकादिज्ञानवतामित्यर्थः।
इयं सा परमा मूर्तिरियं सा परमा गतिः।
शक्तिः कुण्डलिनी चाद्या भ्रमरी योगदायिका ।। 18 ।।
18. तस्या नामभेदानाह---शक्तिरित्यादिना।
अनाहता ह्यघोषा च निर्मर्यादा नदोद्गता।
शब्दब्रह्म तथा शक्तिर्मातृकायोनिरुत्तमा ।। 19 ।।
19. नदः; नादः।
गायत्री च कला गौरी शची देवी सरस्वती।
वृषाकपायी सत्या च प्राणपत्नी यशस्विनी ।। 20 ।।
20. - - - - - - - - - - - - -
इन्द्रपत्नी महाधेनुरदितिर्देवनन्दिनी।
रुद्राणां जननी देवी वसूनां तु हिता तथा ।। 21 ।।
21. - - - - - - - - - - - - -
आधित्यानां स्वसा नाभिरमृतस्य धृतिः परा।
इडा रतिः प्रियाकारा गुरुधात्री महीयसी ।। 22 ।।
22. - - - - - - - - - - - -
मही च विश्रुतिस्चैव त्रयी गौः प्राणवत्सला।
शक्तिश्च प्रकृतिश्चैव महाराज्ञी पयस्विनी ।। 23 ।।
23. - - - - - - - - - - - -
तारा {4}सीता तथा श्रीश्च कामवत्सा प्रियव्रता।
तरुणी च वरारोहा नीरूपा रूपशालिनी ।। 24 ।।
24. - - - - - - - - - - - -
{4. हिता F. }
अम्बिका सुन्दरी ज्येष्ठा वामा घोरा मनोमयी।
सिद्धा सिद्धान्तिका योगा योगिनी योगभाविनी ।। 25 ।।
25. - - - - - - - - - - - - -
एवमादीनि नामानि शास्रे शास्रे मनीषिभिः।
कथितानि रहस्यानि शक्तेः सिद्धान्तपारगैः ।। 26 ।।
26. - - - - - - - - - - - - -
सैषा शक्तिः परा दिव्या त्रिधा रूपैरवस्थिता।
स्थूलसूक्ष्मपरत्वेन त्रैधमेतत् प्रदर्श्यते{5} ।। 27 ।।
27. - - - - - - - - - - - - -
{5. प्रदृश्यते B. C. }
{6}अस्याः स्वरूपमी प्रोक्ता सा च त्रेधावतिष्ठते।
अप्रमेयादिरूपेण तस्या व्याख्यामिमां शृणु ।। 28 ।।
28. ई; ईकार इत्यर्थः।
{6. अव्याप्तित्वे अमी B. F. }
षाड्‌गुण्यं यत् परं ब्रह्म वासुदेवाख्यमव्ययम्।
संहृताखिलभेदं तदेकमेव यदा तदा ।। 29 ।।
29. परायाः पररूपमाह---षाड्‌गुण्यमिति। संहृतेति। भेदः; भिन्नः प्रपञ्चः। प्रतिसंचरे सकलस्यापि प्रपञ्चस्य ब्रह्माणि लयात् तथोक्तिः। एकमेवेति। सूक्ष्मावस्थचिदचिद्विशिष्टं ब्रह्मैकमेव तत्त्वमभवदित्यर्थः।
अप्रमेयाख्यया देवस्तदा योगिभिरीर्यते।
व्याप्यव्यापकभेदो वा सृज्यसृष्टिविधापि वा ।। 30 ।।
30. - - - - - - - - - - - - -
{7}न तदान्यप्रमेयत्वं न किंचित्तस्य विद्यते।
तदा शून्यमिवाकारैः प्रसुप्तमिव सर्वतः ।। 31 ।।
31. प्रमेयत्वं प्रमाविषयत्वम्। शून्यमिवेति। सर्वव्यापारोपरमात् असत्कल्पमित्यर्थः। बाह्याभिमतशून्याख्यतत्त्वनिरासायेवशब्दः।
{7. B. omits four lines from here. }
षाड्‌गुण्यं ब्रह्म? तत्रेयं संस्थिता विष्णुसंज्ञया।
अतरङ्गार्णवाकारा शक्तिशक्तिमतोर्गतिः ।। 32 ।।
32. अथ परायाः सूक्ष्मरूपमाह---शक्तीति। यदेत्युत्तरवाक्यस्थमत्रादौ ज्ञेयम्। यदा शक्तेः शक्तिमतश्च व्यक्ता गतिरवगतिः, तदेत्युत्तरत्रान्वयः।
तदा यदा पुनर्ब्रह्म वासुदेवाख्यमव्रणम्।
उन्मिषत्यात्मसंकल्पात्तदा प्रथम उच्यते ।। 33 ।।
33. प्रथम इति। संकल्प इति शेषः।
प्रथते हि यदा ब्रह्म शुद्धाशुद्धाख्यवर्त्मना।
माया नाम तदा त्वेषा व्रह्नसंकल्परूपिणी ।। 34 ।।
34. एषा; परा शक्तिरित्यर्थः।
संकर्षणादिक्षित्यन्तस्तस्या {8}गर्भमवस्थितः।
यदा पुनः परं ब्रह्म स्वेच्छासंपादितं पृथक् ।। 35 ।।
35. परायाः स्थूलरूपमाह---संकर्षणेति।
{8. गर्भ इव C. G. }
व्याप्यव्यापकभेदेन सद्वितीयमवस्थितम्।
पञ्चबिन्दुस्तदा देवी पञ्चकृत्यविधायिनी ।। 36 ।।
36. पञ्चबिन्दुः; ईकारः।
पराया इति ते प्रोक्ता मम तन्वा गतिस्रयी।
रूपं रूपं विभज्यैषा तत्तत्तत्त्वार्णभेदिनी ।। 37 ।।
37. त्रयी; स्थूलसूक्ष्मपररूपेण त्रिविधेत्यर्थः।
तत्तद्वाचकतां {9}नीता स्वकामाज्जगतीतनुः।
तेषु तेषु हि तत्त्वेषु स्वात्मभूतावतिष्ठते ।। 38 ।।
38. - - - - - - - - - - - - -
{9. नीत्वा A. }
मदंशः सूक्ष्मरूपो यो गूढोऽग्निरिव दारुषु।
तत्तद्रूपमनुप्राप्ता{10} सेवनी नाम शाश्वती ।। 39 ।।
39. सेवनीति जिह्वादिस्थानेषु वर्णोच्चारणाद्युपयोग्यवयवसंघटनाविशेष उच्यते।
{10. प्राप्य C. }
तत्तद्वर्णोपरागेण तत्तद्व्यक्तिवपुः स्वयम्।
अधिदैवतभावेन तत्र योंऽशः परात्मकः ।। 40 ।।
40. योंऽश इति। अस्य सेयमित्यनन्तरश्लोकस्थेनान्वयः।
वैष्णवः शक्तिरूपो मे नियच्छन्नवतिष्ठते।
तत्तद्वाचकतां याति देवी सेयमनश्वरी ।। 41 ।।
41. - - - - - - - - - - - -
अशेषभुवनाधारा योगिनी परमेश्वरी।
केवलस्तत्त्ववर्णस्तु त्रैलोक्यैश्वर्यदां गतः ।। 42 ।।
42. - - - - - - - - - - - - -
तत्तत् स्थूलमयं तत्त्वं मदीयं {11}वक्ति शाश्वतम्।
तत्तद्भावाभिधानेन तन्नियन्तृत्वदर्शने ।। 43 ।।
43. सर्वमपि स्थूलतत्त्वं मदीयशक्त्या शाश्वतं भवति। अनेन क्षणभङ्गवादनिरासोऽभिप्रेतः।
{11. शक्ति B. }
इयमेवेश्वरा देवी द्विधा सक्तावतिष्ठते।
क्षादि शान्तं पुरा यत्ते दर्शितं ब्रह्मपञ्चकम् ।। 44 ।।
44. सक्तेति। आसङ्गयुक्तेत्यर्थः। तदेवाह---क्षादीति।
{12}क्ष इत्यादिस्वरूपेण त्रैलोक्यैश्वर्यदां गता।
स्वरूपे नियमे चैव द्वेधा सेयमवस्थिता ।। 45 ।।
45. द्वेधेति। सर्वेषां स्वरूपं नियमनं च प्रदर्शयन्ती द्वेधावतिष्ठत इत्यर्थः।
धारणानां चतुष्कं यद्वादि यान्तमुदीरितम्।
तत्र सूक्ष्मपरे भावे स्थितेयं पूर्ववद् द्विधा ।। 46 ।।
46. वादियान्तचतुष्कं धारणाचतुष्कमित्युक्तमित्यर्थः।
{13}त्रैयवस्थो मकारोऽयं{14} प्रोक्तश्चैतन्यवाचकः।
तत्रापि सूक्ष्मपरयोर्द्वेधेयं दशयोर्द्वयोः ।। 47 ।।
47. त्र्यवस्थ एव त्रैयवस्थः।
{13. त्रेधावस्थो A. B. }
{14. यः B. C. }
मायाप्रसूतित्रैगुण्यरूपो यो भार्ण उच्यते।
ई नाम पूर्ववद्देवी तत्रापि दशयोर्द्वयोः ।। 48 ।।
48. - - - - - - - - - - - -
बुद्ध्यहंकारमनसां यद्रूपं बादिकं त्रयम्।
तत्रापि पूर्ववद् द्वेधा देवीयं दशयोर्द्वयोः ।। 49 ।।
49. - - - - - - - - - - - -
नादिके णादिके चैव तथेन्द्रियगणद्वये।
दशयोः सूक्ष्मपरयोरियं द्वेधावतिष्ठते ।। 50 ।।
50. नादिकं तवर्गः। णादिकं टवर्गः।
ञादिके ङादिके चैव स्थूलसूक्ष्मस्वरूपके।
विभूतिपञ्चके देवी दशयोः पूर्ववत् स्थिता ।। 51 ।।
51. चवर्गपञ्चकं कवर्गपञ्चकं च तन्मात्रस्थूलभूतरूपतयोक्तमित्यर्थः।
सप्तत्या वितता भेदैः शुद्धाशुद्धमयाध्वनि।
नटीव स्वयमी शक्तिबिभर्ति बहुधा वपुः ।। 52 ।।
52. सप्तत्येति। शुद्धाशुद्धाध्वनोः प्रत्येकं पञ्चत्रिंशदिति आहत्य सप्ततिर्भेदाः। ई शक्तिः; ईकाररूपा शक्तिरित्यर्थः।
{15}इयद्विस्तृतिमापन्नामीमिमां परमेश्वरीम्।
विचिन्त्य परमं याति पदं विष्णोः सनातनम् ।। 53 ।।
53. - - - - - - - - - - - - -
{15. इयं B. C. F. }
यत्र यत्र गता सेयं शुद्धाशुद्धे तथाध्वनि।
तत्र तत्र त्वजहती विष्णोः संबन्धमी स्थिता ।। 54 ।।
54. - - - - - - - - - - - - -
एकद्वित्र्यादियोगेन स्वरव्यञ्जनरूषिता।
शुद्धाशुद्धाध्ववर्गस्था नानाभेदोपपादिता ।। 55 ।।
55. - - - - - - - - - - - -
जटोपरागहीनाया अस्या एव पुनस्रिधा।
ज्ञेयः स्थूलादिरूपेण विभेदस्तत्त्वचिन्तकैः ।। 56 ।।
56. जटेति। जकारटकारादीत्यर्थः। उपलक्षणमेतत् वर्णान्तरोपरागस्यापि।
सृष्टिकृत्संयुता स्थूला सूक्ष्मा व्योमेशसंयुता।
निरञ्जना परा सेयमी इत्येवानुरागिणी ।। 57 ।।
57. ईरूपस्य स्थूलादिभेदमाह--सृ