प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं १.१०५ ऋग्वेदः - मण्डल १
सूक्तं १.१०६
कुत्स आङ्गिरसः
सूक्तं १.१०७ →
दे. विश्वे देवाः । जगती, ७ त्रिष्टुप्


इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥१॥
त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥२॥
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥३॥
नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥४॥
बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥५॥
इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥६॥
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥७॥


सायणभाष्यम्

षोडशेऽनुवाके दश सूक्तानि । तत्र ‘इन्द्रम्' इति सप्तर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते ---‘इन्द्रं मित्रं सप्त त्रिष्टुबन्तम् ' इति। अनुवर्तमानत्वात् कुत्स ऋषिः। त्रितस्तु वाविशिष्टत्वात् तत्रैव विकल्पितो नानुवर्तते । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । विश्वे देवा देवतेत्युक्तम् । विनियोगो लैङ्गिकः ।।


इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒ अदि॑तिं हवामहे ।

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ १

इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । ऊ॒तये॑ । मारु॑तम् । शर्धः॑ । अदि॑तिम् । ह॒वा॒म॒हे॒ ।

रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥१

इन्द्रम् । मित्रम् । वरुणम् । अग्निम् । ऊतये । मारुतम् । शर्धः । अदितिम् । हवामहे ।

रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥१

“ऊतये रक्षणाय वयमिन्द्रादीन् “मारुतं "शर्धः मरुत्समूहरूपं बलं च “हवामहे आह्वयामहे । “वसवः निवासयितारः “सुदानवः शोभनदानाः इन्द्रादयः “विश्वस्मात् सर्वस्मात् “अंहसः पापात् “नः अस्मान् “निष्पिपर्तन निर्गमय्य पालयत। तत्र दृष्टान्तः ।”रथं “न "दुर्गात् । गन्तुमशक्यान्निम्नोन्नतात् स्थानात् सारथयो यथा रथं पालयन्ति तद्वत् ॥ पिपर्तन। ‘ पृ इत्येके'। लोटि ‘तप्तनप्तनथनाश्च इति तस्य तनबादेशः । पित्त्वेन ङित्त्वाभावात् गुणः ।“ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् ॥


त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये भू॒त दे॑वा वृत्र॒तूर्ये॑षु श॒म्भुवः॑ ।

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ २

ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वऽता॑तये । भू॒त । दे॒वाः॒ । वृ॒त्र॒ऽतूर्ये॑षु । श॒म्ऽभुवः॑ ।

रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥२

ते । आदित्याः । आ । गत । सर्वऽतातये । भूत । देवाः । वृत्रऽतूर्येषु । शम्ऽभुवः ।

रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥२

हे "आदित्याः अदितेः पुत्राः “देवाः ते यूयं “सर्वतातये सर्वैर्वीरपुरुषैस्तताय विस्तारिताय युद्धाय । युद्धेऽस्माकं साहाय्यं कर्तुमित्यर्थः । “आ “गत आगच्छत । अपि च "वृत्रतूर्येषु । संग्रामनामैतत् । संग्रामेषु “शंभुवः सुखस्य भावयितारः “भूत भवत ॥ गत । गमेर्लोटि ‘बहुलं छन्दसि ' इति शपो लुक् ॥


अव॑न्तु नः पि॒तरः॑ सुप्रवाच॒ना उ॒त दे॒वी दे॒वपु॑त्रे ऋता॒वृधा॑ ।

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ ३

अव॑न्तु । नः॒ । पि॒तरः॑ । सु॒ऽप्र॒वा॒च॒नाः । उ॒त । दे॒वी इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । ऋ॒त॒ऽवृधा॑ ।

रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥३

अवन्तु । नः । पितरः । सुऽप्रवाचनाः । उत । देवी इति । देवपुत्रे इति देवऽपुत्रे । ऋतऽवृधा ।

रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥३

“नः अस्मान् “पितरः अग्निष्वात्तादयः “अवन्तु रक्षन्तु । कीदृशाः। 'सुप्रवाचनाः सुखेन प्रवक्तुं स्तोतुं शक्याः । “उत अपि च “देवपुत्रे देवाः सर्वे पुत्रस्थानीया ययोस्ते “ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयित्र्यौ “देवी देवनादिगुणयुक्ते द्यावापृथिव्यौ अस्मान् रक्षताम्। अन्यत् समानम् ॥ देवी । वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । ऋतावृधा । वृधेरन्तर्भावितण्यर्थात् क्विप्। सुपां सुलुक्' इति विभक्तेः आकारः ॥


नरा॒शंसं॑ वा॒जिनं॑ वा॒जय॑न्नि॒ह क्ष॒यद्वी॑रं पू॒षणं॑ सु॒म्नैरी॑महे ।

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ ४

नरा॒शंस॑म् । वा॒जिन॑म् । वा॒जय॑न् । इ॒ह । क्ष॒यत्ऽवी॑रम् । पू॒षण॑म् । सु॒म्नैः । ई॒म॒हे॒ ।

रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥४

नराशंसम् । वाजिनम् । वाजयन् । इह । क्षयत्ऽवीरम् । पूषणम् । सुम्नैः । ईमहे ।

रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥४

“नराशंसं नरैः शंसनीयं “वाजिनम् अन्नवन्तमग्निं “वाजयन् उपवाजयन् प्रज्वलयन् “इह अस्मिन् काले स्तौमीति शेषः । तथा “क्षयद्वीरम् अतिबलिनं यस्मिन् सर्वे वीराः क्षीयन्ते एवंरूपं “पूषणं पोषकं देवं “सुम्नैः सुखकरैः स्तोत्रैर्हेतुभूतैः “ईमहे याचामहे अभीष्टं प्रार्थयामहे ॥ नराशंसम् । ' उभे वनस्पत्यादिषु' इति युगपदुभयपदप्रकृतिस्वरत्वम् । नरशब्दः ‘ऋदोरप्' इति अबन्त आद्युदात्तः। निपातनात् दीर्घः । शंसशब्दो घञन्त आद्युदात्तः । वाजयन् ।‘वज व्रज गतौ' । अस्मात् णिच् । क्षयद्वीरम् । ‘ क्षि क्षये '। लटः शतृ । शपि प्राप्ते व्यत्ययेन शः । तस्य छन्दस्युभयथा' इति आर्धधातुकत्वेन ङित्त्वाभावात् गुणायादेशौ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः । अतो गुणे इति पररूपत्वे ' एकादेश उदात्तेन ' इति एकादेश उदात्तः । क्षयन्तो वीरा यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।।


बृह॑स्पते॒ सद॒मिन्नः॑ सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु॑र्हितं॒ तदी॑महे ।

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ ५

बृह॑स्पते । सद॑म् । इत् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । शम् । योः । यत् । ते॒ । मनुः॑ऽहितम् । तत् । ई॒म॒हे॒ ।

रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥५

बृहस्पते । सदम् । इत् । नः । सुऽगम् । कृधि । शम् । योः । यत् । ते । मनुःऽहितम् । तत् । ईमहे ।

रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥५

“बृहस्पते “सदमित् सदैव "नः अस्माकं "सुगम् सुखनामैतत् । सुखं “कृधि कुरु । अपि च “ते तव स्वभूतं “शं शमनीयानां रोगाणामुपशमनं “योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं “मनुर्हितं मनुना ब्रह्मणा हितं त्वय्यवस्थापितम् । यद्वा । मनुष्याणामनुकूलम् । एवंविधं शमनं यावनं च “यत् अस्ति “तदीमहे याचामहे ॥ सुगम् । सुष्ठु गम्यतेऽस्मिन्निति सुगम् । सुदुरोरधिकरणे ' इति गमेर्डः । शं योः इत्येतत् पदद्वयं यास्केनैवं व्याख्यातं - ‘ शमनं च रोगाणां यावनं च भयानाम् ' (निरु. ४. २१ ) इति । मनुर्हितम् । मनेरौणादिक उसिन्प्रत्ययः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ।।


इन्द्रं॒ कुत्सो॑ वृत्र॒हणं॒ शची॒पतिं॑ का॒टे निबा॑ळ्ह॒ ऋषि॑रह्वदू॒तये॑ ।

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ ६

इन्द्र॑म् । कुत्सः॑ । वृ॒त्र॒ऽहन॑म् । शची॒३॒॑ऽपति॑म् । का॒टे । निऽबा॑ळ्हः । ऋषिः॑ । अ॒ह्व॒त् । ऊ॒तये॑ ।

रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥६

इन्द्रम् । कुत्सः । वृत्रऽहनम् । शचीऽपतिम् । काटे । निऽबाळ्हः । ऋषिः । अह्वत् । ऊतये ।

रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥६

काटः इति कूपनाम । तस्मिन् “निबाळ्हः निपातितः “कुत्सः “ऋषिः “ऊतये रक्षणाय “इन्द्रम् “अह्वत् आह्वयति स्म । कीदृशम् । “वृत्रहणं वृत्राणां शत्रूणां हन्तारं “शचीपतिम् । शचीति कर्मनाम । सर्वेषां कर्मणां पालयितारम् । यद्वा । शच्या देव्याः भर्तारम् ॥ शचीपतिम् । वनस्पत्यादिषु पाठादुभयपदप्रकृतिस्वरत्वम् । शचीशब्दः शार्ङ्गरवादिङीनन्त आद्युदात्तः । निबाळ्हः । ‘ बाहृ प्रयत्ने । नीत्युपसर्गवशात् पतने वर्तते । निष्ठायाम् ' अनित्यमागमशासनम्' इति इडभावः। ढत्वधत्वादीनि । यद्वा ।' क्षुब्धस्वान्त° ' ( पा. सू. ७. २. १८) इत्यादौ भृशार्थे इडभावो निपात्यते । अत्र च बाढशब्दो भृशत्वोपेते' पतने सामर्थ्याद्वर्तते । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अह्वत् । ‘ लिपिसिचिह्वश्च' (पा. सू. ३. १. ५३ ) इति लुङि च्लेरादेशः । ‘ आतो लोप इटि च' इत्याकारलोपः ॥


दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ ७

दे॒वैः । नः॒ । दे॒वी । अदि॑तिः । नि । पा॒तु॒ । दे॒वः । त्रा॒ता । त्रा॒य॒ता॒म् । अप्र॑ऽयुच्छन् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥७

देवैः । नः । देवी । अदितिः । नि । पातु । देवः । त्राता । त्रायताम् । अप्रऽयुच्छन् ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥७

“देवी दानादिगुणयुक्ता “अदितिः अखण्डनीया अदीना वा देवमाता “देवैः दानादिगुणयुक्तैः स्वकीयैः पुत्रैः सह “नः अस्मान् “नि “पातु नितरां रक्षतु । "देवः दीप्यमानः “त्राता सर्वेषां रक्षकः सविता “अप्रयुच्छन् अप्रमाद्यन् अस्मद्रक्षणे जागरूकः सन्त्रायताम् अस्मान् पालयतु । यदनेन सूक्तेनास्माभिः प्रार्थितं “नः अस्मदीयं “तत् मित्रादयः षड्देवताः “ममहन्तां पूजयन्तु ॥ त्रायताम् । ‘त्रैङ् पालने '। भौवादिकः । अप्रयुच्छन् । युच्छ प्रमादे'। अस्मात् लटः शतृ । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ २४ ॥

सम्पाद्यताम्

टिप्पणी

१.१०६.४ नराशंसं वाजिनं वाजयन्निह इति

नराशंसोपरि टिप्पणी

नराशंसोपरि टिप्पणी (दर्पणं)



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१०६&oldid=214474" इत्यस्माद् पुनः प्राप्तिः