प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं १.१०६ ऋग्वेदः - मण्डल १
सूक्तं १.१०७
कुत्स आङ्गिरसः
सूक्तं १.१०८ →
दे. विश्वे देवाः। त्रिष्टुप्।


यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः ।
आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत् ॥१॥
उप नो देवा अवसा गमन्त्वङ्गिरसां सामभि स्तूयमानाः ।
इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥२॥
तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥३॥


सायणभाष्यम्

‘ यज्ञो देवानाम् ' इति तृचं द्वितीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभं वैश्वदेवम्। ‘ यज्ञस्तृचम्' इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥


य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ ।

आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥ १

य॒ज्ञः । दे॒वाना॑म् । प्रति॑ । ए॒ति॒ । सु॒म्नम् । आदि॑त्यासः । भव॑त । मृ॒ळ॒यन्तः॑ ।

आ । वः॒ । अ॒र्वाची॑ । सु॒ऽम॒तिः । व॒वृ॒त्या॒त् । अं॒होः । चि॒त् । या । व॒रि॒वो॒वित्ऽत॑रा । अस॑त् ॥१

यज्ञः । देवानाम् । प्रति । एति । सुम्नम् । आदित्यासः । भवत । मृळयन्तः ।

आ । वः । अर्वाची । सुऽमतिः । ववृत्यात् । अंहोः । चित् । या । वरिवोवित्ऽतरा । असत् ॥१

अस्मदीयः “यज्ञो “देवानाम् इन्द्रादीनां “सुम्नं सुखं “प्रत्येति प्राप्नोतु । अपि च हे "आदित्यासः आदित्याः “मृळयन्तः अस्मान् सुखयन्तः “भवत । तथा “वः युष्माकं “सुमतिः शोभना मतिः भद्रानुग्रहपरा बुद्धिः "अर्वाची अस्मदभिमुखी “आ “ववृत्यात् आवर्तताम् । "या मतिः “अंहोश्चित् दारिद्र्यं प्राप्तस्यापि पुरुषस्य “वरिवोवित्तरा । वरिवः इति धननाम । अतिशयेन धनस्य लम्भयित्री “असत् भवेत् । सैषा मतिरस्मान् रक्षतुं वर्ततामित्यर्थः ॥ भवत । आमन्त्रितं पूर्वमविद्यमानवत्' इति आदिल्यास इति पादादौ वर्तमानस्य आमन्त्रितस्य अविद्यमानवत्वेनास्य पादादित्वात् ‘ ०अपादादौ इति पर्युदासात् निघाताभावः । मृळ्यन्तः । ‘ मृड सुखने '। प्यन्तात् लटः शतृ । शप् । छन्दस्युभयथा ' इति शतुः आर्धधातुकत्वेन अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावे शतुः स्वरः शिष्यते । ववृत्यात् । वृतु वर्तने । लिङि व्यत्ययेन परस्मैपदम् । बहुलं छन्दसि ' इति शप: श्लुः । अंहोः । ‘ अहि गतौ ' । इदित्त्वात् नुम् । औणादिक उप्रत्ययः । वरिवोवित्तरा ।' विद्लृ लाभे'। अस्मादन्तर्भावितण्यर्थात् क्विप् । तत आतिशायनिक तरप् । असत् ।' अस भुवि '। लेटि अडागमः ॥


उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः ।

इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥ २

उप॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । अङ्गि॑रसाम् । साम॑ऽभिः । स्तू॒यमा॑नाः ।

इन्द्रः॑ । इ॒न्द्रि॒यैः । म॒रुतः॑ । म॒रुत्ऽभिः॑ । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥२

उप । नः । देवाः । अवसा । आ । गमन्तु । अङ्गिरसाम् । सामऽभिः । स्तूयमानाः ।

इन्द्रः । इन्द्रियैः । मरुतः । मरुत्ऽभिः । आदित्यैः । नः । अदितिः । शर्म । यंसत् ॥२

“देवाः दानादिगुणयुक्ताः सर्वे देवाः “अवसा रक्षणेनास्मभ्यं दातव्येनान्नेन वा युक्ताः “नः अस्मान् स्तोतॄन् “उप “आ “गमन्तु उपागच्छन्तु प्राप्नुवन्तु । कथंभूताः। “अङ्गिरसाम् एतत्संज्ञकानामृषीणां संबन्धिभिः “सामभिः प्रगीतैर्मन्त्रैः “स्तूयमानाः । अपि च “इन्द्रः इन्द्रियैः । धननामैतत् । स्वसंबन्धिभिरस्मभ्यं दातव्यैर्धनैः सहास्मानागच्छतु । तथा “मरुतः सप्तगणरूपा एकोनपञ्चाशत्संख्याकाः ‘ ईदृङ् चान्यादृङ् च ' इत्येवमादिनामानो देवाः “मरुद्भिः स्वावयवभूतैः प्राणापानादिरूपेण वर्तमानैः वायुभिः सहास्मानागच्छन्तु। तथा “अदितिः अखण्डनीया अदीना वा देवमाता “आदित्यैः स्वकीयैः पुत्रैः सह “नः अस्मभ्यं “शर्म सुखं “यंसत् यच्छतु ॥ गमन्तु । लोटि बहुलं छन्दसि' इति शपो लुक् । ‘ छन्दस्युभयथा ' इति झेः आर्धधातुकत्वेन ङित्त्वाभावात् ‘ गमहन' इत्यादिना उपधालोपाभावः । यंसत् । यम उपरमे '। लेटि अडागमः ।' सिब्बहुलं लेटि' इति सिप् ॥


तन्न॒ इन्द्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत्स॑वि॒ता चनो॑ धात् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ ३

तत् । नः॒ । इन्द्रः॑ । तत् । वरु॑णः । तत् । अ॒ग्निः । तत् । अ॒र्य॒मा । तत् । स॒वि॒ता । चनः॑ । धा॒त् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥३

तत् । नः । इन्द्रः । तत् । वरुणः । तत् । अग्निः । तत् । अर्यमा । तत् । सविता । चनः । धात् ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥३

यदस्माभिः प्रार्थ्यमानमन्नमस्ति । चन इत्यन्ननाम । “तत् तादृशं "चनः अन्नं “नः अस्मभ्यम् “इन्द्रः “धात् दधातु ददातु । एवं “तद्वरुणः इत्यादावपि योज्यम् । तत् इदमिन्द्रादिभिर्दत्तमस्मदीयमन्नं मित्रादयः “ममहन्तां पूजयन्तु पालयन्वित्यर्थः ॥ चनः । ‘ चायृ पूजानिशामनयोः । ‘चायेरन्ने ह्रस्वश्च ' ( उ. सू. ४. ६३९) इति असुन् नुडागमश्च धातोर्ह्रस्वत्वं च । वलि लोपः। नित्त्वादाद्युदात्तत्वम् । धात् । छन्दसि लुङ्लङलिटः' इति प्रार्थनायां लुङ् । ‘ गातिस्था' इति सिचो लुक् ॥ ॥ २५ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१०७&oldid=205186" इत्यस्माद् पुनः प्राप्तिः