प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं १.१३७ ऋग्वेदः - मण्डल १
सूक्तं १.१३८
परुच्छेपो दैवोदासिः
सूक्तं १.१३९ →
दे. पूषा। अत्यष्टिः


प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते ।
अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम् ।
विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥१॥
प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः ।
हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः ।
अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥२॥
यस्य ते पूषन्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे ।
तामनु त्वा नवीयसीं नियुतं राय ईमहे ।
अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव ॥३॥
अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व ।
ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः ।
नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥४॥


सायणभाष्यम्

‘प्रप्र पूष्णः' इति चतुर्ऋचं पञ्चमं सूक्तं पारुच्छेपमात्यष्टं पूषदेवताकम् । ‘ प्रप्र चतुष्कं पौष्णम्' इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥


प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते ।

अर्चा॑मि सुम्न॒यन्न॒हमन्त्यू॑तिं मयो॒भुव॑म् ।

विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥१

प्रऽप्र॑ । पू॒ष्णः । तु॒वि॒ऽजा॒तस्य॑ । श॒स्य॒ते॒ । म॒हि॒ऽत्वम् । अ॒स्य॒ । त॒वसः॑ । न । त॒न्द॒ते॒ । स्तो॒त्रम् । अ॒स्य॒ । न । त॒न्द॒ते॒ ।

अर्चा॑मि । सु॒म्न॒ऽयन् । अ॒हम् । अन्ति॑ऽऊतिम् । म॒यः॒ऽभुव॑म् ।

विश्व॑स्य । यः । मनः॑ । आ॒ऽयु॒यु॒वे । म॒खः । दे॒वः । आ॒ऽयु॒यु॒वे । म॒खः ॥१

प्रऽप्र । पूष्णः । तुविऽजातस्य । शस्यते । महिऽत्वम् । अस्य । तवसः । न । तन्दते । स्तोत्रम् । अस्य । न । तन्दते ।

अर्चामि । सुम्नऽयन् । अहम् । अन्तिऽऊतिम् । मयःऽभुवम् ।

विश्वस्य । यः । मनः । आऽयुयुवे । मखः । देवः । आऽयुयुवे । मखः ॥१

“तुविजातस्य बहुयजमानार्थमुत्पन्नस्य “अस्य “पूष्णः पोषकस्य एतन्नामकस्य देवस्य “तवसः “महित्वं बलस्य महत्त्वं “प्रप्र “शस्यते प्रस्तूयते सर्वैः ॥ वीप्सा पादपूरणे॥ “न “तन्दते न हिनस्ति कश्चित्तदपि । किंच “अस्य पूष्णः “स्तोत्र “न “तन्दते न हिनस्ति न विरमति । सर्वोऽपि जनः एनं स्तौतीत्यर्थः । जगत्पोषकत्वादिति भावः । अतः कारणात् “अहं अहमपि यजमानः “सुम्नयन् सुखमिच्छन् “अर्चामि स्तौमि । कीदृशं तम् । “अन्त्यूतिम् आसन्नरक्षणम् ॥ ‘ कादिलोपो बहुलम्' इति कलोपः ॥ स्तुत्यनन्तरमेव वरप्रदमित्यर्थः । “मयोभुवं सुखस्योत्पादकं भावयितारं वा । “यः पूषा “मखः यज्ञवान् ॥ मत्वर्थों लुप्यते ॥ “विश्वस्य सर्वस्य स्तोतुर्ऋत्विजः “मनः “आयुयुवे समन्तात् मिश्रयति । शीघ्रवरप्रदानात् इति भावः। किंच “देवः दीप्यमानः एषः “मखः मखं यज्ञम् “आयुयुवे संपूर्तिपर्यन्तं मिश्रयति । यद्वा । विश्वस्य मनोमिश्रणे यजमाने किमायातमिति चेत् उच्यते । मखो यज्ञनिर्वाहकोऽयं पूषा देवो यजमानस्य मनः आयुयुवे समन्तात् मिश्रयति । सामर्थ्यात् यजमानस्य मन इति लभ्यते ॥ यौतेश्छान्दसो लिट्॥


प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृध॑ः ।

हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्य॑ः ।

अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥२

प्र । हि । त्वा॒ । पू॒ष॒न् । अ॒जि॒रम् । न । याम॑नि । स्तोमे॑भिः । कृ॒ण्वे । ऋ॒णवः॑ । यथा॑ । मृधः॑ । उष्ट्रः॑ । न । पी॒प॒रः॒ । मृधः॑ ।

हु॒वे । यत् । त्वा॒ । म॒यः॒ऽभुव॑म् । दे॒वम् । स॒ख्याय॑ । मर्त्यः॑ ।

अ॒स्माक॑म् । आ॒ङ्गू॒षान् । द्यु॒म्निनः॑ । कृ॒धि॒ । वाजे॑षु । द्यु॒म्निनः॑ । कृ॒धि॒ ॥२

प्र । हि । त्वा । पूषन् । अजिरम् । न । यामनि । स्तोमेभिः । कृण्वे । ऋणवः । यथा । मृधः । उष्ट्रः । न । पीपरः । मृधः ।

हुवे । यत् । त्वा । मयःऽभुवम् । देवम् । सख्याय । मर्त्यः ।

अस्माकम् । आङ्गूषान् । द्युम्निनः । कृधि । वाजेषु । द्युम्निनः । कृधि ॥२

हे “पूषन् "अजिरं यज्ञदेशं प्रति गमनवन्तं “त्वा त्वां “यामनि गमने निमित्तभूते सति “स्तोमेभिः स्तोमैः “प्र “कृण्वे प्रकृष्टं करोमि। तत्र दृष्टान्तः । यामनि शीघ्रगमनेऽजिरं न शीघ्रगामिनमश्वमिव । स यथा प्रस्तूयते तद्वत् । किंच “यथा “मृधः संग्रामानुद्दिश्य “ऋणवः गच्छेः तथा प्र कृण्वे । यद्वा । यथा ऋणवः अस्मद्यज्ञं प्रति गच्छेः ॥ ‘ ऋणु गतौ'। तानादिकः। लेटि अडागमः ॥ तथा त्वां कृण्वे । किंच "मृधः हिंसकान् योद्धॄन् संग्रामे "पीपरः पारं नयसि ॥ पारयतेर्लुङि चडि रूपम् ॥ तत्र दृष्टान्तः । "उष्ट्रो “न । उष्ट्रो यथा भारं वोढा पारयति तद्वत् "मृधः संग्रामात् पीपरः पारं नयसि । अतः कारणात् “त्वा त्वां मयोभुवं सुखस्य भावयितारं “देवं देवनशीलं पूषणं “मर्त्यः मरणधर्मा मनुष्योऽहं “हुवे आह्वयामि । किमर्थम् । “सख्याय समानख्यानाय प्रियकरणाय । एवमाहूतः सन् “अस्माकमाङ्गूषान् अघोषान् स्तोमान् । आङ्गूषः स्तोम आघोषः' इति यास्कः । “द्युम्निनस्कृधि द्योतनवतः कुरु । यद्वा । स्तोमान् यशोवतोऽन्नवतो वा कृधि अस्मत्स्तुत्या प्रीतस्त्वम् एवं कुर्वित्यर्थः । किंच “वाजेषु संग्रामेषु “द्युम्निनः अन्नवतः “कृधि अस्मद्वैरिणो जित्वा तेषामन्नं मयि कुर्वित्यर्थः ।।


यस्य॑ ते पूषन्स॒ख्ये वि॑प॒न्यव॒ः क्रत्वा॑ चि॒त्सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे ।

तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे ।

अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥३

यस्य॑ । ते॒ । पू॒ष॒न् । स॒ख्ये । वि॒प॒न्यवः॑ । क्रत्वा॑ । चि॒त् । सन्तः॑ । अव॑सा । बु॒भु॒ज्रि॒रे । इति॑ । क्रत्वा॑ । बु॒भु॒ज्रि॒रे ।

ताम् । अनु॑ । त्वा॒ । नवी॑यसीम् । नि॒ऽयुत॑म् । रा॒यः । ई॒म॒हे॒ ।

अहे॑ळमानः । उ॒रु॒ऽशं॒स॒ । सरी॑ । भ॒व॒ । वाजे॑ऽवाजे । सरी॑ । भ॒व॒ ॥३

यस्य । ते । पूषन् । सख्ये । विपन्यवः । क्रत्वा । चित् । सन्तः । अवसा । बुभुज्रिरे । इति । क्रत्वा । बुभुज्रिरे ।

ताम् । अनु । त्वा । नवीयसीम् । निऽयुतम् । रायः । ईमहे ।

अहेळमानः । उरुऽशंस । सरी । भव । वाजेऽवाजे । सरी । भव ॥३

हे “पूषन् देव "यस्य “ते रक्षकत्वेन प्रसिद्धस्य तव “सख्ये सखित्वे हितकरणे सति “क्रत्वा “चित क्रतुना प्रकृष्टेन कर्मणैव ॥ ‘ जसादिषु च्छन्दसि वावचनम्' इति नाभावाभावः ॥ “सन्तः भवन्तं प्रीणयितारः सन्तः “विपन्यवः विशेषेण स्तोत्रशीलाः । यद्वा । मेधाविनामैतत् । मेधाविनः यजमानाः “अवसा त्वत्कृतेन रक्षणेन रक्षिताः सन्तः “बुभुज्रिरे भुञ्जते भोगान् । “इति एवमेव सर्वदा “क्रत्वा कर्मणा “बुभुज्रिरे भुञ्जते सर्वे पाल्यन्ते इति वा ।। भुजेश्छन्दसि लिटि ‘बहुलं छन्दसि इति रुट्।। “तां तादृशीं “नवीयसीं नवतरां स्तुत्यां वा रक्षाम् “अनु अनुसृत्य रक्षाया अनन्तरं त्वां “नियुतं “रायः एतत्संख्याकान् धनानि “ईमहे याचामहे । किंच हे “उरुशंस बहुधा स्तुत्य त्वम् “अहेळमानः अक्रुध्यन् अस्मासु सुमनाः सन् "सरी “भव अस्माभिर्गन्तव्यो भव ।। सर्तेः औणादिकः इनिप्रत्ययः । आद्युदात्तत्वम् ।। किंच त्वं “वाजेवाजे सर्वेष्वपि संग्रामेषु “सरी “भव गमनशीलो भव पुरतो गन्ता भवेत्यर्थः ।।


अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व ।

ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभि॑ः ।

न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥४

अ॒स्याः । ऊं॒ इति॑ । सु । नः॒ । उप॑ । सा॒तये॑ । भु॒वः॒ । अहे॑ळमानः । र॒रि॒ऽवान् । अ॒ज॒ऽअ॒श्व॒ । श्र॒व॒स्य॒ताम् । अ॒ज॒ऽअ॒श्व॒ ।

ओ इति॑ । सु । त्वा॒ । व॒वृ॒ती॒म॒हि॒ । स्तोमे॑भिः । द॒स्म॒ । सा॒धुऽभिः॑ ।

न॒हि । त्वा॒ । पू॒ष॒न् । अ॒ति॒ऽमन्ये॑ । आ॒घृ॒णे॒ । न । ते॒ । स॒ख्यम् । अ॒प॒ऽह्नु॒वे ॥४

अस्याः । ऊं इति । सु । नः । उप । सातये । भुवः । अहेळमानः । ररिऽवान् । अजऽअश्व । श्रवस्यताम् । अजऽअश्व ।

ओ इति । सु । त्वा । ववृतीमहि । स्तोमेभिः । दस्म । साधुऽभिः ।

नहि । त्वा । पूषन् । अतिऽमन्ये । आघृणे । न । ते । सख्यम् । अपऽह्नुवे ॥४

हे “अजाश्व पूषन् । ‘ अजाश्वेति पूषणमाह ' (निरु. ४. २५) इति यास्कः । “नः अस्माकम् “अस्याः अस्यै ॥ चतुर्थ्यर्थे षष्ठी ॥ "सातये लाभाय “अहेळमानः अक्रुध्यन् अनादरमकुर्वन् “ररिवान् दाता च सन् "सु सुष्ठु “उप “भुवः समीपस्थो भव ॥ रातेश्छान्दसस्य लिटः क्वसुः । पदसंज्ञाया अभावेऽपि पपिवांसं तस्थिवांसमित्यादौ छान्दसोऽवग्रहो दृश्यते । “ऊ इति पादपूरणः ॥ किंच “श्रवस्यताम् अन्नमिच्छतामस्माकं हे “अजाश्व अजा एवाश्वस्थानीया यस्य तादृश त्वम् । पूषनामेदम् । ररिवांश्च सन् उप भुवः । ‘ अजाः पूष्णः' (नि. १. १५, ५) इति यास्कः । ओ इति निपातद्वयसमुदायात्मक एको निपातः । हे “दस्म शत्रूणामुपक्षपयितः “पूषन् “त्वा त्वाम् “ओ “षु “ववृतीमहि सर्वत एव सुतरां वर्तयेमहि ॥ वृतेः अन्तर्भावितण्यर्थात् लिङि ‘बहुलं छन्दसि' इति शपः श्लुः ॥ यज्ञान्तरगमनात निवर्तयामः इत्यर्थः । केन साधनेनेति तदुच्यते । “साधुभिः “स्तोमेभिः त्वां प्रीणयितुं समर्थैः स्तोत्रैः । किंच हे पूषन् “आघृणे सर्वतो वृष्टेः क्षारयितः । यद्वा । आघृणे हविषामाहर्तः स्वीकर्तः त्वां “नहि “अतिमन्ये अवमति नैव करोमि। न केवलमनतिक्रममात्रं किंतु “ते "सख्यं तव सखित्वं हितकर्तृत्वं नहि “अपह्नुवे नैवापयामि न त्यजामि सर्वतः प्रख्यापयामि इत्यर्थः ॥ ॥ ३ ॥


सम्पाद्यताम्


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३८&oldid=205440" इत्यस्माद् पुनः प्राप्तिः