← सूक्तं १.११० ऋग्वेदः - मण्डल १
सूक्तं १.१११
कुत्स आङ्गिरसः
सूक्तं १.११२ →
दे. ऋभवः। जगती, ५ त्रिष्टुप् ।


तक्षन्रथं सुवृतं विद्मनापसस्तक्षन्हरी इन्द्रवाहा वृषण्वसू ।
तक्षन्पितृभ्यामृभवो युवद्वयस्तक्षन्वत्साय मातरं सचाभुवम् ॥१॥
आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् ।
यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विन्द्रियम् ॥२॥
आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः ।
सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् ॥३॥
ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून्वाजान्मरुतः सोमपीतये ।
उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥४॥
ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्माँ अविष्टु ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५॥


सायणभाष्यम्

‘ तक्षन्' इति पञ्चर्चं षष्ठं सूक्तं कुत्सस्यार्षमार्भवम् । पञ्चमी त्रिष्टुप् । शिष्टाश्चतस्रो जगत्यः । तथा चानुक्रान्तं - ‘ तक्षन्पञ्चान्त्या त्रिष्टुप् ' इति । अग्निष्टोमे वैश्वदेवशस्त्रे इदं सूक्तमार्भवं निविद्धानम् । सूत्रितं च - ‘ तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भाः ' ( आश्व. श्रौ. ५. १८) इति ।।


तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इन्द्र॒वाहा॒ वृष॑ण्वसू ।

तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुव॑म् ॥ १

तक्ष॑न् । रथ॑म् । सु॒ऽवृत॑म् । वि॒द्म॒नाऽअ॑पसः । तक्ष॑न् । हरी॒ इति॑ । इ॒न्द्र॒ऽवाहा॑ । वृष॑ण्वसू॒ इति॒ वृष॑ण्ऽवसू ।

तक्ष॑न् । पि॒तृऽभ्या॑म् । ऋ॒भवः॑ । युव॑त् । वयः॑ । तक्ष॑न् । व॒त्साय॑ । मा॒तर॑म् । स॒चा॒ऽभुव॑म् ॥१

तक्षन् । रथम् । सुऽवृतम् । विद्मनाऽअपसः । तक्षन् । हरी इति । इन्द्रऽवाहा । वृषण्वसू इति वृषण्ऽवसू ।

तक्षन् । पितृऽभ्याम् । ऋभवः । युवत् । वयः । तक्षन् । वत्साय । मातरम् । सचाऽभुवम् ॥१

“विद्मनापसः उत्कृष्टेन ज्ञानेन निष्पाद्यकर्माणो लाभवत्कर्माणः वा ऋभवः “रथम् अश्विनोः आरोहणार्थं “सुवृतं शोभनवर्तनं सुचक्रं वा “तक्षन् अकुर्वन् । तथा “इन्द्रवाहा इन्द्रस्य वाहनभूतौ “हरी । हरणशीलावेतत्संज्ञकावश्वौ “तक्षन् कृतवन्तः । कीदृशौ । “वृषण्वसू सेचनसमर्थेन दृढतरेण धनेन बलेन वा युक्तौ । अपि च “पितृभ्यां स्वकीयाभ्यां मातापितृभ्यां वृद्धाभ्यां “युवत् यौवनोपेतं “वयः आयुः “ऋभवः “तक्षन् कृतवन्तः । तथा “वत्साय “मातरं गां “सचाभुवं सहभुवं सह वर्तमानां “तक्षन् अकुर्वन् ॥ तक्षन् । तक्षू त्वक्षू तनूकरणे ' । लङि • बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । सुवृतम् । शोभनं वर्तते इति सुवृत् ।' वृतु वर्तने । ‘ क्विप् च ' इति क्विप् । विद्मनापसः । ‘ विद ज्ञाने'। अन्येभ्योऽपि दृश्यन्ते ' इति दृशिग्रहणात् भावे मनिन् । संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावः । बहुलवचनात् अलुक् । यद्वा । ‘ विद्लृ लाभे' । औणादिको भावे मक् । ततः पामादिलक्षणो नप्रत्ययः । विद्मनं लाभवत् अपः कर्म येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । छान्दसः पूर्वसवर्णदीर्घः । इन्द्ववाहा । इन्द्रं वहतः इतीन्द्रवाहौ ।' वहश्च ' इति ण्विप्रत्ययः । ‘ अत उपधायाः' इति वृद्धिः । ‘ सुपां सुलुक्' इति विभक्तेः आकारः । वृषण्वसू । वृष सेचने । ‘ कनिन्युवृषितक्षि° ' इत्यादिना कनिन् । नित्त्वादाद्युदात्तत्वम् । वृषण्वस्वश्वयोरुपसंख्यानम् । ( पा. सू. १. ४. १८. ४) इति वसुशब्दे उत्तरपदे वृषण्भावः । . बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । युवत् । अत्र युवञ्शब्दः सामर्थ्यात् प्रवृत्तिनिमित्तं युवत्वमात्रमाचष्टे । तदस्यास्त्यस्मिन्” इति युवत् छान्दसो वर्णलोपः ॥


आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिष॑म् ।

यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा॑य धासथा॒ स्वि॑न्द्रि॒यम् ॥ २

आ । नः॒ । य॒ज्ञाय॑ । त॒क्ष॒त॒ । ऋ॒भु॒ऽमत् । वयः॑ । क्रत्वे॑ । दक्षा॑य । सु॒ऽप्र॒जाव॑तीम् । इष॑म् ।

यथा॑ । क्षया॑म । सर्व॑ऽवीरया । वि॒शा । तत् । नः॒ । शर्धा॑य । धा॒स॒थ॒ । सु । इ॒न्द्रि॒यम् ॥२

आ । नः । यज्ञाय । तक्षत । ऋभुऽमत् । वयः । क्रत्वे । दक्षाय । सुऽप्रजावतीम् । इषम् ।

यथा । क्षयाम । सर्वऽवीरया । विशा । तत् । नः । शर्धाय । धासथ । सु । इन्द्रियम् ॥२

हे ऋभवः “नः अस्माकं “यज्ञाय यज्ञार्थं “ऋभुमत् उरुभासनयुक्तं “वयः हविर्लक्षणमन्नम् “आ “तक्षत आ समन्तादुत्पादयत । एतदेव विव्रियते। “क्रत्वे क्रतवेऽस्मदीयाय कर्मणे “दक्षाय बलाय च ।। तादर्थ्ये चतुथीं। एतदुभयार्थं "सुप्रजावती शोभनाभिः पुत्रपौत्रादिलक्षणाभिः प्रजाभिर्युक्ताम् “इषम् अन्नम् आ तक्षत इति शेषः । अपि च “सर्ववीरया सर्वैर्वीरैः पुत्रादिभिरुपेतया "विशा प्रजया सह “यथा येन प्रकारेण “क्षयाम सुखेन निवसाम “तत् तादृशम् “इन्द्रियम् । धननामैतम् । धनं “नः अस्मभ्यं “शर्धाय बलार्थं “सु “धासथ सुष्ठु धत्त प्रयच्छतेत्यर्थः ॥ ऋभुमत् । उरु भाति' इति नैरुक्तव्युत्पत्त्या (निरु. ११. १५) ऋभुशब्दः प्रकाशमात्रवाची। ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । क्रत्वे । जसादिषु च्छन्दसि वावचनम्' इति ‘घेर्ङिति ' इति गुणाभावे यणादेशः । क्षयाम् । ‘क्षि निवासगत्योः' । व्यत्ययेन शप् । धासथ । धाञो लेटि अडागमः। ‘सिब्बहुलं लेटि' इति सिप् । अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् ।।


आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः ।

सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणि॑म् ॥ ३

आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य॑म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा॑य । सा॒तिम् । अर्व॑ते । न॒रः॒ ।

सा॒तिम् । नः॒ । जैत्री॑म् । सम् । म॒हे॒त॒ । वि॒श्वहा॑ । जा॒मिम् । अजा॑मिम् । पृत॑नासु । स॒क्षणि॑म् ॥३

आ । तक्षत । सातिम् । अस्मभ्यम् । ऋभवः । सातिम् । रथाय । सातिम् । अर्वते । नरः ।

सातिम् । नः । जैत्रीम् । सम् । महेत । विश्वहा । जामिम् । अजामिम् । पृतनासु । सक्षणिम् ॥३

हे “नरः यज्ञस्य नेतारः “ऋभवः “अस्मभ्यम् अनुष्ठातृभ्यः “सातिं संभजनीयमन्नं धनं वा “आ “तक्षत । अ समन्तात्कुरुत। तथा अस्मदीयाय “रथाय “रंहणशीलाय पुत्रादये रथायैव वा “सातिं संभजनीयं धनम् आतक्षत । तथा “अर्वते अश्वाय “सातिं संभजनीयमन्नं धनं वा अश्वयोग्यम् आतक्षतेत्येव । किं च “विश्वहा सर्वेष्वहःसु “नः अस्माकं “जैत्रीं जयशीलामपरिमितत्वेन सर्वाधिकां “सातिं संभजनीयं धनं “सं “महेत । सर्वो जनः सम्यक् पूजयतु। वयं च “पृतनासु संग्रामेषु “जामिं सहजातम् “अजामिं सहानुत्पन्नं शत्रुं वा “सक्षणिम् अस्मानभिभवन्तं युष्मत्प्रसादादभिभवेमेति शेषः ॥ सातिम् । ‘ ऊतियूतिजूतिसाति° ' इत्यादिना क्तिन उदात्तत्वम् । महेत । मह पूजायाम् । सक्षणिम् । “षह अभिभवे । औणादिकः सनिप्रत्ययः । ढत्वकत्वषत्वानि ॥


ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुतः॒ सोम॑पीतये ।

उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वन्तु सा॒तये॑ धि॒ये जि॒षे ॥ ४

ऋ॒भु॒क्षण॑म् । इन्द्र॑म् । आ । हु॒वे॒ । ऊ॒तये॑ । ऋ॒भून् । वाजा॑न् । म॒रुतः॑ । सोम॑ऽपीतये ।

उ॒भा । मि॒त्रावरु॑णा । नू॒नम् । अ॒श्विना॑ । ते । नः॒ । हि॒न्व॒न्तु॒ । सा॒तये॑ । धि॒ये । जि॒षे ॥४

ऋभुक्षणम् । इन्द्रम् । आ । हुवे । ऊतये । ऋभून् । वाजान् । मरुतः । सोमऽपीतये ।

उभा । मित्रावरुणा । नूनम् । अश्विना । ते । नः । हिन्वन्तु । सातये । धिये । जिषे ॥४

“ऋभुक्षणम् । महन्नामैतत् । महान्तम् “इन्द्रम् "आ “हुवे आह्वयामि। किमर्थम्। “ऊतये रक्षणार्थम् । तथा “ऋभून्वाजान् । ऋभुर्विभ्वा वाज इति त्रयः सुधन्वनः पुत्राः। तत्र प्रथमोत्तमवाचकशब्दाभ्यां मध्यमोऽपि लक्ष्यते । अतः शब्दद्वयेन त्रयोऽप्युच्यन्ते । तदुक्तं यास्केन - ‘ प्रथमोत्तमाभ्यां बहुवन्निगमा भवन्ति न मध्यमेन' (निरु. ११. १६) इति । एवंविधानृभून् “मरुतः च “सोमपीतये सोमपानायाह्वयामि । तथा “उभा युगलरूपेण संहत्य वर्तमानौ द्वौ मित्रावरुणावश्विनौ च “नूनम् अवश्यं सोमपानायाह्वयामीति शेषः । अपि च आहूताश्चेन्द्रादयः “नः अस्मान् “हिन्वन्तु प्रेरयन्तु गमयन्त्वित्यर्थः । किमर्थम् । “सातये संभजनीयाय धनाय “धिये धनसाध्याय कर्मणे “जिषे जेतुं शत्रूणां जयार्थं च ॥ ऋभुक्षणम् । उरुभासमाने स्थाने क्षियति निवसतीति ऋभुक्षाः । उरुपूर्वाद्भातेः ' मृगय्वादयश्च' ( उ. सू. १. ३७ ) इति कुप्रत्ययः । ‘ आतो लोप इटि च ' इति आकारलोपः पूर्वपदस्य ऋभावश्च । ऋभुशब्दोपपदात् ' क्षि निवासगत्योः' इत्यस्मात् ‘ पतेस्थ च ' इति विधीयमान इनिप्रत्ययो बहुलवचनात् भवति । टिलोपः । ‘ इतोऽत्सर्वनामस्थाने ' ( पा. सू. ७. १. ८६ ) इति अत्वम् इकारस्य । ‘ वा षपूर्वस्य निगमे ' इति विकल्पनात् उपधादीर्घाभावः । यद्वा । अर्तेः भुक्षिनक्। कित्त्वाद्गुणाभावः । अत एव न अवगृह्यते । सोमपीतये । 'पा पाने '। 'स्थागापापचो भावे ' इति भावे क्तिन् । ‘ घुमास्था° ' इति ईत्वम् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । हिन्वन्तु । ' हि गतौ वृद्धौ च ' । अस्मात् अन्तर्भावितण्यर्थात् लोटि स्वादित्वात् श्नुः । जिषे। ‘जि जये। ‘ तुमर्थे सेसेन्” इति क्सेप्रत्ययः ॥


ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ ५

ऋ॒भुः । भरा॑य । सम् । शि॒शा॒तु॒ । सा॒तिम् । स॒म॒र्य॒ऽजित् । वाजः॑ । अ॒स्मान् । अ॒वि॒ष्टु॒ ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥५

ऋभुः । भराय । सम् । शिशातु । सातिम् । समर्यऽजित् । वाजः । अस्मान् । अविष्टु ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥५

“ऋभुः प्रथमोऽस्माकं “सातिं संभजनीयं धनं “भराय संग्रामार्थं “सं “शिशातु सम्यक् तीक्ष्णीकरोतु । संग्रामोचितं धनमस्मभ्यं प्रयच्छत्वित्यर्थः । तथा “समर्यजित् । मर्या मनुष्याः । तैः सह वर्तते इति समर्यः संग्रामः । तत्र शत्रूणां जेता “वाजः एतत्संज्ञस्तृतीयश्च “अस्मान् स्तोतॄन् “अविष्टु अवतु संग्रामाद्रक्षत्वित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं “तत् मित्रादयः “ममहन्तां पूजयन्तु ॥ शिशातु । ‘ शो तनूकरणे'। बहुलं छन्दसि ' इति विकरणस्य श्लुः। ‘आदेचः' इति आत्वम् । द्विर्भावः । ह्रस्वत्वे ‘बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । अविष्टु । अवतेर्लोटि ‘सिब्बहुलं लेटि' इति बहुलग्रहणात् सिप् । इडागमः । षत्वष्टुत्वे ॥ ॥ ३२ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१११&oldid=205343" इत्यस्माद् प्रतिप्राप्तम्