ऋग्वेदः सूक्तं १.१२६
← सूक्तं १.१२५ | ऋग्वेदः - मण्डल १ सूक्तं १.१२६ १-५ कक्षीवान् दैर्घतमस औशिजः, ६ स्वनयो भावयव्यः, ७ रोमशा |
सूक्तं १.१२७ → |
दे. १-५ स्वनयो भावयव्यः, ६ रोमशा, ७ स्वनयो भावयव्यः । त्रिष्टुप्, ६-७ अनुष्टुप्। |
अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य ।
यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥१॥
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम् ।
शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥२॥
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ।
षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम् ॥३॥
चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति ।
मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥४॥
पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः ।
सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥५॥
आगधिता परिगधिता या कशीकेव जङ्गहे ।
ददाति मह्यं यादुरी याशूनां भोज्या शता ॥६॥
उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ॥७॥
सायणभाष्यम्
‘ अमन्दान्' इति षष्ठं सूक्तं सप्त' इत्यनुवर्तनात् सप्तर्चम् । आदितः पञ्चानां कक्षीवानृषिः षष्याःभा भावयव्यः सप्तम्याः रोमशा नाम ब्रह्मवादिनी। आदितः पञ्चानां भावयव्यस्य स्तुतिरूपत्वात् स एव देवता ‘ या तेनोच्यते ' ( अनु. २. ५) इति न्यायात्। अन्त्ययोः षष्ठीसप्तम्योस्तु भावयव्यरोमशयोः संवादः। षष्ठ्याः भावयव्यः सप्तम्याः रोमशा । यद्यपि ‘ स्वनयेन दत्ता' ( ऋ. सं. १. १२६. ३ ) इति श्रूयमाणत्वात्तस्यैव स्तुत्या भाव्यं तथापि पितृपुत्रयोरभेदात् ‘आ रुद्रासः' इतिवत् पितृनाम्ना व्यवहर्तुं शक्यत्वात् प्रथमायामृचि ‘भाव्यस्य ' इत्युक्तत्वाच्च ‘ भावयव्यं तुष्टाव ' इत्येतदविरुद्धमित्युक्तं पूर्वसूक्ते एव । आदितः पञ्च त्रिष्टुभः । अन्त्ये अनुष्टुभौ । तथा चानुक्रान्तम् - अमन्दानिति कक्षीवान्दानतुष्टः पञ्चभिर्भावयव्यं तुष्टावान्त्ये अनुष्टुभौ भावयव्यरोमशयोर्दम्पत्योः संवादः' इति । उक्तो विनियोगः ।।
अम॑न्दा॒न्स्तोमा॒न्प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ ।
यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥१
अम॑न्दान् । स्तोमा॑न् । प्र । भ॒रे॒ । म॒नी॒षा । सिन्धौ॑ । अधि॑ । क्षि॒य॒तः । भा॒व्यस्य॑ ।
यः । मे॒ । स॒हस्र॑म् । अमि॑मीत । स॒वान् । अ॒तूर्तः॑ । राजा॑ । श्रवः॑ । इ॒च्छमा॑नः ॥१
अमन्दान् । स्तोमान् । प्र । भरे । मनीषा । सिन्धौ । अधि । क्षियतः । भाव्यस्य ।
यः । मे । सहस्रम् । अमिमीत । सवान् । अतूर्तः । राजा । श्रवः । इच्छमानः ॥१
“सिन्धौ सिन्धुदेशे यद्वा लक्षणया सिन्धुतीरे समुद्रतीरे “अधि “क्षियतः अधिनिवसतः “भाव्यस्य भावयव्यस्य। तत्पुत्रस्य स्वनयस्येत्यर्थः । तस्य “अमन्दान् अनल्पान् “स्तोमान् स्तोत्राणि तन्निष्ठबहुविधदानादीनां कीर्तनानि “मनीषा मनीषया प्रियातिशयबुद्ध्या “प्र “भरे प्रकर्षेण संपादयामि । कस्तस्य विशेष इति तत्राह । “अतूर्तः केनाप्यहिंसितः “यः “राजा “मे मदर्थं “सहस्रं तत्संख्याकान् “सवान् । सूयन्ते सोमाः एष्विति सवाः सोमयागाः । तान् “अमिमीत संपूर्णधनप्रदानेन निर्मितवान् । किमिच्छन्। “श्रवः सर्वैः श्रूयमाणां कीर्तिमात्मने “इच्छमानः कामयमानः। यतोऽयमार्त्विज्याद्युपाधिना विना कीर्त्यर्थमेव बहुधनं प्रादात् अतस्तं स्तौमीत्यर्थः ॥
श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्स॒द्य आद॑म् ।
श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥२
श॒तम् । राज्ञः॑ । नाध॑मानस्य । नि॒ष्कान् । श॒तम् । अश्वा॑न् । प्रऽय॑तान् । स॒द्यः । आद॑म् ।
श॒तम् । क॒क्षीवा॑न् । असु॑रस्य । गोना॑म् । दि॒वि । श्रवः॑ । अ॒जर॑म् । आ । त॒ता॒न॒ ॥२
शतम् । राज्ञः । नाधमानस्य । निष्कान् । शतम् । अश्वान् । प्रऽयतान् । सद्यः । आदम् ।
शतम् । कक्षीवान् । असुरस्य । गोनाम् । दिवि । श्रवः । अजरम् । आ । ततान ॥२
“नाधमानस्य स्वीकर्तव्यम् इत्युच्चैः याचमानस्य “असुरस्य धनानां निरसितुर्दानशीलस्य “राज्ञः स्वतेजसा दीप्यमानस्य स्वनयस्य “निष्कान् आभरणविशेषान् इयत्ताविशेषविशिष्टानि वा सुवर्णानि शतसंख्याकानि । शतं सहस्रम् इत्यपरिमितवचनः । अपरिमितान् “सद्यः प्रार्थनानन्तरमेव “कक्षीवान् अहम् “आदम् आत्तवानस्मि स्वीकृतवानस्मीत्यर्थः । तथा “प्रयतान् शुद्धान् लक्षणोपेतान् “अश्वान् अध्वगमनसमर्थान् हयान् आदम् आत्तवान् । तथा “गोनां पुंगवानां बलीवर्दानामित्यर्थः । उत्तरमन्त्रे स्त्रीगवीनामभिधानात् । तेषां “शतम् आदम् । एवं प्रदाता राजा “दिवि द्युलोके “श्रवः कीर्तिम् “अजरं शाश्वतीम् “आ “ततान विस्तारितवान् । गवादिप्रतिग्रहीता अहं स्वर्गे कीर्तिमकरवमित्यर्थः ।।
उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूम॑न्तो॒ दश॒ रथा॑सो अस्थुः ।
ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्ना॑म् ॥३
उप॑ । मा॒ । श्या॒वाः । स्व॒नये॑न । द॒त्ताः । व॒धूऽम॑न्तः । दश॑ । रथा॑सः । अ॒स्थुः॒ ।
ष॒ष्टिः । स॒हस्र॑म् । अनु॑ । गव्य॑म् । आ । अ॒गा॒त् । सन॑त् । क॒क्षीवा॑न् । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् ॥३
उप । मा । श्यावाः । स्वनयेन । दत्ताः । वधूऽमन्तः । दश । रथासः । अस्थुः ।
षष्टिः । सहस्रम् । अनु । गव्यम् । आ । अगात् । सनत् । कक्षीवान् । अभिऽपित्वे । अह्नाम् ॥३
“स्वनयेन “दत्ता: “श्यावाः तद्वर्णाश्वैः युक्तत्वात् श्यावाः “वधूमन्तः आरूढाभिर्वधूभिस्तद्वन्तः “दश एतत्संख्याकाः “रथासः रथाः “उप “अस्थुः उपस्थिता:। गव्यशब्दो गोसमूहवाची । “षष्टिः “सहस्रमनु “गव्यं षष्ट्यधिकसहस्रं गवां समूहोऽनु “आगात् आगतः । ततः आत्मानं परोक्षेण ब्रवीति । तत्सर्वं प्रतिगृह्य अयं “कक्षीवान् “अह्नां दिवसानां मध्ये अभिपित्वे संनिहितेऽहनि “सनत् । स्वीकृतं रथवध्वादिकं स्वपित्रे समर्पयति स्वयं वा स्वीकरोति । अभिपित्वशब्दः आसन्नकालवाची प्रपित्वशब्दः इतिवत् । स च ‘ प्रपित्वेऽभीक इत्यासन्नस्य ' ( निरु. ३. २० ) इति यास्केनोक्तत्वात् आसन्नवचनः । उपसर्गभेदेऽप्यर्थाभेदः ॥
च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणा॑ः स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयन्ति ।
म॒द॒च्युत॑ः कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीव॑न्त॒ उद॑मृक्षन्त प॒ज्राः ॥४
च॒त्वा॒रिं॒शत् । दश॑ऽरथस्य । शोणाः॑ । स॒हस्र॑स्य । अग्रे॑ । श्रेणि॑म् । न॒य॒न्ति॒ ।
म॒द॒ऽच्युतः॑ । कृ॒श॒नऽव॑तः । अत्या॑न् । क॒क्षीव॑न्तः । उत् । अ॒मृ॒क्ष॒न्त॒ । प॒ज्राः ॥४
चत्वारिंशत् । दशऽरथस्य । शोणाः । सहस्रस्य । अग्रे । श्रेणिम् । नयन्ति ।
मदऽच्युतः । कृशनऽवतः । अत्यान् । कक्षीवन्तः । उत् । अमृक्षन्त । पज्राः ॥४
“दशरथस्य दशसंख्याकरथवतः “सहस्रस्य सहस्रसंख्याकानुचरोपेतस्य कक्षीवतो गोयूथसहस्रस्य वा “अग्रे पुरस्तात् “शोणाः शोणवर्णोपेता: अश्वाः “चत्वारिंशत् एकैकस्य रथस्य चतुष्टये सति दशरथानां मिलित्वा चत्वारिंशदश्वा भवन्ति । तेऽपि “श्रेणिं पङ्क्तिमाश्रित्य “नयन्ति रथान् अभिमतदेशं प्रापयन्ति । यद्वा । अश्वनियुक्तान् रथान् श्रेणिं श्रेणीभावं नयन्ति प्रापयन्ति । एकैकं रथं चत्वारश्चत्वारः पङ्क्त्याकारेण वहन्तीत्यर्थः । अथ तान् “कक्षीवन्तः । कक्ष्या अश्वसंबन्धिनी रज्जुः । कक्ष्या रज्जुरश्वस्य ' ( निरु. २. २ ) इति यास्केनोक्तत्वात् । ताभिस्तद्वन्तः । यद्वा । अङ्गिरसः पुत्राः सर्वेऽपि कक्षीवन्तः । अथवा कक्षीवदनुचराः सर्वेऽपि छत्रिन्यायेन कक्षीवन्तः । “पज्राः घासाद्यन्नवन्तः सन्तः “मदच्युतः मदस्राविण: उद्वृत्तान् शत्रूणां मदस्य च्यावयितॄन् वा “कृशनावतः सुवर्णमयनानाभरणयुक्तान् । कृशनमिति हिरण्यनाम ‘कृशनं लोहम् (नि. १. २. ७ ) इति तन्नामसु पाठात् । सुवर्णाभरणोपेतान् “अत्यान् सततगमनशीलानश्वान् “उदमृक्षन्त अध्वश्रमजनितस्वेदापनयनाय उत्कृष्टं मार्जयन्ति ।
पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः ।
सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वन्त॒ः श्रव॒ ऐष॑न्त प॒ज्राः ॥५
पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । आ । द॒दे॒ । वः॒ । त्रीन् । यु॒क्तान् । अ॒ष्टौ । अ॒रिऽधा॑यसः । गाः ।
सु॒ऽबन्ध॑वः । ये । वि॒श्याः॑ऽइव । व्राः । अन॑स्वन्तः । श्रवः॑ । ऐष॑न्त । प॒ज्राः ॥५
पूर्वाम् । अनु । प्रऽयतिम् । आ । ददे । वः । त्रीन् । युक्तान् । अष्टौ । अरिऽधायसः । गाः ।
सुऽबन्धवः । ये । विश्याःऽइव । व्राः । अनस्वन्तः । श्रवः । ऐषन्त । पज्राः ॥५
इदानीमानीतं धनं बन्धुभ्यो निवेदयन्नाह । हे “सुबन्धवः “पूर्वां “प्रयतिं पूर्वप्रदानम् “अनु तमनुसृत्य वक्ष्यमाणानि रथादीनि “वः युष्मदर्थम् “आ “ददे स्वीकृतवानस्मि । यद्वा । पूर्वां प्रयतिं प्रदेयं रथादिकम् अनु दानक्रमेणैव आ ददे प्रतिगृहीतवानस्मि । कानि तानीति । “त्रीन् “अष्टौ च “युक्तान् चतुर्भिश्चतुर्भिरश्वैर्धनैर्वा युक्तान् रथानिति शेषः । अत्र संख्यापृथग्निर्देशो न विवक्षितः । तथा “अरिधायसः अरिभिरीश्वरैर्धारणीयाः बहुमूल्याः असंख्याताः “गाः च आ ददे । अत्र वक्ष्यमाणानि पूर्वं प्रतिगृहीतादधिकानीति युक्तम् । पूर्वमेव पित्रे निवेदितानां पुनर्बन्धुभ्यो निवेदनासंभवात् वधूमन्तो दश रथासो अस्थुः ' ( ऋ. सं. १, १२६. ३ ) इति दशानां रथानामुक्तत्वात् अत्र च त्रीनष्टौ इत्येकादशानां वक्ष्यमाणत्वात् वधूविशिष्टानाम् अन्येभ्यो दातुमनुचितत्वाच्च अन्यानीति युक्तम् । उक्तानामेव अनुवदनपक्षे दशवधूयुक्ता रथा एको धनपूर्णं इति विवेकः । उक्तानामेव रथादीनां पुनरभिधानं प्रकृष्टत्वज्ञापनार्थम् । सर्वे ब्राह्मणा आगता वसिष्ठश्चागत इतिवत् । इदानीं परोक्षेणाह । सुबन्धवः शोभना विद्यायोनिसंबन्धिनः येषां ते तथोक्ताः । यद्वा । शोभनबान्धवोपेताः परस्परमनुरागयुक्ता इत्यर्थः । विशः प्रजाः । तत्र भवाः "विश्याः । व्रियन्त इति “व्राः व्राताः ॥ तकारलोपश्छान्दसः ॥ विशां व्राता यथा परस्परमनुरागवन्तः तथा एतेऽपीत्यर्थः। “पज्राः अन्नवन्तोऽङ्गिरसः संतानप्रभवा ये सन्ति ते सर्वे सुबन्धवः “अनस्वन्तः शकटवन्तः हविर्धानशकटोपलक्षितसोमयागवन्तः सन्तः “श्रवः सर्वत्र श्रूयमाणां कीर्तिम् “ऐषन्त इच्छन्ति इच्छन्तु वा । तदर्थम् आ ददे इति शेषः ॥
आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जङ्ग॑हे ।
ददा॑ति॒ मह्यं॒ यादु॑री॒ याशू॑नां भो॒ज्या॑ श॒ता ॥६
आऽग॑धिता । परि॑ऽगधिता । या । क॒शी॒काऽइ॑व । जङ्ग॑हे ।
ददा॑ति । मह्य॑म् । यादु॑री । याशू॑नाम् । भो॒ज्या॑ । श॒ता ॥६
आऽगधिता । परिऽगधिता । या । कशीकाऽइव । जङ्गहे ।
ददाति । मह्यम् । यादुरी । याशूनाम् । भोज्या । शता ॥६
संभोगाय प्रार्थितो भावयव्यः स्वभार्यां रोमशामप्रौढेति बुद्ध्या परिहसन्नाह । “भोज्या भोगयोग्यैषा “आगधिता आ समन्तात् गृहीता स्वीकृता । तथा “परिगधिता परितो गृहीता । आदरातिशयाय पुनर्वचनम् । ‘ गध्यं गृह्णातेः ' ( निरु. ५, १५) इति यास्कः । यद्वा । आगधिता आ समन्तात् मिश्रयन्ती। आन्तरं प्रजननेन बाह्यं भुजादिभिरित्यर्थः । ‘ गध्यतिर्मिश्रीभावकर्मा ' (निरु. ५. १५) इति यास्कः । पूर्वस्मिन् पक्षे पुरुषस्य प्राधान्यम् उत्तरस्मिंस्तु योषितः इति भेदः । कीदृशी सा । या “अङ्गहे अत्यर्थं गृह्णाति कदाचिदपि न मुञ्चति । अत्यागे दृष्टान्तः । "कशीकेव । कशीका नाम सूतवत्सा नकुली । सा यथा पत्या सह चिरकालं क्रीडति न कदाचिदपि विमुञ्चति तथैषापि । किंच भोज्यैषा “यादुरी । यादुरिति उदकनाम । रेतोलक्षणमुदकं प्रभूतं ददातीति यादुरी । बहुरेतो युक्तेत्यर्थः । तादृशी सती "याशूनां संभोगानाम् । यश इति प्रजनननाम । तत्संबन्धीनि कर्माणि याशूनि भोगाः । तेषां “शता शतानि असंख्यातानि मह्यं ददाति ॥ रोमशा नाम बृहस्पतेः पुत्री ब्रह्मवादिनी परिहसन्तं स्वपतिं प्रत्याह ।।
उपो॑प मे॒ परा॑ मृश॒ मा मे॑ द॒भ्राणि॑ मन्यथाः ।
सर्वा॒हम॑स्मि रोम॒शा ग॒न्धारी॑णामिवावि॒का ॥७
उप॑ऽउप । मे॒ । परा॑ । मृ॒श॒ । मा । मे॒ । द॒भ्राणि॑ । म॒न्य॒थाः॒ ।
सर्वा॑ । अ॒हम् । अ॒स्मि॒ । रो॒म॒शा । ग॒न्धारी॑णाम्ऽइव । अ॒वि॒का ॥७
उपऽउप । मे । परा । मृश । मा । मे । दभ्राणि । मन्यथाः ।
सर्वा । अहम् । अस्मि । रोमशा । गन्धारीणाम्ऽइव । अविका ॥७
भो पते “मे माम् । द्वितीयार्थे चतुर्थी । “उपोप । द्वितीय उपशब्दः पादपूरणः । उपेत्य “परा “मृश सम्यक् स्पृश । भोगयोग्यमवगच्छेत्यर्थः । यद्वा । मे मम गोपनीयमङ्गम् उपोप पर मृश अत्यन्तमान्तरं स्पृश। परामर्शभावशङ्कां निवारयति । “मे मदङ्गानि रोमाणि “दभ्राणि "मा “मन्यथाः अल्पानि मा बुध्यस्व । ‘दभ्रमर्भकमित्यल्पस्य' इति दभ्रं दभ्नोतेः ' (निरु. ३. २०) इति यास्कः । अदभ्रत्वमेव विशदयति । “अहं “रोमशा बहुरोमयुक्ता “अस्मि । यतोऽहमीदृशी अतः “सर्वा संपूर्णावयवास्मि । रोमशत्वे दृष्टान्तः । “गन्धारीणाम् “अविका इव । गन्धाराः देशाः । तेषां संबन्धिनी अविजातिरिव । तद्देशस्थाः अवयो मेषाः यथा रोमशाः तथा अहमस्मि। यद्वा । गन्धारीणां गर्भधारिणीनां स्त्रीणाम् अविका अत्यर्थं तर्पयन्ती योनिरिव । तासाम् आ प्रसवं रोमादिविकर्तनस्य शास्त्रे निषिद्धत्वात् योनी रोमशा भवति । अतः सा उपमीयते । यतोऽहमीदृशी अतो माम् अप्रौढां मा अवबुध्यस्वेत्यर्थः ॥ ॥ ११ ॥ ॥ १८ ॥
१.१२६.७
इह ब्रवीत्वनुयोगः संलाप ऋगुपोप मे । प्रतिषेधोपदेशौ तु अक्षैर्मेत्यक्षसंस्तुतौ ।।बृहद्देवता १.५२ ।।
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|