← सूक्तं १.१२७ ऋग्वेदः - मण्डल १
सूक्तं १.१२८
परुच्छेपो दैवोदासिः
सूक्तं १.१२९ →
दे. अग्निः। अत्यष्टिः


अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम् ।
विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते ।
अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥१॥
तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता ।
स न ऊर्जामुपाभृत्यया कृपा न जूर्यति ।
यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥२॥
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत् ।
शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः ।
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥३॥
स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति ।
क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे ।
यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥४॥
क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या ।
स हि ष्मा दानमिन्वति वसूनां च मज्मना ।
स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥५॥
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत् ।
विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे ।
विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥६॥
स मानुषे वृजने शंतमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः ।
स हव्या मानुषाणामिळा कृतानि पत्यते ।
स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥७॥
अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे ।
विश्वायुं विश्ववेदसं होतारं यजतं कविम् ।
देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः ॥८॥.


सायणभाष्यम्

‘ अयं जायत ' इति अष्टर्चं द्वितीयं सूक्तम् । अयं जायताष्टौ ' इत्यनुक्रमणिका । परुच्छेप ऋषिः । ‘ सर्वमात्यष्टम्' इत्युक्तत्वात् अत्यष्टिश्छन्दः । ‘ आग्नेयं तु' इति तुशब्दस्योक्तत्वात् इदमप्याग्नेयम् । पृष्ठ्यस्य षष्ठेऽहनि एतत्सूक्तम् आज्यशस्त्रत्वेन विनियुक्तम् । सूत्रितं च षष्ठस्य ' इति खण्डे- अयं जायत मनुषो धरोमणीत्याज्यम्' (आश्व. श्रौ. ८.१.९ ) इति ।


अ॒यं जा॑यत॒ मनु॑षो॒ धरी॑मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु॑ व्र॒तम॒ग्निः स्वमनु॑ व्र॒तं ।

वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते ।

अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ॥१

अ॒यम् । जा॒य॒त॒ । मनु॑षः । धरी॑मणि । होता॑ । यजि॑ष्ठः । उ॒शिजा॑म् । अनु॑ । व्र॒तम् । अ॒ग्निः । स्वम् । अनु॑ । व्र॒तम् ।

वि॒श्वऽश्रु॑ष्टिः । स॒खि॒ऽय॒ते । र॒यिःऽइ॑व । श्र॒व॒स्य॒ते ।

अद॑ब्धः । होता॑ । नि । स॒द॒त् । इ॒ळः । प॒दे । परि॑ऽवीतः । इ॒ळः । प॒दे ॥१

अयम् । जायत । मनुषः । धरीमणि । होता । यजिष्ठः । उशिजाम् । अनु । व्रतम् । अग्निः । स्वम् । अनु । व्रतम् ।

विश्वऽश्रुष्टिः । सखिऽयते । रयिःऽइव । श्रवस्यते ।

अदब्धः । होता । नि । सदत् । इळः । पदे । परिऽवीतः । इळः । पदे ॥१

“अयम् “अग्निः “मनुषः मनुष्यस्य अध्वर्योः सकाशात् “जायत अरणिमन्थनेनोत्पन्नः । कीदृशोऽयम् । “होता देवानामाह्वाता “यजिष्ठः अतिशयेन यष्टृतमः । किमर्थमुत्पन्न इति । “उशिजां फलस्य कामयितॄणां यजमानानां “व्रतं सोमयागादिरूपं कर्म “अनु लक्षीकृत्य । न केवलं परार्थमेव अपि तु अयमर्थः । “स्वं “व्रतम् “अनु स्वकीयं हविःस्वीकारादिरूपं कर्म अनुलक्ष्य । पुनः स एव विशेष्यते । “विश्वश्रुष्टिः विश्वविषयकर्मवान् । कस्मै । “सखीयते सखित्वमात्मन इच्छते । तथा “श्रवस्यते अतिप्रसिद्धान्नमात्मनः इच्छते यजमानाय “रयिरिव धनस्थानीयो भवति । धनं यथा सख्यम् अन्नसमृद्धिं च साधयति तद्वत् अयमग्निरपि तस्मै द्वयं साधयतीत्यर्थः । किंच अयमग्निः “इळस्पदे इडाया भूम्याः पदे ॥ अन्त्यलोपश्छान्दसः ।। “धरीमणि सारभूते स्थाने वेदिरूपे । ‘ वेदिमाहुः परमन्तं पृथिव्याः (तै. सं. ७. ४. १८. २) इति श्रुतेः । एतावती वै पृथिवी यावती वेदिः' (तै. सं. २, ६.४.१) इति च । पुनस्तदेव विशेष्यते । “इळस्पदे इडादेवताय मनोः पुत्र्या गोरूपाया इडोपह्वानमन्त्र प्रतिपादितायाः पदे पादन्यासप्रदेशे । 'इडा नै मानवी यज्ञानूकाशिन्यासीत् ' ( तै. ब्रा. १.१.४. ४ ) इति 'इडायाः पदे घृतवति स्वाहा' (तै. सं. १. २. ५. १ ) इति च श्रुतेः । "नि “षदत् निषीदति । कीदृशोऽयमग्निः । “अदब्धः केनाप्यहिंसितः “होता होमनिष्पादकः “परिवीतः ऋत्विग्भिः परिधिभिर्वा परितो वेष्टितः । एवंभूतः सन् नि षदत् ।।


तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता॑ता ह॒विष्म॑ता ।

स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू॑र्यति ।

यं मा॑त॒रिश्वा॒ मन॑वे परा॒वतो॑ दे॒वं भाः प॑रा॒वतः॑ ॥२

तम् । य॒ज्ञ॒ऽसाध॑म् । अपि॑ । वा॒त॒या॒म॒सि॒ । ऋ॒तस्य॑ । प॒था । नम॑सा । ह॒विष्म॑ता । दे॒वऽता॑ता । ह॒विष्म॑ता ।

सः । नः॒ । ऊ॒र्जाम् । उ॒प॒ऽआभृ॑ति । अ॒या । कृ॒पा । न । जू॒र्य॒ति॒ ।

यम् । मा॒त॒रिश्वा॑ । मन॑वे । प॒रा॒ऽवतः॑ । दे॒वम् । भारिति॒ भाः । प॒रा॒ऽवतः॑ ॥२

तम् । यज्ञऽसाधम् । अपि । वातयामसि । ऋतस्य । पथा । नमसा । हविष्मता । देवऽताता । हविष्मता ।

सः । नः । ऊर्जाम् । उपऽआभृति । अया । कृपा । न । जूर्यति ।

यम् । मातरिश्वा । मनवे । पराऽवतः । देवम् । भारिति भाः । पराऽवतः ॥२

“यज्ञसाधं यज्ञस्य साधकम् ॥ साध्नोतेः क्विपि कृदुत्तरपदप्रकृतिस्वरत्वम् ।। “तम् अग्निं वेद्यां स्थापितम् “अपि “वातयामसि । अपिः संभावनार्थः । ॥ आ परितोषं सेवामहे ।। ‘ वात गतिसुखसेवनयोः '। चौरादिकः । इदन्तो मसिः ।। केनोपायेनेति तदुच्यते । “ऋतस्य “पथा यागस्य मार्गेण यागानुष्ठानेन । “ यज्ञेन देवेभ्यः' (तै. सं. ६.३.१०. ५) इति श्रुतेः । यज्ञेन देवस्य महती प्रीतिः भवति । यद्वा । ऋतस्य यज्ञस्य पथा । मार्गस्तीर्थाख्यः ‘पूर्वेणोत्करमपरेण प्रणीता: ' ( आश्व. श्रौ. १. १) इत्यादिसूत्रोक्तः । तेन मार्गेण गत्वा । पुनः केन। “हविष्मता आज्यादिप्रदेयद्रव्यवता “नमसा नमस्कारोपलक्षणेन' स्तोत्रेण उपस्थानेन वा । तदुभयेनेत्यर्थः । कुत्रेति तदुच्यते । “हविष्मता हविष्मति आज्यपुरोडाशादिबहुहविर्युक्ते “देवताता देवानां विस्तारयुक्ते यज्ञे । किंच “सः अग्निः “नः अस्मत्संबन्धिनाम् “ऊर्जां हविर्लक्षणानाम् अन्नानाम् “उपाभृति उपाहरणे तत्स्वीकारविषये ॥ उपाङुपसृष्टात् हरतेः क्तिन् । हृग्रहोर्भः° ' इति भत्वम् । सुपां सुलुक्' इति सप्तम्या लुक् । तादौ च° ' इत्यनन्तरस्य गतेः प्रकृतिस्वरत्वम् ।। "अया “कृपा अनया सामर्थ्यलक्षणया कल्पनया हविःस्वीकरणरूपया “न “जूर्यति यज्ञसमाप्तिपर्यन्तं न नश्यति । अजरो वर्तते इत्यर्थः । स इत्युक्तम् । क इत्याह । “यम् अग्निं “देवं द्योतनशीलं “मातरिश्वा अन्तरिक्षसंचारी वायुः पूर्वं “मनवे मनोरर्थाय “परावतः अतिदूरं गतवतः आदित्यात् “भाः अभासीत् । औचित्येन भूमौ स्थापितवानित्यर्थः । तद्वत् “परावतः दूरात् देवम् अग्निम् अस्मद्देवयजनं प्रति स्थापयत्वित्यर्थः ॥


एवे॑न स॒द्यः पर्ये॑ति॒ पार्थि॑वं मुहु॒र्गी रेतो॑ वृष॒भः कनि॑क्रद॒द्दध॒द्रेतः॒ कनि॑क्रदत् ।

श॒तं चक्षा॑णो अ॒क्षभि॑र्दे॒वो वने॑षु तु॒र्वणिः॑ ।

सदो॒ दधा॑न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे॑षु॒ सानु॑षु ॥३

एवे॑न । स॒द्यः । परि॑ । ए॒ति॒ । पार्थि॑वम् । मु॒हुः॒ऽगीः । रेतः॑ । वृ॒ष॒भः । कनि॑क्रदत् । दध॑त् । रेतः॑ । कनि॑क्रदत् ।

श॒तम् । चक्षा॑णः । अ॒क्षऽभिः॑ । दे॒वः । वने॑षु । तु॒र्वणिः॑ ।

सदः॑ । दधा॑नः । उप॑रेषु । सानु॑षु । अ॒ग्निः । परे॑षु । सानु॑षु ॥३

एवेन । सद्यः । परि । एति । पार्थिवम् । मुहुःऽगीः । रेतः । वृषभः । कनिक्रदत् । दधत् । रेतः । कनिक्रदत् ।

शतम् । चक्षाणः । अक्षऽभिः । देवः । वनेषु । तुर्वणिः ।

सदः । दधानः । उपरेषु । सानुषु । अग्निः । परेषु । सानुषु ॥३

अयमग्निः “एवेन गमनसाधनेन गमनेन वा “सद्यः अस्मदाह्वानानन्तरं “पार्थिवं पृथिवीसंबन्धि स्थानं वेदिलक्षणमेव “परि परितः । यद्वा । अनर्थकः आभिमुख्यार्थो वा परि । “एति गच्छति। कीदृशोऽग्निः । “मुहुर्गीः सर्वदा गीयमानः । रेतःशब्देन तत्कार्यं हवीरूपमन्नमुच्यते । तद्वान् ।। मत्वर्थीयो लुप्यते ।। “वृषभः कामानां वर्षिता कनिक्रदत् शब्दयन् पर्येति । पुनः स एव विशेष्यते । “रेतः “दधत् आज्यादिस्वीकारेण अत्यधिकं सामर्थ्यं दधानः “कनिक्रदत् शब्दयन् पर्येतीति शेषः । पुनः स एव विशेष्यते । अयमग्निः “देवः “वनेषु संभजनेषु स्तोत्रेषु निमित्तभूतेषु “अक्षभिः अक्षस्थानीयाभिः ज्वालाभिः “शतं “चक्षाणः सर्वतः प्रकाशमानः । यद्वा । ज्वालोत्कर्षेण यजमानेन कृतं शतगुणितं प्रख्यापयन् । तथा “तुर्वणिः शीघ्रगन्ता शत्रूणां हिंसको वा । तुर्वणिस्तूर्णवनिः ' (निरु. ६. १४ ) इति यास्कः । किंच “सानुषु समुच्छ्रितेषु । 'सानु समुच्छ्रितं भवति' (निरु. २. २४) इति यास्कः । तेषु “उपरेषु । उपरमन्ते एष्वग्नयः इत्युपरा धिष्ण्या यजमानगृहा वा । तेषु “सदः “दधानः स्थानं धारयमाणः “अग्निः सद्यः पर्येतीति पूर्वत्रान्वयः । किमर्थम् । “परेषु उत्कृष्टेषु “सानुषु समुच्छ्रितेषु कर्मसु हविःषु वा निमित्तभूतेषु ॥


स सु॒क्रतुः॑ पु॒रोहि॑तो॒ दमे॑दमे॒ऽग्निर्य॒ज्ञस्या॑ध्व॒रस्य॑ चेतति॒ क्रत्वा॑ य॒ज्ञस्य॑ चेतति ।

क्रत्वा॑ वे॒धा इ॑षूय॒ते विश्वा॑ जा॒तानि॑ पस्पशे ।

यतो॑ घृत॒श्रीरति॑थि॒रजा॑यत॒ वह्नि॑र्वे॒धा अजा॑यत ॥४

सः । सु॒ऽक्रतुः॑ । पु॒रःऽहि॑तः । दमे॑ऽदमे । अ॒ग्निः । य॒ज्ञस्य॑ । अ॒ध्व॒रस्य॑ । चे॒त॒ति॒ । क्रत्वा॑ । य॒ज्ञस्य॑ । चे॒त॒ति॒ ।

क्रत्वा॑ । वे॒धाः । इ॒षु॒ऽय॒ते । विश्वा॑ । जा॒तानि॑ । प॒स्प॒शे॒ ।

यतः॑ । घृ॒त॒ऽश्रीः । अति॑थिः । अजा॑यत । वह्निः॑ । वे॒धाः । अजा॑यत ॥४

सः । सुऽक्रतुः । पुरःऽहितः । दमेऽदमे । अग्निः । यज्ञस्य । अध्वरस्य । चेतति । क्रत्वा । यज्ञस्य । चेतति ।

क्रत्वा । वेधाः । इषुऽयते । विश्वा । जातानि । पस्पशे ।

यतः । घृतऽश्रीः । अतिथिः । अजायत । वह्निः । वेधाः । अजायत ॥४

“सः “अग्निः सुक्रतुः शोभनकर्मा “पुरोहितः पुरो धार्यमाणः । यद्वा । पुरोहितवत् यागनिर्वाहकः सन् । “दमेदमे तत्तद्यजमानगृहे सर्वेषु देवयजनेषु वा “अध्वरस्य नाशरहितस्य फलप्रदस्य “यज्ञस्य तदर्थं “चेतति जानाति प्रबुध्यते इत्यर्थः। किंच अयं यजमानोऽपि “क्रत्वा शोभनेन कर्मणा “यज्ञस्य “चेतति कर्तव्यतामवजानाति । किंच अयमग्निरपि “क्रत्वा प्रकृष्टेन कर्मणा “वेधाः विविधानां फलानां कर्ता सन् “इषूयते । इष्यते इति इषुः अन्नम् आगमनं वा । तदिच्छते यजमानार्थं “विश्वा “जातानि सर्वाणि संपादितानि हविरादीनि “पस्पशे अत्यर्थं स्पृशति स्वीकरोति । “यतः अयं “घृतश्रीः घृतं सेवमानः “अतिथिः अतिथिवत्पूज्यश्च “अजायत उत्पन्नः । यतः कारणात् घृतम् अत्यर्थं सेवमानः प्रवृद्धोऽभवत् अतः पस्पशे इत्यर्थः । एवमग्नौ प्रवृद्धे सति यजमानोऽपि “वह्निः हविषां वोढा “वेधाः विविधस्य फलस्य कर्ता उत्पादयिता “अजायत समर्थोऽभवत् ।।


क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृं॒चते॒ऽग्नेरवे॑ण म॒रुतां॒ न भो॒ज्ये॑षि॒राय॒ न भो॒ज्या॑ ।

स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू॑नां च म॒ज्मना॑ ।

स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुतः॒ शंसा॑द॒घाद॑भि॒ह्रुतः॑ ॥५

क्रत्वा॑ । यत् । अ॒स्य॒ । तवि॑षीषु । पृ॒ञ्चते॑ । अ॒ग्नेः । अवे॑न । म॒रुता॑म् । न । भो॒ज्या॑ । इ॒षि॒राय॑ । न । भो॒ज्या॑ ।

सः । हि । स्म॒ । दान॑म् । इन्व॑ति । वसू॑नाम् । च॒ । म॒ज्मना॑ ।

सः । नः॒ । त्रा॒स॒ते॒ । दुः॒ऽइ॒तात् । अ॒भि॒ऽह्रुतः॑ । शंसा॑त् । अ॒घात् । अ॒भि॒ऽह्रुतः॑ ॥५

क्रत्वा । यत् । अस्य । तविषीषु । पृञ्चते । अग्नेः । अवेन । मरुताम् । न । भोज्या । इषिराय । न । भोज्या ।

सः । हि । स्म । दानम् । इन्वति । वसूनाम् । च । मज्मना ।

सः । नः । त्रासते । दुःऽइतात् । अभिऽह्रुतः । शंसात् । अघात् । अभिऽह्रुतः ॥५

“यत् यस्मात् कारणात् सर्वे यजमानाः “क्रत्वा प्रकृष्टेन कर्मणा हविष्प्रदानादिरूपेण “अस्य “अग्नेः “तविषीषु प्रबलासु ज्वालासु “अवेन तृप्तिनिमित्तेन भोज्या भक्ष्याणि पुरोडाशादीनि “पृञ्चते मिश्रयन्ति । तविषीति बलनाम तविषी शुष्मम् ' ( नि. २. ९. १० ) इति तन्नामसु पाठात् । तत्र दृष्टान्तः । “मरुतां “न “भोज्या वायूनां संबन्धीनि व्रीह्याद्यन्नानीव । वायुषु मेघं निर्भिद्य वृष्टिं जनयत्सु सत्सु सस्यादिद्वारा व्रीह्यादिभोज्यानि यथा पृञ्चते तथेत्यर्थः । दाने दृष्टान्तः । “इषिराय “न 'भोज्या । एषणयुक्ताय याचमानायार्थिने भोज्या भोग्यानि भक्ष्यादीनि यथा दीयन्ते तद्वत् । इषिरशब्दो यास्केनैवं निरुक्तः-’ ईषणेन वैषणेन वा ' ( निरु. ४. ७) इति । अतः कारणात् “सः खलु यजमानः “दानम् “इन्वति हविष्प्रदानं तस्मै व्याप्नोति । यद्वा । स्वयमभिमतं दानमिन्वति । इन्वतिर्व्याप्तिकर्मा • इन्वति ननक्ष' ( नि. २. १८. १ ) इति तत्कर्मसु पाठात् । केन सामर्थ्येनेति । “वसूनां “च “मज्मना निवासयोग्यानां धनानाम् अग्निना लब्धानां बलेनैव । यद्वा । सोऽग्निर्वसूनां हविर्निवासयोग्यानां ज्वालारूपाणां धनानां मज्मना बलेन दानमिन्वतीति शेषः । किंच “सः अग्निः “अभिह्रुतः आभिमुख्येन पापैः ह्रियमाणान् “नः अस्मान् “दुरितात् पापात् “त्रासते त्रायते । तथा “शंसात् अतिप्रभूतत्वेन शंसनीयात् यद्वा हिंसकात् “अभिह्रुतः अभितो ह्रियमाणात् “अघात् दुःखात् तत्कारणात् पापाद्वा त्रासते त्रायते ॥ ॥ १४ ॥


विश्वो॒ विहा॑या अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् ।

विश्व॑स्मा॒ इदि॑षुध्य॒ते दे॑व॒त्रा ह॒व्यमोहि॑षे ।

विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥६

विश्वः॑ । विऽहा॑याः । अ॒र॒तिः । वसुः॑ । द॒धे॒ । हस्ते॑ । दक्षि॑णे । त॒रणिः॑ । न । शि॒श्र॒थ॒त् । श्र॒व॒स्यया॑ । न । शि॒श्र॒थ॒त् ।

विश्व॑स्मै । इत् । इ॒षु॒ध्य॒ते । दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒षे॒ ।

विश्व॑स्मै । इत् । सु॒ऽकृते॑ । वार॑म् । ऋ॒ण्व॒ति॒ । अ॒ग्निः । द्वारा॑ । वि । ऋ॒ण्व॒ति॒ ॥६

विश्वः । विऽहायाः । अरतिः । वसुः । दधे । हस्ते । दक्षिणे । तरणिः । न । शिश्रथत् । श्रवस्यया । न । शिश्रथत् ।

विश्वस्मै । इत् । इषुध्यते । देवऽत्रा । हव्यम् । आ । ऊहिषे ।

विश्वस्मै । इत् । सुऽकृते । वारम् । ऋण्वति । अग्निः । द्वारा । वि । ऋण्वति ॥६

अयमग्निः “दक्षिणे अभिमतं प्रदातुम् उत्साहयुक्ते “हस्ते वामेतरे' यजमानाय दातव्यं धनं “दधे धारयति । कीदृशोऽयम् । “विश्वः सर्वैर्गन्तव्यः यद्वा विश्वात्मकः “विहायाः महान् । विहाया इति महन्नाम, ‘ विहायाः यह्वः ' ( नि, ३. ३. १२) इति तन्नामसु पाठात् । “अरतिः ईश्वरः अरममाणः वा अप्रीतिः ।। अत्र वहिवस्यर्तिभ्यश्चित्' इति अप्रत्ययः । चिट्ठद्धावादन्तोदात्त: ॥ धृत्वा च शिश्रथत् । धृतं हस्तं यजमानार्थं श्रथयति ददाति ।। श्लथयतेर्लुङि चङि रूपम् । तत्र दृष्टान्तः । “तरणिर्न तरणिरिव तारकः सूर्य इव । स यथा स्वोपासकाय अभिमतं हस्ते धृत्वा वितरति तद्वत् । यद्वा । तरणिः सर्वस्य तारको न शिश्रथत् । यजमानं न श्रथयति न मुञ्चति । किंच “श्रवस्यया “न “शिश्रथत् हवीरूपान्नेच्छयैव न शिश्रथत् न विमुञ्चति । अयमनुग्रहेणैव पालयते, हविःस्वीकारस्तु व्यपदेशमात्रेण इति भावः । इदानीं प्रत्यक्षकृतः । हे अग्ने “देवत्रा देवेषु मध्ये अतिशयेन त्वं “विश्वस्मै सर्वस्मै “इषुध्यते हविरात्मन इच्छते इन्द्रादये । इषुध्यतिः कण्ड्वादिः ॥ “हव्यं तत्तद्देवतामुद्दिश्य प्रत्तं पुरोडाशादिकम् “ओहिषे सर्वतो वहसि ।। वहेलेंटि यजादित्वात् संप्रसारणम् ।। किंच अयमग्निः “विश्वस्मै “सुकृते शोभनयज्ञकर्त्रे यजमानाय “वारं सर्वैर्वरणीयं क्षुदादिनिवारकं वा अन्नादिकम् “ऋण्वति गच्छति करोतीत्यर्थः । किंच अयम् “अग्निः “द्वारा स्वर्गाद्यभिमतद्वाराणि “व्यृण्वति विवृणोति । प्रतिबन्धकपापापनयनद्वारा अभिमतानि साधयतीत्यर्थः । ऋण्वतिर्गतिकर्मा । यद्वा । रिविर्गत्यर्थः । इदित्त्वात् नुम् । छान्दसं रेफस्य संप्रसारणम् ।।


स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॒॑ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पतिः॑ प्रि॒यो य॒ज्ञेषु॑ वि॒श्पतिः॑ ।

स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते ।

स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ॥७

सः । मानु॑षे । वृ॒जने॑ । शम्ऽत॑मः । हि॒तः । अ॒ग्निः । य॒ज्ञेषु॑ । जेन्यः॑ । न । वि॒श्पतिः॑ । प्रि॒यः । य॒ज्ञेषु॑ । वि॒श्पतिः॑ ।

सः । ह॒व्या । मानु॑षाणाम् । इ॒ळा । कृ॒तानि॑ । प॒त्य॒ते॒ ।

सः । नः॒ । त्रा॒स॒ते॒ । वरु॑णस्य । धू॒र्तेः । म॒हः । दे॒वस्य॑ । धू॒र्तेः ॥७

सः । मानुषे । वृजने । शम्ऽतमः । हितः । अग्निः । यज्ञेषु । जेन्यः । न । विश्पतिः । प्रियः । यज्ञेषु । विश्पतिः ।

सः । हव्या । मानुषाणाम् । इळा । कृतानि । पत्यते ।

सः । नः । त्रासते । वरुणस्य । धूर्तेः । महः । देवस्य । धूर्तेः ॥७

“सः “अग्निः “मानुषे मनुष्यस्य यजमानस्य संबन्धिनि “वृजने वर्जनीये पापे निमित्तभूते सति “यज्ञेषु निमित्तेषु “शंतमः अत्यन्तं सुखतमः अरिष्टस्य निवारकत्वात् अत एव “हितः स्वर्गाद्यभिमतसाधकत्वात् । किंच अयं “यज्ञेषु “विश्पतिः ऋत्विग्रूपाणां प्रजानाम् अतिशयेन पालकः। ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् ।। अतएव “प्रियः च भवति । तत्र दृष्टान्तः । “जेन्यो “न विश्पतिः जयशीलो राजेव । स यथा परसेनाद्युपद्रवपरिहारेण सम्यक्परिपालनेन च प्रजानां प्रियो भवति । किंच अयमग्निः “मानुषाणां मनुष्याणां यजमानानां संबन्धीनि “हव्या हवींषि “इळा “कृतानि इळायां वेद्यां कृतानि संपादितानि उद्दिश्य “पत्यते पतति आगच्छति । किंच “सः अग्निः “नः अस्मान् यजमानान् “वरुणस्य वारकस्य “धूर्तेः हिंसकस्य भयात् “त्रासते त्रायते । यद्वा । धूर्तेरिति पञ्चमी । वरुणस्य पापदेवस्य धूर्तेर्हिंसकात् । किंच “महः महतः “देवस्य “धूर्तेः हिंसातः त्रासते पालयते । अयष्टारम् अग्निर्हिनस्तीति प्रसिद्धम् । यद्वा । एकमेव वाक्यम् । धूर्तेः हिंसकस्य महः महतः वरुणस्य देवस्य वरुणाख्यायाः पापदेवतायाः धूर्तेः हिंसातः नः अस्मान् सः अग्निः त्रासते त्रायते ।।


अ॒ग्निं होता॑रमीळते॒ वसु॑धितिं प्रि॒यं चेति॑ष्ठमर॒तिं न्ये॑रिरे हव्य॒वाहं॒ न्ये॑रिरे ।

वि॒श्वायुं॑ वि॒श्ववे॑दसं॒ होता॑रं यज॒तं क॒विं ।

दे॒वासो॑ र॒ण्वमव॑से वसू॒यवो॑ गी॒र्भी र॒ण्वं व॑सू॒यवः॑ ॥८

अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । वसु॑ऽधितिम् । प्रि॒यम् । चेति॑ष्ठम् । अ॒र॒तिम् । नि । ए॒रि॒रे॒ । ह॒व्य॒ऽवाह॑म् । नि । ए॒रि॒रे॒ ।

वि॒श्वऽआ॑युम् । वि॒श्वऽवे॑दसम् । होता॑रम् । य॒ज॒तम् । क॒विम् ।

दे॒वासः॑ । र॒ण्वम् । अव॑से । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । र॒ण्वम् । व॒सु॒ऽयवः॑ ॥८

अग्निम् । होतारम् । ईळते । वसुऽधितिम् । प्रियम् । चेतिष्ठम् । अरतिम् । नि । एरिरे । हव्यऽवाहम् । नि । एरिरे ।

विश्वऽआयुम् । विश्वऽवेदसम् । होतारम् । यजतम् । कविम् ।

देवासः । रण्वम् । अवसे । वसुऽयवः । गीःऽभिः । रण्वम् । वसुऽयवः ॥८

अमुम् “अग्निं “होतारम् आह्वातारं होमनिष्पादकं वा “ईळते ऋत्विजः स्तुवन्ति । तथा “वसुधितिं धनस्य धारयितारं दातारं वा अत एव “प्रियं सर्वेषां प्रियतमं “चेति ष्ठम् अतिशयेन यजमानानां चेतयितारं यद्वा प्रकृष्टचेतनवन्तम् ।। चेत्तृशब्दात् ' तु छन्दसि ' इति इष्ठन् । ‘ तुरिष्टेमेयःसु ' इति तृलोपः ॥ “अरतिम् ईश्वरं तादृशं देवं “न्येरिरे नितरां प्राप्ताः । प्राप्तिरेव विशेष्यते । “हव्यवाहं “न्येरिरे निःशेषेण प्राप्ताः । इतरदेवेभ्यो हव्यं वोढुं यथा प्रभवति तथा नितरां प्राप्ताः । पुनः कीदृशम् । “विश्वायुं सर्वत्र प्राणिजीवनं “विश्ववेदसं सर्वप्रज्ञं “होतारं देवानामाह्वातारं “यजतं यजनीयं “कविं सर्वज्ञम् ।। ‘ ईर प्रेरणे, ईर गतौ ' इत्यन्यतमस्य लिटि रूपम् ॥ किंच “देवासः देवनशीला ऋत्विजः “रण्वम् अतिप्रवृद्ध्या शब्दयन्तम् “अवसे अस्य रक्षणाय “वसूयवः वसुकामाः सन्तः । पुनः कीदृशाः । “गीर्भिः स्तुतिभिः “रण्वं रणयन्तं रमणीयं वा “वसूयवः वसु हवीरूपमन्नम् अग्नये प्रदातुमात्मन इच्छन्तो न्येरिरे। प्रीतो यथा धनं प्रयच्छति तथा हविरादिना प्राप्ता इत्यर्थः । ॥ १५ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२८&oldid=263441" इत्यस्माद् प्रतिप्राप्तम्