ऋग्वेदः सूक्तं १.२७
← सूक्तं १.२६ | ऋग्वेदः - मण्डल १ सूक्तं १.२७ आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः। |
सूक्तं १.२८ → |
दे. १-१२ अग्निः, १३ देवाः। १-१२ गायत्री, १३ त्रिष्टुप् । |
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
सम्राजन्तमध्वराणाम् ॥१॥
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
मीढ्वाँ अस्माकं बभूयात् ॥२॥
स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
पाहि सदमिद्विश्वायुः ॥३॥
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् ।
अग्ने देवेषु प्र वोचः ॥४॥
आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
शिक्षा वस्वो अन्तमस्य ॥५॥
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
सद्यो दाशुषे क्षरसि ॥६॥
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
स यन्ता शश्वतीरिषः ॥७॥
नकिरस्य सहन्त्य पर्येता कयस्य चित् ।
वाजो अस्ति श्रवाय्यः ॥८॥
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
विप्रेभिरस्तु सनिता ॥९॥
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
स्तोमं रुद्राय दृशीकम् ॥१०॥
स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
धिये वाजाय हिन्वतु ॥११॥
स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
उक्थैरग्निर्बृहद्भानुः ॥१२॥
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।
यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥१३॥
सायणभाष्यम्
‘अश्वं न त्वा' इति त्रयोदशर्चं चतुर्थं सूक्तम् । पूर्ववत् ऋष्यादयः। त्रयोदश्याः ‘नमो महद्भ्यः इत्यस्याः त्रिष्टुप् छन्दः। विश्वेदेवा देवता। तथा चानुक्रान्तम्--अश्वं सप्तोना गायत्रेऽन्त्या दैवी त्रिष्टुप्' इति ॥ प्रातरनुवाकाश्विनशस्त्रयोः उत्तमावर्जितस्य सूक्तस्य विनियोग उक्तः ॥
अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः ।
स॒म्राज॑न्तमध्व॒राणा॑म् ॥१
अश्व॑म् । न । त्वा॒ । वार॑ऽवन्तम् । व॒न्दध्यै॑ । अ॒ग्निम् । नमः॑ऽभिः ।
स॒म्ऽराज॑न्तम् । अ॒ध्व॒राणा॑म् ॥१
अश्वम् । न । त्वा । वारऽवन्तम् । वन्दध्यै । अग्निम् । नमःऽभिः ।
सम्ऽराजन्तम् । अध्वराणाम् ॥१
“अध्वराणां यज्ञानां "सम्राजन्तं सम्राट्स्वरूपं स्वामिनम् "अग्निं त्वां "नमोभिः स्तुतिभिः "वन्दध्यै वन्दितुं प्रवृत्ता इति शेषः । अत्र दृष्टान्तः । "वारवन्तं वालयुक्तम् "अश्वं “न अश्वमिव । अश्वो यथा वालैर्बाधकान् मशकमक्षिकादीन् परिहरति तथा त्वमपि ज्वालाभिरस्मद्विरोधिनः परिहरसीत्यर्थः ॥ वारवन्तम् । मतुपः पित्त्वादनुदात्तत्वम् । घञो ञित्त्वात् आद्युदात्तो वारशब्दः । ‘कर्षात्वतः' इति अन्तोदात्तत्वं व्यत्ययेन न प्रवर्तते । वन्दध्यै । वदि अभिवादनस्तुत्योः ' । इन्दितो नुम् धातोः ' इति नुम् । “तुमर्थे सेसेन्' इति अध्यैप्रत्ययः । प्रत्ययस्वरः । सम्राजन्तम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरेण स एव । अध्वराणाम् ।' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥
स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेव॑ः ।
मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥२
सः । घ॒ । नः॒ । सू॒नुः । शव॑सा । पृ॒थुऽप्र॑गामा । सु॒ऽशेवः॑ ।
मी॒ढ्वान् । अ॒स्माक॑म् । ब॒भू॒या॒त् ॥२
सः । घ । नः । सूनुः । शवसा । पृथुऽप्रगामा । सुऽशेवः ।
मीढ्वान् । अस्माकम् । बभूयात् ॥२
“सः “घ स एवाग्निः "नः अस्माकं "सुशेवः सुसुखो भवत्विति शेषः । कीदृशः । "शवसा बलस्य "सूनुः पुत्रः "पृथुप्रगामा पृथुप्रगमनः किंच "अस्माकं "मीढ्वान् कामानां वर्षिता “बभूयात् भवतु ॥ घा नः । ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ' ( पा. सू. ६. ३. १३३) इति दीर्घः । शवसा । सुपां सुपो भवन्ति' इति ङसः टादेशः । पृथुप्रगामा । प्रकर्षेण गमनं प्रगामः । ‘हलश्च' इति घञ् । पृथुः प्रगामा यस्यासौ पृथुप्रगामा ।‘सुपां सुलुक्° ' इति पूर्वसवर्ण आकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुशेवः । ‘इण्शीङ्भ्यां वन्' ( उ. सू. १. १५० ) इति शेवशब्दो वन्प्रत्ययान्त आद्युदात्तः । ततो बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वे प्राप्ते ' आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । मीढ्वान् । मिह सेचने' इत्यस्मात् क्वसुप्रत्ययान्तो ‘दाश्वान् साह्वान् मीढ्वांश्च' इति निपातितः । बभूयात् । भवतेश्छान्दसस्य लिटः तिङां तिङो भवन्ति' (पा. म. ७. १. ३९ ) इति लिङादेशः । यासुट्स्थानिवद्भावात् आर्धधातुकत्वात् शबभावः । द्विर्वचने ‘भवतेरः (पा. सू. ७. ४. ७३) इति अत्वम् । तिङ्ङतिङः' इति निघातः ॥
स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः ।
पा॒हि सद॒मिद्वि॒श्वायु॑ः ॥३
सः । नः॒ । दू॒रात् । च॒ । आ॒सात् । च॒ । नि । मर्त्या॑त् । अ॒घ॒ऽयोः ।
पा॒हि । सद॑म् । इत् । वि॒श्वऽआ॑युः ॥३
सः । नः । दूरात् । च । आसात् । च । नि । मर्त्यात् । अघऽयोः ।
पाहि । सदम् । इत् । विश्वऽआयुः ॥३
हे अग्ने "विश्वायुः व्याप्तगमनः "सः त्वं "दूराच्च दूरेऽपि "आसाच्च आसन्नदेशेऽपि "अघायोः अघं पापमनिष्टं कर्तुमिच्छतः "मर्त्यात् मनुष्यात् वैरिणः "नः अस्मान् "सदमित् सर्वदैव “नि पाहि नितरां पालय ॥ अघायोः । ' सुप आत्मनः क्यच् '। 'अश्वाघस्यात् ' ( पा. सू. ७. ४. ३७ ) इति आत्वम् । पाहि । पादादित्वादनिघातः । विश्वायुः । ‘इण् गतौ ' इत्यस्माद्भावे ‘एतेर्णिच्च ' (उ. सू. २. २७५) इति उसिः । विश्वमयनं गमनं यस्येति बहुव्रीहिः । ‘बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् ॥
इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम् ।
अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥४
इ॒मम् । ऊं॒ इति॑ । सु । त्वम् । अ॒स्माक॑म् । स॒निम् । गा॒य॒त्रम् । नव्यां॑सम् ।
अग्ने॑ । दे॒वेषु॑ । प्र । वो॒चः॒ ॥४
इमम् । ऊं इति । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्यांसम् ।
अग्ने । देवेषु । प्र । वोचः ॥४
हे "अग्ने “त्वम् "अस्माकम् अस्मत्संबन्धिनम् "इममू “षु पुरोदेशे अनुष्ठीयमानमपि "सनिं हविर्दानं "नव्यांसं नवतरं "गायत्रं स्तुतिरूपं वचोऽपि "देवेषु देवानामग्रे “प्र “वोचः प्रबूहि ॥ ऊ षु । ‘निपातस्य च ' इति संहितायां दीर्घत्वं ।' सुञः' इति षस्वम् । नव्यांसम् । नवशब्दात् ईयसुनि ईकारलोपश्छान्दसः । ईयसुनो नित्त्वादाद्युदात्तत्वम् । वोचः । ‘छन्दसि लुङ्लङ्लिटः' इति लोडर्थे प्रार्थनायां लुङि • अत्यतिवक्ति' (पा. सू. ३. १. ५२ ) इति च्लेः अङादेशः । ‘वच उम्' (पा. सू. ७. ४. २० ) ॥
आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ ।
शिक्षा॒ वस्वो॒ अन्त॑मस्य ॥५
आ । नः॒ । भ॒ज॒ । प॒र॒मेषु॑ । आ । वाजे॑षु । म॒ध्य॒मेषु॑ ।
शिक्ष॑ । वस्वः॑ । अन्त॑मस्य ॥५
आ । नः । भज । परमेषु । आ । वाजेषु । मध्यमेषु ।
शिक्ष । वस्वः । अन्तमस्य ॥५
हे अग्ने "परमेषु उत्कृष्टेषु द्युलोकवर्तिषु "वाजेषु अन्नेषु नः अस्मान् “आ “भज सर्वतः प्रापय । “मध्यमेषु अन्तरिक्षलोकवर्तिषु “वाजेषु "आ भज । "अन्तमस्य अन्तिकतमस्य भूलोकस्य संबन्धीनि “वस्वः वसूनि "शिक्ष देहि ॥ शिक्ष। शिक्ष विद्योपादाने '। शपः पित्त्वात् धातुस्वरः । द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः । अन्तमस्य अन्तिकतमस्य । तमे तादेश्च' (पा.सू. ६.४.१४९. ९) इति तिकशब्दलोपः ॥ ॥ २२ ॥
वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ ।
स॒द्यो दा॒शुषे॑ क्षरसि ॥६
वि॒ऽभ॒क्ता । अ॒सि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सिन्धोः॑ । ऊ॒र्मौ । उ॒पा॒के । आ ।
स॒द्यः । दा॒शुषे॑ । क्ष॒र॒सि॒ ॥६
विऽभक्ता । असि । चित्रभानो इति चित्रऽभानो । सिन्धोः । ऊर्मौ । उपाके । आ ।
सद्यः । दाशुषे । क्षरसि ॥६
हे "चित्रभानो विचित्ररश्मियुक्ताग्ने "विभक्ता विशिष्टस्य धनस्य प्रापयिता "असि। तत्र दृष्टान्त उच्यते। आकार उपमार्थः। यथा “सिन्धोः नद्याः “उपाके समीपे "ऊर्मौ ऊर्मिं तरङ्गोपलक्षितं कुल्यादिप्रवाहं विभजन्ति तद्वत् । "दाशुषे हविर्दत्तवते यजमानाय "सद्यः तदानीमेव "क्षरसि कर्मफलभूतां वृष्टिं करोषि ॥ सिन्धोः ।' स्यन्दू प्रस्रवणे'।' स्यन्देः संप्रसारणं धश्च' (उ. सू. १. ११ ) इति उप्रत्ययः । नित्' इत्यनुवृत्तेः आद्युदात्तत्वम् । ऊर्मिः ।“ अर्तेरूच्च (उ. सू. ४. ४८४) इति मिः । प्रत्ययस्वरः । दाशुषे ।' धृतव्रताय दाशुषे ' (ऋ. सं. १. २५. ६ ) इत्यत्रोक्तम् ॥
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः ।
स यन्ता॒ शश्व॑ती॒रिष॑ः ॥७
यम् । अ॒ग्ने॒ । पृ॒त्ऽसु । मर्त्य॑म् । अवाः॑ । वाजे॑षु । यम् । जु॒नाः ।
सः । यन्ता॑ । शश्व॑तीः । इषः॑ ॥७
यम् । अग्ने । पृत्ऽसु । मर्त्यम् । अवाः । वाजेषु । यम् । जुनाः ।
सः । यन्ता । शश्वतीः । इषः ॥७
हे "अग्ने पृत्सु संग्रामेषु "यं "मर्त्यं यजमानम् "अवाः अवसि रक्षसि । "यं पुरुषं "वाजेषु संग्रामेषु "जुनाः प्रेरयसि । "सः नरो यजमानः "शश्वतीरिषः नित्यान्यन्नानि "यन्ता नियन्तुं समर्थो भवति ॥ पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' ( पा. सू. ६. १. ६३. १ ) इति पृतनाशब्दस्य पृदादेशः । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । अवाः आवः । अकाराकारयोर्विपर्ययः । यद्वा । लेटि अडागमः । ‘इतश्च० ' इति सिप इकारस्य लोपः । जुनाः । जू इति गत्यर्थः सौत्रो धातुः । लङः सिप् । ‘क्र्यादिभ्यः श्ना । ‘बहुलं छन्दस्यमाङ्योगेऽपि' इति अडागमाभावः । यद्वृत्तयोगादनिघातः । यन्ता । तृनो नित्त्वादाद्युदात्तत्वम् । शश्वतीः । ‘उगितश्च' इति ङीप् ॥
नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् ।
वाजो॑ अस्ति श्र॒वाय्य॑ः ॥८
नकिः॑ । अ॒स्य॒ । स॒ह॒न्त्य॒ । प॒रि॒ऽए॒ता । कय॑स्य । चि॒त् ।
वाजः॑ । अ॒स्ति॒ । श्र॒वाय्यः॑ ॥८
नकिः । अस्य । सहन्त्य । परिऽएता । कयस्य । चित् ।
वाजः । अस्ति । श्रवाय्यः ॥८
हे "सहन्त्य शत्रूणामभिभवनशीलाग्ने "अस्य त्वद्भक्तस्य यजमानस्य "कयस्य "चित् कस्यापि “पर्येता "नकिः आक्रमिता नास्ति । किंच अस्य यजमानस्य “श्रवाय्यः श्रवणीयः “वाजः "अस्ति बलविशेषोऽस्ति ॥ कयस्य । यकारोपजनश्छान्दसः । श्रवाय्यः । ‘श्रुदक्षिस्पृहिगृहिभ्य आय्यः । (उ. सू. ३. ३७६) इति आय्यप्रत्ययः ॥
स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता ।
विप्रे॑भिरस्तु॒ सनि॑ता ॥९
सः । वाज॑म् । वि॒श्वऽच॑र्षणिः । अर्व॑त्ऽभिः । अ॒स्तु॒ । तरु॑ता ।
विप्रे॑भिः । अ॒स्तु॒ । सनि॑ता ॥९
सः । वाजम् । विश्वऽचर्षणिः । अर्वत्ऽभिः । अस्तु । तरुता ।
विप्रेभिः । अस्तु । सनिता ॥९
“विश्वचर्षणिः सर्वैर्मनुष्यैरुपेतः "सः अग्निः "अर्वद्भिः अश्वैः "वाजं संग्रामं "तरुता तारयिता “अस्तु । "विप्रेभिः मेधाविभिः ऋत्विग्भिः सहितः तुष्टोऽग्निः "सनिता फलस्य दाता “अस्तु ॥ विश्वचर्षणिः । विश्वे चर्षणयो यस्य । ‘बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । अर्वद्भिः । ‘‘ऋ गतौ'। ‘अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । भिसि ' अर्वणस्त्रसावनञः ' ( पा. सू. ६. ४. १२७ ) इति नकारस्य तृ इत्ययमादेशः । तरुता । “तॄ प्लवनतरणयोः । अस्मात् ' ग्रसितस्कभित' (पा. सू. ७. २. ३४ ) इत्यादौ तृनन्तो निपातितः । निपातनादेव इकारस्य उत्वम् ॥
अप्तोर्यामे होतुरतिरिक्तोक्थे ' जराबोध तद्विविड्ढि' इति स्तोत्रियस्तृचः ।' यस्य पशवो नोपधरेरन् इति खण्डे सूत्रितम्-' अतिरिक्तोक्थानि जराबोध तद्विविड्ढि' (आश्व. श्रौ. ९.११) इति ॥
जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया॑य ।
स्तोमं॑ रु॒द्राय॒ दृशी॑कम् ॥१०
जरा॑ऽबोध । तत् । वि॒वि॒ड्ढि॒ । वि॒शेऽवि॑शे । य॒ज्ञिया॑य ।
स्तोम॑म् । रु॒द्राय॑ । दृशी॑कम् ॥१०
जराऽबोध । तत् । विविड्ढि । विशेऽविशे । यज्ञियाय ।
स्तोमम् । रुद्राय । दृशीकम् ॥१०
हे "जराबोध जरया स्तुत्या बोधमानाग्ने "विशेविशे तत्तद्यजमानरूपप्रजानुग्रहार्थं "यज्ञियाय यज्ञसंबन्ध्यनुष्ठानसिद्धयर्थं "तत् देवयजन "विविड्ढि' प्रविश । यजमानोऽपि "रुद्राय क्रूरायाग्नये तुभ्यं “दृशीकं दर्शनीयं समीचीनं "स्तोमं स्तोत्रं करोतीति शेषः । अत्र यास्क एवं व्याख्यातवान्–' जरा स्तुतिर्जरतेः स्तुतिकर्मणस्तां बोध तथा बोधयितरिति वा तद्विविड्ढि तत्कुरु मनुष्यस्य मनुष्यस्य यजनाय स्तोमं रुद्राय दर्शनीयम् ' ( निरु. १०. ८) इति ॥ जराबोध ।' जॄष् वयोहानौ' । अत्र तु स्तुत्यर्थः। ‘षिद्भिदादिभ्योऽङ्' (पा. सू. ३. ३. १०४ ) इति अङ्प्रत्ययः । ततः टाप् । जरया स्तुत्या बोधो यस्यासौ जराबोधः । यद्वा । जरया बोध्यते इति जराबोधः । कर्मणि घञ्। आमन्त्रिताद्युदात्तत्वम् । विविड्ढि। ‘विश प्रवेशने'। लोटो हि । ‘बहुलं छन्दसि' इति शपः श्लुः । अभ्यासहलादिशेषौ । ‘हुझल्भ्यो हेर्धिः' इति हेर्धिरादेशः । षत्वष्टुत्वे । यद्वा । ‘विष्लृ व्याप्तौ ' इत्यस्मात् लोण्मध्यमैकवचने अभ्यासस्य गुणाभावः । विशेविशे। ‘सावेकाचः' इति चतुर्थ्या उदात्तत्वम् । ‘अनुदात्तं च' इति आम्रेडितानुदात्तत्वम् । यज्ञियाय । ‘यज्ञर्त्विग्भ्यां घखञौ ' ( पा. सू. ५. १. ७१ ) इति घः । दृशीकम् । “ अनिदृशिभ्यां च' (दश. पा. ३) इति कीकन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ॥ २३ ॥
स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः ।
धि॒ये वाजा॑य हिन्वतु ॥११
सः । नः॒ । म॒हान् । अ॒नि॒ऽमा॒नः । धू॒मऽके॑तुः । पु॒रु॒ऽच॒न्द्रः ।
धि॒ये । वाजा॑य । हि॒न्व॒तु॒ ॥११
सः । नः । महान् । अनिऽमानः । धूमऽकेतुः । पुरुऽचन्द्रः ।
धिये । वाजाय । हिन्वतु ॥११
“सः अग्निः "नः अस्मान् "धिये कर्मणे "वाजाय अन्नाय च "हिन्वतु प्रीणयतु । कीदृशः । “महान् गुणाधिकः "अनिमानः निमानवर्जितः अपरिच्छिन्न इत्यर्थः । “धूमकेतुः धूमेन ज्ञाप्यमानः “पुरुश्चन्द्रः बहुदीप्तिः ॥ महाँ अनि इत्यत्र संहितायां नकारस्य रुत्वानुनासिकावुक्तौ । अनिमानः । न विद्यते निमानोऽस्येति बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । धूमकेतुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पुरुश्चन्द्रः । चदि आह्लादने दीप्तौ च । अस्मात् ' स्फायितञ्चि°' इत्यादिना कर्तरि रक् । पुरुश्चासौ चन्द्रश्चेति समासान्तोदात्तत्वम् । ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे' (पा. सू. ६. १. १५१ ) इति सुट् । तस्य श्चुत्वेन शकारः । धिये । 'सावेकाचः' इति चतुर्थ्या उदात्तत्वम् । हिन्वतु। हिवि प्रीणनार्थः । इदितो नुम् धातोः' इति नुम् ॥
स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्य॑ः के॒तुः शृ॑णोतु नः ।
उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥१२
सः । रे॒वान्ऽइ॑व । वि॒श्पतिः॑ । दैव्यः॑ । के॒तुः । शृ॒णो॒तु॒ । नः॒ ।
उ॒क्थैः । अ॒ग्निः । बृ॒हत्ऽभा॑नुः ॥१२
सः । रेवान्ऽइव । विश्पतिः । दैव्यः । केतुः । शृणोतु । नः ।
उक्थैः । अग्निः । बृहत्ऽभानुः ॥१२
"सः "अग्निः "उक्थैः स्तोत्रैर्युक्तान् "नः अस्मान् "शृणोतु । तत्र दृष्टान्तः। "रेवानिव। यथा लोके धनवान् राजा वन्दिनां स्तोत्रं शृणोति तद्वत् । कीदृशः । "विश्पतिः प्रजापालकः "दैव्यः देवानां संबन्धी । “अग्निर्वै देवानां होता' (ऐ. ब्रा. ३. १४ ) इति श्रुत्यन्तरात् । "केतुः दूतवत् ज्ञापकः । ‘अग्निर्वै देवानां दूत आसीत् ' (तै. सं. २. ५. ८. ५) इति श्रुतेः । "बृहद्भानुः प्रौढरश्मिः ॥ स रेवान् । एतत्तदोः ' (पा. सू. ६. १. १३२ ) इति सोर्लोपः । ‘रयेर्मतौ बहुलम्' इति संप्रसारणम् । परपूर्वत्वम् ।' आद्गुणः । छन्दसीरः' इति मतुपो वत्वम् । आरेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्' ( पा. सू. ६. १. १७६. १) इति मतुप उदात्तत्वम् । विश्पतिः । ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । बृहद्भानुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
दर्शपूर्णमासयोः स्रुगादापनात् पूर्वभाविनि जपे नमो महद्भ्यः' इत्येषा। ‘ब्रह्मौदने प्राशिष्यमाणे ' इति खण्डे ‘सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यः ' ( आश्व. श्रौ. १. ४ ) इति सूत्रितम् ॥
नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्य॑ः ।
यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑स॒ः शंस॒मा वृ॑क्षि देवाः ॥१३
नमः॑ । म॒हत्ऽभ्यः॑ । नमः॑ । अ॒र्भ॒केभ्यः॑ । नमः॑ । युव॑भ्यः । नमः॑ । आ॒शि॒नेभ्यः॑ ।
यजा॑म । दे॒वान् । यदि॑ । श॒क्नवा॑म । मा । ज्याय॑सः॒ । शंस॑म् । आ । वृ॒क्षि॒ । दे॒वाः॒ ॥१३
नमः । महत्ऽभ्यः । नमः । अर्भकेभ्यः । नमः । युवभ्यः । नमः । आशिनेभ्यः ।
यजाम । देवान् । यदि । शक्नवाम । मा । ज्यायसः । शंसम् । आ । वृक्षि । देवाः ॥१३
अग्निना प्रेरितः शुनःशेपो विश्वान् देवान् अनया तुष्टाव। तथा च आम्नायते- तमग्निरुवाच विश्वान्नु देवान् स्तुह्यथ त्वोत्स्रक्ष्याम इति स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नमो अर्भकेभ्य इत्येतयर्चा' (ऐ. ब्रा. ७. १६ ) इति । महान्तो गुणैरधिकाः । अर्भका गुणैर्न्यूनाः। युवानः तरुणाः । आशिनाः वयसा व्याप्ता वृद्धाः । यथोक्तचतुर्विधदेहयुक्तेभ्यो देवेभ्यो नमोऽस्तु । "यदि "शक्नवाम कथंचित् धनादिसंपत्त्या शक्ताश्चेत् तदानीं "देवान् "यजाम । हे "देवाः "ज्यायसः ज्येष्ठस्य देवताविशेषस्य "आ सर्वतः प्रसृतं "शंसं स्तोत्रं "मा "वृक्षि अहं विच्छिन्नं मा कार्षम् ॥ आशिनेभ्यः। ‘अशू व्याप्तौ'। 'बहुलमन्यत्रापि ' ( उ. सू. २. २०७ ) इति औणादिकः इनच्प्रत्ययः । ‘चितः' इत्यन्तोदात्तत्वम् । यजाम । शपः पित्त्वानुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । शक्नवाम। ‘शक्लृ शक्तौ'। ‘आडुत्तमस्य पिच्च' इति तिङः पिद्वद्भावात् अनुदात्तत्वे सति विकरणस्वरः । ‘निपातैर्यद्यदिहन्त° ' इति निघातप्रतिषेधः । ज्यायसः । प्रशस्यशब्दात् ईयसुनि ‘ज्य च' (पा. सू. ५. ३. ६१ ) इति ज्यादेशः । ज्यादादीयसः ' (पा. सू. ६. ४. १६० ) इति ईयसुन ईकारस्य आत्वम् । 'नित्त्वादाद्युदात्तत्वम् । शंसम् ।' हलश्च ' इति घञ्। वृक्षि ।' ओव्रश्चू छेदने'। व्यत्ययेन आत्मनेपदोत्तमपुरुषैकवचनम् इट् । च्लेः सिच् ।' स्वरतिसूति' इत्यादिना इडभावः । ‘स्कोः संयोगाद्योः' इति उपधासकारलोपः । व्रश्चादिना षत्वम् । षढोः कः सि' इति कत्वम् । आदेशप्रत्यययोः' इति षत्वम् ।' न माङयोगे' इति अडभावः ॥ ॥ २४ ॥
टिप्पणी
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|