प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं १.१४३ ऋग्वेदः - मण्डल १
सूक्तं १.१४४
दीर्घतमा औचथ्यः
सूक्तं १.१४५ →
दे. अग्निः। जगती ।


एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् ।
अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥१॥
अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः ।
अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥२॥
युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः ।
आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः ॥३॥
यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा ।
दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ॥४॥
तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे ।
धनोरधि प्रवत आ स ऋण्वत्यभिव्रजद्भिर्वयुना नवाधित ॥५॥
त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना ।
एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥६॥
अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो ।
यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमाँ इव क्षयः ॥७॥


सायणभाष्यम्

‘ एति प्र होता' इति सप्तर्चं पञ्चमं सूक्तं दैर्घतमसं जागतम् । पूर्वत्र ‘ आग्नेयं तु तत् ' इत्युक्तत्वात् इदमप्याग्नेयम् । तथा चानुक्रमणिका-' एति प्र सप्त जागतम् ' इति । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः ॥


एति॒ प्र होता॑ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा॑नः॒ शुचि॑पेशसं॒ धियं॑ ।

अ॒भि स्रुचः॑ क्रमते दक्षिणा॒वृतो॒ या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ॥१

एति॑ । प्र । होता॑ । व्र॒तम् । अ॒स्य॒ । मा॒यया॑ । ऊ॒र्ध्वाम् । दधा॑नः । शुचि॑ऽपेशसम् । धिय॑म् ।

अ॒भि । स्रुचः॑ । क्र॒म॒ते॒ । द॒क्षि॒णा॒ऽआ॒वृतः॑ । याः । अ॒स्य॒ । धाम॑ । प्र॒थ॒मम् । ह॒ । निंस॑ते ॥१

एति । प्र । होता । व्रतम् । अस्य । मायया । ऊर्ध्वाम् । दधानः । शुचिऽपेशसम् । धियम् ।

अभि । स्रुचः । क्रमते । दक्षिणाऽआवृतः । याः । अस्य । धाम । प्रथमम् । ह । निंसते ॥१

अयं “होता होमनिष्पादकोऽध्वर्युः “अस्य अगनेः “व्रतं हविष्प्रदानादिरूपं कर्म कर्तुं “मायया कर्तव्यविशेषप्रज्ञया युक्तः सन् “प्र “एति प्रकर्षेण गच्छति होतुम् । मायेति प्रज्ञानाम, ‘माया वयुनम् ' (नि. ३. ९. ९) इति तन्नामसु पाठात् । कीदृशोऽयम् । “ऊर्ध्वाम् उपर्यारूढां “शुचिपेशसं शोभनरूपोपेताम् । पेश इति रूपनाम । “धियं प्रज्ञां “दधानः । ‘आ चतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यति' इत्युक्तत्वात् । आगत्य च “दक्षिणावृतः प्रादक्षिण्येन वर्तमानाः “स्रुचः जुह्वादीः “क्रमते गृह्णाति । कीदृश्यः सुचः । “याः “प्रथमं पात्रासादनकाले “अस्य अग्नेः “धाम स्थानं “निंसते ॥ ‘ निंस' चुम्बने इति धातुः ॥ चुम्बन्ति भजन्ते इत्यर्थः । प्रथममनुष्ठेयक्रमं बुद्ध्या प्रैति पश्चात् स्रुचः क्रमते इत्यर्थः । हशब्दः प्रसिद्धौ । यद्वा । होता देवानामाह्वाता अयमग्निः अस्य यजमानस्य व्रतं कर्म ज्योतिष्टोमादि प्रज्ञाविशेषेण युक्तः सन् एति । यज्ञदेशं प्रत्यागच्छति । कीदृशोऽयम् । ऊर्ध्वामूर्ध्ववर्ति शुचिपेशसं शोभनरूपोपेतं धियं ज्वालाचलनादिरूपं कर्म दधानः धारयमाणः । आगत्य च दक्षिणावृतः उक्तलक्षणाः स्रुचो घृतपूर्णा जुहूपभृदादिका अभि क्रमते आक्रमते। घृतं स्वीकर्तुं ज्वाला: प्रसर्पन्ति इत्यर्थः । याः स्रुचः प्रथमं पूर्वं हविरासादनकाले अस्याग्नेर्धाम स्थानं वेदिलक्षणं निंसते चुम्बन्ति प्राप्ताः । हशब्दः प्रसिद्धौ ॥ ‘णिसि चुम्बने' । अदादित्वात् शपो लुक् । इदित्त्वात् नुम् ।।


अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूषत॒ योनौ॑ दे॒वस्य॒ सद॑ने॒ परी॑वृताः ।

अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा अ॑धय॒द्याभि॒रीय॑ते ॥२

अ॒भि । ई॒म् । ऋ॒तस्य॑ । दो॒हनाः॑ । अ॒नू॒ष॒त॒ । योनौ॑ । दे॒वस्य॑ । सद॑ने । परि॑ऽवृताः ।

अ॒पाम् । उ॒पऽस्थे॑ । विऽभृ॑तः । यत् । आ । अव॑सत् । अध॑ । स्व॒धाः । अ॒ध॒य॒त् । याभिः॑ । ईय॑ते ॥२

अभि । ईम् । ऋतस्य । दोहनाः । अनूषत । योनौ । देवस्य । सदने । परिऽवृताः ।

अपाम् । उपऽस्थे । विऽभृतः । यत् । आ । अवसत् । अध । स्वधाः । अधयत् । याभिः । ईयते ॥२

“ऋतस्य उदकस्य “दोहनाः धाराः “योनौ उत्पत्तिस्थाने "देवस्य “सदने द्योतमानस्य आदित्यस्य स्थाने “परीवृताः तद्रश्मिभिः परितो व्याप्ताः सत्यः “अभि “अनूषत अभिनवा भवन्ति । आभवन्त्येव स्तूयन्ते वा । कदेत्यत आह । “यत् यदा “अपामुपस्थे उदकानामुत्सङ्गे अन्तः “विभृतः विशेषेण ताभिर्धार्यमाणः सन् “आवसत् आक्रम्य निवसत्ययमग्निः तदानीमित्यर्थः । “अध अधुना “स्वधाः अमृतोपमाः अपः “अधयत् पिबति सर्वो लोकः । ता विशेष्यन्ते । “याभिः सह “ईयते अयमग्निः संगच्छते वा भूमिं ता अधयत् । विद्युदात्मना उदकानि जगत् पाययते इत्यग्नेः स्तुतिः ॥


युयू॑षतः॒ सव॑यसा॒ तदिद्वपुः॑ समा॒नमर्थं॑ वि॒तरि॑त्रता मि॒थः ।

आदीं॒ भगो॒ न हव्यः॒ सम॒स्मदा वोळ्हु॒र्न र॒श्मीन्त्सम॑यंस्त॒ सार॑थिः ॥३

युयू॑षतः । सऽव॑यसा । तत् । इत् । वपुः॑ । स॒मा॒नम् । अर्थ॑म् । वि॒ऽतरि॑त्रता । मि॒थः ।

आत् । ई॒म् । भगः॑ । न । हव्यः॑ । सम् । अ॒स्मत् । आ । वोळ्हुः॑ । न । र॒श्मीन् । सम् । अ॒यं॒स्त॒ । सार॑थिः ॥३

युयूषतः । सऽवयसा । तत् । इत् । वपुः । समानम् । अर्थम् । विऽतरित्रता । मिथः ।

आत् । ईम् । भगः । न । हव्यः । सम् । अस्मत् । आ । वोळ्हुः । न । रश्मीन् । सम् । अयंस्त । सारथिः ॥३

“सवयसा समानवयस्कौ । वयःशब्देन सामर्थ्यं लक्ष्यते । समानसामर्थ्यौ “तदित् तदानीमेव यदा प्रवृद्धो भवति तदानीमेव “समानमर्थं समानप्रयोजनं निष्पत्तिं “मिथः प्रत्येकं “वितरित्रता भृशं तरन्तौ होत्रध्वर्यू “वपुः अग्नेः शरीरं “युयूषतः स्वस्वव्यापारेण मिश्रयितुमिच्छतः । प्रैषानन्तरं याज्यादिपाठो होतुर्व्यापारः वषट्कारानन्तरं होमोऽध्वर्योरिति विभागः । अत्रेदमनुसंधयम् । सवयसा समानवयस्कौ मिथः प्रत्येकं समानप्रयोजनं सुखप्राप्तिं वितरित्रता विशेषेण तरितुमिच्छन्तौ । तरतेर्यङ्लुगन्तात् शतरि दाधर्त्यादौ (पा. सू. ७. ४. ६५ ) निपात्यते । द्विवचनस्य आकारः ॥ जायापती तद्वपुस्तदेव परस्परं शरीरं युयूषतः मिश्रयितुमिच्छतः परस्परमालिङ्गतः । तद्वदग्निं साकं होत्रध्वर्यू युयूषतः । "आदीम् अनन्तरमेव “हव्यः आहवनीयोऽग्निः सारथिः सरणशीलः सारथिवत् यज्ञात्मकस्य रथस्य निर्वाहको वा सन् “अस्मत् अस्माकं संबन्धिनः “रश्मीन् रश्मिवदायता घृतधाराः "आ सर्वतः “समयस्त सम्यक् स्वीकरोति । तत्र दृष्टान्तद्वयमुच्यते। "भगो “न सर्वैः सेवनीय आदित्यः स यथा सर्वतः पूजामादत्ते तद्वत् । “सारथिः रथस्य यन्ता वोढुर्वाहकस्याश्वादेः रश्मीन् प्रग्रहानिव । तान् यथा स्वीकरोति तद्वदयमग्निरपि हवींषि समयंस्त ॥


यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना॑ मिथु॒ना समो॑कसा ।

दिवा॒ न नक्तं॑ पलि॒तो युवा॑जनि पु॒रू चर॑न्न॒जरो॒ मानु॑षा यु॒गा ॥४

यम् । ई॒म् । द्वा । सऽव॑यसा । स॒प॒र्यतः॑ । स॒मा॒ने । योना॑ । मि॒थु॒ना । सम्ऽओ॑कसा ।

दिवा॑ । न । नक्त॑म् । प॒लि॒तः । युवा॑ । अ॒ज॒नि॒ । पु॒रु । चर॑न् । अ॒जरः॑ । मानु॑षा । यु॒गा ॥४

यम् । ईम् । द्वा । सऽवयसा । सपर्यतः । समाने । योना । मिथुना । सम्ऽओकसा ।

दिवा । न । नक्तम् । पलितः । युवा । अजनि । पुरु । चरन् । अजरः । मानुषा । युगा ॥४

“यमीम् एनमग्निं “द्वा द्वौ “सवयसा समानवयस्कौ समानसामर्थ्यौ वा “समाने “योना योनौ फलस्योत्पत्तिस्थाने यज्ञे वर्तमानौ “मिथुना दम्पती इव एककार्योद्युक्तौ “समोकसा समाननिवासौ देवयजनस्थानौ ईदृशौ होत्रध्वर्यू “सपर्यतः पूजयतः स्तुत्या हविष्प्रदानेन च प्रीणयतः । कदेत्याह । “दिवा “न अहनीव “नक्तं रात्रावपि । सर्वदेत्यर्थः । एवं पूज्यमानोऽग्निः “पलितः पूर्वम् अङ्गारावस्थायां जीर्णोऽपि समिन्धनानन्तरं “युवा तरुणः तेजसा सर्वस्य मिश्रयिता वा “अजनि जायते । एवं जातोऽयं “मानुषा "युगा मनोः संबन्धीनि युगानि जायापतिरूपाणि होत्रध्वर्युरूपाणि वा उद्दिश्य “पुरु “चरन् बह्वाज्यादिकं भक्षयन् "अजरः अजीर्णो जरारहितो वर्तते ।।


तमीं॑ हिन्वंति धी॒तयो॒ दश॒ व्रिशो॑ दे॒वं मर्ता॑स ऊ॒तये॑ हवामहे ।

धनो॒रधि॑ प्र॒वत॒ आ स ऋ॑ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा॑धित ॥५

तम् । ई॒म् । हि॒न्व॒न्ति॒ । धी॒तयः॑ । दश॑ । व्रिशः॑ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ । ह॒वा॒म॒हे॒ ।

धनोः॑ । अधि॑ । प्र॒ऽवतः॑ । आ । सः । ऋ॒ण्व॒ति॒ । अ॒भि॒व्रज॑त्ऽभिः । व॒युना॑ । नवा॑ । अ॒धि॒त॒ ॥५

तम् । ईम् । हिन्वन्ति । धीतयः । दश । व्रिशः । देवम् । मर्तासः । ऊतये । हवामहे ।

धनोः । अधि । प्रऽवतः । आ । सः । ऋण्वति । अभिव्रजत्ऽभिः । वयुना । नवा । अधित ॥५

"देवं द्योतमानं “तम् एनमग्निं “दश “धीतयः दशसंख्याका अङ्गुलयः “व्रिशः विशः परस्पर विश्लिष्टाः “हिन्वन्ति प्रीणयन्ति मथनकाले । तथा “मर्तासः मनुष्या वयं यजमानाः “ऊतये रक्षणाय “हवामहे आह्वयामः । कोऽस्य विशेष इत्युच्यते । अयमग्निः “धनोः धनुषः सकाशात् “प्रवत “आ प्रकर्षेण गच्छतो बाणानिव । तान् यथा शत्रोरुपरि मुञ्चन्ति ॥ आ इत्युपमार्थे ॥ तद्वत् “सः अग्निः धनुस्थानीयात् निजशरीरसकाशात् प्रवतः प्रकृष्टवेगवतो रश्मीन् “ऋण्वति गमयति । रिविर्गत्यर्थः । अत्र अन्तर्भावितण्यर्थोऽयम् । इदित्त्वात् नुम् । छान्दसं रेफस्य संप्रसारणम् । अधिशब्दोऽनर्थको धात्वर्थमात्रानुवादी ॥ किंच एवं प्रवृद्धोऽग्निः "अभिव्रजद्भिः अनुष्ठानार्थमभितः संचरद्भिः ज्ञेयम् अर्थम् अभिगच्छद्भिर्वा तदर्थं “नवा नवानि नूतनानि “वयुना वयुनानि प्रज्ञानानि अनुष्ठानविषयाणि “अधित धारयति ज्ञापयतीत्यर्थः । यद्वा। अभिव्रजद्धिराभिमुख्येन गच्छद्भिर्होत्रादिभिः क्रियमाणानि नवानि वयुनानि प्रज्ञाविशिष्टानि स्तोत्रादीन्यधित धत्ते ॥ धाञश्छान्दसे लुङि ‘ स्थाध्वोरिच्च' इति इत्वम् । उत्तरस्य सिचः कित्त्वम् । ह्रस्वादङ्गात् ' इति सलोपः ।।


त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा इ॑व॒ त्मना॑ ।

एनी॑ त ए॒ते बृ॑ह॒ती अ॑भि॒श्रिया॑ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा॑शाते ॥६

त्वम् । हि । अ॒ग्ने॒ । दि॒व्यस्य॑ । राज॑सि । त्वम् । पार्थि॑वस्य । प॒शु॒पाःऽइ॑व । त्मना॑ ।

एनी॒ इति॑ । ते॒ । ए॒ते इति॑ । बृ॒ह॒ती इति॑ । अ॒भि॒ऽश्रिया॑ । हि॒र॒ण्ययी॒ इति॑ । वक्व॑री॒ इति॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ ॥६

त्वम् । हि । अग्ने । दिव्यस्य । राजसि । त्वम् । पार्थिवस्य । पशुपाःऽइव । त्मना ।

एनी इति । ते । एते इति । बृहती इति । अभिऽश्रिया । हिरण्ययी इति । वक्वरी इति । बर्हिः । आशाते इति ॥६

हे “अग्ने “त्वं "दिव्यस्य दिवि भवस्य देवादेः विद्युदात्मना वृष्ट्यादेर्वा “राजसि ईशिषे । ऐश्वर्यनामैतत् । तथा “पार्थिवस्य पृथिवीसंबन्धिनो मनुष्यादेः राजसि ईश्वरो भवसि । किम् अन्यतन्त्रत्वेन नेत्याह । “त्मना आत्मनैव स्वसामर्थ्येनैव । तत्र दृष्टान्तः “पशुपाइव । पशुपालको यथा स्वसामर्थ्येनैव पशूनां निरोधनिर्गमनादिव्यापारेषु समर्थों भवति तद्वत् । एतद्दृष्टान्तेन अत्यन्तस्वातन्त्र्यमुक्तं भवति । किंच यस्मादेवं तस्मात् “ते तव “बर्हिः यज्ञम् “एते प्रसिद्धे “एनी एतवर्णे शुभ्रे द्यावापृथिव्यौ “आशाते अश्नुवाते व्याप्नुतः ।। ‘ वर्णादनुदात्तात् ' (पा. सू. ४. १. ३९) इति ङीप् तकारस्य नकारश्च ॥ कीदृश्यौ ते । “बृहती महत्यौ अतिविस्तृते “अभिश्रिया प्राप्तैश्वर्ये अभितः सेव्ये वा “हिरण्ययी हितरमणीये “वक्वरी अतिकुशलं शब्दयन्त्यौ ।। वचेर्वनिपि ‘ वनो र च ' इति ङीब्रेफौ । छान्दसं कुत्वम् । ‘ वकि कौटिल्ये' इत्यस्मात् वा छान्दसो नुमभावः ॥ ईदृश्यौ द्यावापृथिव्यौ बर्हिः अश्नुवाते ।।


अग्ने॑ जु॒षस्व॒ प्रति॑ हर्य॒ तद्वचो॒ मंद्र॒ स्वधा॑व॒ ऋत॑जात॒ सुक्र॑तो ।

यो वि॒श्वतः॑ प्र॒त्यङ्ङसि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयः॑ ॥७

अग्ने॑ । जु॒षस्व॑ । प्रति॑ । ह॒र्य॒ । तत् । वचः॑ । मन्द्र॑ । स्वधा॑ऽवः । ऋत॑ऽजात । सुक्र॑तो॒ इति॒ सुऽक्र॑तो ।

यः । वि॒श्वतः॑ । प्र॒त्यङ् । असि॑ । द॒र्श॒तः । र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ ॥७

अग्ने । जुषस्व । प्रति । हर्य । तत् । वचः । मन्द्र । स्वधाऽवः । ऋतऽजात । सुक्रतो इति सुऽक्रतो ।

यः । विश्वतः । प्रत्यङ् । असि । दर्शतः । रण्वः । सम्ऽदृष्टौ । पितुमान्ऽइव । क्षयः ॥७

हे “अग्ने “जुषस्व सेवस्व हविः । प्रीतो भव वा स्तुत्या । किंच “तत् तादृशं प्रियकरं “वचः वाग्रूपं स्तोत्रं “प्रति हर्य पुनः कामयस्व । हे "मन्द्र मादनशील स्तुत्य वा हे “स्वधावः हविर्लक्षणान्नवन् हे “ऋतजात यज्ञार्थमुत्पन्न हे “सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा । “यः ईदृशस्त्वं “विश्वतः सर्वस्य स्थावरजङ्गमस्य जगतः “प्रत्यङ्ङसि अभिमतः अनुकूलोऽसि न पराङ्मुखः इत्यर्थः । तथा “दर्शतः दर्शनीयः सर्वैः । किंच “संदृष्टौ सम्यग्दर्शने “रण्वः रमणशीलो रमयिता वा भवसि सर्वस्य । यद्वा । तव संदृष्टौ सत्यां सर्वो जनः “क्षयः निवासवान् भवति । तत्र दृष्टान्तः । “पितुमानिव । अतिप्रभूतान्नस्वामी यथा सर्वैः वस्तव्यः गन्तव्यश्च भवति तद्वत् ॥ ॥ १३ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४४&oldid=207810" इत्यस्माद् पुनः प्राप्तिः