ऋग्वेदः सूक्तं १.२३
← सूक्तं १.२२ | ऋग्वेदः - मण्डल १ सूक्तं १.२३ मेधातिथिः काण्वः। |
सूक्तं १.२४ → |
दे. १ वायुः, २-३ इन्द्रवायूः, ४--६ मित्रावरुणौ, ७-९ इन्द्रो मरुत्वान्, १०-१२ विश्वे देवाः, १३-१५ पूषाः, १६-२२, २३(पूर्वार्धस्य) आपः, २३ (उत्तरार्धस्य), २४ अग्निः। १-१८ गायत्री, १९ पुरउष्णिक्, २१ प्रतिष्ठा, २०, २२-२४ अनुष्टुप्। |
तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे ।
वायो तान्प्रस्थितान्पिब ॥१॥
उभा देवा दिविस्पृशेन्द्रवायू हवामहे ।
अस्य सोमस्य पीतये ॥२॥
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
सहस्राक्षा धियस्पती ॥३॥
मित्रं वयं हवामहे वरुणं सोमपीतये ।
जज्ञाना पूतदक्षसा ॥४॥
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।
ता मित्रावरुणा हुवे ॥५॥
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
करतां नः सुराधसः ॥६॥
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये ।
सजूर्गणेन तृम्पतु ॥७॥
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
विश्वे मम श्रुता हवम् ॥८॥
हत वृत्रं सुदानव इन्द्रेण सहसा युजा ।
मा नो दुःशंस ईशत ॥९॥
विश्वान्देवान्हवामहे मरुतः सोमपीतये ।
उग्रा हि पृश्निमातरः ॥१०॥
जयतामिव तन्यतुर्मरुतामेति धृष्णुया ।
यच्छुभं याथना नरः ॥११॥
हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः ।
मरुतो मृळयन्तु नः ॥१२॥
आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः ।
आजा नष्टं यथा पशुम् ॥१३॥
पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् ।
अविन्दच्चित्रबर्हिषम् ॥१४॥
उतो स मह्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत् ।
गोभिर्यवं न चर्कृषत् ॥१५॥
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
पृञ्चतीर्मधुना पयः ॥१६॥
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
ता नो हिन्वन्त्वध्वरम् ॥१७॥
अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
सिन्धुभ्यः कर्त्वं हविः ॥१८॥
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये ।
देवा भवत वाजिनः ॥१९॥
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥२०॥
आपः पृणीत भेषजं वरूथं तन्वे मम ।
ज्योक्च सूर्यं दृशे ॥२१॥
इदमापः प्र वहत यत्किं च दुरितं मयि ।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥२२॥
आपो अद्यान्वचारिषं रसेन समगस्महि ।
पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥२३॥
सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२४॥
सायणभाष्यम्
‘ तीव्राः' इति चतुर्विंशत्यृचं षष्टं सूक्तम् । अत्रेयमनुक्रमणिका- ‘ तीव्राश्चतुर्विंशतिर्वायव्यैकैन्द्रवायव्यौ मैत्रावरुणमरुत्वतीयवैश्वदेवपौष्णास्तुचाः शेषा आप्योऽन्त्याध्यर्धाग्नेय्यप्स्वन्तः पुरउष्णिक् परानुष्टुप्तिस्रश्चान्त्या एकविंशी प्रतिष्ठा' इति । ‘ ऋषिश्चान्यस्मात् ' (अनु. १२. २ ) इति परिभाषया अनुवर्तनात् मेधातिथिः काण्व ऋषिः । ‘ अप्स्वन्तः' इत्येषा पुरउष्णिक् । प्रथमपादस्य द्वादशाक्षरेण ‘ आद्यश्चेत्पुरउष्णिक्' (अनु. ५. २) इति लक्षणसद्भावात् । ‘अप्सु मे सोमः' इत्येषा अनुष्टुप् । ‘ इदमापः' इत्याद्यास्तिस्रः अनुष्टुभः । शिष्टा एकोनविंशतिसंख्याका ऋचो गायत्र्यः । ‘ आदौ गायत्रम्' (अनु. १२. १४ ) इति परिभाषितत्वात् आद्या वायुदेवताका । ततो द्वे ऋचौ इन्द्रवायुदेवताके । तत एकस्तृचो मित्रावरुणदेवत्यः । तत उत्तरतृचस्य मरुद्गणविशिष्टेन्द्रो देवता । तत एकस्तृचो वैश्वदेवः । तदनन्तरभावी पौष्णः । शिष्टा ऋचोऽब्देवताकाः । ‘ पयस्वानग्ने ' इत्यर्धर्चयुक्ता ‘ सं माग्ने ' इत्येषा तु अग्निदेवताका। सूक्तविनियोगो लिङ्गादवगन्तव्यः । अभिप्लवषडहस्य द्वितीयेऽहनि प्रउगशस्त्रे वायव्यतृचस्य ' तीव्राः सोमासः' इत्येषा तृतीया । ‘ द्वितीयस्य चतुर्विंशेन' इति खण्डे सूत्रितं - तीव्राः सोमास आ गहीत्येका' ( आश्व. श्रौ. ७. ६ ) इति । पृठ्यषडहेऽपि द्वितीयेऽहनि प्रउगे एषा ॥
ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे ।
वायो॒ तान्प्रस्थि॑तान्पिब ॥१
ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । आ॒शीःऽव॑न्तः । सु॒ताः । इ॒मे ।
वायो॒ इति॑ । तान् । प्रऽस्थि॑तान् । पि॒ब॒ ॥१
तीव्राः । सोमासः । आ । गहि । आशीःऽवन्तः । सुताः । इमे ।
वायो इति । तान् । प्रऽस्थितान् । पिब ॥१
हे "वायो "इमे "सोमासः ऐन्द्रवायवग्रहादिरूपाः सोमाः "सुताः अभिषुताः । ते च "तीव्राः प्रभूतत्वात् तर्पयितुं समर्थाः "आशीर्वन्तः आशीर्युक्ताः अतस्त्वम् "आ "गहि अस्मिन् कर्मणि आगच्छ । "प्रस्थितान् उत्तरवेदिं प्रति आनीतान् "तान् सोमान् "पिब ॥ सोमासः । ‘ अर्तिस्तु ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । ‘ आज्जसेरसुक्'। गहि । मरुद्भिरग्न आ गहि' (ऋ. सं. १. १९. २) इत्यत्रोक्तम् । आशीर्वन्तः । ‘ श्रीजञ् पाके'। ‘ अपस्पृधेथाम् । ( पा. सू. ६. १. ३६ ) इत्यादिसूत्रे आङ्पूर्वस्य क्विपि शिरादेशो निपातितः । करणस्यापि श्रयणद्रव्यस्य स्वव्यापारे कर्तृत्वविवक्षया कर्तरि क्विप् न विरुध्यते । आशीः एषाम् अस्तीति आशीर्वन्तः । ‘ छन्दसीरः' इति वत्वम् । वायो । आमन्त्रिताद्युदात्तत्वम् । प्रस्थितान् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा व्यत्ययेन अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।
पूर्वोक्ते एव शस्त्रे ‘ उभा देवा दिविस्पृशा ' इति द्वे ऐन्द्रवायवतृचस्य प्रथमाद्वितीये । तथा च ‘ द्वितीयस्य' इति खण्डे सूत्रितम् -' उभा देवा दिविस्पृशेति द्वे' ( आश्व. श्रौ. ७. ६) इति ॥
उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥२
उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ । इ॒न्द्र॒वा॒यू इति॑ । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥२
उभा । देवा । दिविऽस्पृशा । इन्द्रवायू इति । हवामहे ।
अस्य । सोमस्य । पीतये ॥२
"दिविस्पृशा द्युलोकवर्तिनौ “उभा "देवा द्वौ देवौ "इन्द्रवायू "हवामहे आह्वयामः । किमर्थम् । “अस्य "सोमस्य "पीतये । असकृत् व्याख्यातम् ॥ उभा देवा । ‘सुपां सुलुक्' इति आकारः । दिविस्पृशा । हृद्द्युभ्यां रूपसंख्यानम् ' (पा. सू. ६. ३. ९. १) इति सप्तम्या अलुक् । कृदुत्तरपद प्रकृतिस्वरत्वम् । इन्द्रवायू । इन्द्रश्च वायुश्च इति द्वन्द्वः । उभयत्र वायोः प्रतिषेधो वक्तव्यः ' ( पा. सू. ६. ३. २६. १ ) इति आनङो निषेधः । देवताद्वन्द्वे च ' इति प्राप्तस्य उभयपदप्रकृतिस्वरत्वस्य ‘नोत्तरपदेऽनुदात्तादौ ' ( पा. सू. ६. २. १४२ ) इति निषेधात् समासान्तोदात्तत्वमेव शिष्यते । हवामहे । “ ह्वेञ् स्पर्धायां शब्दे च '। ‘ बहुलं छन्दसि ' इति संप्रसारणम् । ' संप्रसारणाच्च' इति परपूर्वत्वम् । शप् । गुणावादेशौ । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण पदस्य आद्युदात्तत्वे प्राप्ते ' तिङ्ङतिङः' इति आष्टमिको निघातः । अस्य । ऊड़िदम्' इत्यादिना षष्ठ्या उदात्तत्वम् । पीतये । ‘ पा पाने । “स्थागापापचः ' ( पा. सू. ३. ३. ९५) इति भावे क्तिन् । ‘ घुमास्था ' इति ईत्वम् । व्यत्ययेनान्तोदात्तत्वम् ॥
इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा॑ हवन्त ऊ॒तये॑ ।
स॒ह॒स्रा॒क्षा धि॒यस्पती॑ ॥३
इ॒न्द्र॒वा॒यू इति॑ । म॒नः॒ऽजुवा॑ । विप्राः॑ । ह॒व॒न्ते॒ । ऊ॒तये॑ ।
स॒ह॒स्र॒ऽअ॒क्षा । धि॒यः । पती॒ इति॑ ॥३
इन्द्रवायू इति । मनःऽजुवा । विप्राः । हवन्ते । ऊतये ।
सहस्रऽअक्षा । धियः । पती इति ॥३
"विप्राः मेधाविनः ऋत्विग्यजमानाः "ऊतये रक्षणार्थम् "इन्द्रवायू "हवन्ते आह्वयन्ति । कीदृशौ मनोजुवौ मन इव वेगवेत्तरौ "सहस्राक्षा सहस्रनयनयुक्तौ । यद्यपि इन्द्र एव सहस्राक्षः तथापि च्छत्रिन्यायेन वायुरपि तथोच्यते । "धियस्पती कर्मणः बुद्धेर्वा पालकौ ॥ मनोजुवा । जवतिर्गतिकर्मा । मनोवत् जवतः इति मनोजुवा मन इव वेगयुक्तौ । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्° ' इति आकारः । विप्राः । औणादिको रन् । रन्प्रत्ययान्तः आद्युदात्तः। ऊतये। ऊतियूति' इत्यादिना क्तिनः उदात्तत्वम् । सहस्राक्षा। सहस्रम् अक्षीणि ययोस्तौ । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः ' ( पा. सू. ५. ४. ११३ ) इति षच् समासान्तः । बहुव्रीहिस्वरे प्राप्ते समासान्तप्रत्ययस्य सतिशिष्टत्वात् ‘ चितः 'इत्यन्तोदात्तत्वम् । धियः । ‘ सावेकाचः' इति ङस उदात्तत्वम् । ‘ षष्ठ्याः पतिपुत्र' इति संहितायां विसर्जनीयस्य सकारः । पती । डत्यन्तः आद्युदात्तः ॥
चतुर्विंशकेऽहनि प्रातःसवने मैत्रावरुणशस्त्रे ‘ मित्रं वयं हवामहे ' इति तृचः षडहस्तोत्रियः । ‘ चतुर्विंशे' इति खण्डे सूत्रितम् -' आ नो मित्रावरुणा मित्रं वयं हवामहे ' (आश्व. श्रौ. ७. २ ) इति । अभिप्लवषडहेऽपि प्रातःसवने मैत्रावरुणस्यायं तृचः आवापार्थः । ‘ अभिप्लवपृष्ठ्याहानि ' इति खण्डे सूत्रितम् - ‘ परिशिष्टानावापानुद्धृत्य मित्रं वयं हवामहे ' ( आश्व. श्रौ. ७. ५) इति । मैत्रावरुणस्य • मित्रं वयं हवामहे ' इत्येषा प्रातःसवने प्रस्थितयाज्या । ‘ प्रशास्ता ब्राह्मणाच्छंसी इत्युपक्रम्य ‘ इदं ते सोम्यं मधु मित्रं वयं हवामहे ' ( आश्व. श्रौ. ५. ५) इति सूत्रितम् ॥
मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये ।
ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥४
मि॒त्रम् । व॒यम् । ह॒वा॒म॒हे॒ । वरु॑णम् । सोम॑ऽपीतये ।
ज॒ज्ञा॒ना । पू॒तऽद॑क्षसा ॥४
मित्रम् । वयम् । हवामहे । वरुणम् । सोमऽपीतये ।
जज्ञाना । पूतऽदक्षसा ॥४
"वयम् अनुष्ठातारः "सोमपीतये सोमपानार्थं "मित्रं "वरुणं च उभौ आह्वयामः । कीदृशावुभौ । "जज्ञाना कर्मप्रदेशे प्रादुर्भवन्तौ "पूतदक्षसा शुद्धबलौ ॥ वरुणम् । ‘वृञ् वरणे'। ‘कृवृतॄदारिभ्य उनन्' ( उ. सू. ३. ३३३)। नित्त्वादाद्युदात्तः । सोमपीतये। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । जज्ञाना । ‘ जनी प्रादुर्भावे'। 'छन्दसि लिट् ' (पा. सू. ३. २. १०५ )। तस्य ‘लिटः कानज्वा' (पा. सू. ३. २. १०६ ) इति कानजादेशः । गमहन' इत्यादिना उपधालोपः । तस्य ' अचः परस्मिन् ' इति स्थानिवद्भावात् जनशब्दस्य द्विर्वचनम् । “ स्तोः श्चुना श्चुः' ( पा. सू. ८. ४.४०) इति नकारस्य अकारः । ‘ चितः' इत्यन्तोदात्तत्वम् । पूर्ववत् आकारः । पूतदक्षसा । पूञ् पवने'।' निष्ठा' इति क्तः । श्र्युकः किति ' (पा. सू. ७. २. ११) इति इट्प्रतिषेधः । पूतं दक्षो ययोस्तौ ।' बहुव्रीहौ प्रकृत्या ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ ।
ता मि॒त्रावरु॑णा हुवे ॥५
ऋ॒तेन॑ । यौ । ऋ॒त॒ऽवृधौ॑ । ऋ॒तस्य॑ । ज्योति॑षः । पती॒ इति॑ ।
ता । मि॒त्रावरु॑णा । हु॒वे॒ ॥५
ऋतेन । यौ । ऋतऽवृधौ । ऋतस्य । ज्योतिषः । पती इति ।
ता । मित्रावरुणा । हुवे ॥५
"यौ मित्रावरुणौ "ऋतेन सत्यवचनेन यजमानानुग्रहकारिणा “ऋतावृधौ ऋतम् अवश्यंभावितया सत्यं कर्मफलं तस्य वर्धकौ "ऋतस्य सत्यस्य प्रशस्तस्य "ज्योतिषः प्रकाशस्य “पती पालकौ । श्रुत्यन्तरे मित्रावरुणयोः अदितिपुत्रत्वेन श्रुतत्वात् द्वादशादित्येष्वन्तर्भूतत्वेन ज्योतिष्पालकत्वं युक्तम् । श्रुत्यन्तरे च ‘ अष्टौ पुत्रासो अदितेः' इत्युपक्रम्य ‘ मित्रश्च वरुणश्च ' ( तै. आ. १. १३. २-३ ) इत्यादिकमाम्नातम् । “ता "मित्रावरुणा तथाविधौ मित्रावरुणौ "हुवे आह्वयामि ॥ ऋतावृधौ ।' वृधु वृद्धौ । ‘ क्विप् च ' इति क्विप् । अन्येषामपि दृश्यते' इति दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ज्योतिषः । ‘द्युत दीप्तौ'। द्युतेरिसिन्नादेश्च जः ' ( उ. सू. २. २६७ ) इति इसिन्प्रत्ययः । नित्त्वादाद्युदात्तः । ‘ षष्ठ्याः पतिपुत्र° ' इति संहितायां विसर्जनीयस्य सत्वम् । मित्रावरुणा । देवताद्वन्द्वे च' (पा. सू. ६. ३. २६ ) इति आनङ् । ' देवताद्वन्द्वे च ' ( पा. सू. ६. २. १४१ ) इति उभयपदप्रकृतिस्वरत्वम् । ‘ सुपां सुलुक्° ' इति पूर्वसवर्णदीर्घ आकारः । हुवे । ह्वेञ् । आत्मनेपदोत्तमपुरुषैकवचने संप्रसारणे परपूर्वत्वे च कृते ' बहुलं छन्दसि ' इति शपो लुक्। टेः एत्वम् । गुणे प्राप्ते ‘ क्ङिति च' (पा. सू. १. १. ५) इति प्रतिषेधः । उवङादेशः । तिङ्ङतिङः ' इति निघातः ॥ ॥ ८ ॥
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑ः ।
कर॑तां नः सु॒राध॑सः ॥६
वरु॑णः । प्र॒ऽअ॒वि॒ता । भु॒व॒त् । मि॒त्रः । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
कर॑ताम् । नः॒ । सु॒ऽराध॑सः ॥६
वरुणः । प्रऽअविता । भुवत् । मित्रः । विश्वाभिः । ऊतिऽभिः ।
करताम् । नः । सुऽराधसः ॥६
अयं "वरुणः अस्माकं "प्राविता "भुवत् प्रकर्षेण रक्षको भवतु । "मित्रः च "विश्वाभिरूतिभिः सर्वाभिः रक्षाभिः प्राविता भुवत् । तावुभावपि "नः अस्मान् "सुराधसः प्रभूतधनयुक्तान् "करतां कुरुताम् ॥ अविता । तृचश्चित्त्वादन्तोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भुवत् । ‘ भू सत्तायाम् '। लेटस्तिप् । 'लेटोऽडाटौ ' इति अडागमः । ‘ इतश्च लोपः०' इति इकारलोपः । ‘बहुलं छन्दसि' इति शपो लुक् । गुणे प्राप्ते ' भूसुवोस्तिङि' ( पा. सू. ७. ३. ८८ ) इति प्रतिषेधः । उवङादेशः । ‘ तिङ्ङतिङः' इति निघातः । विश्वाभिः ।“ अशिप्रुषि इत्यादिना क्वनन्तो विश्वशब्द आद्युदात्तः। टाप्सुपोः अनुदात्तत्वात् तदेव शिष्यते । ऊतिभिः। “ऊतियूति इत्यादिना क्तिन् उदात्तः । करताम् । ‘कृञ् करणे'। भौवादिकः । लोटस्तस् । तसस्ताम् । कर्तरि शप् । गुणो रपरत्वम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । सुराधसः । राध साध संसिद्धौ । राध्नोति अनेन इति राधः धनम् । शोभनं राधः येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वं प्राप्तं ' सोर्मनसी अलोमोषसी' (पा. सू. ६. २. ११७ ) इत्युत्तरपदाद्युदात्तत्वेन बाध्यते ॥
म॒रुत्व॑न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये ।
स॒जूर्ग॒णेन॑ तृम्पतु ॥७
म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ । इन्द्र॑म् । आ । सोम॑ऽपीतये ।
स॒ऽजूः । ग॒णेन॑ । तृ॒म्प॒तु॒ ॥७
मरुत्वन्तम् । हवामहे । इन्द्रम् । आ । सोमऽपीतये ।
सऽजूः । गणेन । तृम्पतु ॥७
"मरुत्वन्तं मरुद्भिर्युक्तम् "इन्द्रं "सोमपीतये सोमपानाय "आ "हवामहे आह्वयामः । स च इन्द्रः "गणेन मरुत्समूहेन "सजूः सह 'तृम्पतु तृप्तो भवतु ॥ मरुत्वन्तम् । मरुतः अस्य सन्तीति मरुत्वान्। झयः ' ( पा. सू. ८. २. १० ) इति मतुपो वत्वम् । तसौ मत्वर्थे ' ( पा. सू. १. ४. १९ ) इति भसंज्ञायां पदसंज्ञाया बाधितत्वात् जश्त्वाभावः । मतुप्सुपौ पित्त्वादनुदात्तौ । ननु ‘ ह्रस्वनुड्भ्यां मतुप्' (पा. सू. ६. १. १७६ ) इति मतुप उदात्तत्वेन भवितव्यं, ‘स्वरविधौ व्यञ्जनमविद्यमानवत् ' ( परिभा० ७९ ) इति तकारस्य अविद्यमानवत्वेन ह्रस्वात् परत्वात् । न । ‘ ह्रस्वनुड्भ्याम् ' इत्यत्र नुङ्ग्रहणसामर्थ्यात् अविद्यमानपरिभाषा नाश्रीयते इति वृत्तावुक्तम् ( का. ६. १. १७६ )। अतो मरुच्छब्दस्य स्वर एव शिष्यते । सजूः । जुषी प्रीतिसेवनयोः '। संपदादिलक्षणः क्विप्। समाना प्रीतिः यस्य इति बहुव्रीहिः । ‘ समानस्य च्छन्दसि ' इति सभावः । ‘ ससजुषो रुः ' ( पा. सू. ८. २. ६६ ) इति रुत्वम् । र्वोरुपधायाः° ' ( पा. सू. ८. २.७६ ) इत्युपधादीर्घः । बहुव्रीहिस्वरे प्राप्ते ' त्रिचक्रादीनां छन्दसि' ( पा. सू. ६. २. १९९. १ ) इत्युत्तरपदान्तोदात्तत्वम् । तृम्पतु । ‘ तृप तृम्प तृप्तौ'। ' तुदादिभ्यः शः । ‘शे तृम्पादीनाम् । (पा. सू. ७. १. ५९. १) इति नुमागमः ॥
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒ः पूष॑रातयः ।
विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥८
इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः ।
विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥८
इन्द्रऽज्येष्ठाः । मरुत्ऽगणाः । देवासः । पूषऽरातयः ।
विश्वे । मम । श्रुत । हवम् ॥८
हे "देवासः इन्द्रमरुद्रूपाः "विश्वे सर्वे यूयं "मम "हवम् आह्वानं “श्रुत शृणुत । कीदृशाः । “इन्द्रज्येष्ठाः । इन्द्रो ज्येष्ठो मुख्यो येषु ते तथाविधाः "मरुद्गणाः मरुत्समूहरूपाः । "पूषरातयः । पूषाख्यो देवो रातिः दाता येषाम् इन्द्रमरुतां ते पूषरातयः ॥ इन्द्रज्येष्ठाः । आमन्त्रिताद्युदात्तत्वम् । पादादित्वादनिघातः । मरुद्गणाः । विभाषितं विशेषवचने बहुवचनम् ' ( पा. सू. ८. १. ७४ ) इति पूर्वस्याविद्यमानवत्त्वादनिघातः । देवासः पूषरातयः । पूर्ववत् । श्रुत । ‘ श्रु श्रवणे'। लोण्मध्यमबहुवचनं थ । तस्थस्थमिपाम् ' ( पा. सू. ३. ४. १०१ ) इति तादेशः । व्यत्ययेन शप् । बहलं छन्दसि' इति शपो लुक् । सार्वधातुकार्धधातुकयोः ' इति गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । ‘ द्व्यचोऽतस्तिङः' इति दीर्घः । हवम् । ह्वेञ् स्पर्धायां शब्दे च'। भावेऽनुपसर्गस्य ' ( पा. सू. ३. ३. ७५ ) इति अप्। संप्रसारणं परपूर्वत्वं गुणावादेशौ । पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते॥
ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे॑ण॒ सह॑सा यु॒जा ।
मा नो॑ दु॒ःशंस॑ ईशत ॥९
ह॒त । वृ॒त्रम् । सु॒ऽदा॒न॒वः॒ । इन्द्रे॑ण । सह॑सा । यु॒जा ।
मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥९
हत । वृत्रम् । सुऽदानवः । इन्द्रेण । सहसा । युजा ।
मा । नः । दुःऽशंसः । ईशत ॥९
हे "सुदानवः शोभनदानयुक्ताः मरुद्गणाः "सहसा बलवता "युजा योग्येन "इन्द्रेण सह “वृत्रं शत्रुं "हत नाशयत । "दुःशंसः दुष्टेन शंसनेन कीर्तनेन युक्तो वृत्रो "नः अस्मान् प्रति "मा "ईशत समर्थो मा भूत् ॥ हत । ‘हन हिंसागत्योः '। लोटः थ । तस्य त ।' अदिप्रभृतिभ्यः शपः' इति शपो लुक् । 'अनुदात्तोपदेश' (पा. सू. ६. ४. ३७ ) इत्यादिना अनुनासिकलोपः । सुदानवः। ‘डुदाञ् दाने '।' दाभाभ्यां नुः ' ( उ. सू. ३. ३१२) इति औणादिको नुप्रत्ययः । प्रादिसमासे आमन्त्रितनिघातः । युजा । ‘युजिर् योगे' । ‘ ऋत्विक् ' इत्यादिना क्विन् । ' सावेकाचः०' इति तृतीयैकवचनस्योदात्तत्वम् । दुःशंसः । ‘ ईषद्दुःसुषु' (पा. सू. ३. ३. १२६ ) इति खल् । ‘ लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम्। ईशत। इंश ऐश्वर्ये'। माङि लुङि प्राप्ते ‘छन्दसि लुङ्लङ्लिटः' इति व्यत्ययेन लङ्। तस्य ' बहुलं छन्दसि ' इति शपो लुगभावः । न माङयोगे' इति आडागमाभावः। ‘ तिङ्ङतिङः' इति निघातः ॥
विश्वा॑न्दे॒वान्ह॑वामहे म॒रुत॒ः सोम॑पीतये ।
उ॒ग्रा हि पृश्नि॑मातरः ॥१०
विश्वा॑न् । दे॒वान् । ह॒वा॒म॒हे॒ । म॒रुतः॑ । सोम॑ऽपीतये ।
उ॒ग्राः । हि । पृश्नि॑ऽमातरः ॥१०
विश्वान् । देवान् । हवामहे । मरुतः । सोमऽपीतये ।
उग्राः । हि । पृश्निऽमातरः ॥१०
“मरुतः मरुत्संज्ञकान् "विश्वान् सर्वान् "देवान् "सोमपीतये "हवामहे सोमपानार्थम् आह्वयामः । ते च मरुतः “उग्राः शत्रुभिरसह्यबलाः "पृश्निमातरः पृश्नेः नानावर्णयुक्ताया भूमेः पुत्राः । हिशब्दः प्रसिद्ध्यर्थः । सा च प्रसिद्धिः ‘ पृश्नेः पुत्राः ' ( ऋ. सं. ५. ५८. ५) इति मन्त्रान्तरादवगन्तव्या ॥ पृश्निमातरः। पृश्निः माता येषां ते। पृश्निशब्दः ‘घृणिपृश्नि' (उ. सू. ४. ४९२) इति उणादावाद्युदात्तो निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ९ ॥
जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या ।
यच्छुभं॑ या॒थना॑ नरः ॥११
जय॑ताम्ऽइव । त॒न्य॒तुः । म॒रुता॑म् । ए॒ति॒ । धृ॒ष्णु॒ऽया ।
यत् । शुभ॑म् । या॒थन॑ । न॒रः॒ ॥११
जयताम्ऽइव । तन्यतुः । मरुताम् । एति । धृष्णुऽया ।
यत् । शुभम् । याथन । नरः ॥११
“मरुतां देवानां "तन्यतुः शब्दः “धृष्णुया धार्ष्ट्ययुक्तः सन् "एति गच्छति। केषामिव । "जयतां विजययुक्तानां शूराणां भटानाम् "इव । हे "नरः नेतारः मरुतः यूयं "यत् यदा “शुभं शोभनं देवयजनं “याथन प्राप्नुथ । तदा त्वदीयः शब्दो गच्छतीति पूर्वत्रान्वयः ॥ तन्यतुः । ‘ तनु विस्तारे '। ऋतन्यञ्जि° ' ( उ. सू. ४. ४४२ ) इत्यादिना यतुच्प्रत्ययः । धृष्णुया। ञिधृषा प्रागल्भ्ये '। ' त्रसिगृधिधृषिक्षिपेः क्नुः' ( पा. सू. ३. २. १४०)।' सुपां सुलुक्° ' इति सोः याजादेशः । चित्त्वादन्तोदात्तः । याथन ।' तप्तनसनथनाश्च' इति थनादेशः । यच्छब्दयोगात् निघाताभावः ॥
ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वन्तु नः ।
म॒रुतो॑ मृळयन्तु नः ॥१२
ह॒स्का॒रात् । वि॒ऽद्युतः॑ । परि॑ । अतः॑ । जा॒ताः । अ॒व॒न्तु॒ । नः॒ ।
म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । नः॒ ॥१२
हस्कारात् । विऽद्युतः । परि । अतः । जाताः । अवन्तु । नः ।
मरुतः । मृळयन्तु । नः ॥१२
“हस्कारात् दीप्तिकरात् "विद्युतः विशेषेण दीप्यमानात् "अतः अन्तरिक्षात् "परि "जाताः सर्वत उत्पन्ना मरुतः "नः अस्मान् "अवन्तु रक्षन्तु। तथाविधाः "मरुतः "नः अस्मान् "मृळयन्तु सुखयन्तु ॥ हस्कारात् । हसे हसने ' । अत्र तु प्रकाशमात्रे वर्तते । अस्मात् संपदादिलक्षणः क्विप् । अस्मिन् उपपदे ‘ डुकृञ् करणे ' इत्यस्मात् ‘कर्मण्यम् ' (पा, सू. ३. २. १) इति अण्प्रत्ययः । तत्पुरुषे तुल्यार्थ' इत्यादिना पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिकारक ' इत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वम् । अतः कृकमि ' ( पा. सू. ८. ३, ४६ ) इत्यादिना विसर्जनीयस्य सत्वम् ॥
आ पू॑षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः ।
आजा॑ न॒ष्टं यथा॑ प॒शुम् ॥१३
आ । पू॒ष॒न् । चि॒त्रऽब॑र्हिषम् । आघृ॑णे । ध॒रुण॑म् । दि॒वः ।
आ । अ॒ज॒ । न॒ष्टम् । यथा॑ । प॒शुम् ॥१३
आ । पूषन् । चित्रऽबर्हिषम् । आघृणे । धरुणम् । दिवः ।
आ । अज । नष्टम् । यथा । पशुम् ॥१३
हे "पूषन् 'चित्रबर्हिषं विचित्रैर्दर्भैर्युक्तं “धरुणं यागस्य धारकं सोमं "दिवः "आ द्युलोकात् आहर इति शेषः । पूषा विशेष्यते । "आघृणे अगतदीप्तियुक्त । तत्र दृष्टान्तः । हे "अज गमनशील “यथा लोके "नष्टं "पशुं महारण्यादौ अन्वीक्ष्य कश्चिदाहरति तद्वत् ॥ आघृणे। ‘घृ क्षरणदीप्त्योः' इत्यस्मात् घृणिपृश्नि' इति निप्रत्ययो निपातितः । ऋवर्णाच्चेति वक्तव्यम्' इति णत्वम् । प्रादिसमासः । आमन्त्रिताद्युदात्तत्वम् । धरुणम् । ‘धृञ् धारणे'। अस्मात् ण्यन्ताद्धातोः ‘धारेर्णिलुक्च' ( दश. पा. ५) इति उनन्प्रत्ययः । व्यत्ययेन नित्स्वराभावे प्रत्ययस्वरः । दिवः । ऊडिदम्' इत्यादिना षष्ठ्या उदातत्वम् । अज। ‘ अज गतिक्षेपणयोः ॥
पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तम् ।
अवि॑न्दच्चि॒त्रब॑र्हिषम् ॥१४
पू॒षा । राजा॑नम् । आघृ॑णिः । अप॑ऽगूळ्हम् । गुहा॑ । हि॒तम् ।
अवि॑न्दत् । चि॒त्रऽब॑र्हिषम् ॥१४
पूषा । राजानम् । आघृणिः । अपऽगूळ्हम् । गुहा । हितम् ।
अविन्दत् । चित्रऽबर्हिषम् ॥१४
“आघृणिः "पूषा "राजानं सोमम् "अविन्दत् अलभत । कीदृशम् । अपगूळ्हम् अत्यन्तगूढम् । तत्र हेतुः । "गुहा “हितं गुहासदृशे दुर्गमे द्युलोके स्थितं तथा “चित्रबर्हिषम् ।। "अपगूळ्हम् । ‘ गुहू संवरणे'। निष्ठा' इति कर्मणि क्तः । ‘ हो ढः' ( पा. सू. ८. २. ३१ ) इति ढत्वम् । झषस्तथोर्धोऽधः ' ( पा. सू. ८. २, ४० ) इति धकारः । ष्टुत्वढलोपदीर्घाः । समासे ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । गुहा ।' सुपां सुलुक्' इति सप्तम्या लुक् । हितम् । निष्ठायां दधातेर्हिः ॥
उ॒तो स मह्य॒मिन्दु॑भि॒ः षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् ।
गोभि॒र्यवं॒ न च॑र्कृषत् ॥१५
उ॒तो इति॑ । सः । मह्य॑म् । इन्दु॑ऽभिः । षट् । यु॒क्तान् । अ॒नु॒ऽसेसि॑धत् ।
गोभिः॑ । यव॑म् । न । च॒र्कृ॒ष॒त् ॥१५
उतो इति । सः । मह्यम् । इन्दुऽभिः । षट् । युक्तान् । अनुऽसेसिधत् ।
गोभिः । यवम् । न । चर्कृषत् ॥१५
“उतो अपि च "सः पूषा "मह्यं यजमानाय "इन्दुभिः यागहेतुभिः सोमैः "युक्तान “षट् वसन्तादीन् ऋतून् "अनुसेषिधत् अनुक्रमेण पुनःपुनर्नयन् वर्तते इति शेषः । तत्र दृष्टान्तः । "गोभिः बलीवर्दैः “यवं "न "चर्कृषत् नशब्द उपमार्थः । यथा यवमुद्दिश्य भूमिं प्रतिसंवत्सरं पुनःपुनः कृषति तद्वत् ॥ मह्यम् । ङयि च ' ( पा. सू. ६. १. २१२ ) इत्याद्युदात्तत्वम् । इन्दुभिः । ‘ उन्दी क्लेदने । ‘ उन्देरिच्चादेः ' ( उ. सू. १. १२ ) इति उप्रत्ययः, उकारस्य इकारादेशश्च । नित्' इति अनुवृत्तेराद्युदात्तत्वम् । युक्तान्। दीर्घादटि समानपादे ' इति संहितायां नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः । अनुसेषिधत् । “षिधु गत्याम् ।' धातोरेकाचः ' ( पा. सू. ३. १. २२ ) इति यङ् । यङोऽचि च ' (पा. सू. २. ४. ७४ ) इति तस्य लुक् । प्रत्ययलक्षणेन ‘ सन्यङोः ' (पा. सू. ६. १. ९) इति द्विर्भावः । हलादिशेषः । ‘ गुणो यङ्लुकोः ' ( पा. सू. ७. ४. ८२ ) इति अभ्यासस्य गुणः । ‘ इण्कोः ' ( पा. सू. ८. ३. ५७ ) इति षत्वम् । सनादित्वात् धातुसंज्ञायां लटः शतृ। कर्तरि शप् । “अदादिवच्च' इति वचनात् तस्य लुक् । ‘नाभ्यस्ताच्छतुः (पा. सू. ७. १. ७८ ) इति नुम्प्रतिषेधः । प्रत्ययस्वरे प्राप्ते ‘ अभ्यस्तानामादिः ' ( पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् । गोभिः । ‘ सावेकाचः' इति भिस उदात्तत्वे प्राप्ते ‘ न गोश्वन्° " इति प्रतिषेधः । चर्कृषत् । “ कृष विलेखने ' । यङ्लुकि द्विर्भावहलादिशेषचर्त्वानि । 'रुग्रिकौ च लुकि' (पा. सू. ७. ४. ९१ ) इति अभ्यासस्य रुगागमः । अस्मात् यङ्लुगन्तात् लेटस्तिप्। ‘इतश्च लोपः' । ‘लेटोऽडाटौ ' इति अडागमः । ‘ अदिप्रभृतिभ्यः शपः' इति शपो लुक् । लघूपधगुणे प्राप्ते ‘नाभ्यस्तस्याचि पिति” ' ( पा. सू. ७. ३. ८७ ) इति निषेधः । ‘ तिङ्ङतिङः' इति निघातः ॥ ॥ १० ॥
अपोनप्त्रीये एकधनासूपानीतासु स्वयमनुगच्छन् ‘अम्बयः' इति द्वे अनुबूयात् । तृतीयया ‘ अपो देवीः ' इत्यनया एकधनासु हविर्धानं प्रविष्टासु स्वयमनुप्रविशेत् । तथैव सूत्रितम् - ‘अम्बयो यन्त्यध्वभिरिति तिस्र उत्तमयानुप्रपद्येत ' ( आश्व. श्रौ. ५. १) इति ॥
अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् ।
पृ॒ञ्च॒तीर्मधु॑ना॒ पय॑ः ॥१६
अ॒म्बयः॑ । य॒न्ति॒ । अध्व॑ऽभिः । जा॒मयः॑ । अ॒ध्व॒रि॒ऽय॒ताम् ।
पृ॒ञ्च॒तीः । मधु॑ना । पयः॑ ॥१६
अम्बयः । यन्ति । अध्वऽभिः । जामयः । अध्वरिऽयताम् ।
पृञ्चतीः । मधुना । पयः ॥१६
“अध्वरीयताम् अध्वरमात्मन इच्छताम् अस्माकम् "अम्बयः मातृस्थानीया आपः । तथा च कौषीतकिब्राह्मणे समाम्नायते - अम्बयो यन्त्यध्वभिरित्यापो वा अम्बयः' इति । ता आपः “अध्वभिः देवयजनमार्गैः "यन्ति गच्छन्ति। कीदृश्य आपः। "जामयः हितकारिण्यो बन्धवः । तथा “मधुना माधुर्यरसेन युक्तं "पयः "पृञ्चतीः गवादिषु योजयन्त्यः ॥ अम्बयः । ‘ रबि लबि अबि शब्दे । एतस्मात् ‘अच इः ' ( उ. सू. ४. ५७८) इति प्रकरणे बाहुलकात् इः । प्रत्ययस्वरः । अध्वभिः । अदेर्ध च ' ( उ. सू. ४. ५५५) इति क्वनिप् । पित्त्वात् प्रत्ययस्यानुदात्तत्वे धातुस्वरः । जामयः । ‘ जमु अदने' । बाहुलकात् इः। अध्वरीयताम् । अध्वरशब्दात् ‘सुप आत्मनः क्यच् ' इति क्यच् ।' क्यचि च ' इति ईत्वम् । ‘ अपुत्रादीनामिति वक्तव्यम् ' ( पा. म. ७. ४. ३५ ) इति वचनात् ' न च्छन्दस्यपुत्रस्य ' इति ईत्वनिषेधाभावः । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते । इति ‘कव्यध्वरपृतनस्य ' ( पा. सू. ७. ४. ३९ ) इति अकारलोपोऽपि न भवति । क्यच्प्रत्ययान्तधातोः लटः शतृ । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण तयोः क्यचा सहैकादेशः । ‘ एकादेश उदात्तेनोदात्तः' इत्यन्तोदात्तत्वे सति ‘ शतुरनुमो नद्यजादी ' इति षष्ठ्या उदात्तत्वम् ।
अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑ः स॒ह ।
ता नो॑ हिन्वन्त्वध्व॒रम् ॥१७
अ॒मूः । याः । उप॑ । सूर्ये॑ । याभिः॑ । वा॒ । सूर्यः॑ । स॒ह ।
ताः । नः॒ । हि॒न्व॒न्तु॒ । अ॒ध्व॒रम् ॥१७
अमूः । याः । उप । सूर्ये । याभिः । वा । सूर्यः । सह ।
ताः । नः । हिन्वन्तु । अध्वरम् ॥१७
"याः "अमूः आपः "सूर्ये "उप समीपेन अवस्थिताः। ‘ आपः सूर्ये समाहिताः' (तै. आ. १. ८. १ ) इति श्रुत्यन्तरात् । "वा अथवा "सूर्यः "याभिः अद्भिः "सह वर्तते । पूर्वत्रापां प्राधान्यम् उतरत्र सूर्यस्येति विशेषः । “ताः तादृश्य आपो "नः अस्मदीयम् "अध्वरं यागं "हिन्वन्तु प्रीणयन्तु । याभिः । ‘ सावेकाचः' इति विभक्त्युदात्तस्य ‘ न गोश्वन्साववर्ण° ' इति प्रतिषेधः। शेषा तु प्रक्रिया स्पष्टा ॥
अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गाव॒ः पिब॑न्ति नः ।
सिन्धु॑भ्य॒ः कर्त्वं॑ ह॒विः ॥१८
अ॒पः । दे॒वीः । उप॑ । ह्व॒ये॒ । यत्र॑ । गावः॑ । पिब॑न्ति । नः॒ ।
सिन्धु॑ऽभ्यः । कर्त्व॑म् । ह॒विः ॥१८
अपः । देवीः । उप । ह्वये । यत्र । गावः । पिबन्ति । नः ।
सिन्धुऽभ्यः । कर्त्वम् । हविः ॥१८
"नः अस्मदीयाः "गावः "यत्र यास्वप्सु "पिबन्ति पानं कुर्वन्ति ताः "अपो “देवीः "उप "ह्वये आह्वयामि । "सिन्धुभ्यः स्यन्दनशीलाभ्योऽद्भ्यो देवताभ्यो "हविः कर्त्वं अस्माभिः कर्तव्यम् ॥ अपः । ‘ ऊडिदम्' इत्यादिना शस उदात्तत्वम् । पिबन्ति । 'पाघ्रा ' इत्यादिना पिबादेशः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । ‘ निपातैर्यद्यदि इत्यादिना निघाताभावः । कर्त्वम् । “डुकृञ् करणे'।' कृत्यार्थे तवैकेकेन्यत्वनः' (पा. सू. ३. ४. १४ ) इति कर्मणि त्वन्प्रत्ययः । गुणः । नित्स्वरेणाद्युदात्तत्वम् ॥
अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये ।
देवा॒ भव॑त वा॒जिन॑ः ॥१९
अ॒प्ऽसु । अ॒न्तः । अ॒मृत॑म् । अ॒प्ऽसु । भे॒ष॒जम् । अ॒पाम् । उ॒त । प्रऽश॑स्तये ।
देवाः॑ । भव॑त । वा॒जिनः॑ ॥१९
अप्ऽसु । अन्तः । अमृतम् । अप्ऽसु । भेषजम् । अपाम् । उत । प्रऽशस्तये ।
देवाः । भवत । वाजिनः ॥१९
“अप्सु जलेषु "अन्तः मध्ये "अमृतं पीयूषं वर्तते । तस्य अब्विकारत्वात् । अमृतं वा आपः । (तै. सं. ५. ६. २. १-२ ) इति श्रुत्यन्तराच्च । तथैव "अप्सु "भेषजम् औषधं वर्तते । क्षुद्रोगनिवर्तकस्य अन्नस्य अप्कार्यत्वात् । "उत अपि च तादृशीनाम् "अपां देवतानां "प्रशस्तये प्रशंसार्थं हे "देवाः ऋत्विजादयो ब्राह्मणाः । ‘ एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः ' ( तै. सं. १. ७. ३. १ ) इति श्रुत्यन्तरात् । "वाजिनः वेगवन्तः "भवत । शीघ्रं स्तुतिं कुरुतेत्यर्थः ॥ अप्सु । ऊडिदम्' इत्यादिना सप्तम्या उदात्तत्वम्। संहितायाम् ' उदात्तस्वरितयोर्यणः स्वरितः०' इति स्वरितत्वम्। अमृतम्। नञो जरमरमित्रमृताः' (पा. सू. ६. २. ११६) इत्युत्तरपदाद्युदात्तत्वम् । प्रशस्तये । ' तादौ च निति ' (पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । भवत । ‘ आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्यामन्त्रितस्य अविद्यमानवत्वेन पादादित्वात् न निघातः ॥
कारीर्याम् उत्तरस्य आज्यभागस्य ‘अप्सु मे' इत्येषा अनुवाक्या। ‘वर्षकामेष्टिः' इति खण्डे ‘ अप्स्वग्ने सधिष्टवाप्सु मे सोमो अब्रवीत् ' ( आश्व. श्रौ. २. १३) इति सूत्रितम् ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥२०
अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा ।
अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् । आपः॑ । च॒ । वि॒श्वऽभे॑षजीः ॥२०
अप्ऽसु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा ।
अग्निम् । च । विश्वऽशम्भुवम् । आपः । च । विश्वऽभेषजीः ॥२०
"अप्सु जलेषु "अन्तः मध्ये "विश्वानि "भेषजा सर्वाणि औषधानि सन्तीति "मे मह्यं मन्त्रदर्शिने मुनये "सोमः देवः "अब्रवीत् । तथा "विश्वशंभुवं सर्वस्य जगतः सुखकरम् एतन्नामकं च “अग्निं "च अप्सु वर्तमानं सोमोऽब्रवीत् । तथा च तैत्तिरीयाः ‘ अग्नेस्त्रयो ज्यायांसः' इत्यनुवाके ‘सोऽपः प्राविशत् ' ( तै. सं. २. ६. ६. १ ) इति अग्नेः अप्सु प्रवेशमामनन्ति । लतागुल्मवृक्षमूलादीनाम् औषधानां वृष्टिजन्यत्वेन जलवर्तित्वं प्रसिद्धम् । "विश्वभेषजीः विश्वानि भेषजानि यासु तथाविधाः अपः अपि अब्रवीत् ॥ भेषजा । सुपां सुलुक्' इति आकारः । विश्वशंभुवम् । भवतेरन्तर्भावितण्यर्थात् क्विप् । व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । विश्वे सर्वेऽपि व्यापाराः सुखकरा यस्य । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' ( पा. सू. ६. २. १०६ ) इति पूर्वपदान्तोदात्तत्वम् । आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् ।' अप्तृन् ' ( पा. सू. ६. ४. ११ ) इत्यादिना उपधादीर्घः । विश्वभेषजीः । विश्वशंभुवमितिवत् ॥ ॥ ११ ॥
आप॑ः पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥२१
आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ ।
ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥२१
आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम ।
ज्योक् । च । सूर्यम् । दृशे ॥२१
हे आपः "मम "तन्वे शरीरार्थं "वरूथं रोगनिवारकं “भेषजम् औषधं "पृणीत पूरयत । किंच “ज्योक् चिरं "सूर्यं "दृशे द्रष्टुं नीरोगा वयं शक्नुवाम इति शेषः ॥ पृणीत । पॄ पालनपूरणयोः । ‘ लोण्मध्यमबहुवचनं थ । तस्य ‘ तस्थस्थमिपाम् ' इति तादेशः । ‘ क्र्यादिभ्यः श्ना'। ' प्वादीनां हस्वः' इति ह्रस्वः । ‘ ई हल्यघोः' इति ईत्वम् । ऋवर्णाच्च°' इति णत्वम् । ‘ सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति तिङः स्वरः शिष्यते । आपः इत्यस्य ' आमन्त्रितं पूर्वमविद्यमानवत् । इति अविद्यमानवत्त्वे पादादित्वात् निघाताभावः । वरूथम् । वृञ् वरणे'।' जॄवृञ्भ्यामूथन् । ( उ. सू. २. १६३ ) । नित्त्वादाद्युदात्तः । तन्वे । ङिति ह्रस्वश्च ' ( पा. सू. १. ४. ६ ) इति नदीसंज्ञा पाक्षिकी इति आडागमाभावः। ‘ उदात्तयणो हल्पूर्वात्' इति विभक्त्युदात्तत्वे प्राप्ते व्यत्ययेन ' उदात्तस्वरितयोः० ' इति स्वरितत्वम् । दृशे । ‘दृशे विख्ये च ' ( पा. सू. ३. ४. ११ ) इति तुमर्थे निपात्यते ॥
पशौ मार्जने ‘इदमापः प्र वहत' इत्येषा विनियुक्ता । हुतायां वपायाम् ' इति खण्डे सूत्रितम् - इदमापः प्र वहत' ( आश्व. श्रौ, ३. ५) इति । एषैव अवभृथेष्टौ स्नाने विनियुक्ता । ‘ पत्नीसंयाजैश्चरित्वा' इति खण्डे ‘ इदमापः प्र वहत सुमित्र्या न आप ओषधयः सन्तु ' ( आश्व. श्रौ. ६. १३ ) इति सूत्रितम् ॥
इ॒दमा॑प॒ः प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥२२
इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒ऽइ॒तम् । मयि॑ ।
यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥२२
इदम् । आपः । प्र । वहत । यत् । किम् । च । दुःऽइतम् । मयि ।
यत् । वा । अहम् । अभिऽदुद्रोह । यत् । वा । शेपे । उत । अनृतम् ॥२२
“मयि यजमाने "यत् "किं "च "दुरितम् अज्ञानात् निष्पन्नं "वा अथवा "अहं यजमानः "अभिदुद्रोह सर्वतो बुद्धिपूर्वकं द्रोहं कृतवानस्मि “वा अथवा "शेपे साधुजनं शप्तवानस्मीति "यत् अस्ति “उत अपि च "अनृतम् उक्तवान् इति "यत् अस्ति तत् इदं सर्वमपराधजातं “प्र “वहत मत्तोऽपनीय प्रवाहेणान्यतो नयत ॥ मयि । मपर्यन्तस्य ‘त्वमावेकवचने' इति मादेशे कृते अतो गुणे ' इति पररूपे च सति योऽचि ' इति दकारस्य यकारादेशः । एकादेशस्वरेण मकारात् परस्य अकारस्योदात्तत्वम् । दुद्रोह ।' द्रुह जिघांसायाम् । णलि गुणे द्विर्वचनह्रस्वहलादिशेषाः ! ‘ लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । यद्वृत्तयोगात् निघाताभावः । शेपे । ‘शप आक्रोशे'। लिटि व्यत्ययेन तङ् । उत्तमैकवचनम् इट् । टेः एत्वम् । अत एकहलमध्ये ' ( पा. सू. ६. ४. १२० ) इति एत्वाभ्यासलोपौ । प्रत्ययस्वरेणान्तोदात्तत्वम् । पूर्ववत् निघाताभावः ॥
पशौ आहवनीयोपस्थाने ' आपो अद्यान्वचारिषम्' इत्येषा । ‘मनोतायै संप्रेषित ' इति खण्डे सूत्रितम् - ' एत्योपतिष्ठन्त आपो अद्यान्वचारिषम्' ( आश्व. श्रौ. ३. ६) इति ॥
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥२३
आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ ।
पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥२३
आपः । अद्य । अनु । अचारिषम् । रसेन । सम् । अगस्महि ।
पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥२३
“अद्य अस्मिन् दिने अवभृथार्थम् "आपः "अन्वचारिषं जलान्यनुप्रविष्टोऽस्मि । प्रविश्य च "रसेन जलसारेण "समगस्महि संगताः स्मः। हे “अग्ने "पयस्वान् जले वर्तमानत्वेन पयोयुक्तः त्वम् "आ “गहि । अस्मिन् कर्मण्यागच्छ। "तं “मा तादृशं स्नातं मां "वर्चसा तेजसा “सं "सृज संयोजय॥ आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् । अचारिषम् । चर गत्यर्थः । लुङि च्लेः सिच् । ‘ आर्धधातुकस्येड्वलादेः' (पा. सू. ७. २. ३५) इति इट् । नेटि' (पा. सू. ७. २. ४ ) इति वृद्धिप्रतिषेधे प्राप्ते तदपवादतया ‘ अतो ल्रान्तस्य' (पा. सू. ७. २. २) इति उपधाया वृद्धिः। अगस्महि । “ समो गम्यृच्छि° ' (पा. सू. १. ३. २९) इति आत्मनेपदम् । च्लेः सिच् । 'मन्त्रे घस०' इत्यादिना च्लेर्लुगभावश्छान्दसः । ‘ एकाच उपदेशेऽनुदात्तात् ' (पा. सू. ७. २. १० ) इति इट्प्रतिषेधः । ‘वा गमः' (पा. सू. १. २. १३) इति सिचः कित्त्वात् “ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । गहि । लोटि गमेः सिपो हिः । अपित्त्वेन ङित्त्वात् ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ अतो हेः' इति लुक् न भवति ; ‘ असिद्धवदत्रा भात्' इति मलोपस्यासिद्धत्वात् ॥
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा ।
वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥२४
सम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृ॒ज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा ।
वि॒द्युः । मे॒ । अ॒स्य॒ । दे॒वाः । इन्द्रः॑ । वि॒द्या॒त् । स॒ह । ऋषि॑ऽभिः ॥२४
सम् । मा । अग्ने । वर्चसा । सृज । सम् । प्रऽजया । सम् । आयुषा ।
विद्युः । मे । अस्य । देवाः । इन्द्रः । विद्यात् । सह । ऋषिऽभिः ॥२४
हे "अग्ने वर्चःप्रजायुर्भिः मां संयोजय । "देवाः सोमपातारः "अस्य "मे यजमानस्य "विद्युः अनुष्ठानं जानीयुः । किंच “इन्द्रः च ऋषिगणैः सह ममानुष्ठानं "विद्यात् जानीयात् ॥ विद्युः । ‘ विद ज्ञाने'। लिङि झेर्जुस्' ( पा सू. ३. ४. १०८ ) । यासुट् । ‘ लिङः सलोपः' इति सकारलोपः । ‘ उस्यपदान्तात् ' ( पा. सू. ६. १. ९६ ) इति पररूपत्वम् । यासुट उदात्तत्वेन एकादेश उकारोऽपि उदात्तः । अस्य । इदमोऽन्वादेशे° ' इति अशनुदात्तः । विभक्तिरपि सुप्त्वेन अनुदात्ता । सह ऋषिभिः इत्यत्र ‘ऋत्यकः' (पा. सू. ६. १. १२८) इति प्रकृतिभावः ॥ ॥१२॥ ॥५॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|