प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं १.१३१ ऋग्वेदः - मण्डल १
सूक्तं १.१३२
परुच्छेपो दैवोदासिः।
सूक्तं १.१३३ →
दे. इन्द्रः, ६ (१ अर्धर्चस्य) इन्द्रापर्वतौ । अत्यष्टिः।


त्वया वयं मघवन्पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः ।
नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते ।
अस्मिन्यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥१॥
स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि ।
अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः ।
अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥२॥
तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम् ।
वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः ।
स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥३॥
नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम् ।
ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च ।
सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम् ॥४॥
सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः ।
तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा ।
इन्द्र ओक्यं दिधिषन्त धीतयो देवाँ अच्छा न धीतयः ॥५॥
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम् ।
दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत् ।
अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥६॥



सायणभाष्यम्

‘ त्वया वयम्' इति षडृचं षष्ठं सूक्तं पारुच्छेपमात्यष्टमैन्द्रम् । ‘युवं तम्' इत्ययमैन्द्रापार्वतोऽर्धर्चः । त्वया वयं षड्युवं तमैन्द्रापार्वतोऽर्धर्चः' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥


त्वया॑ व॒यं म॑घव॒न्पूर्व्ये॒ धन॒ इंद्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः ।

नेदि॑ष्ठे अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु॑न्व॒ते ।

अ॒स्मिन्य॒ज्ञे वि च॑येमा॒ भरे॑ कृ॒तं वा॑ज॒यंतो॒ भरे॑ कृ॒तं ॥१

त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । पूर्व्ये॑ । धने॑ । इन्द्र॑त्वाऽऊताः । स॒स॒ह्या॒म॒ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः ।

नेदि॑ष्ठे । अ॒स्मिन् । अह॑नि । अधि॑ । वो॒च॒ । नु । सु॒न्व॒ते ।

अ॒स्मिन् । य॒ज्ञे । वि । च॒ये॒म॒ । भरे॑ । कृ॒तम् । वा॒ज॒ऽयन्तः॑ । भरे॑ । कृ॒तम् ॥१

त्वया । वयम् । मघऽवन् । पूर्व्ये । धने । इन्द्रत्वाऽऊताः । ससह्याम । पृतन्यतः । वनुयाम । वनुष्यतः ।

नेदिष्ठे । अस्मिन् । अहनि । अधि । वोच । नु । सुन्वते ।

अस्मिन् । यज्ञे । वि । चयेम । भरे । कृतम् । वाजऽयन्तः । भरे । कृतम् ॥१

हे “मघवन् । मघः सौख्यम् । तद्वन्निन्द्र “त्वया साधनेन युक्ताः “वयम् । अत एव इन्द्रत्वोताः अतिप्रबलेनेन्द्रेण त्वया रक्षिताः सन्तः ॥ ‘ प्रत्ययोत्तरपदयोश्च ' इति त्वादेशः । छान्दसम् आत्वम् ।। “पृतन्यतः पृतनाम् आत्मन इच्छतः प्रबलसेनायुक्तान् शत्रून् “ससह्याम अभिभवेम। तथा “वनुष्यतः अस्मत्प्रहाराय आगच्छतः शत्रून् “वनुयाम तेषामागमनात्पूर्वमेव वयं संभजेम । किंच “पूर्व्ये “धने “अस्मिन्यज्ञे “नेदिष्ठे अत्यन्तसंनिहिते "अस्मिन्नहनि अभिषवयुक्ते अद्यतने अहनि “सुन्वते यजमानाय तदर्थम् “अधि “वोच । तं हविष्प्रदं यजमानं यज्ञं वा “नु क्षिप्रमधिकं ब्रूहि ॥ लोटि व्यत्ययेन अङ् । ‘ वच उम्। किंच हे इन्द्र वयं यजमानाः “भरे संग्रामे “कृतं जयस्य कर्तारं त्वामुद्दिश्य तज्जयार्थं “वाजयन्तः हविर्लक्षणान्नम् उपाचरन्तः “वि “चयेम । स्तोत्रादिकं हविरादिकं वा विचिनुयाम ॥ चिनोतेर्व्यत्ययेन शप् ॥ पुनः कीदृशं त्वाम् । “भरे देवानां संग्रामे असुरजये देवानां सम्यग्भरणे वा “कृतं कर्तारम् । भर इति संग्रामनाम, ‘ भरतेर्वा हरतेर्वा' (निरु. ४. २४) इति यास्कः॥


स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म॑न्युष॒र्बुधः॒ स्वस्मि॒न्नंज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नंज॑सि ।

अह॒न्निंद्रो॒ यथा॑ वि॒दे शी॒र्ष्णाशी॑र्ष्णोप॒वाच्यः॑ ।

अ॒स्म॒त्रा ते॑ स॒ध्र्य॑क्संतु रा॒तयो॑ भ॒द्रा भ॒द्रस्य॑ रा॒तयः॑ ॥२

स्वः॒ऽजे॒षे । भरे॑ । आ॒प्रस्य॑ । वक्म॑नि । उ॒षः॒ऽबुधः॑ । स्वस्मि॑न् । अञ्ज॑सि । क्रा॒णस्य॑ । स्वस्मि॑न् । अञ्ज॑सि ।

अह॑न् । इन्द्रः॑ । यथा॑ । वि॒दे । शी॒र्ष्णाऽशी॑र्ष्णा । उ॒प॒ऽवाच्यः॑ ।

अ॒स्म॒ऽत्रा । ते॒ । स॒ध्र्य॑क् । स॒न्तु॒ । रा॒तयः॑ । भ॒द्राः । भ॒द्रस्य॑ । रा॒तयः॑ ॥२

स्वःऽजेषे । भरे । आप्रस्य । वक्मनि । उषःऽबुधः । स्वस्मिन् । अञ्जसि । क्राणस्य । स्वस्मिन् । अञ्जसि ।

अहन् । इन्द्रः । यथा । विदे । शीर्ष्णाऽशीर्ष्णा । उपऽवाच्यः ।

अस्मऽत्रा । ते । सध्र्यक् । सन्तु । रातयः । भद्राः । भद्रस्य । रातयः ॥२

अयमिन्द्रः स्वर्जेषे स्वर्गगमनसाधने “भरे संग्रामे । युद्धे आभिमुख्येन हतस्य स्वर्गो ‘ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ' ( परा. ३. २५ ) इत्यादिस्मृतिषु प्रसिद्धः । “आप्रस्य आपनशीलस्य शत्रुवधाय इतस्ततः व्याप्तस्य ॥ औणादिको रः ॥ शूरस्य “वक्मनि मार्गभूते “स्वस्मिन् स्वभूते “अञ्जसि अभिव्यक्तिमति कपटादिरहिते । पुनः स एव विशेष्यते । “स्वस्मिन् “अञ्जसि स्वकीयेऽञ्जसि मुख्ये महति संग्रामे । यद्वा । स्वस्मिन् अञ्जसि शत्रौ स्वयमेव अप्रच्छन्नत्वेनागते सति अहन् शत्रून् हिनस्ति । कस्य संग्रामे इति तदुच्यते । आप्रस्य आपनशीलस्य आ समन्तात् इन्द्रस्य प्रीणयितुर्वा “उषर्बुधः उषःकाले अनुष्ठानाय प्रबुध्यमानस्य “क्राणस्य यागं कुर्वाणस्य ॥ करोतेः शतरि छान्दसः शपो लुक् ॥ अस्य यजमानस्य शत्रून् "अहन् हिनस्ति । अतः कारणात् अयम् “इन्द्रः “शीर्ष्णाशीर्ष्णोपवाच्यः सर्वेषां शिरसा प्रणम्यः स्तुत्यः ॥ ‘ शीर्षश्छन्दसि ' ( पा. सू. ६. १. ६० ) इति उदात्तनिवृत्तिस्वरेण अन्तोदात्तत्वम् । ‘ नित्यवीप्सयोः' इति द्विर्भावः ॥ तत्र दृष्टान्तः । “यथा “विदे सर्वज्ञाय शिरसा प्रणतिः क्रियते स्तूयते च तथैनमित्यर्थः । यद्वा यथा विदे येन प्रकारेण हन्तव्यं शत्रुं जानासि तं तं प्रहंसि ॥ वेत्तेर्व्यत्ययेनात्मनेपदम् । पुरुषव्यत्ययः । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः ॥ अथवा । यथा विदे यं यं विन्दसे लभसे शत्रुं तं तं मारयसि । अतः कारणात् स्तुत्यः इत्यर्थः ॥ अस्मिन् पक्षे छान्दसो विकरणस्य लुक् । पूर्ववत् तलोपः ॥ किंच हे इन्द्र “ते “रातयः तव संबन्धीनि धनानि दानानि "अस्मत्रा अस्मास्वेव “सध्र्यक् सह एकोद्योगेन “सन्तु भवन्तु ॥ सहपूर्वादञ्चतेः ‘ऋत्विक्' इत्यादिना क्विन् । “सहस्य सध्रिः' इति सध्र्यादेशः। अद्रिसध्र्योः अन्तोदात्तनिपातनं कृत्स्वरनिवृत्यर्थमिति स चान्तोदात्तः । उदात्तस्वरितयोर्यण: ' इति स्वरितः ॥ किंच “भद्रस्य स्तुत्यस्य “रातयः अस्मासु दत्तानि दानानि “भद्राः अतिस्थिराणि सन्तु ॥


तत्तु प्रयः॑ प्र॒त्नथा॑ ते शुशुक्व॒नं यस्मि॑न्य॒ज्ञे वार॒मकृ॑ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षयं॑ ।

वि तद्वो॑चे॒रध॑ द्वि॒तांतः प॑श्यंति र॒श्मिभिः॑ ।

स घा॑ विदे॒ अन्विंद्रो॑ ग॒वेष॑णो बंधु॒क्षिद्भ्यो॑ ग॒वेष॑णः ॥३

तत् । तु । प्रयः॑ । प्र॒त्नऽथा॑ । ते॒ । शु॒शु॒क्व॒नम् । यस्मि॑न् । य॒ज्ञे । वार॑म् । अकृ॑ण्वत । क्षय॑म् । ऋ॒तस्य॑ । वाः । अ॒सि॒ । क्षय॑म् ।

वि । तत् । वो॒चेः॒ । अध॑ । द्वि॒ता । अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । र॒श्मिऽभिः॑ ।

सः । घ॒ । वि॒दे॒ । अनु॑ । इन्द्रः॑ । गो॒ऽएष॑णः । ब॒न्धु॒क्षित्ऽभ्यः॑ । गो॒ऽएष॑णः ॥३

तत् । तु । प्रयः । प्रत्नऽथा । ते । शुशुक्वनम् । यस्मिन् । यज्ञे । वारम् । अकृण्वत । क्षयम् । ऋतस्य । वाः । असि । क्षयम् ।

वि । तत् । वोचेः । अध । द्विता । अन्तरिति । पश्यन्ति । रश्मिऽभिः ।

सः । घ । विदे । अनु । इन्द्रः । गोऽएषणः । बन्धुक्षित्ऽभ्यः । गोऽएषणः ॥३

हे इन्द्र “तत्तु खलु प्रसिद्धं “प्रयः हविर्लक्षणमन्नं “शुशुक्वनम् आज्यादिसंयोगेन भृशं दीप्तम् ॥ शुचेर्दीप्तिकर्मणः एतद्रूपम् ॥ “ते तव स्वभूतं "प्रत्नथा पूर्वम् इतःपूर्वं यथा यागकाले हविः ते तव स्वं भवति तथा अद्यतनमपि । सर्वदा त्वामेव यजन्ते" इति भावः । ‘ प्रत्नपूर्वविश्व ' इत्यादिना इवार्थे थाल् । लित्स्वरः ॥ कीदृशं तदिति उच्यते । "यज्ञे यागे "यस्मिन् हविषि दातव्ये सति “वारं वरणीयं “क्षयं स्थानं वेदिलक्षणम् “अकृण्वत कुर्वन्ति ऋत्विजः । कस्तव विशेष इति चेत् उच्यते। “ऋतस्य सत्यफलस्य यज्ञस्य “वाः “असि “क्षयं निवासस्थानं संभक्तोऽसि । यद्वा । ऋतमित्युदकनाम । तस्य क्षयं स्थानं प्राप्तोऽसि । वृष्टिप्रदोऽसीत्यर्थः । अथवा । ऋतस्यादित्यस्य क्षयं स्थानं द्युलोकाख्यं वाः असि यजमानं गमयितासि । “तत् तादृशं वक्ष्यमाणं कर्म “वि “वोचेः विब्रूहि ।“अध अतः कारणात् “द्वितान्तः द्वित्वोपेतयोः द्यावापृथिव्योर्मध्ये अन्तरिक्षे “रश्मिभिः आदित्यकिरणैः “पश्यन्ति । मेघं निर्भिद्य रश्मिद्वारा प्रवर्षणरूपं कर्म सर्वे जनाः प्रत्यक्षतः पश्यन्ति । अस्मद्दत्तं हविः आदित्यं प्रापयित्वा तद्रश्मिद्वारा वृष्टिं जनयसीत्येतत् सर्वैर्दृश्यते इत्यर्थः । इदानीं परोक्षतया स्तौति । “सः “घ स खलु “इन्द्रः “गवेषणः उदकस्यान्वेषणशीलः । तथा “बन्धुक्षिद्यः्म हविष्प्रदानादिना बन्धुभावं प्राप्तवद्भ्यः यजमानेभ्यः “गवेषणः गवां प्रसिद्धानाम् एषणकर्ता ॥ इषेर्बाहुलकात् कर्तरि ल्युट्। यद्वा। ‘गवेष मार्गणे । पूर्ववत् ल्युट् ॥ यजमानफलस्य मृगयितेत्यर्थः । “अनु उक्तक्रमेणैव कर्ता सन् “विदे विन्दते उदकप्राप्तिप्रकारं जानाति ॥


नू इ॒त्था ते॑ पू॒र्वथा॑ च प्र॒वाच्यं॒ यदंगि॑रो॒भ्योऽवृ॑णो॒रप॑ व्र॒जमिंद्र॒ शिक्ष॒न्नप॑ व्र॒जं ।

ऐभ्यः॑ समा॒न्या दि॒शास्मभ्यं॑ जेषि॒ योत्सि॑ च ।

सु॒न्वद्भ्यो॑ रंधया॒ कं चि॑दव्र॒तं हृ॑णा॒यंतं॑ चिदव्र॒तं ॥४

नु । इ॒त्था । ते॒ । पू॒र्वऽथा॑ । च॒ । प्र॒ऽवाच्य॑म् । यत् । अङ्गि॑रःऽभ्यः । अवृ॑णोः । अप॑ । व्र॒जम् । इन्द्र॑ । शिक्ष॑न् । अप॑ । व्र॒जम् ।

आ । ए॒भ्यः॒ । स॒मा॒न्या । दि॒शा । अ॒स्मभ्य॑म् । जे॒षि॒ । योत्सि॑ । च॒ ।

सु॒न्वत्ऽभ्यः॑ । र॒न्ध॒य॒ । कम् । चि॒त् । अ॒व्र॒तम् । हृ॒णा॒यन्त॑म् । चि॒त् । अ॒व्र॒तम् ॥४

नु । इत्था । ते । पूर्वऽथा । च । प्रऽवाच्यम् । यत् । अङ्गिरःऽभ्यः । अवृणोः । अप । व्रजम् । इन्द्र । शिक्षन् । अप । व्रजम् ।

आ । एभ्यः । समान्या । दिशा । अस्मभ्यम् । जेषि । योत्सि । च ।

सुन्वत्ऽभ्यः । रन्धय । कम् । चित् । अव्रतम् । हृणायन्तम् । चित् । अव्रतम् ॥४

हे “इन्द्र “ते तव संबन्धि कर्म “इत्था इत्थमुक्तप्रकारं वक्ष्यमाणरूपं वा "पूर्वथा पूर्वमिव पूर्वं यथा “नु क्षिप्रं "प्रवाच्यं सर्वैः स्तोतव्यं तद्वत् इदानींतनमपि स्तुत्यम् ॥ नू इत्था इत्यत्र ईषाअक्षादित्वात् । प्रकृतिभावः ॥ कीदृशं तदिति तदुच्यते । “यत् त्वम् “अङ्गिरोभ्यः एतद्गोत्रोत्पन्नेभ्यो महर्षिभ्यः तेषामर्थाय “व्रजम् अन्तरिक्षे गच्छन्तं मेघम् “अप “अवृणोः अपवृतवानसि मेघम् उत्पाट्य वृष्टिमुत्पादितवानसि । व्रज इति मेघनाम, ‘ व्रजः वराहः' ( नि. १. १०. ११) इति तन्नामसु पाठात् । किंच हे इन्द्र “व्रजं गवां समूहम् “अप अयष्टृभ्योऽपहृत्य तेभ्य एवाङ्गिरोभ्यः "शिक्षन् वितरन् रक्षितवानसि । यद्वा । पणिभिरपहृतं बिले स्थितं गवां व्रजम् अपहर्तुमपावृणोः अपवृतद्वारमकारोः। किंच हे इन्द्र “एभ्यः उक्तेभ्यः ऋषिभ्यः “समान्या “दिशा समानया रीत्या तेभ्यो यथा ददासि तद्वत् “अस्मभ्यम् अपि “जेषि धनं संग्रामं वा जय । तदर्थं "योत्सि युध्यस्व “च ।। छान्दसो विकरणस्य लुक् । व्यत्ययेन परस्मैपदम् ॥ किंच त्वं “सुन्वद्भ्यः त्वदर्थमभिषवं कुर्वद्यःलु अस्मभ्यं “कं चिदव्रतं सर्वमप्ययज्वानं यागविरोधिनं “रन्धय बाधय मदधीनं कुर्वित्यर्थः । न केवलमयज्वानं किंतु “हृणायन्तं “चिदव्रतम् ॥ चिदित्यवकुत्सिते । अस्मासु रोषं कुर्वन्तं तमेव अयष्टारं स्वयं रोषवन्तं वा । यद्वा । हृणायन्तं चित् रोषं कुर्वन्तम् अपि अव्रतम् अकर्माणं पुनर्हननासमर्थं कुर्वन् रन्धय ॥ हृणीङ् रोषे' । कण्ड्वादिः । व्यत्ययेन आकारः ॥


सं यज्जना॒न् क्रतु॑भिः॒ शूर॑ ई॒क्षय॒द्धने॑ हि॒ते त॑रुषंत श्रव॒स्यवः॒ प्र य॑क्षंत श्रव॒स्यवः॑ ।

तस्मा॒ आयुः॑ प्र॒जाव॒दिद्बाधे॑ अर्चं॒त्योज॑सा ।

इंद्र॑ ओ॒क्यं॑ दिधिषंत धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तयः॑ ॥५

सम् । यत् । जना॑न् । क्रतु॑ऽभिः । शूरः॑ । ई॒क्षय॑त् । धने॑ । हि॒ते । त॒रु॒ष॒न्त॒ । श्र॒व॒स्यवः॑ । प्र । य॒क्ष॒न्त॒ । श्र॒व॒स्यवः॑ ।

तस्मै॑ । आयुः॑ । प्र॒जाऽव॑त् । इत् । बाधे॑ । अ॒र्च॒न्ति॒ । ओज॑सा ।

इन्द्र॑ । ओ॒क्य॑म् । दि॒धि॒ष॒न्त॒ । धी॒तयः॑ । दे॒वान् । अच्छ॑ । न । धी॒तयः॑ ॥५

सम् । यत् । जनान् । क्रतुऽभिः । शूरः । ईक्षयत् । धने । हिते । तरुषन्त । श्रवस्यवः । प्र । यक्षन्त । श्रवस्यवः ।

तस्मै । आयुः । प्रजाऽवत् । इत् । बाधे । अर्चन्ति । ओजसा ।

इन्द्र । ओक्यम् । दिधिषन्त । धीतयः । देवान् । अच्छ । न । धीतयः ॥५

“यत् यः इन्द्रः “शूरः विक्रान्तः सन् “जनान् सर्वान् प्राणिनः “क्रतुभिः प्रज्ञाभिः “सम् “ईक्षयत् सम्यगीक्षयति तत्तद्विषयान् । अन्तर्यामिरूपेण सर्वेषां बुद्धिषु स्थित्वा तैर्विषयानुल्लेखयतीत्यर्थः । यद्वा । क्रतुभिः कर्मभिः सुकृतदुष्कृतरूपैर्निमित्तभूतैस्तत्तत्फलैर्योजयति । एवं प्रेरयति सति “श्रवस्यवः अन्नमिच्छन्तो यजमानाः “धने गवादिरूपे “हिते अभिमते सति । यद्वा । हिते धने अभिप्रेते सति । “तरुषन्त हिंसन्ति शत्रून् ॥ तरुष्यतिर्वधकर्मा। छान्दसे लुङि व्यत्ययेन च्लेः अङ् । तरतेर्वा लङि उकारसिप्शपः त्रयो विकरणाः ॥ तरन्तीत्यर्थः । अतः कारणात् “श्रवस्यवः अन्नं हविर्लक्षणम् इन्द्राय आरमने वा इच्छन्तः सन्तः “प्र “यक्षन्त प्रकर्षेण यजन्ते ॥ छान्दसे लुङि व्यत्ययेन क्सः ॥ किंच “तस्मै “इत् तस्मै प्रसिद्धायेन्द्रायैव "आयुः हविर्लक्षणमन्नं “प्रजावत् पुत्रादिसहितं भवति । तैः सहितैर्दीयते इत्यर्थः । किंच यजमानाः “ओजसा स्वकीयेन बलेन युक्ताः “बाधे शत्रूणां बाधने निमितभूते सति बाधितुं वा ।। ‘कृत्यार्थे तवैकेन्केन्यत्वनः' इति केन्प्रत्ययः ॥ “अर्चन्ति' पूजयन्ति । यद्वा । तस्मै इत् यजमानायैव बाधे बले निमित्तभूते सति। बाध इति बलनाम, ‘बाधः तविषी' (नि. २. ९. ८) इति तन्नामसु पाठात् । प्रजावत् पुत्राद्युपेतम् आयुः अन्नं लब्धुम् ओजसा बलेन युक्ताः अर्चन्ति इन्द्रं पूजयन्ति ऋत्विजः इति शेषः । किंच “धीतयः कर्मवन्तो यजमानाः “इन्द्रे इन्द्रसमीपे । 'गङ्गायां घोषः' इतिवत् तत्सामीप्यं लक्ष्यते । इन्द्रलोके इत्यर्थः । तत्र “ओक्यम् ओको निवासस्थानम् ॥ स्वार्थे यत् ॥ “दिधिषन्त धारयन्ति ॥ ‘धिष शब्दे' । अत्र धारणार्थः। जौहोत्यादिकः । व्यत्ययेन अन्तादेशः ॥ ते एव पुनर्विशेष्यन्ते । “धीतयः स्वर्गसाधनकर्मवन्तः सन्तः “देवाँ “अच्छा “न देवान् आभिमुख्येन प्राप्तुमिव ओक्यं दिधिषन्तेत्यन्वयः ।।


अविवाक्येऽहनि मानसग्रहभक्षणानन्तरं नक्षत्रेषु दृश्यमानेषु अध्वर्युप्रमुखाः सर्वे ‘ युवं तम्' इत्येतां जपेयुः । ‘ गार्हपत्ये जुह्वति' इति खण्डे सूत्रितं- युवं • तमिन्द्रापर्वता पुरोयुधेति जपन्तः ( आश्व. श्रौ. ८.१३ ) इति ।

यु॒वं तमिं॑द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तं ।

दू॒रे च॒त्ताय॑ च्छंत्स॒द्गह॑नं॒ यदिन॑क्षत् ।

अ॒स्माकं॒ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ ॥६

यु॒वम् । तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । पु॒रः॒ऽयुधा॑ । यः । नः॒ । पृ॒त॒न्यात् । अप॑ । तम्ऽत॑म् । इत् । ह॒त॒म् । वज्रे॑ण । तम्ऽत॑म् । इत् । ह॒त॒म् ।

दू॒रे । च॒त्ताय॑ । छ॒न्त्स॒त् । गह॑नम् । यत् । इन॑क्षत् ।

अ॒स्माक॑म् । शत्रू॑न् । परि॑ । शू॒र॒ । वि॒श्वतः॑ । द॒र्मा । द॒र्षी॒ष्ट॒ । वि॒श्वतः॑ ॥६

युवम् । तम् । इन्द्रापर्वता । पुरःऽयुधा । यः । नः । पृतन्यात् । अप । तम्ऽतम् । इत् । हतम् । वज्रेण । तम्ऽतम् । इत् । हतम् ।

दूरे । चत्ताय । छन्त्सत् । गहनम् । यत् । इनक्षत् ।

अस्माकम् । शत्रून् । परि । शूर । विश्वतः । दर्मा । दर्षीष्ट । विश्वतः ॥६

हे "इन्द्रापर्वता। इन्द्रः प्रसिद्धः । पर्वतः पर्ववान्मेघः । तदभिमानी देवः । तौ “युवं युवां “पुरोयुधा संग्रामे पुरतो योद्धारौ “नः अस्माकं “यः शत्रुः “पृतन्यात् अस्मान् हन्तुं पृतनामात्मन इच्छति “तंतमित् सर्वमपि शत्रुम् "अप “हतं नाशयतम् ॥ हन्तेर्लोटि ‘ अनुदात्तोपदेश' इत्यनुनासिकलोपः ॥ केन साधनेनेति तदुच्यते । “तंतमित् सर्वमपि शत्रुं हन्तुं "वज्रेण साधनेन प्राप्नुतम् । ईदृक् सामर्थ्यमस्तीति दर्शयति । “यत् यो वज्रः । लिङ्गव्यत्ययः ॥ “दूरे "चत्ताय अत्यन्तदूरदेशे गताय ॥ चातयतेर्वा नाशकर्मणः ॥ नष्टाय अदर्शनमापन्नायेत्यर्थः ॥' ग्रसितस्कभित०' इत्यादौ निपातनात् इडभावः ॥ तादृशं शत्रुं “छंत्सत् छन्दयति कामयते हन्तुम् । छन्दतेः कान्तिकर्मणः इदं रूपम् ॥ किंच “गहनं दुरवगाहं स्थानम् अतिकठिनं हृदयं शत्रुसमीपं वा “इनक्षत् व्याप्नोति ॥ ‘नक्ष गतौ'। छान्दसः इकारोपजनः । इनक्षतिर्वा प्रकृत्यन्तरम् ॥ इदानीम् इन्द्र एव स्तूयते । हे “शूर शौर्योपेतेन्द्र “अस्माकं विरोधिनः “शत्रून् “विश्वतः विश्वान् ॥ सार्वविभक्तिकस्तसिल् ॥ "परि परितः “विश्वतः विश्वैः उपायैः “दर्षीष्ट दारयसि । किंच “दर्मा शत्रूणां दारकः ॥ दारयतेः ‘अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । णिलोपे उदात्तनिवृत्तिस्वरेण मनिन उदात्तत्वम् । ह्रस्वश्छान्दसः । यद्वा । 'दॄ भये' । घटादित्वात् ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् ॥ तव पूर्वोक्तो वज्रः विश्वतः सर्वान् शत्रून् सर्वैरुपायैर्वा दर्षीष्ट दारयति । यद्वा । दर्मा शत्रूणां दारकः इन्द्रः दर्षीष्ट कार्स्न्ये न दारयति शत्रून् ॥ ॥ २१ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३२&oldid=182812" इत्यस्माद् पुनः प्राप्तिः