प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं १.९२ ऋग्वेदः - मण्डल १
सूक्तं १.९३
गोतमो राहूगणः
सूक्तं १.९४ →
दे. अग्नीषोमौ। १-३ अनुष्टुप्, ४-७, १२ त्रिष्टुप्, ८ जगती त्रिष्टुब्वा, ९-११ गायत्री।


अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम् ।
प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥१॥
अग्नीषोमा यो अद्य वामिदं वचः सपर्यति ।
तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥२॥
अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् ।
स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥३॥
अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः ।
अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः ॥४॥
युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् ।
युवं सिन्धूँरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥५॥
आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः ।
अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥६॥
अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् ।
सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥७॥
यो अग्नीषोमा हविषा सपर्याद्देवद्रीचा मनसा यो घृतेन ।
तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् ॥८॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः ।
सं देवत्रा बभूवथुः ॥९॥
अग्नीषोमावनेन वां यो वां घृतेन दाशति ।
तस्मै दीदयतं बृहत् ॥१०॥
अग्नीषोमाविमानि नो युवं हव्या जुजोषतम् ।
आ यातमुप नः सचा ॥११॥
अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः ।
अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥१२॥

सायणभाष्यम्

‘अग्नीषोमौ' इति द्वादशर्चं नवमं सूक्तं गोतमस्यार्षम्। आदितस्तिस्रोऽनुष्टुभः । नवम्याद्यास्तिस्रो गायत्र्यः । अष्टमी जगती त्रिष्टुब्वा । शिष्टाः पञ्च त्रिष्टुभः । अग्नीषोमौ देवता । तथा चानुक्रान्तम् -- ‘ अग्नीषोमौ द्वादशाग्नीषोमीयमाद्यास्तिस्रोऽनुष्टुभ उपान्त्यास्तिस्रो' गायत्र्योऽष्टमी जगती वा ' इति । अग्नीषोमीयस्य पशोर्वपापुरोडाशहविषामादितस्तिस्र ऋचः क्रमेणानुवाक्याः । सूत्रितं च- अग्नीषोमाविमं सु मे युवमेतानि दिवि रोचनानीति तृचौ ' ( आश्व. श्रौ. ३.८) इति ॥


अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् ।

प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ॥१

अग्नी॑षोमौ । इ॒मम् । सु । मे॒ । शृ॒णु॒तम् । वृ॒ष॒णा॒ । हव॑म् ।

प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒त॒म् । भव॑तम् । दा॒शुषे॑ । मयः॑ ॥१

अग्नीषोमौ । इमम् । सु । मे । शृणुतम् । वृषणा । हवम् ।

प्रति । सुऽउक्तानि । हर्यतम् । भवतम् । दाशुषे । मयः ॥१

“वृषणा वृषणौ कामानां वर्षितारौ हे “अग्नीषोमौ “इमम् इदानीं प्रयुज्यमानं “मे मदीयं “हवम् आह्वानं "सु “शृणुतं सम्यगवगच्छतम् । “सूक्तानि शोभनानि स्तुतिलक्षणान्यस्माभिः कृतानि वचांसि “प्रति “हर्यतं प्रत्येकं कामयेथाम् । तदनन्तरं “दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय “मयः मयसः सुखस्य दातारौ “भवतम् ॥ अग्नीषोमौ । अग्निश्च सोमश्च । द्वन्द्वे ‘ ईदग्नेः सोमवरुणयोः ' ( पा. सू. ६. ३. २७) इति ईत्वम् ।' अग्नेः स्तुत्स्तोमसोमाः ' ( पा. सू. ८. ३. ८२ ) इति षत्वम् । देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरे प्राप्ते ‘आमन्त्रितस्य च ' इत्याद्युदात्तत्वम् । वृषणा । ‘ सुपां सुलुक्' ' इति आकारः । वा षपूर्वस्य ' इति विकल्पनादुपधाया दीर्घाभावः। हवम् । ‘भावेऽनुपसर्गस्य' इति ह्वयतेः अप् संप्रसारणं च। सूक्तानि । सुपूर्वात् वक्तेः कर्मणि निष्ठा। ‘ सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् । हर्यतम् । हर्य गतिकान्त्योः '। भौवादिकः ॥


यदा पौर्णमास्यामग्नीषोमावुपांशुयाजस्य देवता तदानीम् ' अग्नीषोमा यो अद्य ' इति तस्यानुवाक्या । सूत्रितं च ' उक्ता देवताः' इति खण्डे -- अग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभार ' ( आश्व. श्रौ. १. ६) इति ॥

अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वचः॑ सप॒र्यति॑ ।

तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ॥२

अग्नी॑षोमा । यः । अ॒द्य । वा॒म् । इ॒दम् । वचः॑ । स॒प॒र्यति॑ ।

तस्मै॑ । ध॒त्त॒म् । सु॒ऽवीर्य॑म् । गवा॑म् । पोष॑म् । सु॒ऽअश्व्य॑म् ॥२

अग्नीषोमा । यः । अद्य । वाम् । इदम् । वचः । सपर्यति ।

तस्मै । धत्तम् । सुऽवीर्यम् । गवाम् । पोषम् । सुऽअश्व्यम् ॥२

हे अग्नीषोमौ "यः यजमानः “अद्य अस्मिन् कर्मणि "वां युवाभ्यां युष्मदर्थम् “इदं स्तुतिलक्षणं “वचः वाक्यं “सपर्यंति पूजितं करोति “तस्मै यजमानाय “गवां पशूनां “पोषम् अभिवृद्धिं “धत्तं प्रयच्छतम् । कीदृशं पोषम् । “सुवीर्यं शोभनेन वीर्येण सामर्थ्येनोपेतं “स्वश्व्यं शोभनैरश्वैर्युक्तम् ॥ गवाम् । ‘सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘न गोश्वन्साववर्ण ' इति प्रतिषेधः ॥


अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम् ।

स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥३

अग्नी॑षोमा । यः । आऽहु॑तिम् । यः । वा॒म् । दाशा॑त् । ह॒विःऽकृ॑तिम् ।

सः । प्र॒ऽजया॑ । सु॒ऽवीर्य॑म् । विश्व॑म् । आयुः॑ । वि । अ॒श्न॒व॒त् ॥३

अग्नीषोमा । यः । आऽहुतिम् । यः । वाम् । दाशात् । हविःऽकृतिम् ।

सः । प्रऽजया । सुऽवीर्यम् । विश्वम् । आयुः । वि । अश्नवत् ॥३

हे अग्नीषोमौ “यः यजमानः “आहुतिम् आज्याहुतिं “वां युवाभ्यां दाशात् दद्यात् । अथवा "हविष्कृतिं हविषा चरुपुरोडाशादिना कृताम् आहुतिं “यः यजमानो दद्यात् । “सः यजमानः “प्रजया पुत्रपौत्रादिना युक्तं “सुवीर्यं शोभनवीर्ययुक्तं “विश्व सर्वम् "आयुः जीवनं “व्यश्नवत् व्याप्नोतु ।। आहुतिम् । जुहोतेः क्तिनि ' तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । दाशात् ।' दाशृ दाने '। लेटि आडागमः ।। यद्वृत्तयोगादनिघातः । हविष्कृतिम् । हविषः कृतिः करणं यस्यामाहुतौ । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नित्यं समासेऽनुत्तरपदस्थस्य ' इति विसर्जनीयस्य षत्वम् । अश्नवत् । अश्नोतेर्व्यत्ययेन परस्मैपदम् । लेटि अडागमः ॥


अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः ।

अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्यः॑ ॥४

अग्नी॑षोमा । चेति॑ । तत् । वी॒र्य॑म् । वा॒म् । यत् । अमु॑ष्णीतम् । अ॒व॒सम् । प॒णिम् । गाः ।

अव॑ । अ॒ति॒र॒त॒म् । बृस॑यस्य । शेषः॑ । अवि॑न्दतम् । ज्योतिः॑ । एक॑म् । ब॒हुऽभ्यः॑ ॥४

अग्नीषोमा । चेति । तत् । वीर्यम् । वाम् । यत् । अमुष्णीतम् । अवसम् । पणिम् । गाः ।

अव । अतिरतम् । बृसयस्य । शेषः । अविन्दतम् । ज्योतिः । एकम् । बहुऽभ्यः ॥४

हे अग्नीषोमौ “वां युवयोः “तत् वक्ष्यमाणं “वीर्यं सामर्थ्यं “चेति अस्माभिर्ज्ञातमभूत् । “यत् येन वीर्येण “गाः “अवसं गोरूपमन्नं “पणिं पणेः । विभक्तिव्यत्ययः । एतन्नाम्नोऽसुरात् “अमुष्णीतं अपाहार्ष्टम् । तथा “बृसयस्य । वृसिः वेष्टनार्थः । वृसयति सर्वं वेष्टयतीति बृसयोऽसुरस्त्वष्टा । तस्यासुरस्य “शेषः अपत्यम् । शेष इत्यपत्यनाम शिष्यते प्रयतः ' (निरु. ३. २ ) इति यास्कः । त्वष्टृसकाशादुत्पन्नं वृत्रम् “अवातिरतम् अवधिष्टम् । अवतिरतिर्वधकर्मा । प्राणापानरूपयोर्युवयोर्वृत्रेऽनवस्थानात् स मरणं प्राप्तः । तथा चाम्नायते- ‘ तस्माज्जञ्जभ्यमानादग्नीषोमौ निरक्रामतां प्राणापानौ वा एनं तदजहिताम् ' ( तै. सं. २. ५. २. ४ ) इति । ततो वृत्रवधानन्तरं “ज्योतिः द्योतमानं सूर्यम् “एकं नभसि गच्छन्तं “बहुभ्यः जनेभ्यो बहूनामर्थाय "अविन्दतम् अलप्साथाम् । एतत् सर्वं येन वीर्येण क्रियते तदस्माभिर्ज्ञातमित्यर्थः ॥ चेति ।' चिती संज्ञाने ' । लुङि' चिण् भावकर्मणोः ' ( पा.सू. ३. १. ६६ ) इति च्लेः चिणादेशः । ‘ चिणो लुक्' इति तशब्दस्य लुक् । अमुष्णीतम् ।' मुष स्तेये ' । क्रैयादिकः । अवसम् । अवतेरौणादिकः असच् । शेषः । ‘सुपां सुलुक् ' इति द्वितीयायाः सुः । एकम् । ' इण् गतौ । ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्' (उ. सू. ३. ३२३ ) इति कन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥


अग्नीषोमीयस्य पशोर्वपापुरोडाशहविषां ‘युवमेतानि ' इति आद्यास्तिस्र ऋचः क्रमेण याज्याः । सूत्रं तु पूर्वमेवोदाहृतम् ( आश्व. श्रौ. ३. ८)। पौर्णमासयागेऽग्नीषोमीयस्य पुरोडाशस्य ‘युवमेतानि' इत्येषा याज्या ।' उक्ता देवताः' इति खण्डे सूत्रितं - ‘ युवमेतानि दिवि रोचनानीन्द्राग्नी अवसा गतम्' (आश्व. श्रौ. १. ६ ) इति ॥

यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।

यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥५

यु॒वम् । ए॒तानि॑ । दि॒वि । रो॒च॒नानि॑ । अ॒ग्निः । च॒ । सो॒म॒ । सक्र॑तू॒ इति॒ सऽक्र॑तू । अ॒ध॒त्त॒म् ।

यु॒वम् । सिन्धू॑न् । अ॒भिऽश॑स्तेः । अ॒व॒द्यात् । अग्नी॑षोमौ । अमु॑ञ्चतम् । गृ॒भी॒तान् ॥५

युवम् । एतानि । दिवि । रोचनानि । अग्निः । च । सोम । सक्रतू इति सऽक्रतू । अधत्तम् ।

युवम् । सिन्धून् । अभिऽशस्तेः । अवद्यात् । अग्नीषोमौ । अमुञ्चतम् । गृभीतान् ॥५

हे “सोम त्वम् “अग्निश्च “सक्रतू समानकर्माणौ सन्तौ “युवं युवां “रोचनानि रोचमानानि दीप्यमानानि "एतानि अस्माभिर्निशि दृश्यमानानि ताराग्रहादीनि ज्योतींषि “दिवि द्युलोके “अधत्तम् अधारयतम् । उत्तरार्धस्येयमाख्यायिका । इन्द्रो वृत्रं हत्वा ब्रह्महत्याया भीतः सन् पृथिव्यां वृक्षेषु स्त्रीष्वप्सु च तां ब्रह्महत्यां न्यमार्क्षीत् तासामपां शुद्धिरग्नीषोमाभ्यां जातेति । ब्रह्महत्यांशेन पापेन “गृभीतान् गृहीतानाक्रान्तान् “सिन्धून् नदीविशेषान् हे “अग्नीषोमौ युवाम् “अभिशस्तेः अभिशस्यमानादभितः प्रकटितात् “अवद्यात् तस्मात् पापात् "अमुञ्चतं मुक्तवन्तौ। यद्वा। वृत्रः इन्द्रेण हतः सन् नदीषु पपात । ततो मृतेन वृत्रशरीरेण नद्यः सर्वा दुष्टा बभूवुः। तथा च तैत्तिरीयकम् - ‘इन्द्रो वृत्रमहन् सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियं सदेवमासीत्तदपोदक्रामत् ' ( तै. ब्रा. ३. २. ५. १ ) इति । तेन दोषेण गृहीता नदीस्तस्माद्दोषादग्नीषोमौ मुक्तवन्तौ ।। रोचनानि ।' रुच दीप्तौ । ‘ अनुदात्तेतश्च हलादेः ' इति युच् । सिन्धून् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । अत्रानुनासिकः । इति अनुनासिकः । गृभीतान् ।' हृग्रहोर्भः' इति भत्वम् ।।


अग्नीषोमीयस्योपांशुयाजस्य ‘ आन्यं दिवः' इत्येषा याज्या । ‘ अग्नीषोमा यो अद्य वाम् । इत्यत्र सूत्रमुदाहृतम् ॥

आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रेः॑ ।

अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥६

आ । अ॒न्यम् । दि॒वः । मा॒त॒रिश्वा॑ । ज॒भा॒र॒ । अम॑थ्नात् । अ॒न्यम् । परि॑ । श्ये॒नः । अद्रेः॑ ।

अग्नी॑षोमा । ब्रह्म॑णा । व॒वृ॒धा॒ना । उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊं॒ इति॑ । लो॒कम् ॥६

आ । अन्यम् । दिवः । मातरिश्वा । जभार । अमथ्नात् । अन्यम् । परि । श्येनः । अद्रेः ।

अग्नीषोमा । ब्रह्मणा । ववृधाना । उरुम् । यज्ञाय । चक्रथुः । ऊं इति । लोकम् ॥६

हे अग्नीषोमौ युवयोर्मध्ये "अन्यम् एकमग्निं "मातरिश्वा वायुः "दिवः द्युलोकात् "आ “जभार भृगवे यजमानाय आजहार । तथा च मन्त्रान्तरम् - ' द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा' (ऋ. सं. १.६०.१ ) इति। “श्येनः शंसनीयगतिमान्पक्षी पक्ष्याकारा गायत्री “अन्यं सोमम् “अद्रेः “परि मेरोरुपर्यवस्थितात् स्वर्गात् "अमथ्नात् बलादाहृतवती । एवं महानुभावौ युवां “ब्रह्मणा स्रष्ट्रा मन्त्ररूपेण स्तोत्रेण हविर्लक्षणेनान्नेन वा “ववृधाना वर्धमानौ युवां “यज्ञाय अन्येषां देवानां यागाय “उरुं विस्तीर्णं “लोकं स्थानं “चक्रथुः कृतवन्तौ। “उ इत्येतत् पादपूरणम् । आज्यभागदेवतयोरग्नीषोमयोः उत्तरार्धदक्षिणार्धयोर्हूयते। तन्मध्येऽन्यदेवत्यानि सर्वाणि हवींषि हूयन्ते। तन्मध्यमं स्थानमग्नीषोमकृतम् । तथा च तैत्तिरीयकम्- राजानौ वा एतौ देवतानां यदग्नीषोमावन्तरा देवता इज्येते देवतानां विधृत्यै ' ( तै. सं. २. ६. २. १-२ ) इति ।। ववृधाना । वृधेर्लिटः कानच् । छान्दसमभ्यासस्य दीर्घत्वम् । सुपां सुलुक् ' इति आकारः ॥ ॥ २८ ॥


अग्नी॑षोमा ह॒विष॒ः प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् ।

सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥७

अग्नी॑षोमा । ह॒विषः॑ । प्रऽस्थि॑तस्य । वी॒तम् । हर्य॑तम् । वृ॒ष॒णा॒ । जु॒षेथा॑म् ।

सु॒ऽशर्मा॑णा । सु॒ऽअव॑सा । हि । भू॒तम् । अथ॑ । ध॒त्त॒म् । यज॑मानाय । शम् । योः ॥७

अग्नीषोमा । हविषः । प्रऽस्थितस्य । वीतम् । हर्यतम् । वृषणा । जुषेथाम् ।

सुऽशर्माणा । सुऽअवसा । हि । भूतम् । अथ । धत्तम् । यजमानाय । शम् । योः ॥७

हे अग्नीषोमौ “प्रस्थितस्य होमार्थमाहवनीयसमीपं प्राप्तं “हविषः इदं हविः “वीतं भक्षयतम् । तदनन्तरं च "हर्यतं अस्मान् कामयेथाम्। हे “वृषणा कामानां वर्षितारौ "जुषेथाम् अस्मदीयं परिचरणं सेवेथाम् । तदनन्तरं “सुशर्मणा शोभनसुखौ "स्ववसा “हि शोभनरक्षणौ च “भूतम् अस्माकं भवतम् । “अथ अनन्तरं हविर्दत्तवते यजमानाय “शं शमनीयानां रोगाणां शमनं "योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं च “धत्तं विधत्तं कुरुतम् । उक्तं च यास्केन- शमनं च रोगाणां यावनं च भयानाम् ( निरु. ४. २१ ) इति ॥ हविषः । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । वीतम् । ‘वी गतिप्रजनकान्त्यशनखादनेषु' । थसस्तम् । अदादित्वात् शपो लुक् । वीतं च हर्यतं चेति चार्थप्रतीतेः ‘चादिलोपे विभाषा' इति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः ! हर्यतम् । पादादित्वात् निघाताभावः । जुषेथाम् । वृषणा इत्यामन्त्रितस्य ‘ आमन्त्रितं पूर्वम् ' इति अविद्यमानवत्त्वे सति तिङः परत्वात् निघाताभावः । सुशर्माणा स्ववसा । उभयत्र बहुव्रीहौ ‘ सोर्मनसी अलोमोषसी ' इत्युत्तरपदाद्युदात्तत्वम् । भूतम् । लोटि ‘ बहुलं छन्दसि' इति शपो लुक् ॥


यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ ।

तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥८

यः । अ॒ग्नीषोमा॑ । ह॒विषा॑ । स॒प॒र्यात् । दे॒व॒द्रीचा॑ । मन॑सा । यः । घृ॒तेन॑ ।

तस्य॑ । व्र॒तम् । र॒क्ष॒त॒म् । पा॒तम् । अंह॑सः । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ॥८

यः । अग्नीषोमा । हविषा । सपर्यात् । देवद्रीचा । मनसा । यः । घृतेन ।

तस्य । व्रतम् । रक्षतम् । पातम् । अंहसः । विशे । जनाय । महि । शर्म । यच्छतम् ॥८

“यः यजमानः “अग्नीषोमा अग्नीषोमौ “देवद्रीचा देवानञ्चता देवतापरायणेन श्रद्धायुक्तेन “मनसा अन्तःकरणेन युक्तः सन् “हविषा चरुपुरोडाशादिना “सपर्यात् सपर्यति परिचरति । "यः च यजमानः “घृतेन आज्येनाप्नीषोमौ परिचरति । “तस्य यजमानस्य “व्रतं कर्म “रक्षतम् । “अंहसः पापात् तं च यजमानं “पातं रक्षतम् । “विशे यागेषु प्रविशते तस्मै “जनाय यजमानाय “महि महत् प्रभूतं “शर्म सुखं “यच्छतं दत्तम् । अग्नीषोमा । देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । सपर्यात् । ‘सपर पूजायाम् ' । कण्ड्वादिः । लेटि आडागमः । देवद्रीचा । देवानञ्चतीति देवद्र्यङ् । अञ्चतेः ' ऋत्विक् ' इत्यादिना क्विन् । ' अनिदिताम्' इति नलोपः । ‘ विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये' (पा. सू. ६. ३. ९२ ) इति देवशब्दस्य टेः अद्र्यादेशः । तृतीयैकवचने ‘ अचः' इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘अद्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् ' ( पा. सू. ६. ३. ९५. १ ) इति वचनात् अद्र्यादेशः अन्तोदात्त: । विशे । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् ॥


पौर्णमासयागेऽग्नीषोमीयस्य यागस्य ' अग्नीषोमा ' इत्येषानुवाक्या । तथा च सूत्रितम् ‘ उक्ता देवताः' इति खण्डे -- अग्नीषोमा सवेदसा युवमेतानि दिवि रोचनानि (आश्व. श्रौ. १. ६) इति ।।

अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ ।

सं दे॑व॒त्रा ब॑भूवथुः ॥९

अग्नी॑षोमा । सऽवे॑दसा । सहू॑ती॒ इति॒ सऽहू॑ती । व॒न॒त॒म् । गिरः॑ ।

सम् । दे॒व॒ऽत्रा । ब॒भू॒व॒थुः॒ ॥९

अग्नीषोमा । सऽवेदसा । सहूती इति सऽहूती । वनतम् । गिरः ।

सम् । देवऽत्रा । बभूवथुः ॥९

हे अग्नीषोमौ युवां “सवेदसा समानेनैकेन वेदसा हविर्लक्षणेन धनेन युक्तौ “सहूती समानह्वानौ च सन्तौ “गिरः अस्मदीयाः स्तुतीः “वनतं संभजेथाम् । “देवत्रा देवेषु सर्वेषु यौ युवां “सं “बभूवथुः संभूतौ संभावितौ प्रशस्तौ स्थः । ‘ राजानौ वा एतौ देवतानां यदग्नीषोमौ' (तै. सं. २. ६. २. १-२ ) इति श्रुतेः ॥ सवेदसा । समानं वेदो ययोः । समानस्य च्छन्दसि ' इति सभावः । वनतम्। ‘वन षण संभक्तौ '। देवत्रा। ' देवमनुष्यपुरुषपुरुमर्त्य ' इत्यादिना सप्तम्यर्थे त्राप्रत्ययः ॥


अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति ।

तस्मै॑ दीदयतं बृ॒हत् ॥१०

अग्नी॑षोमौ । अ॒नेन॑ । वा॒म् । यः । वा॒म् । घृ॒तेन॑ । दाश॑ति ।

तस्मै॑ । दी॒द॒य॒त॒म् । बृ॒हत् ॥१०

अग्नीषोमौ । अनेन । वाम् । यः । वाम् । घृतेन । दाशति ।

तस्मै । दीदयतम् । बृहत् ॥१०

हे अग्नीषोमौ "वां युवयोः संबन्धी "यः यजमानः “अनेन “घृतेन उत्पवनादिभिः संस्कृतेनाज्येन युक्तं हविः “वां युवाभ्यां “दाशति प्रयच्छति “तस्मै यजमानाय "बृहत् प्रभूतं धनं “दीदयतं प्रकाशयतं प्रयच्छतमित्यर्थः । दाशति । दाशृ दाने '। शप्तिपोः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । दीदयतम् । दीदयतिः। दीप्तिकर्मा ॥


अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् ।

आ या॑त॒मुप॑ न॒ः सचा॑ ॥११

अग्नी॑षोमौ । इ॒मानि॑ । नः॒ । यु॒वम् । ह॒व्या । जु॒जो॒ष॒त॒म् ।

आ । या॒त॒म् । उप॑ । नः॒ । सचा॑ ॥११

अग्नीषोमौ । इमानि । नः । युवम् । हव्या । जुजोषतम् ।

आ । यातम् । उप । नः । सचा ॥११

हे “अग्नीषोमौ "युवं युवां “नः अस्मदीयानि “इमानि “हव्या हवींषि “जुजोषतं सेवेथाम् । तदर्थं “नः अस्मान् "सचा सह युवाम् “उप "आ "यातं उपागच्छतम् ॥ जुजोषतम् । ‘जुषी प्रीतिसेवनयोः । लोटि व्यत्ययेन शप्। छान्दसं द्विर्वचनम् । यद्वा। विकरणस्य ‘बहुलं छन्दसि' इति श्लुः । ततो व्यत्ययेन शप् । ' बहुलं छन्दसीति वक्तव्यम्' इति वचनात् ‘नाभ्यस्तस्याचि पिति' इति लघूपधगुणप्रतिषेधाभावः ॥


अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यन्तामु॒स्रिया॑ हव्य॒सूदः॑ ।

अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मन्त॑म् ॥१२

अग्नी॑षोमा । पि॒पृ॒तम् । अर्व॑तः । नः॒ । आ । प्या॒य॒न्ता॒म् । उ॒स्रियाः॑ । ह॒व्य॒ऽसूदः॑ ।

अ॒स्मे इति॑ । बला॑नि । म॒घव॑त्ऽसु । ध॒त्त॒म् । कृ॒णु॒तम् । नः॒ । अ॒ध्व॒रम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥१२

अग्नीषोमा । पिपृतम् । अर्वतः । नः । आ । प्यायन्ताम् । उस्रियाः । हव्यऽसूदः ।

अस्मे इति । बलानि । मघवत्ऽसु । धत्तम् । कृणुतम् । नः । अध्वरम् । श्रुष्टिऽमन्तम् ॥१२

हे अग्नीषोमौ “नः अस्माकम् “अर्वतः अश्वान् “पिपृतं पालयतम् । “हव्यसूदः क्षीरादिहविषामुत्पादयित्र्यः “उस्रियाः अस्मदीया गावश्च “आ “प्यायन्ताम् आप्यायिताः प्रवृद्धाः सन्तु । मघवत्सु हविर्लक्षणधनयुक्तेषु "अस्मे अस्मासु “बलानि “धत्तं स्थापयतम् । तथा “नः अस्माकम् "अध्वरं यागं “श्रुष्टिमन्तं धनयुक्तं “कृणुतं कुरुतम् ॥ पिपृतम् । पॄ पालनपूरणयोः । पृ इत्येके'। जुहोत्यादित्वात् शपः श्लुः । ‘ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । हव्यसूदः । हव्यं सूदन्ते क्षरन्तीति हन्यसूदः। ‘ षूद क्षरणे'। क्विप् च ' इति क्विप् । अस्मे । ‘सुपां सुलुक् ' इति सप्तम्याः शेआदेशः । श्रुष्टिमन्तम् । श्रुष्टीति धननाम । शु आशु अश्यते व्याप्यते इति श्रुष्टिः । पृषोदरादिः। ‘ ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् ॥ ॥ २९ ॥ ॥ १४ ॥


सम्पाद्यताम्

अग्नीषोमोपरि पौराणिकाः संदर्भाः

अग्नीषोमोपरि टिप्पणी


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९३&oldid=198221" इत्यस्माद् पुनः प्राप्तिः