ऋग्वेदः सूक्तं १.१७१
← सूक्तं १.१७० | ऋग्वेदः - मण्डल १ सूक्तं १.१७१ अगस्त्यो मैत्रावरुणिः |
सूक्तं १.१७२ → |
दे. मरुतः, ३-६ मरुत्वानिन्द्रः। त्रिष्टुप्। |
प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम् ।
रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान् ॥१॥
एष व स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः ।
उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः ॥२॥
स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः ।
ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ॥३॥
अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः ।
युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः ॥४॥
येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् ।
स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥५॥
त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः ।
सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम् ॥६॥
सायणभाष्यम्
‘प्रति वः' इति षडृचं सप्तमं सूक्तमागस्त्यं त्रैष्टुभं मारुतम् । आद्ये द्वे केवलमारुते । शिष्टाश्चतस्रो मरुत्वदिन्द्रदेवताकाः । प्रति वः षण्मारुतं तु चतस्रोऽन्त्या मरुत्वतीयाः' इत्यनुक्रमणिका । विशेषविनियोगो लैङ्गिकः ॥
प्रति॑ व ए॒ना नम॑सा॒हमे॑मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा॑म् ।
र॒रा॒णता॑ मरुतो वे॒द्याभि॒र्नि हेळो॑ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ॥१
प्रति॑ । वः॒ । ए॒ना । नम॑सा । अ॒हम् । ए॒मि॒ । सु॒ऽउ॒क्तेन॑ । भि॒क्षे॒ । सु॒ऽम॒तिम् । तु॒राणा॑म् ।
र॒रा॒णता॑ । म॒रु॒तः॒ । वे॒द्याभिः॑ । नि । हेळः॑ । ध॒त्त । वि । मु॒च॒ध्व॒म् । अश्वा॑न् ॥१
प्रति । वः । एना । नमसा। अहम् । एमि । सुऽउक्तेन । भिक्षे । सुऽमतिम् । तुराणाम् ।
रराणता । मरुतः । वेद्याभिः । नि । हेळ: । धत्त । वि । मुचध्वम् । अश्वान् ॥ १ ॥
.हे मरुतः “वः युष्मान् “अहं “प्रति “एमि अभिगच्छामि । केन साधनेन । "नमसा नमस्कारेण हविषा वा । नम इत्यन्ननाम । तथा “सूक्तेन शोभनवचनेन स्तुतिरूपेण । “तुराणां त्वरमाणानां शत्रूणां हिंसकानां वा युष्माकं “सुमतिं शोभनमतिम् अनुग्रहबुद्धिं “भिक्षे याचे । इन्द्रस्यैव पुनर्हविष्प्रदानादिदं याच्यते । किंच हे “मरुतः यूयं “वेद्याभिः वेदितव्याभिः स्तुतिभिः “रराणता रममाणेन मनसा इत्थंभूताः सन्तः “हेळ: । क्रोधनामैतत् । क्रोधं युष्मदभिक्रमजनितं “नि “धत्त निकृष्टं धारयत त्यजतेत्यर्थः । तथा “अश्वान् “वि “मुचध्वम् रथेभ्यो वियोजयत । क्रोधात् पुनर्गमनं मा कुरुतेत्यर्थः ॥
ए॒ष व॒ः स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः ।
उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धास॑ः ॥२
ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । नम॑स्वान् । हृ॒दा । त॒ष्टः । मन॑सा । धा॒यि॒ । दे॒वाः॒ ।
उप॑ । ई॒म् । आ । या॒त॒ । मन॑सा । जु॒षा॒णाः । यू॒यम् । हि । स्थ । नम॑सः । इत् । वृ॒धासः॑ ॥२
एषः । वः । स्तोमः। मरुतः । नमस्वान् । हृदा । तष्टः । मनसा । धायि । देवाः ।।
उप । ईम् । आ। यात । मनसा। जुषाणाः । यूयम्। हि। स्थ। नमसः । इत् । वृधासः ॥२॥
हे “मरुतः “एष “वः स्तोमः इदानींक्रियमाणप्रकारो वो युष्माकम् । युष्मदर्थं इत्यर्थः । कीदृशोऽयम् । “नमस्वान् । नम इत्यन्ननाम । हविर्लक्षणान्नवान् । न केवलं स्तुतिमात्रं भक्षणाय हविरपि युष्माकमित्यर्थः । किंच 'हृदा “तष्टः युष्मन्निवेदनबुद्ध्या संपादितः । तादृशः स्तोमो हे “देवाः देवनशीलाः “मनसा अस्मदनुग्रहवता चित्तेन “धायि धार्यताम् । तदर्थं “मनसा आदरया बुद्ध्या "जुषाणाः “ईम् एनां स्तुतिं तद्धविश्च सेवमानाः “उप “आ “यात उपागच्छतैव । मा विलम्बं कुरुत । "यूयं “नमसः अन्नस्य हवीरूपस्य “वृधासः “स्थ "हि वर्धयितारो भवथ खलु । अतो गन्तव्यमेव । “इत् पूरणः ॥
स्तु॒तासो॑ नो म॒रुतो॑ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः ।
ऊ॒र्ध्वा न॑ः सन्तु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥३
स्तु॒तासः॑ । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । उ॒त । स्तु॒तः । म॒घऽवा॑ । शम्ऽभ॑विष्ठः ।
ऊ॒र्ध्वा । नः॒ । स॒न्तु॒ । को॒म्या । वना॑नि । अहा॑नि । विश्वा॑ । म॒रु॒तः॒ । जि॒गी॒षा ॥३
स्तुतासः । नः । मरुतः । मृळयन्तु । उत। स्तुतः । मघऽवा । शम्ऽभविष्ठः ।
ऊर्ध्वा । नः । सन्तु। कोम्या । वनानि । अहानि । विश्वा । मरुतः । जिगीषा ॥ ३ ॥
ते “मरुतः “स्तुतासः स्तुताः सन्तः “नः अस्मान् “मृळयन्तु सुखयन्तु । “उत अपि च “मघवा । मघमिति धननाम । अस्मद्दातव्यबहुधनेन तद्वानिन्द्रः “स्तुतः “शंभविष्ठः सुखस्य भावयितृतमः सन् अस्मान् मृळयतु । किंच हे “मरुतः “नः अस्माकं “जिगीषा ॥ जिगातेर्गतिकर्मणो जिगीषा ॥ जिगीषितव्यानि प्राप्तव्यानि उत्तरत्रानुभूयमानानि “विश्वा सर्वाणि "अहानि दिवसानि “ऊर्ध्वा उन्नतान्युपर्युपरि श्रिया यशसा वा उत्कृष्टानि “कोम्या काम्यानि स्पृहणीयानि “वनानि सर्वैः संभजनीयानि “सन्तु । जिगीषा जेतुमिष्टानि जेतव्यानि च सन्त्विति वा योज्यम् । एवं कृत्वा मरुत इन्द्रश्च सुखयन्त्वित्यर्थः ।।
अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा॑द्भि॒या म॑रुतो॒ रेज॑मानः ।
यु॒ष्मभ्यं॑ ह॒व्या निशि॑तान्यास॒न्तान्या॒रे च॑कृमा मृ॒ळता॑ नः ॥४
अ॒स्मात् । अ॒हम् । त॒वि॒षात् । ईष॑माणः । इन्द्रा॑त् । भि॒या । म॒रु॒तः॒ । रेज॑मानः ।
यु॒ष्मभ्य॑म् । ह॒व्या । निऽशि॑तानि । आ॒स॒न् । तानि॑ । आ॒रे । च॒कृ॒म॒ । मृ॒ळत॑ । नः॒ ॥४
अस्मात् । अहम् । तविषात् । ईषमाणः । इन्द्रात् । भिया । मरुतः । रेजमानः ।
युष्मभ्यम् । हव्या । निऽशितानि । आसन् । तानि । आरे । चकृम। मृळतं । नः ॥ ४ ॥
हे "मरुतः शृणुत । “अहम् “अस्मात् प्रसिद्धात् “तविषात् बलवतः “इन्द्रात् तत्सकाशात् “भिया भीत्या “ईषमाणः पलायमानः पुरतः स्थातुमशक्तः तथा “रेजमानः वेपमानश्चाभवम् । ततश्च किमायातमिति अत आह । यानि “युष्मभ्यं “हव्या हवींषि “निशितानि संस्कृतानि “आसन् “तानि तान्येव “आरे “चकृम । दूरे कृतवन्तो वयमिन्द्रभयात् । अतः “नः अस्मान् अनपराधिनः “मृळत मृळयत सुखयत ।।
येन॒ माना॑सश्चि॒तय॑न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् ।
स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभि॒ः स्थवि॑रः सहो॒दाः ॥५
येन॑ । माना॑सः । चि॒तय॑न्ते । उ॒स्राः । विऽउ॑ष्टिषु । शव॑सा । शश्व॑तीनाम् ।
सः । नः॒ । म॒रुत्ऽभिः॑ । वृ॒ष॒भ॒ । श्रवः॑ । धाः॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । स्थवि॑रः । स॒हः॒ऽदाः ॥५
येन । मानासः । चितयन्ते । उस्राः । विऽउष्टिषु । शवसा । शश्वतीनाम् ।।
सः । नः । मुरुत्ऽभिः । वृषभ । श्रवः । धाः । उग्रः। उग्रेभिः । स्थविरः । सहःऽदाः ॥५॥
हे इन्द्र "येन “शवसा बलभूतेन त्वयानुगृहीताः “मानासः मान्यास्त्वयाभिमानिताः वा “उस्राः रश्मयः “शश्वतीनां नित्यानां बह्वीनामुषसां “व्युष्टिषु सतीषु प्रकाशेषु सत्सु “चितयन्ते चेतयन्ते प्राणिनां स्वस्वव्यवहाराय प्रज्ञापयन्ति । ऐन्द्र्यां दिशि तेनैवानुगृहीता उषसो रश्मय उद्गच्छन्तीति प्रसिद्धम् । हे “वृषभ वर्षितरिन्द्र “सः तादृशस्त्वं “मरुद्भिः सहितः “श्रवो “धाः सर्वत्र श्रूयमाणमन्नं धेहि स्थापय देहीत्यर्थः । कीदृशस्त्वम् । “उग्रः उद्गूर्णबलः “सहोदाः । पराभिभवसामर्थ्यं बलं सहः । तस्य दाता “स्थविरः पुरातनः । कीदृशैर्मरुद्भिः। “उग्रेभिः क्रूरबलैः । एवंमहानुभावः अन्नं देहि ॥
त्वं पा॑हीन्द्र॒ सही॑यसो॒ नॄन्भवा॑ म॒रुद्भि॒रव॑यातहेळाः ।
सु॒प्र॒के॒तेभि॑ः सास॒हिर्दधा॑नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६
त्वम् । पा॒हि॒ । इ॒न्द्र॒ । सही॑यसः । नॄन् । भव॑ । म॒रुत्ऽभिः॑ । अव॑यातऽहेळाः ।
सु॒ऽप्र॒के॒तेभिः॑ । स॒स॒हिः । दधा॑नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥६
त्वम् । पाहि । इन्द्र । सहीयसः । नॄन् । भव । मरुत्ऽभिः । अवयातऽहेळाः ।
सुऽप्रकेतेभिः । ससहिः । दधानः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ६ ॥
हे “इन्द्र “त्वं “पाहि रक्ष । कान् । “सहीयसो “नॄन् सहस्वितमान् त्वदनुग्रहेण अतिप्रवृद्धबलान् नेतॄन् मनुष्यानस्मान् मरुतो वा । किंच “मरुद्भिः साकम् अस्मासु “अवयातहेळ: “भव । अपगतमन्युर्भव । मरुत्सु वा तथा भव । किंच “सुप्रकेतेभिः शोभनप्रज्ञानैर्मरुद्भिः सह “सासहिः शत्रूणामभिभविता सन् “दधानः अस्मदभिमतस्य धारयिता भवेति शेषः । शिष्टो व्याख्यातः । ॥११॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|