ऋग्वेदः सूक्तं १.४५
← सूक्तं १.४४ | ऋग्वेदः - मण्डल १ सूक्तं १.४५ प्रस्कण्वः काण्वः। |
सूक्तं १.४६ → |
दे. अग्निः, १० (उत्तरार्धस्य) देवाः। अनुष्टुप्। |
त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत ।
यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥१॥
श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ।
तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥२॥
प्रियमेधवदत्रिवज्जातवेदो विरूपवत् ।
अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥३॥
महिकेरव ऊतये प्रियमेधा अहूषत ।
राजन्तमध्वराणामग्निं शुक्रेण शोचिषा ॥४॥
घृताहवन सन्त्येमा उ षु श्रुधी गिरः ।
याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा ॥५॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे ॥६॥
नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम् ।
श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥७॥
आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः ।
बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ॥८॥
प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य ।
इहाद्य दैव्यं जनं बर्हिरा सादया वसो ॥९॥
अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः ।
अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् ॥१०॥
सायणभाष्यम्
‘ त्वमग्ने वसून्' इति दशर्चं द्वितीयं सूक्तम् । अत्रानुक्रमणिका-’ त्वमग्ने दशानुष्टुभमर्धचोऽन्त्यो दैवः' इति । प्रस्कण्व ऋषिः। आनुष्टुभं छन्दः । इदं सूक्तमग्निदेवताकं, पूर्वत्र ‘आग्नेयं तु 'इत्युक्तत्वात्। ‘ अयं सोमः' इत्यर्धर्चो देवदेवत्यः। प्रातरनुवाके आग्नेये क्रतौ आश्विनशस्त्रे चैतत्सूक्तम् । अथैतस्या रात्रेः' इति खण्डे सूत्रितं - त्वमग्ने वसूंस्त्वं हि क्षैतवत् ' ( आश्व. श्रौ. ४. १३) इति । तथा गर्गत्रिरात्रस्यन्त्येऽहनि एतत्सूक्तमाज्यशस्त्रम् । ‘ आङ्गिरसं स्वर्गकामः' इति खण्डे सूत्रितं - ’ वारवन्तीयमुत्तमे त्वमग्ने वसूँरिति चाज्यम् ' ( आश्व. श्रौ. १०. २ ) इति ॥
त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त ।
यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म् ॥१
त्वम् । अ॒ग्ने॒ । वसू॑न् । इ॒ह । रु॒द्रान् । आ॒दि॒त्यान् । उ॒त ।
यज॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् । मनु॑ऽजातम् । घृ॒त॒ऽप्रुष॑म् ॥१
त्वम् । अग्ने । वसून् । इह । रुद्रान् । आदित्यान् । उत ।
यज । सुऽअध्वरम् । जनम् । मनुऽजातम् । घृतऽप्रुषम् ॥१
हे "अग्ने “त्वम् "इह कर्मणि वस्वादीन् "यज । "उत अपि च "जनम् अन्यमपि देवतारूपं प्राणिनं यज । कीदृशम् । "स्वध्वरं शोभनयागयुक्तं "मनुजातं मनुना प्रजापतिनोत्पादितं “घृतप्रुषम् उदकस्य सेक्तारम् ॥ यज ।' द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम् । स्वध्वरम् । शोभनोऽध्वरो यस्यासौ स्वध्वरः । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । मनुजातम् । जनेः अन्तर्भावितण्यर्थात् कर्मणि क्तः । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । घृतप्रुषम् । ‘ प्रुष प्लुष स्नेहनसेचनपूरणेषु ' । घृतेनोदकेन प्रुष्णाति पूरयतीति घृतप्रुट् । 'क्विप् च ' इति क्विप् ॥
श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः ।
तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥२
श्रु॒ष्टी॒ऽवानः । हि । दा॒शुषे॑ । दे॒वाः । अ॒ग्ने॒ । विऽचे॑तसः ।
तान् । रो॒हि॒त्ऽअ॒श्व॒ । गि॒र्व॒णः॒ । त्रयः॑ऽत्रिंशतम् । आ । व॒ह॒ ॥२
श्रुष्टीऽवानः । हि । दाशुषे । देवाः । अग्ने । विऽचेतसः ।
तान् । रोहित्ऽअश्व । गिर्वणः । त्रयःऽत्रिंशतम् । आ । वह ॥२
हे "अग्ने "विचेतसः विशिष्टप्रज्ञानाः "देवाः "दाशुषे हविर्दत्तवते यजमानाय “श्रुष्टीवानो "हि । श्रुष्टिः फलस्य दानम् । तद्भाजः खलु । हे "रोहिदश्व रोहिनामकैरश्वैरुपेत "गिर्वणः गीर्भिः स्तुतिभिर्वननीयाग्ने ।' गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति' (निरु. ६. १४ ) इति यास्कः । "त्रयस्त्रिंशतम् अनया संख्यया संख्यातान् "तान् देवान् "आ "वह इहानय ॥ श्रुष्टीवानः । श्रुष्टिः प्रेरणार्थः । भावे क्तिच् । श्रुष्टिं वनन्ति संभजन्ते इति श्रुष्टीवानः । ‘ अन्येभ्योऽपि दृश्यन्ते' इति विच् । छान्दसं दीर्घत्वम् । विचेतसः । विशिष्टं चेतो येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । गिर्वणः । गीर्भिर्वननीयो गिर्वणाः । वनतेः असुन् । पूर्वपदस्य ह्रस्वत्वं छान्दसम् । त्रयश्च त्रिंशच्च त्रयस्त्रिंशत् ।' त्रेस्त्रयः ' (पा. सू. ६. ३. ४८) इति त्रिशब्दस्य त्रयसादेशः । ‘ संख्या ' (पा. सू. ६. २. ३५) इति पूर्वपदप्रकृतिस्वरत्वम् ॥
प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् ।
अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥३
प्रि॒य॒मे॒ध॒ऽवत् । अ॒त्रि॒ऽवत् । जात॑ऽवेदः । वि॒रू॒प॒ऽवत् ।
अ॒ङ्गि॒र॒स्वत् । म॒हि॒ऽव्र॒त॒ । प्रस्क॑ण्वस्य । श्रु॒धि॒ । हव॑म् ॥३
प्रियमेधऽवत् । अत्रिऽवत् । जातऽवेदः । विरूपऽवत् ।
अङ्गिरस्वत् । महिऽव्रत । प्रस्कण्वस्य । श्रुधि । हवम् ॥३
हे "महिव्रत प्रभूतकर्मन् "जातवेदः अग्ने "प्रस्कण्वस्य कण्वपुत्रस्य महर्षेः "हवम् आह्वानं "श्रुधि शृणु । तत्र चत्वारो दृष्टान्ताः । प्रियमेधात्रिविरूपाङ्गिरोनामका एतेषामाह्वानं यथा शृणोषि तद्वत् । अत्र निरुक्तं- प्रियमेधः प्रिया अस्य मेधा यथैतेषामृषीणामेवं प्रस्कण्वस्य शृणु ह्वानम् । प्रस्कण्वः कण्वस्य पुत्रः कण्वप्रभवो यथा प्राग्रम् ' इति, विरूपो नानारूपो महिव्रतो महाव्रतः' (निरु. ३. १७) इति च ॥ प्रियमेधवत् प्रियमेधस्येव । तत्र तस्येव ' ( पा. सू. ५. १. ११६) इति षष्ठ्यर्थे वतिः । एवम् अत्रिवत् इत्यादावपि । प्रस्कण्वादयो गताः ॥
महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत ।
राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥४
महि॑ऽकेरवः । ऊ॒तये॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।
राज॑न्तम् । अ॒ध्व॒राणा॑म् । अ॒ग्निम् । शु॒क्रेण॑ । शो॒चिषा॑ ॥४
महिऽकेरवः । ऊतये । प्रियऽमेधाः । अहूषत ।
राजन्तम् । अध्वराणाम् । अग्निम् । शुक्रेण । शोचिषा ॥४
“महिकेरवः प्रौढकर्माणः "प्रियमेधाः प्रियेण यज्ञेनोपेता ऋषयः “ऊतये रक्षार्थम् "अग्निम् अहूषत आहूतवन्तः । कीदृशम् । "अध्वराणां यज्ञानां मध्ये “शुक्रेण “शोचिषा शुद्धेन प्रकाशेन “राजन्तं दीप्यमानम्॥ महिकेरवः। मह पूजायाम् । औणादिक इन्प्रत्ययः । डुकृञ् करणे'। ‘ कृवापाजि° इति उण् । महयो महान्तः कारवो येषां ते । तथोक्ताः । आकारस्य एकारादेशश्छान्दसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रियमेधाः । प्रियो मेधो येषां ते । अहूषत। ' ह्वेञ् स्पर्धायां शब्दे च'। लुङि सिचि ‘बहुलं छन्दसि' इति संप्रसारणम् । परपूर्वत्वम् । ‘हल:' ( पा. सू. ६. ४. २ ) इति दीर्घत्वम्। आदेशप्रत्यययोः' इति षत्वम् ॥
घृता॑हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिर॑ः ।
याभि॒ः कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ॥५
घृत॑ऽआहवन । स॒न्त्य॒ । इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ।
याभिः॑ । कण्व॑स्य । सू॒नवः॑ । हव॑न्ते । अव॑से । त्वा॒ ॥५
घृतऽआहवन । सन्त्य । इमाः । ऊं इति । सु । श्रुधि । गिरः ।
याभिः । कण्वस्य । सूनवः । हवन्ते । अवसे । त्वा ॥५
हे “घृताहवन घृतेनाहूयमान °सन्त्य फलप्रदाग्ने “इमा “उ “गिरः अस्माभिः प्रयुज्यमाना अपि स्तोत्ररूपा वाचः "सु "श्रुधि सुष्ठु शृणु। "कण्वस्य महर्षेः "सूनवः पुत्राः "याभिः गीर्भिः "अवसे स्वरक्षार्थं “त्वा "हवन्ते त्वामाह्वयन्ति । घृताहवन । घृतेनाहूयतेऽस्मिन्निति घृताहवनः । अधिकरणे ल्युट्। आमन्त्रिताद्युदात्तत्वम् । श्रुधि। श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । ‘ बहुलं छन्दसि' इति विकरणस्य लुक् ॥ ॥ ३१ ॥
अश्वमेधे पौष्ण्यामिष्टौ स्विष्टकृतोऽनुवाक्या ‘ त्वां चित्रश्रवस्तम' इत्येषा। ‘ सर्वान् कामानाप्स्यन्' इति खण्डे सूत्रितं- त्वां चित्रश्रवस्तम यद्वाहिष्ठं तदग्नये' (आश्व. श्रौ. १०. ६) इति ॥
त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तव॑ः ।
शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥६
त्वाम् । चि॒त्र॒श्र॒वः॒ऽत॒म॒ । हव॑न्ते । वि॒क्षु । ज॒न्तवः॑ ।
शो॒चिःऽके॑शम् । पु॒रु॒ऽप्रि॒य॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे ॥६
त्वाम् । चित्रश्रवःऽतम । हवन्ते । विक्षु । जन्तवः ।
शोचिःऽकेशम् । पुरुऽप्रिय । अग्ने । हव्याय । वोळ्हवे ॥६
हे "चित्रश्रवस्तम अतिशयेन विविधहवीरूपान्नयुक्त "पुरुप्रिय बहूनां यजमानानां प्रीतिकर "अग्ने “त्वां "हव्याय "वोळ्हवे हविर्वोढुं "विक्षु "जन्तवः प्रजासूत्पन्ना यजमानाः "हवन्ते आह्वयन्ति । कीदृशम् । “शोचिष्केशं दीप्तिरूपकेशोपेतम् । तथा च वाजसनेयिन आमनन्ति-शोचन्त इव ह्येतस्य समिद्धस्य रश्मयः केशाः' इति ॥ चित्रश्रवस्तमः । श्रव इत्यन्ननाम । चित्रं श्रवो यस्यासौ चित्रश्रवाः । अतिशयेन चित्रश्रवाः चित्रश्रवस्तमः । आमन्त्रितानुदात्तत्वम् । शोचिष्केशम् । ‘ शुच दीप्तौ ' । ‘ अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः ' ( उ. सू. २. २६५) इति इसिः । प्रत्ययस्वरः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। हव्याय। हवनक्रियया प्राप्यत्वात् ‘क्रियाग्रहणं कर्तव्यम्' इति संप्रदानत्वाच्चतुर्थी। वोळ्हवे। वह प्रापणे'।“ तुमर्थे सेसेन्' इति तवेन्प्रत्ययः । ढत्वधत्वष्टुत्वढलोपेषु कृतेषु सहिवहोरोदवर्णस्य' (पा. सू. ६.३.११२ ) इति अकारस्य ओकारः । नित्त्वादाद्युदात्तत्वम् ॥
नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मम् ।
श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥७
नि । त्वा॒ । होता॑रम् । ऋ॒त्विज॑म् । द॒धि॒रे । व॒सु॒वित्ऽत॑मम् ।
श्रुत्ऽक॑र्णम् । स॒प्रथः॑ऽतमम् । विप्राः॑ । अ॒ग्ने॒ । दिवि॑ष्टिषु ॥७
नि । त्वा । होतारम् । ऋत्विजम् । दधिरे । वसुवित्ऽतमम् ।
श्रुत्ऽकर्णम् । सप्रथःऽतमम् । विप्राः । अग्ने । दिविष्टिषु ॥७
हे "अग्ने "विप्राः मेधाविनः "दिविष्टिषु यागेषु त्वां "नि "दधिरे स्थापितवन्तः । कीदृशम् । “होतारम् आह्वातारम् “ऋत्विजम् ऋतुषु यजनशीलं "वसुवित्तमम् अतिशयेन धनस्य लम्भयितारं “श्रुत्कर्णं श्रवणयोग्यकर्णोपेतं "सप्रथस्तमम् अतिशयेन प्रख्यातम् ॥ दधिरे । इरेचः चित्त्वादन्तोदात्तत्वम् । पादादित्वात् निघाताभावः। दिविष्टिषु । इष्टय एषणानि । दिवः स्वर्गस्य एषणानि येषु यागेषु ते दिविष्टयः । सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति वचनात् ‘दिव उत्' (पा. सू. ६. १. १३१ ) इति उत्वं न क्रियते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रय॑ः ।
बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥८
आ । त्वा॒ । विप्राः॑ । अ॒चु॒च्य॒वुः॒ । सु॒तऽसो॑माः । अ॒भि । प्रयः॑ ।
बृ॒हत् । भाः । बिभ्र॑तः । ह॒विः । अग्ने॑ । मर्ता॑य । दा॒शुषे॑ ॥८
आ । त्वा । विप्राः । अचुच्यवुः । सुतऽसोमाः । अभि । प्रयः ।
बृहत् । भाः । बिभ्रतः । हविः । अग्ने । मर्ताय । दाशुषे ॥८
हे "अग्ने "सुतसोमाः अभिषुतसोमयुक्ताः "विप्राः मेधाविन ऋत्विजः “प्रयः "अभि हविर्लक्षणमन्नमभिलक्ष्य “त्वा “आ "अचुच्यवुः त्वामागमयन्ति । कीदृशं त्वाम् । “बृहत् महान्तं “भाः भासमानम् । कीदृशा विप्राः। "दाशुषे 'मर्ताय हविष्प्रदस्य यजमानस्य संबन्धि "हविः “बिभ्रतः धारयन्तः ॥ अचुच्यवुः । ‘च्युङ् गतौ' । अस्मात् अन्तर्भावितण्यर्थात् लङि व्यत्ययेन परस्मैपदम्। 'बहुलं छन्दसि' इति शपः श्लुः । ‘ सिजभ्यस्तविदिभ्यश्च ' ( पा. सू. ३. ४. १०९ ) इति झेर्जुसादेशः ‘जुसि च' (पा. सू. ७. ३. ८३ ) इति गुणः । बृहत् । भाः। उभयत्र ‘सुपां सुलुक्' इति विभक्तेर्लुक्। बिभ्रतः । ‘डुभृञ् धारणपोषणयोः'। शतरि 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । मर्ताय दाशुषे । उभयत्र 'षष्ठ्यर्थे चतुर्थी वक्तव्य ' ( पा. सू. २. ३. ६२. १ ) इति चतुर्थी ॥
प्रा॒त॒र्याव्ण॑ः सहस्कृत सोम॒पेया॑य सन्त्य ।
इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥९
प्रा॒तः॒ऽयाव्नः॑ । स॒हः॒ऽकृ॒त॒ । सो॒म॒ऽपेया॑य । स॒न्त्य॒ ।
इ॒ह । अ॒द्य । दैव्य॑म् । जन॑म् । ब॒र्हिः । आ । सा॒द॒य॒ । व॒सो॒ इति॑ ॥९
प्रातःऽयाव्नः । सहःऽकृत । सोमऽपेयाय । सन्त्य ।
इह । अद्य । दैव्यम् । जनम् । बर्हिः । आ । सादय । वसो इति ॥९
हे "सहस्कृत बलेन मथित "सन्त्य फलदातः "वसो निवासहेतुभूताग्ने “इह देवयजनदेशे "अद्य अस्मिन् दिने "सोमपेयाय सोमपानार्थं प्रातर्याव्णः प्रातरागच्छतो देवान् "दैव्यं "जनम् अन्यमपि देवताजनं “बर्हिः “आ “सादय यज्ञं प्रापय ॥ प्रातर्याव्णः । शसि ‘अल्लोपोऽनः' इति अकारलोपः। सहस्कृत । सहतेऽभिभवत्यनेनेति सहो बलम् । तेन क्रियते इति सहस्कृतः । ‘ ओजःसहोऽम्भस्तमसस्तृतीयायाः' (पा. सू. ६. ३. ३) इति अलुगभावश्छान्दसः ॥
अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः ।
अ॒यं सोम॑ः सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यम् ॥१०
अ॒र्वाञ्च॑म् । दैव्य॑म् । जन॑म् । अग्ने॑ । यक्ष्व॑ । सहू॑तिऽभिः ।
अ॒यम् । सोमः॑ । सु॒ऽदा॒न॒वः॒ । तम् । पा॒त॒ । ति॒रःऽअ॑ह्न्यम् ॥१०
अर्वाञ्चम् । दैव्यम् । जनम् । अग्ने । यक्ष्व । सहूतिऽभिः ।
अयम् । सोमः । सुऽदानवः । तम् । पात । तिरःऽअह्न्यम् ॥१०
हे "अग्ने "अर्वाञ्चम् अभिमुखं "दैव्यं "जनं देवतारूपं प्राणिनं "सहूतिभिः समानाह्वानैर्देवान्तरैः सह "यक्ष्व यज । हे "सुदानवः सुष्ठु फलदातारो देवाः "अयं "सोमः युष्मदर्थं सोमः पुरतो वर्तते । “तं सोमं "पात पिबत। कीदृशम् । "तिरोअह्वयम् एतन्नामकम् । पूर्वस्मिन् अह्नि अभिषुतो यः सोमः उत्तरेऽहनि हूयते तस्यैतन्नामधेयम् ॥ दैव्यम्। ‘देवाद्यजञौ ' इति प्राग्दीव्यतीयो यञ् । यक्ष्व । लोटि ‘बहुलं छन्दसि ' इति शपो लुक् । प्रत्ययस्वराभावश्छान्दसः । अग्ने इत्यस्य पादादौ वर्तमानस्य आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवत्त्वात् ‘तिङ्ङतिङः' इति निघाताभावः। सहूतिभिः । समाना हूतिराह्वानं येषां ते सहूतयः । ‘ समानस्य च्छन्दसि ' इति सभावः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पात। ‘ पा पाने'। ‘बहुलं छन्दसि' इति शपो लुक् । तिरोअह्वयम् । अहनि भवम् अह्वयम् । ‘ भवे छन्दसि ' इति यत् । ‘नस्तद्धिते' इति टिलोपो न भवति, ‘अह्नष्टखोरेव' (पा. सू. ६. ४. १४५) इति नियमात् । भसंज्ञायाम् ' अल्लोपोऽनः' इति अकारलोपः । ‘ ये चाभावकर्मणोः ' ( पा. सू. ६. ४. १६८) इति प्रकृतिभावस्तु सर्वविधीनां छन्दसि विकल्पितत्वात् न क्रियते । तिरोहितोऽह्नयः तिरोअह्नयः । ‘ प्रकृत्यान्तःपादम्' इति प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ३२ ॥
टिप्पणी
१.४५.१० -- अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् --
Wilson: 1.045.10 Worship with conjoint invocations, Agni, the present deified being; bounteous divinities, this is the Soma juice; drink it, for it was yesterday expressed. [tiro-ahnyam: an epithet of the prepared Soma; tiras: oblique or indirect, ahnyam: diurnal; a reference to Soma of the preceding day offered on the succeeding day. In this and the previous hymn, the allusion is to some divine or deified person, daivyam janam].
तिरोअह्न्यम् शब्दः भविष्यत्कालस्य सूचकः भवितुमर्हति, न भूतकालस्य। सोमयागे यः सोमाभिषवस्य प्रथममहः भवति, तस्मिन् अह्नि यस्य सोमस्य अभिषवणं संभवं न भवति, तस्य अभिषवणाय श्वः सुत्यायाः आयोजनं भवति। अन्यथा, श्वः सुत्या अपेक्षिता नास्ति। सर्वं आयोजनं अद्य एव भवितुमर्हति। किन्तु पापाधिक्येन अयं संभवं न भवति, तेनकारणेन श्वः सुत्यायाः आवश्यकता भवति। तिरः - यः सोमः अद्यसुत्यायाः पारं गच्छति।
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|