ऋग्वेदः सूक्तं १.८१
← सूक्तं १.८० | ऋग्वेदः - मण्डल १ सूक्तं १.८१ गोतमो राहूगणः |
सूक्तं १.८२ → |
दे. इन्द्रः। पंक्तिः |
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥१॥
असि हि वीर सेन्योऽसि भूरि पराददिः ।
असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥२॥
यदुदीरत आजयो धृष्णवे धीयते धना ।
युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥३॥
क्रत्वा महाँ अनुष्वधं भीम आ वावृधे शवः ।
श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान्दधे हस्तयोर्वज्रमायसम् ॥४॥
आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि ।
न त्वावाँ इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ ॥५॥
यो अर्यो मर्तभोजनं पराददाति दाशुषे ।
इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥६॥
मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः ।
सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥७॥
मादयस्व सुते सचा शवसे शूर राधसे ।
विद्मा हि त्वा पुरूवसुमुप कामान्ससृज्महेऽथा नोऽविता भव ॥८॥
एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।
अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥९॥
सायणभाष्यम्
॥ श्रीगणेशाय नमः ।।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
दशतय्याः पञ्चमोऽयमध्यायो व्याकृतः पुरा ।
धीमता सायणार्येण षष्ठोऽध्यायोऽथ वर्ण्यते ॥
प्रथमे मण्डले त्रयोदशानुवाके सप्त सूक्तानि व्याकृतानि । ' इन्द्रो मदाय ' इति नवर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते-- ‘ इन्द्रो नव ' इति । ‘ ऋषिश्चान्यस्मादृषेः ' (अनु. १२. २ ) इति परिभाषया रहूगणपुत्रस्य गोतमस्य अनुवृत्तेः अस्य सूक्तस्य स ऋषिः । पूर्वसूक्ते ‘पाङ्क्तं हि ' इत्युक्तत्वात् तुह्यादिपरिभाषयेदमुत्तरं च सूक्तं पाङ्क्तम् । अनादेशपरिभाषयेन्द्रो देवता ॥ पृष्ठ्यस्य पञ्चमेऽहनि निष्केवल्यशस्त्रे इदं सूक्तम् । सूत्रितं च - ‘ प्रेदं ब्रह्मेन्द्रो मदाय सत्रा मदास इति निष्केवल्यम् ' ( आश्व. श्रौ. ७. १२) इति । आरम्भणीये चातुर्विंशिकेऽहनि माध्यंदिने सवने ब्राह्मणाच्छंसिनः शस्त्रे ‘ इन्द्रो मदाय ' इति आद्यस्तृचो वैकल्पिकः स्तोत्रियः । ‘ होत्रकाणाम् ' इति खण्टे सूत्रितम् - इन्द्रो मदाय वावृधे मदे मदे हि नो ददिः ' ( आश्व. श्रौ. ७. ४) इति । महाव्रते निष्केवल्ये उत्तरपक्षे ‘ इन्द्रो मदाय ' इत्येका शंसनीया । तथैव पञ्चमारण्यके सूत्रितम् - ‘इन्द्रो मदाय वावृध इति पङ्क्तिः सूददोहाः' (ऐ. आ. ५, २. २) इति ॥
इन्द्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑ ।
तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥१
इन्द्रः॑ । मदा॑य । व॒वृ॒धे॒ । शव॑से । वृ॒त्र॒ऽहा । नृऽभिः॑ ।
तम् । इत् । म॒हत्ऽसु॑ । आ॒जिषु॑ । उ॒त । ई॒म् । अर्भे॑ । ह॒वा॒म॒हे॒ । सः । वाजे॑षु । प्र । नः॒ । अ॒वि॒ष॒त् ॥१
इन्द्रः । मदाय । ववृधे । शवसे । वृत्रऽहा । नृऽभिः ।
तम् । इत् । महत्ऽसु । आजिषु । उत । ईम् । अर्भे । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥१
“वृत्रहा वृत्रस्यावरकस्य वृष्टिनिरोधकस्य मेघस्यासुरस्य वा हन्ता। यद्वा आवरकाणां शत्रूणां हन्ता “इन्द्रो “मदाय हर्षार्थं “शवसे। बलनामैतत् । बलार्थं च “नृभिः यज्ञस्य नेतृभिर्ऋत्विग्भिः “ववृधे स्तोत्रशस्त्ररूपाभिः स्तुतिभिः प्रवर्धितो बभूव । स्तुत्या हि देवता प्राप्तबला सती प्रवर्धते । "तमित् तमेवेन्द्रं “महत्सु प्रभूतेषु “आजिषु संग्रामेषु “हवामहे अस्माकं रक्षणायाह्वयामहे । “उत अपि च "ईम् एनम् “अर्भे अल्पे संग्रामे हवामहे । अस्माभिराहूतः “सः च इन्द्रः "वाजेषु संग्रामेषु “नः अस्मान “प्र “अविषत् प्रावतु प्रकर्षेण रक्षतु ॥ ववृधे । वृधेः कर्मणि लिट् । संहितायामभ्यासस्य ‘अन्येषामपि दृश्यते' इति दीर्घत्वम् । तुजादित्वे हि तूतुजान इतिवत् पदकाले दीर्घः श्रूयेत'। नृभिः। 'सावेकाच:० इति प्राप्तस्य विभक्त्युदात्तत्वस्य नृ चान्यतरस्याम्' इति प्रतिषेधः । हवामहे । ह्वयतेर्लटि ‘ह्वः' इति अनुवृतौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । शपि गुणावादेशौ । अविषत् । अव रक्षणे ' । लेटि अडागमः । ‘इतश्च लोपः' इति इकारलोपः । ‘ सिब्बहुलं लेट ' इति सिप् । तस्य आर्धधातुकत्वात् वलादिलक्षण इट् ॥
असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः ।
असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥२
असि॑ । हि । वी॒र॒ । सेन्यः॑ । असि॑ । भूरि॑ । प॒रा॒ऽद॒दिः ।
असि॑ । द॒भ्रस्य॑ । चि॒त् । वृ॒धः । यज॑मानाय । शि॒क्ष॒सि॒ । सु॒न्व॒ते । भूरि॑ । ते॒ । वसु॑ ॥२
असि । हि । वीर । सेन्यः । असि । भूरि । पराऽददिः ।
असि । दभ्रस्य । चित् । वृधः । यजमानाय । शिक्षसि । सुन्वते । भूरि । ते । वसु ॥२
हे “वीर शत्रुक्षेपणकुशलेन्द्र त्वं "सेन्यः “असि सेनार्हो भवसि । त्वमेकोऽपि सेनासदृशो भवसीत्यर्थः । “हि यस्मादेवं तस्मात् “भूरि प्रभूतं शत्रूणां धनं “पराददिः परादाता शत्रूणां पराङ्मुखं यथा भवति तथा आदाता “असि भवसि । "दभ्रस्य “चित् । अल्पनामैतत् । अल्पस्यापि तव स्तोतुः “वृधः वर्धयिता “असि । तथा “यजमानाय यागं कुर्वते “सुन्वते सोमाभिषवं कुर्वते पुरुषाय “शिक्षसि अपेक्षितं धनं ददासि । शिक्षतिर्दानकर्मा । यस्मात् “ते तव “वसु धनं “भूरि बहुलमक्षयं धनं विद्यते तस्मात् ददासीति भावः ॥ पराददिः । ‘डुदाञ् दाने'। ‘ आदृगमहनजनः । इति किप्रत्ययः । लिङ्वद्भावात् द्विर्वचने ह्रस्वत्वम्। ‘आतो लोप इटि च' इति आकारलोपः। वृधः । वृधेरन्तर्भावितण्यर्थात् इगुपधलक्षणः कः । सुन्वते । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥
यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑ ।
यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हन॒ः कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥३
यत् । उ॒त्ऽईर॑ते । आ॒जयः॑ । धृ॒ष्णवे॑ । धी॒य॒ते॒ । धना॑ ।
यु॒क्ष्व । म॒द॒ऽच्युता॑ । हरी॒ इति॑ । कम् । हनः॑ । कम् । वसौ॑ । द॒धः॒ । अ॒स्मान् । इ॒न्द्र॒ । वसौ॑ । द॒धः॒ ॥३
यत् । उत्ऽईरते । आजयः । धृष्णवे । धीयते । धना ।
युक्ष्व । मदऽच्युता । हरी इति । कम् । हनः । कम् । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः ॥३
अत्रेदमाख्यानम् । रहूगणपुत्रो गोतमः कुरुसृञ्जयानां राज्ञां पुरोहित आसीत् । तेषां राज्ञां परैः सह युद्धे सति स ऋषिरनेन सूक्तेनेन्द्रं स्तुत्वा स्वकीयानां जयं प्रार्थयामासेति । तस्य च तत्पुरोहितत्वं वाजसनेयिभिराम्नातम् - ‘ गोतमो ह वै राहूगण उभयेषां कुरुसृञ्जयानां पुरोहित आसीत् ' इति । “यत् यदा “आजयः संग्रामाः “उदीरते उद्गच्छन्ति उत्पद्यन्ते तदानीं “धना धनं “धृष्णवे यो धृष्णुर्धर्षयिता शत्रूणां जेता भवति तस्मै “धीयते निधीयते । जयतो धनं भवतीत्यर्थः । हे इन्द्र एवं तादृशेषु युद्धेषु प्रवृत्तेषु “मदच्युता शत्रूणां मदस्य गर्वस्य च्यावयितारौ “हरी त्वदीयावश्वौ "युक्ष्व रथे योजय । योजयित्वा च "कं कंचित् राजानं तव परिचरणमकुर्वन्तं "हनः हन्याः । कंचन त्वां परिचरन्तं “वसौ वसुनि धने “दधः स्थापयसि । अतो जयपराजययोस्त्वमेव कारयितासि । तस्मात् हे "इन्द्र “अस्मान् अस्मदीयान् राज्ञः “वसौ धने “दधः स्थापय ॥ उदीरते । ‘ ईर गतौ ' । आदादिकः । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । यद्वृत्तयोगादनिघातः । धना । ‘सुपां सुलुक्' इति डादेशः । युक्ष्व । ‘युजिर् योगे'। अन्तर्भावितण्यर्थात् लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घत्वम् । हनः । हन्तेर्लेटि सिपि अडागमः । हनश्च दधश्चेति चार्थप्रतीतेः 'चादिलोपे विभाषा' इति प्रथमायास्तिङ्विभक्तेः निघातप्रतिषेधः ।। वसौ । लिङ्गव्यत्ययः । दधः । ‘ दध धारणे'। लेटि व्यत्ययेन परस्मैपदम् ॥
क्रत्वा॑ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा॑वृधे॒ शवः॑ ।
श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वान्दधे॒ हस्त॑यो॒र्वज्र॑माय॒सम् ॥४
क्रत्वा॑ । म॒हान् । अ॒नु॒ऽस्व॒धम् । भी॒मः । आ । व॒वृ॒धे॒ । शवः॑ ।
श्रि॒ये । ऋ॒ष्वः । उ॒पा॒कयोः॑ । नि । शि॒प्री । हरि॑ऽवान् । द॒धे॒ । हस्त॑योः । वज्र॑म् । आ॒य॒सम् ॥४
क्रत्वा । महान् । अनुऽस्वधम् । भीमः । आ । ववृधे । शवः ।
श्रिये । ऋष्वः । उपाकयोः । नि । शिप्री । हरिऽवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥४
“क्रत्वा कर्मणा प्रज्ञया वा “महान् सर्वाधिकः "भीमः शत्रूणां भयंकरः इन्द्रः “अनुष्वधम् । स्वधा इति अन्ननाम । स्वधायाम् । विभक्त्यर्थे अव्ययीभावः । सोमलक्षणस्यान्नस्य पाने सतीत्यर्थः । “शवः आत्मीयं बलम् “आ "ववृधे आभिमुख्येन प्रवर्धयत् । तदनन्तरम् “ऋष्वः दर्शनीयः “शिप्री। शिप्रे हनू नासिके वा। तद्युक्तः "हरिवान् हरिनामकाश्वोपेत इन्द्रः “उपाकयोः अन्तिकनामैतत् । समीपवर्तिनोः “हस्तयोः बाह्वोः "आयसम् अयोमयं “वज्रं “श्रिये संपदर्थं “नि “दधे निदधाति स्थापयति। सोमपानेन हृष्टः प्रबल इन्द्रः शत्रूणां हननाय हस्ते वज्रं गृह्णातीति तात्पर्यार्थः ॥ क्रत्वा । ‘ जसादिषु च्छन्दसि वावचनम् ' इति नाभावस्य विकल्पितत्वादभावः । आयसम् । ‘ तस्य विकारः' इति अण्प्रत्ययः ॥
आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि ।
न त्वावाँ॑ इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥५
आ । प॒प्रौ॒ । पार्थि॑वम् । रजः॑ । ब॒द्ब॒धे । रो॒च॒ना । दि॒वि ।
न । त्वाऽवा॑न् । इ॒न्द्र॒ । कः । च॒न । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ । अति॑ । विश्व॑म् । व॒व॒क्षि॒थ॒ ॥५
आ । पप्रौ । पार्थिवम् । रजः । बद्बधे । रोचना । दिवि ।
न । त्वाऽवान् । इन्द्र । कः । चन । न । जातः । न । जनिष्यते । अति । विश्वम् । ववक्षिथ ॥५
इन्द्रः स्वतेजसा “पार्थिवं पृथिव्याः संबन्धि वस्तुजातं “रजः अन्तरिक्षलोकं च “आ “पप्रौ आपूरयति । तथा “दिवि द्युलोके “रोचना रोचमानानि दीप्तानि नक्षत्राणि "बद्बधे बबन्ध स्थापितवान् । अतो हे “इन्द्र “त्वावान् त्वत्सदृशः “कश्चन “न “जातः नोऽत्पन्नोऽस्ति । “न च "जनिष्यते । उत्पत्स्यमानोऽपि नास्ति । तादृशस्त्वं “विश्वं सर्वं रक्षितव्यं जगत् "अति “ववक्षिथ अतिशयेन वोढुमिच्छसि । सर्वस्य जगतो निर्वाहको भवसीत्यर्थः । पप्रौ । ‘ प्रा पूरणे'। लिटि ‘ आत औ णलः ' (पा. सू. ७. १. ३४ ) इति औकारादेशः । पार्थिवम् । पृथिव्या ञाञौ' (पा. सू. ४. १. ८५, २) इति अञ्प्रत्ययः । ञित्त्वादाद्युदात्तत्वम् । रजः। रजन्त्यस्मिन् गन्धर्वादय इति रजः अन्तरिक्षम् । ‘ रज रागे । असुनि रजकरजनरजःसूपसंख्यानम् ' ( का. ६. ४. २४. ४ ) इति नलोपः । बद्बधे । ‘ बध बन्धने' । लिटि व्यत्ययेन हलादिशेषाभावः । एकहल्मध्यगतस्वाभावात् एत्वाभ्यासलोपावपि न स्तः । पादादित्वात् निघाताभावः । त्वावान् ।' वतुष्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्' इति वतुप् । ' आ सर्वनाम्नः' इति आत्वम् । ववक्षिथ। वह प्रापणे ' । अस्मात् इच्छासनि सन्यतः ' इति इत्वस्य ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति अभावः । सनन्तात् लिटि • अमन्त्रे ' इति निषेधात् आम्प्रत्ययाभावः ॥ ॥ १ ॥
यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ ।
इन्द्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥६
यः । अ॒र्यः । म॒र्त॒ऽभोज॑नम् । प॒रा॒ऽददा॑ति । दा॒शुषे॑ ।
इन्द्रः॑ । अ॒स्मभ्य॑म् । शि॒क्ष॒तु॒ । वि । भ॒ज॒ । भूरि॑ । ते॒ । वसु॑ । भ॒क्षी॒य । तव॑ । राध॑सः ॥६
यः । अर्यः । मर्तऽभोजनम् । पराऽददाति । दाशुषे ।
इन्द्रः । अस्मभ्यम् । शिक्षतु । वि । भज । भूरि । ते । वसु । भक्षीय । तव । राधसः ॥६
“अर्यः स्वामी पालयिता “यः इन्द्रः “मर्तभोजनं सर्वैर्मनुष्यैरुपभोज्यमन्नं “दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय “पराददाति प्रयच्छति सः “इन्द्रः “अस्मभ्यं “शिक्षतु तादृशमन्नं ददातु । अवशिष्टपादद्वयं प्रत्यक्षकृतम् । हे इन्द्र अस्मभ्यं दातुं धनं “वि “भज विभक्तं कुरु । यतः “ते तव "वसु धनं “भूरि बहुलमसंख्यातं अतः “तव “राधसः धनस्यैकदेशं “भक्षीय भजेय प्राप्नुयाम् ।। पराददाति । अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ‘ तिङि चोदात्तवति' इति गतेः अनुदात्तत्वम् । दाशुषे ।' दाशृ दाने '। दाश्वान् साह्वान्' इति क्वसुप्रत्ययान्तो निपात्यते । चतुर्थ्येकवचने ' वसोः संप्रसारणम् ' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् । भक्षीय । ‘ भज सेवायाम् । प्रार्थनायां लिङि तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् शबभावः सलोपाभावश्च । ' एकाचः ' इति इट्प्रतिषेधः । आगमानुदात्तत्वे प्रत्ययस्वर एव शिष्यते । पूर्वपदस्यासमानवाक्यगतत्वात् निघाताभावः ‘ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' इति वचनात् ॥
चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो “ मदेमदे हि नो ददिः' इति वैकल्पिकोऽनुरूपस्तृचः । ‘ होत्रकाणाम् ' इति खण्डे सूत्रितम् - ‘ मदेमदे हि नो ददिः सुरूपकृत्नुमूतये ' ( आश्व. श्रौ. ७. ४ ) इति ॥
मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मृजु॒क्रतुः॑ ।
सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ॥७
मदे॑ऽमदे । हि । नः॒ । द॒दिः । यू॒था । गवा॑म् । ऋ॒जु॒ऽक्रतुः॑ ।
सम् । गृ॒भा॒य॒ । पु॒रु । श॒ता । उ॒भ॒या॒ह॒स्त्या । वसु॑ । शि॒शी॒हि । रा॒यः । आ । भ॒र॒ ॥७
मदेऽमदे । हि । नः । ददिः । यूथा । गवाम् । ऋजुऽक्रतुः ।
सम् । गृभाय । पुरु । शता । उभयाहस्त्या । वसु । शिशीहि । रायः । आ । भर ॥७
“मदेमदे सोमपानेन हर्षेहर्षे सति “ऋजुक्रतुः ऋजुकर्मा स इन्द्रः “नः अस्मभ्यं “गवां “यूथा यूथानि "ददिः “हि गोयूथानां दाता खलु। हे इन्द्र स त्वं “पुरु पुरूणि प्रभूतानि “शता शतसंख्याकानि अपरिमितानीत्यर्थः । “वसु वसूनि धनानि “उभयाहस्त्या उभाभ्यां हस्ताभ्यां “सं “गृभाय अस्मभ्यं दातुं सम्यग्गृहाण । “शिशीहि अस्मांस्तीक्ष्णीकुरु । निशितबुद्धियुक्तान् कुर्वित्यर्थः । “रायः धनानि हस्तयोः स्थितानि “आ “भर आहर प्रयच्छ ॥ ददिः । ‘ डुदाञ् दाने ' । “आदृगमहनजनः° इति किप्रत्ययः । यूथा। ‘ शेश्छन्दसि बहुलम् । इति शेर्लोपः । गवाम् । सावेकाचः' इति प्राप्तस्य न गोश्वन्साववर्ण ' इति प्रतिषेधः । गृभाय । ‘ ग्रह उपादाने '। लोटि हौ । छन्दसि शायजपि ' ( पा. सू. ३. १.८४ ) इति श्नाप्रत्ययस्य शायजादेशः । ‘ हृग्रहोर्भ: ' इति भत्वम् । उभयाहस्त्या। उभयहस्तशब्दादुत्तरस्य तृतीयाद्विवचनस्य ‘सुपां सुलुक्' इति ङ्यादेशः। ‘अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घत्वम् । समासान्तोदात्तत्वे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वसु । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । शिशीहि ।' शो तनूकरणे'। ‘बहुलं छन्दसि ' इति विकरणस्य श्लुः । ‘ आदेचः । इति आत्वम् । ‘ इत्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । ‘ ई हल्यघोः ' इति धातोः ईत्वम् । पादादित्वात् निघाताभावः। रायः । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् ॥
मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से ।
वि॒द्मा हि त्वा॑ पुरू॒वसु॒मुप॒ कामा॑न्ससृ॒ज्महेऽथा॑ नोऽवि॒ता भ॑व ॥८
मा॒दय॑स्व । सु॒ते । सचा॑ । शव॑से । शू॒र॒ । राध॑से ।
वि॒द्म । हि । त्वा॒ । पु॒रु॒ऽवसु॑म् । उप॑ । कामा॑न् । स॒सृ॒ज्महे॑ । अथ॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥८
मादयस्व । सुते । सचा । शवसे । शूर । राधसे ।
विद्म । हि । त्वा । पुरुऽवसुम् । उप । कामान् । ससृज्महे । अथ । नः । अविता । भव ॥८
हे “शूर शौर्यवन्निन्द्र “सुते सोमेऽभिषुते सति आगत्य "सचा अस्माकं सखा सन् "मादयस्व तेन सोमेन तृप्तो भव । किमर्थम् । “शवसे बलार्थं “राधसे अस्माकं धनार्थं च । “त्वा त्वां “पुरूवसुं बहुधनं “विद्म “हि वयं जानीमः खलु । अतः अस्मदीयान् “कामान् मात्रा गवा वत्सानिव त्वया "उप “ससृज्महे हि त्वया खल्वेकीकुर्मः। “अथ अनन्तरं “नः अस्माकम् “अविता अभिलषितफलप्रदानेन रक्षिता “भव ॥ मादयस्त्र । ‘ मद तृप्तियोगे'। चुरादिरात्मनेपदी । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । ससृज्महे ।' सृज विसर्गे'।' बहुलं छन्दसि ' इति विकरणस्य श्लुः । प्रत्ययाद्युदात्तत्वम् । अत्रापि हिशब्दानुषङ्गात् “ छन्दस्यनेकमपि साकाङ्क्षम् ' ( पा. सू. ८. १. ३५) इति निघातप्रतिषेधः ॥
ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् ।
अ॒न्तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥९
ए॒ते । ते॒ । इ॒न्द्र॒ । ज॒न्तवः॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् ।
अ॒न्तः । हि । ख्यः । जना॑नाम् । अ॒र्यः । वेदः॑ । अदा॑शुषाम् । तेषा॑म् । नः॒ । वेदः॑ । आ । भ॒र॒ ॥९
एते । ते । इन्द्र । जन्तवः । विश्वम् । पुष्यन्ति । वार्यम् ।
अन्तः । हि । ख्यः । जनानाम् । अर्यः । वेदः । अदाशुषाम् । तेषाम् । नः । वेदः । आ । भर ॥९
हे “इन्द्र "ते तव स्वभूताः “एते “जन्तवः यजमानलक्षणा जनाः “विश्वं सर्वं “वार्यं सर्वैः संभजनीयं हविः “पुष्यन्ति वर्धयन्ति । “अदाशुषां हविषामदातॄणां “जनानाम् “अन्तः मध्ये विद्यमानं “वेदः धनम् “अर्यः सर्वेषां स्वामी त्वं “ख्यः “हि पश्यसि हि जानासीत्यर्थः। “तेषाम् अयजमानानां “वेदः धनं “नः अस्मभ्यम् “आ “भर आहर प्रयच्छेति यावत् । अयजमानेषु विद्यमानं धनं यागानुपयुक्तत्वात् व्यर्थमेव भवेत् । अतस्तस्य धनस्य सार्थकत्वाय तदीयं धनमपहृत्य यजमानेभ्यः प्रयच्छेति तात्पर्यार्थः ॥ ख्यः । ‘ख्या प्रकथने '। अयं दर्शनार्थोऽपि । वर्तमाने छान्दसो लुङ् । अस्यतिवक्ति ' इत्यादिना च्लेः अङादेशः । ‘ आतोलोप इटि च ' इति आकारलोपः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । ‘ हि च ' इति निघातप्रतिषेधः ॥ ॥ २ ॥
टिप्पणी
१.८१.१ इन्द्रो मदाय वावृधे इति
आभीके इत्यादि (ग्रामगेयः)
बार्हद्गिरम्(आरण्यकम्)
AV.20.56.1"; SV.i.411"; 2.352"; MS.4.12.4": 189.13;
इन्द्रो मदाय वावृध इति सूक्तं मद्वत्पाङ्क्तं पञ्चपदं पञ्चमेऽहनि पञ्चमस्याह्नो रूपं AB.5.8.2;
पृष्ठ्य षडह - इन्द्रो मदाय वावृध इति मद्वत् पाङ्क्तम् तस्य उक्तम् ब्राह्मणम् । - KB.23.2;
इन्द्रो मदाय वावृध इत्यवर्धन्त ह्येतर्हि। तासु बार्हद्गिरम् ...- PB.13.4.14;
माध्यन्दिनं सवनं - अश्वमेधे सर्वेषां कामानामाप्त्या इन्द्रो मदाय वावृधे प्रेदं ब्रह्म वृत्रतूर्येष्वाविथेति पङ्क्तीश्च षट्पदाश्च शस्त्वैकाहिके निविदं दधाति कॢप्तं माध्यन्दिनं सवनम् - श.ब्रा. १३.५.१.१०
AA.5.2.2.6; आश्रौ.7.4.3; 9.5.16; Vait.41.17. P: indro madaya आश्रौ.7.12.16;
दशरात्रे पञ्चममहः - इन्द्रो मदाय प्रेदं ब्रह्माभूरेकस्तमिन्द्रं वाजयामसीति तिस्र इति निष्केवल्यम् १६ - शांश्रौ. १०.६.१६
इन्द्रो मदाय मदेमदे हीति स्तोत्रियानुरूपौ - शांश्रौ 12.4.12;
वृषाकपिमुद्धृत्य ब्राह्मणाच्छंसीन्द्रो मदायेति पङ्क्तीरैन्द्रीः शंसति शांश्रौ. १२.७.६
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|