पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०१
स्वर्गखण्डः |
---|
नमामि गोविन्दपदारविंदं सदेंदिरावंदितमुत्तमाढ्यम् ।
जगज्जनानां हृदि संनिविष्टं महाजनैकायनमुत्तमोत्तमम् १।
एकदा मुनयः सर्वे ज्वलज्ज्वलनसन्निभाः ।
हिमवद्वासिनः सर्वे मुनयो वेदपारगाः २।
त्रिकालज्ञा महात्मानो नानापुण्यसमाश्रयाः ।
महेंद्राद्रिरता ये च ये च विंध्यनिवासिनः ३।
येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः ।
श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः ४।
धर्म्मारण्यरता ये च दंडकारण्यवासिनः ।
जंबूमार्गरता ये च ये च सत्यनिवासिनः ५।
एते चान्ये च बहवः सशिष्या मुनयोऽमलाः ।
नैमिषं समुपायाताः शौनकं द्रष्टुमुत्सुकाः ६।
तं पूजयित्वा विधिवत्तेन ते च सुपूजिताः ।
आसनेषु विचित्रेषु बृस्यादिषु यथाक्रमम् ७।
शौनकेन प्रदत्तेषु आसीनास्ते तपोधनाः ।
कृष्णाश्रिताः कथाः पुण्याः परस्परमथाब्रुवन् ८।
कथांतेषु ततस्तेषां मुनीनां भावितात्मनाम् ।
आजगाम महातेजाः सूतस्तत्र महाद्युतिः ९।
व्यासशिष्यः पुराणज्ञो रोमहर्षणसंज्ञकः ।
तान्प्रणम्य यथान्यायं स तैश्चैवाभिपूजितः १०।
उपविष्टं यथायोग्यं शौनकाद्या महर्षयः ।
व्यासशिष्यं सुखासीनं सूतं वै रोमहर्षणम् ११।
तं पप्रच्छुर्महाभागाः शौनकाद्यास्तपोधनाः ।
ऋषय ऊचुः-।
पौराणिक महाबुद्धे रोमहर्षण सुव्रत १२।
त्वत्तः श्रुता महापुण्याः पुरा पौराणिकीः कथाः ।
सांप्रतं च प्रवृत्ताः स्म कथायां सक्षणा हरेः १३।
स वै पुंसां परोधर्मो यतो भक्तिरधोक्षजे ।
पुनः पुराणमाचक्ष्व हरिवार्ता समन्वितम् १४।
हरेरन्या कथा सूत श्मशानसदृशी स्मृता ।
हरिस्तीर्थस्वरूपेण स्वयं तिष्ठति तच्छ्रुतम् १५।
तीर्थानां पुण्यदातॄणां नामानि किल कीर्तय ।
कुत एतत्समुत्पन्नं केन वा परिपाल्यते १६।
कस्मिन्विलयमभ्येति जगदेतच्चराचरम् ।
क्षेत्राणि कानि पुण्यानि के च पूज्याः शिलोच्चयाः १७।
नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः ।
एतत्सर्वं महाभाग कथयस्व यथाक्रमम् १८।
सूत उवाच-।
साधुसाधु महाभागाः साधुपृष्टं तपोधनाः ।
तं प्रणम्य प्रवक्ष्यामि पुराणं पद्मसंज्ञकम् १९।
पाराशर्यं परमपुरुषं विश्ववेद्यैकयोनिं विद्याधारं विपुलमतिदं वेदवेदांतवेद्यम् ।
शश्वच्छांतं स्वमतिविषयं शुद्धतेजोविशालं वेदव्यासं विततयशसं सर्वदाहं नमामि २०।
नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् २१।
प्रवक्ष्यामि महापुण्यं पुराणं पद्मसंज्ञितम् ।
सहस्रं पंचपंचाशत्षड्भिः खंडैः समन्वितम् २२।
तत्रादावादिखंडं स्याद्भूमिखंडं ततः परम् ।
ब्रह्मखंडं च तत्पश्चात्ततः पातालखंडकम् २३।
क्रियाखंडं ततः ख्यातमुत्तरं खंडमंतिमम् ।
एतदेव महापद्ममद्भुतं यन्मयं जगत् २४।
तद्वृत्तांताश्रयं तस्मात्पाद्ममित्युच्यते बुधैः ।
एतत्पुराणममलं विष्णुमाहात्म्यमुत्तमम् २५।
देवदेवोहरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा ।
ब्रह्मा तन्नारदायाह नारदोऽस्मद्गुरोः पुरः २६।
व्यासः सर्वपुराणानि सेतिहासानि संहिताः ।
अध्यापयामास मुहुर्मामतिप्रियमात्मनः २७।
तत्तेऽहं संप्रवक्ष्यामि पुराणमतिदुर्लभम् ।
यच्छ्रुत्वा ब्रह्महत्यादि पापेभ्यो मुच्यते नरः २८।
सर्वतीर्थाभिषेकं च लभते शृणुते हि यः ।
श्रद्धया परया भक्त्या श्रुतमात्रेण मुक्तिदः २९।
अश्रद्धयापि शृणुते लभते पुण्यसंचयम् ।
तस्मात्सर्वप्रयत्नेन पद्मं श्रोत्रातिथी कुरु ३०।
तत्रादिखंडं वक्ष्यामि पुण्यं पापविनाशनम् ।
शृण्वंतु मुनयः सर्वे सशिष्यास्त्वत्र ये स्थिताः ३१।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रथमोऽध्यायः १।