पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४७
स्वर्गखण्डः |
---|
मार्कंडेय उवाच-
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु ।
नैमिषं पुष्करं चैव गोतीर्थं सिंधुसागरम् १।
कुरुक्षेत्रं गया चैव गंगासागरमेव च ।
एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः २।
दशतीर्थसहस्राणि त्रिंशत्कोट्यस्तथापरे ।
प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः ३।
त्रीणि चाप्यग्निकुंडानि येषां मध्ये तु जाह्नवी ।
प्रयागादभिनिष्क्रांता सर्वतीर्थपुरस्कृता ४।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।
गंगायमुनया सार्धं संस्थिता लोकभाविनी ५।
गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ।
प्रयागं राजशार्दूल कलां नार्हंति षोडशीम् ६।
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् ।
दिव्यं भुव्यंतरिक्षे च तत्सर्वं जाह्नवि स्मृता ७।
प्रयागं समधिष्ठानं कंबलाश्वतरावुभौ ।
भोगवत्यथ या चैव वेदिरेषा प्रजापतेः ८।
तत्र देवाश्च यज्ञाश्च मूर्तिमंतो युधिष्ठिर ।
पूजयंति प्रयागं ते ऋषयश्च तपोधनाः ९।
यजंते क्रतुभिर्देवांस्तथा बहुधना नृपाः ।
ततः पुण्यतमो नास्ति त्रिषु लोकेषु भारत १०।
प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो ।
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथापरे ११।
यत्र गंगा महाभागा स देशस्तत्तपोवनम् ।
सिद्धक्षेत्रं तु तज्ज्ञेयं गंगातीरसमाश्रितम् १२।
इति सत्यं द्विजातीनां साधूनामात्मजस्य वा ।
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा १३।
इदं धन्यमिदं स्वर्ग्यमिदं सेव्यमिदं शुभम् ।
इदं पुण्यमिदं रम्यं पावनं धर्ममुत्तमम् १४।
महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् ।
अधीत्य च द्विजो ध्यायन्निर्मलत्वमवाप्नुयात् १५।
यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः ।
जातिस्मरत्वं लभते नाकपृष्ठे च मोदते १६।
प्राप्यंते तानि तीर्थानि सद्भिः शिष्टार्थदर्शिभिः ।
स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव १७।
त्वया तु सम्यक्पृष्टेन कथितं तु मया विभो ।
पितरस्तारिताः सर्वे तारिताश्च पितामहाः १८।
प्रयागस्य तु सर्वे ते कलां नार्हंति षोडशीम् ।
एवं ज्ञानं च योगं च तीर्थं चैव युधिष्ठिर १९।
बहुक्लेशेन युज्यंते ततो यांति परां गतिम् ।
प्रयागस्मरणाल्लोकः स्वर्गलोकं च गच्छति २०।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये सप्तचत्वारिंशोऽध्यायः ४७।