पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५०
स्वर्गखण्डः |
---|
ऋषय ऊचुः-
भवता कथितं सर्वं यत्किंचित्पृष्टमेव च ।
इदानीमपि पृच्छाम एकं वद महामते १।
एतेषां खलु तीर्थानां सेवनाद्यत्फलं लभेत् ।
सर्वेषां किल कृत्वैकं कर्म केन च लभ्यते २।
एतन्नो ब्रूहि सर्वज्ञ कर्मैवं यदि वर्तते ।
सूत उवाच-
कर्मयोगः किल प्रोक्तो वर्णानां द्विजपूर्वशः ३।
नानाविधो महाभागास्तत्र चैकं विशिष्यते ।
हरिभक्तिः कृता येन मनसा वचसा गिरा ४।
जितं तेन जितं तेन जितमेव न संशयः ।
हरिरेव समाराध्यः सर्वदेवेश्वरेश्वरः ५।
हरिनाममहामंत्रैर्नश्येत्पापपिशाचकम् ।
हरेः प्रदक्षिणं कृत्वा सकृदप्यमलाशयाः ६।
सर्वतीर्थसमाप्लावं लभंते यन्न संशयः ।
प्रतिमां च हरेर्दृष्ट्वा सर्वतीर्थफलं लभेत् ७।
विष्णुनामपरं जप्त्वा सर्वमंत्रफलं लभेत् ।
विष्णुप्रसादतुलसीमाघ्राय द्विजसत्तमाः ८।
प्रचंडं विकरालं तद्यमस्यास्यं न पश्यति ।
सकृत्प्रणामी कृष्णस्य मातुः स्तन्यं पिबेन्नहि ९।
हरिपादे मनो येषां तेभ्यो नित्यं नमोनमः ।
पुल्कसः श्वपचो वापि ये चान्ये म्लेच्छजातयः १०।
तेऽपि वंद्या महाभागा हरिपादैकसेवकाः ।
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ११।
हरौ भक्तिं विधायैव गर्भवासं न पश्यति ।
हरेरग्रे स्वनैरुच्चैर्नृत्यंस्तन्नामकृन्नरः १२।
पुनाति भुवनं विप्रा गंगादि सलिलं यथा ।
दर्शनात्स्पर्शनात्तस्य आलापादपि भक्तितः १३।
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।
हरेः प्रदक्षिणं कुर्वन्नुच्चैस्तन्नामकृन्नरः १४।
करतालादिसंधानं सुस्वरं कलशब्दितम् ।
ब्रह्महत्यादिकं पापं तेनैव करतालितम् १५।
हरिभक्तिकथामुक्त्वा ख्यायिकां शृणुयाच्च यः ।
तस्य संदर्शनादेव पूतो भवति मानवः १६।
किं पुनस्तस्य पापानामाशंका मुनिपुंगवाः ।
तीर्थानां च परं तीर्थं कृष्णनाम महर्षयः १७।
तीर्थीकुर्वंति जगतीं गृहीतं कृष्णनाम यैः ।
तस्मान्मुनिवराः पुण्यं नातः परतरं विदुः १८।
विष्णुप्रसादनिर्माल्यं भुक्त्वा धृत्वा च मस्तके ।
विष्णुरेव भवेन्मर्त्यो यमशोकविनाशनः १९।
अर्चनीयो नमस्कार्यो हरिरेव न संशयः ।
ये महाविष्णुमव्यक्तं देवं वापि महेश्वरम् २०।
एकीभावेन पश्यंति न तेषां पुनरुद्भवः ।
तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् २१।
हरिं चैकं प्रपश्यध्वं पूजयध्वं तथैव हि ।
ये समानं प्रपश्यंति हरिं वै देवतांतरम् २२।
ते यांति नरकान्घोरांन्न तांस्तु गणयेद्धीरः ।
मूर्खं वा पंडितं वापि ब्राह्मणं केशवप्रियम् २३।
श्वपाकं वा मोचयति नारायणः स्वयं प्रभुः ।
नारायणात्परो नास्ति पापराशि दवानलः २४।
कृत्वापि पातकं घोरं कृष्णनाम्ना विमुच्यते ।
स्वयं नारायणो देवः स्वनाम्नि जगतां गुरुः २५।
आत्मनोऽभ्यधिकां शक्तिं स्थापयामास सुव्रताः ।
अत्र ये विवदंते वै आयासलघुदर्शनात् २६।
फलानां गौरवाच्चापि ते यांति नरकं बहु ।
तस्माद्धरौ भक्तिमान्स्याद्धरिनामपरायणः २७।
पूजकं पृष्ठतो रक्षेन्नामिनं वक्षसि प्रभुः ।
हरिनाममहावज्रं पापपर्वतदारणे २८।
तस्य पादौ तु सफलौ तदर्थं गतिशालिनौ ।
तावेव धन्यावाख्यातौ यौ तु पूजाकरौ करौ २९।
उत्तमांगमुत्तमांगं तद्धरौ नम्रमेव यत् ।
सा जिह्वा या हरिं स्तौति तन्मनस्तत्पदानुगम् ३०।
तानि लोमानि चोच्यंते यानि तन्नाम्नि चोत्थितम् ।
कुर्वंति तच्च नेत्रांबु यदच्युतप्रसंगतः ३१।
अहो लोका अतितरां दैवदोषेण वंचिताः ।
नामोच्चारणमात्रेण मुक्तिदं न भजंति वै ३२।
वंचितास्ते च कलुषाः स्त्रीणां संगप्रसंगतः ।
प्रतिष्ठंति च लोमानि येषां नो कृष्णशब्दने ३३।
ते मूर्खा ह्यकृतात्मानः पुत्रशोकादि विह्वलाः ।
रुदंति बहुलालापैर्न कृष्णाक्षरकीर्तने ३४।
जिह्वां लब्ध्वापि लोकेऽस्मिन्कृष्णनामजपेन्नहि ।
लब्ध्वापि मुक्तिसोपानं हेलयैव च्यवंति ते ३५।
तस्माद्यत्नेन वै विष्णुं कर्मयोगेन मानवः ।
कर्मयोगार्च्चितो विष्णुः प्रसीदत्येव नान्यथा ३६।
तीर्थादप्यधिकं तीर्थं विष्णोर्भजनमुच्यते ।
सर्वेषां खलु तीर्थानां स्नानपानावगाहनैः ३७।
यत्फलं लभते मर्त्यस्तत्फलं कृष्णसेवनात् ।
यजंते कर्मयोगेन धन्या एव नरा हरिम् ३८।
तस्माद्भजध्वं मुनयः कृष्णं परममंगलम् ३९।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे विष्णुभक्तिप्रशंसनं नाम पंचाशत्तमोऽध्यायः ५०।