पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४६
स्वर्गखण्डः |
---|
युधिष्ठिर उवाच-
श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे पुण्यसम्मितम् ।
तीर्थानां तु सहस्राणि शतानि नियुतानि च १।
सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता ।
पृथिव्यां नैमिषं पुण्यमंतरिक्षे च पुष्करम् २।
प्रयागमपि लोकानां कुरुक्षेत्रं विशिष्यते ।
सर्वाणि संपरित्यज्य कथमेकं प्रशंससि ३।
अप्रमाणमिदं प्रोक्तमश्रद्धेयमनुत्तमम् ।
गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान् ४।
किमर्थमल्पयोगेन बहुधर्मं प्रशंससि ।
एतं मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम् ५।
मार्कंडेय उवाच-
अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि तद्भवेत् ।
नरस्य श्रद्दधानस्य पापोपहतचेतसः ६।
अश्रद्दधानो ह्यशुचिर्दुर्मतिस्त्यक्तमंगलः ।
एते पातकिनः सर्वे तेनेदं भाषितं मया ७।
शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम् ।
प्रत्यक्षं च परोक्षं च यथान्यत्संभविष्यति ८।
यथैवान्यन्मया दृष्टं पुरा राजन्यथाश्रुतम् ।
शास्त्रं प्रमाणं कृत्वा तु पूज्यते योगमात्मनः ९।
क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात् ।
जन्मांतरसहस्रेभ्यो योगो लभ्येत मानवैः १०।
यथायोगसहस्रेण योगो लभ्येत मानवैः ।
यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ११।
तेन दानेन दत्तेन योगो लभ्येत मानवैः ।
प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा १२।
प्रधानहेतुं वक्ष्यामि श्रद्दधत्सु च भारत ।
यथा सर्वेषु भूतेषु सर्वत्रैव तु दृश्यते १३।
ब्रह्म नैवास्ति वै किंचिद्यद्वक्तुं त्विदमुच्यते ।
यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते १४।
एवं सर्वेषु लोकेषु प्रयागः पूज्यते बुधैः ।
पूज्यते तीर्थराजस्य सत्यमेतद्युधिष्ठिर १५।
ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम् ।
तीर्थराजमनुप्राप्य नैवान्यत्किंचिदिच्छति १६।
को हि देवत्वमासाद्य मानुषत्वं चिकीर्षति ।
अनेनैवानुमानेन त्वं ज्ञास्यसि युधिष्ठिर १७।
यथा पुण्यमपुण्यं वा तथैव कथितं मया ।
युधिष्ठिर उवाच-
श्रुतं तद्यत्त्वया प्रोक्तं विस्मितोऽहं पुनः पुनः १८।
कथं योगेन तत्प्राप्तिः स्वर्गलोकस्तु कर्मणा ।
तदा च लभते भोगान्गां च तत्कर्मणां फलम् १९।
तानि कर्माणि पृच्छामि पुनर्यैः प्राप्यते महीम् ।
मार्कंडेय उवाच-
शृणुराजन्महाबाहो यथोक्तकर्म्मणा मही २०।
गामग्निं ब्राह्मणं शास्त्रं कांचनं सलिलं स्त्रियः ।
मातरं पितरं चैव यो निंदति नराधिप २१।
नैतेषामूर्ध्वगमनमेवमाह प्रजापतिः ।
एवं योगस्य संप्राप्तिः स्थानं परमदुर्लभम् २२।
गच्छंति नरकं घोरं ये नराः पापकारिणः ।
हस्त्यश्वं गामनड्वाहं मणिमुक्तादि कांचनम् २३।
परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति ।
न ते गच्छंति वै स्वर्गं दातारो यत्र भोगिनः २४।
अनेन कर्म्मणा युक्ताः पच्यंते नरकेऽधमाः ।
एवं योगं च धर्म्मं च दातारं च युधिष्ठिर २५।
यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम् ।
निरुक्तं तु प्रवक्ष्यामि यथायं स्वयमाप्नुयात् २६।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये षट्चत्वारिंशोऽध्यायः ४६।