पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४२
स्वर्गखण्डः |
---|
मार्कंडेय उवाच-
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु ।
यं गत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः १।
आर्तानां च दरिद्राणां निश्चितव्यवसायिनाम् ।
स्थानं मुक्त्वा प्रयागं तु नाक्षयं तु कदाचन २।
गंगायमुनमासाद्य यस्तु प्राणान्परित्यजेत् ।
दीप्तकांचनवर्णाभे विमाने सूर्यवर्चसि ३।
गंधर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः ।
ईप्सिताँल्लभतेकामान्वदंति ऋषिपुंगवाः ४।
सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः ।
वरांगना समाकीर्णैर्मोदते शुभलक्षणैः ५।
गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ।
यावन्न स्मरते जन्म तावत्स्वर्गे महीयते ६।
तत्र स्वर्गात्परिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः ।
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ७।
तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति ।
देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ८।
प्रयागं स्मरमात्रोपि यस्तु प्राणान्परित्यजेत् ।
स ब्रह्मलोकमाप्नोति वदंति ऋषिपुंगवाः ९।
सर्वकामफलावृत्ता मही यत्र हिरण्मयी ।
ऋषयो मुनयः सिद्धा यत्र लोके प्रगच्छति १०।
स्त्रीसहस्रा कुले रम्ये मंदाकिन्यास्तटे शुभे ।
मोदते ऋषिभिः सार्द्धं स्वकृतेनेह कर्मणा ११।
सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ।
ततः स्वर्गात्परिभ्रष्टो जंबुद्वीपपतिर्भवेत् १२।
ततः शुभानि कर्माणि चिंतयानः पुनः पुनः ।
गुणवान्वित्तसंपन्नो भवतीह न संशयः १३।
कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ।
गंगायमुनयोर्मध्ये यस्तु दानं प्रयच्छति १४।
सुवर्णंमणिमुक्तां वा यदि धान्यं प्रतिग्रहम् ।
स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा १५।
निष्फलं तस्य तत्तीर्थं यावत्तत्फलमश्नुते ।
एवं तीर्थेन गृह्णीयात् पुण्येष्वायतनेषु च १६।
निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ।
कपिलां पाटलावर्णां प्रयागे यः प्रयच्छति १७।
स्वर्णशृंगीं रौप्यखुरां चैलकंठीं पयस्विनीम् ।
प्रयागे श्रोत्रियं साधुं ग्राहयित्वा यथाविधि १८।
शुक्लांबरधरं शांतं धर्मज्ञं वेदपारगम् ।
सा गौस्तस्मै च दातव्या गंगायमुनसंगमे १९।
वासांसि च महार्हाणि रत्नानि विविधानि च ।
यावद्रोमाणि तस्या गोः संति गात्रेषु सत्तम २०।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
यत्रासौ लभते जन्म सा गौस्तत्राभिजायते २१।
न च पश्यत्यसौ घोरं नरकं तेन कर्मणा ।
उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम् २२।
गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् ।
पुत्रान्दारान्तथा भृत्यान्गौरेका प्रतितारयेत् २३।
तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते ।
दुर्गमे विषमे घोरे महापातकसंभवे ।
गौरेव रक्षां कुरुते तस्माद्देया द्विजातये २४।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्विचत्वारिंशोऽध्यायः ४२।