पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४३
स्वर्गखण्डः |
---|
युधिष्ठिर उवाच-
यथा प्रयागस्य मुने माहात्म्यं कथितं त्वया ।
तथातथा प्रमुच्येऽहं सर्वपापैर्न संशयः १।
भगवन्केन विधिना गंतव्यं धर्मनिश्चयैः ।
प्रयागे यो विधिः प्रोक्तः तन्मे ब्रूहि महामुने २।
मार्कंडेय उवाच-
कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् ।
यो गच्छेतकुरुश्रेष्ठ प्रयागं देवसंयुतम् ३।
बलीवर्दसमारूढः शृणु तस्यापि यत्फलम् ।
वसते नरके घोरे गवां क्रोधे सुदारुणे ४।
सलिलं च न गृह्णंति पितरस्तस्य देहिनः ।
यस्तु पुत्रांस्तथा बालान्स्नापयेत्पाययेत्तथा ५।
यथात्मनस्तथा सर्वान्दानं विप्रेषु दापयेत् ।
ऐश्वर्यलोभान्मोहाद्वा गच्छेद्यानेन यो नरः ६।
निष्फलं तस्य तत्तीर्थं तस्माद्यानं परित्यजेत् ।
गंगायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ७।
आर्षेण तु विधानेन यथाविभवसंभवम् ।
न पश्यति यमं घोरं नरकं तेन कर्मणा ८।
उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम् ।
पुत्रांस्तु दाराँल्लभते धार्मिकान्नयसंयुतान् ९।
तत्र दानं प्रदातव्यं यथाविभवसंभवम् ।
तेन तीर्थफलैनैव वर्द्धते नात्र संशयः १०।
स्वर्गे तिष्ठति राजेंद्र यावदाभूतसंप्लवम् ।
वटमूलं समाश्रित्य यस्तु प्राणान्परित्यजेत् ११।
सर्वलोकानतिक्रम्य रुद्रलोकं च गच्छति ।
तत्र ते द्वादशादित्यास्तपंते रुद्रमाश्रिताः १२।
निर्दहंति जगत्सर्वं वटमूलं न दह्यते ।
नष्टचंद्रार्कपवनं यदा चैकार्णवं जगत् १३।
स्वपित्यत्रैव वै विष्णुर्जायमानः पुनः पुनः ।
देवदानवगंधर्व ऋषयः सिद्धचारणाः १४।
सदा सेवंति तत्तीर्थं गंगायमुनसंगमे ।
तत्र गच्छंति राजेंद्र प्रयागे संयुतं च यत् १५।
तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः ।
लोकपालाश्च साध्याश्च पितरो लोकसंमताः १६।
सनत्कुमारप्रमुखास्तथैव परमर्षयः ।
अंगिरप्रमुखाश्चैव तथा ब्रह्मर्षयः परे १७।
तथा नागाश्च सिद्धाश्च सुपर्णाः खेचराश्च ये ।
सरितः सागराः शैला नागा विद्याधरास्तथा १८।
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ।
गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् १९।
प्रयागं राजशार्दूल त्रिषुलोकेषु विश्रुतम् ।
ततः पुण्यतमं नास्ति त्रिषुलोकेषु भारत २०।
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि ।
मृत्तिका लंभनाद्वापि नरः पापात्प्रमुच्यते २१।
तत्राभिषेकं यः कुर्य्यात्संगमे संशितव्रतः ।
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः २२।
न वेदवचनात्तात न लोकवचनादपि ।
मतिरुत्क्रमणीया ते प्रयागगमनं प्रति २३।
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।
येषां सान्निध्यमत्रैव कीर्तनात्कुरुनंदन २४।
या गतिर्योगयुक्तस्य सदुत्थस्य मनीषिणः ।
सा गतिस्त्यजतः प्राणान्गंगायमुनसंगमे २५।
तेन जीवंति लोकेऽस्मिन्यत्र यत्र युधिष्ठिर ।
ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् २६।
एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम् ।
मुच्यते सर्वपापेभ्यः शशांक इव राहुणा २७।
कंबलाश्वतरौ नागौ यमुना दक्षिणे तटे ।
तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः २८।
तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः ।
नरस्तारयते सर्वान्दशातीतान्दशापरान् २९।
कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ।
स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ३०।
पूर्वपार्श्वे तु गंगायां त्रिषु लोकेषु भारत ।
कूपं चैव तु सामुद्रं प्रतिष्ठानं तु विश्रुतम् ३१।
ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति ।
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ३२।
उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः ।
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ३३।
अश्वमेधफलं तस्मिन्स्नातमात्रस्य भारत ।
यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ३४।
उर्वशीपुलिने रम्ये विपुले हंसपांडुरे ।
सलिलैस्तर्प्पयेद्यस्तु पितॄंस्तत्र विमत्सरः ३५।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
सेवते पितृभिः सार्द्धं स्वर्गलोकं नराधिप ३६।
पूज्यते सततं तत्र ऋषिगंधर्वकिन्नरैः ।
ततः स्वर्गपरिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः ३७।
उर्वशीसदृशीनां तु कन्यानां लभते शतम् ।
गवां शतसहस्राणां भोक्ता भवति भूमिप ३८।
कांचीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते ।
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ३९।
कुशासनधरो नित्यं नियतः संयतेंद्रियः ।
एककालं तु भुंजानो मासं भोगपतिर्भवेत् ४०।
सुवर्णालंकृतानां तु नारीणां लभते शतम् ।
पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ४१।
दशग्रामसहस्राणां भोक्ता भवति भूमिपः ।
धनधान्यसमायुक्तो दाता भवति नित्यशः ४२।
स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं स्मरते पुनः ।
अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेंद्रियः ४३।
उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवाप्नुयात् ।
कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत् ४४।
कोटिवर्षसहस्राणि स्वर्गलोके महीयते ।
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः ४५।
सुवर्णमणिमुक्ताढ्ये कुले भवति रूपवान् ।
ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु ४६।
दशाश्वमेधकं तत्र तीर्थं तत्रापरं भवेत् ।
कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ४७।
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ।
चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ४८।
अहिंसायां तु यो धर्म्मो गमनादेव तद्भवेत् ।
कुरुक्षेत्रसमा गंगा यत्रतत्रावगाह्यते ४९।
कुरुक्षेत्राद्दशगुणा यत्र सिंध्वा समागता ।
यत्र गंगा महाभागा बहुतीर्थतपोधना ५०।
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ।
क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः ५१।
दिवि तारयते देवांस्तेन सा त्रिपथा स्मृता ।
यावदस्थीनि गंगायां तिष्ठंति तस्य देहिनः ५२।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
तीर्थानां तु परं तीर्थं नदीनामुत्तमा नदी ५३।
मोक्षदा सर्वभूतानां महापातकिनामपि ।
सर्वत्र सुलभा गंगा त्रिषु स्थानेषु दुर्लभा ५४।
गंगाद्वारे प्रयागे च गंगासागरसंगमे ।
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ५५।
सर्वेषां चैव भूतानां पापोपहतचेतसाम् ।
गतिमन्वेषमाणानां नास्ति गंगासमा गतिः ५६।
पवित्राणां पवित्रं या मंगलानां च मंगलम् ।
महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ५७।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये त्रिचत्वारिंशोऽध्यायः ४३।