प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.१०८

(ऋग्वेद: सूक्तं १.१०८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१०७ ऋग्वेदः - मण्डल १
सूक्तं १.१०८
कुत्स आङ्गिरसः
सूक्तं १.१०९ →
दे. इन्द्राग्नी। त्रिष्टुप्


य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे ।
तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥१॥
यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् ।
तावाँ अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् ॥२॥
चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः ।
ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥३॥
समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा ।
तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् ॥४॥
यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि ।
या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥५॥
यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः ।
तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ॥६॥
यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥७॥
यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥८॥
यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥९॥
यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥१०॥
यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥११॥
यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥१२॥
एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१३॥


सायणभाष्यम्

‘ य इन्द्राग्नी ' इति त्रयोदशर्चं तृतीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभमैन्द्राग्नम् । तथा चानुक्रान्तं -- ‘य इन्द्राग्नी सप्तोनैन्द्राग्नं तु ' इति । विनियोगो लैङ्गिकः ॥


य इ॑न्द्राग्नी चि॒त्रत॑मो॒ रथो॑ वाम॒भि विश्वा॑नि॒ भुव॑नानि॒ चष्टे॑ ।

तेना या॑तं स॒रथं॑ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १

यः । इ॒न्द्रा॒ग्नी॒ इति॑ । चि॒त्रऽत॑मः । रथः॑ । वा॒म् । अ॒भि । विश्वा॑नि । भुव॑नानि । चष्टे॑ ।

तेन॑ । आ । या॒त॒म् । स॒ऽरथ॑म् । त॒स्थि॒ऽवांसा॑ । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥१

यः । इन्द्राग्नी इति । चित्रऽतमः । रथः । वाम् । अभि । विश्वानि । भुवनानि । चष्टे ।

तेन । आ । यातम् । सऽरथम् । तस्थिऽवांसा । अथ । सोमस्य । पिबतम् । सुतस्य ॥१

हे “इन्द्राग्नी “चित्रतमः अतिशयेन चायनीयः “वां युवयोः संबन्धी “यः “रथः “विश्वानि “भुवनानि भूतजातानि' “अभि “चष्टे आभिमुख्येन पश्यति । सुवर्णमयत्वात् रत्नखचितत्वाच्च स्वप्रभाभिः कृत्स्नं जगद्भासयतीत्यर्थः । “तेन रथेन “आ “यातम् अस्मद्यज्ञमागच्छतम् । तत्किं पर्यायेण । नेत्याह । “सरथं समानमेकं रथं “तस्थिवांसा युगपदेव आस्थितवन्तौ युवामागच्छतं न पर्यायेणेत्यर्थः। “अथ आगमनानन्तरं “सुतस्य ऋत्विग्भिरभिषुतं “सोमस्य सोमं स्वांशलक्षणं तदेकदेशं वा “पिबतम् ॥ वाम् । “ युष्मदस्मदोः षष्ठीचतुर्थी० ' ( पा. सू. ८. १. २०) इत्यादिना षष्ठीद्विवचनस्य वामादेशः । सर्वानुदात्तत्वम् । चष्टे ।' चक्षिङ् व्यक्तायां वाचि'। अत्र प्रकाशनार्थः । अदादित्वात् शपो लुक् । ‘ स्कोः संयोगाद्योः' इति कलोपः । ‘ तास्यनुदात्तेत्' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः। सरथम् । समानश्चासौ रथश्च सरथः । ‘ समानस्य च्छन्दसि°' इति सभावः। ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम्। तस्थिवांसा । ‘ ष्ठा गतिनिवृत्तौ । लिटः क्वसुः । द्विर्वचनम् ।‘शर्पूर्वाः खयः'। ‘वस्वेकाजाद्धसाम्' इति इडागमः । ‘ आतो लोप इटि च ' इति आकारलोपः। सुपां सुलुक्' इति आकारः। सोमस्य । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी ॥


याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा॑ वरि॒मता॑ गभी॒रम् ।

तावा॑ँ अ॒यं पात॑वे॒ सोमो॑ अ॒स्त्वर॑मिन्द्राग्नी॒ मन॑से यु॒वभ्या॑म् ॥ २

याव॑त् । इ॒दम् । भुव॑नम् । विश्व॑म् । अस्ति॑ । उ॒रु॒ऽव्यचा॑ । व॒रि॒मता॑ । ग॒भी॒रम् ।

तावा॑न् । अ॒यम् । पात॑वे । सोमः॑ । अ॒स्तु॒ । अर॑म् । इ॒न्द्रा॒ग्नी॒ इति॑ । मन॑से । यु॒वऽभ्या॑म् ॥२

यावत् । इदम् । भुवनम् । विश्वम् । अस्ति । उरुऽव्यचा । वरिमता । गभीरम् ।

तावान् । अयम् । पातवे । सोमः । अस्तु । अरम् । इन्द्राग्नी इति । मनसे । युवऽभ्याम् ॥२

“विश्वं सर्वम् “इदं “भुवनं जगत् "यावत् “अस्ति यावत्प्रमाणं भवति । कीदृशम् । “उरुव्यचा विस्तीर्णव्यापनम् । सर्वव्यापकमित्यर्थः । तथा “वरिमता वरिम्णा उरत्वेनात्मीयेन गौरवेण “गभीरं गाम्भीर्योपेतम् । हे “इन्द्राग्नी “पातवे युवाभ्यां पातुं “सोमः “तावान् “अस्तु तावत्प्रमाणो भवतु। तथा “मनसे युवयोरन्तःकरणाय "अरं स सोमः पर्याप्तो भवतु ॥ उरुव्यचा ।' व्यच व्याजीकरणे'। असुन्। ‘ व्यचेः कुटादित्वमनसि ' इति वचनात् ङित्त्वाभावेन संप्रसारणाभावः । ‘ स्वमोर्नपुंसकात्' (पा. सू. ७. १. २३) इति सोर्लुकि प्राप्ते ‘सुपां सुलक्' इति व्यत्ययेन डादेशः । वरिमता। 'पृथ्वादिभ्य इमनिज्वा' इति उरुशब्दात् तस्य भावः इत्यर्थे इमनिच् । ‘प्रियस्थिर' इत्यादिना उरुशब्दस्य वरादेशः । पुनरपि भावप्रत्ययोत्पत्तिश्छान्दसी । सुपां सुलुक्' इति तृतीयाया लुक् । यद्वा । तृतीयायाश्छान्दसः तुडागमः । तावान् । तत्परिमाणमस्य । ‘ यत्तदेतेभ्यः परिमाणे वतुप् ' ( पा. सू. ५. २. ३९ )। ‘ आ सर्वनाम्नः' इति आत्वम् । पातवे । “पा पाने'। तुमर्थे सेसेन्” इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अरम् । ‘ वालमूललध्वलमङ्गुलीनां वा लो रमापद्यत इति वक्तव्यम् ' ( पा. म. ८. २. १८) इति लत्वविकल्पः । युवभ्याम् । व्यत्ययेन आत्वाभावे ‘ शेष लोपः' इति दकारलोपः ॥


च॒क्राथे॒ हि स॒ध्र्य१॒॑ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा उ॒त स्थः॑ ।

तावि॑न्द्राग्नी स॒ध्र्य॑ञ्चा नि॒षद्या॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् ॥ ३

च॒क्राथे॒ इति॑ । हि । स॒ध्र्य॑क् । नाम॑ । भ॒द्रम् । स॒ध्री॒ची॒ना । वृ॒त्र॒ऽह॒नौ॒ । उ॒त । स्थः॒ ।

तौ । इ॒न्द्रा॒ग्नी॒ इति॑ । स॒ध्र्य॑ञ्चा । नि॒ऽसद्य॑ । वृष्णः॑ । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् ॥३

चक्राथे इति । हि । सध्र्यक् । नाम । भद्रम् । सध्रीचीना । वृत्रऽहनौ । उत । स्थः ।

तौ । इन्द्राग्नी इति । सध्र्यञ्चा । निऽसद्य । वृष्णः । सोमस्य । वृषणा । आ । वृषेथाम् ॥३

हे “इन्द्राग्नी "भद्रं कल्याणं "नाम स्वकीयं नामधेयं 'सध्र्यक् सहगतमिन्द्राग्नी इत्येवं संयुक्तं “चक्राथे युवां कृतवन्तौ । “उत अपि च हे “वृत्रहणौ वृत्रस्यासुरस्य हन्ताराविन्द्राग्नी “सध्रीचीना सहाञ्चन्तौ वृत्रवधार्थं संगतौ “स्थः भवथः । “हि यस्मादेवं तस्मात् हे “वृषणा कामानां वर्षिताराविन्द्राग्नी “तौ युवां सध्र्यञ्चौ सहितावेव सन्तौ “निषद्य वेद्यामुपविश्य “वृष्णः सेक्तुः “सोमस्य आत्मीयं भागम् “आ “वृषेथां स्वकीये उदरे आसिञ्चेथाम् ॥ सध्र्यक् । सहशब्दोपपदादञ्चतेः ‘ऋत्विक्' इत्यादिना क्विन् । 'अनिदिताम्' इति नलोपः। ‘सहस्य सध्रिः । ‘ अद्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् ' ( पा. सू. ६. ३. ९५. १ ) इति वचनात् सध्र्यादेशोऽन्तोदात्तः । यणादेशे ‘उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । सध्रीचीना। विभाषाञ्चेरदिक्स्त्रियाम्' इति स्वाथै खः । ‘ सुपां सुलुक्' इति विभक्तेः आजादेशः । वृत्रहणौ । संहितायाम् आवादेशे ‘ लोपः शाकल्यस्य ' इति वलोपः । वृषेथाम् । वृष सेचने'। व्यत्ययेन शः आत्मनेपदं च ।।


समि॑द्धेष्व॒ग्निष्वा॑नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा ।

ती॒व्रैः सोमैः॒ परि॑षिक्तेभिर॒र्वागेन्द्रा॑ग्नी सौमन॒साय॑ यातम् ॥ ४

सम्ऽइ॑द्धेषु । अ॒ग्निषु॑ । आ॒न॒जा॒ना । य॒तऽस्रु॑चा । ब॒र्हिः । ऊं॒ इति॑ । ति॒स्ति॒रा॒णा ।

ती॒व्रैः । सोमैः॑ । परि॑ऽसिक्तेभिः । अ॒र्वाक् । आ । इ॒न्द्रा॒ग्नी॒ इति॑ । सौ॒म॒न॒साय॑ । या॒त॒म् ॥४

सम्ऽइद्धेषु । अग्निषु । आनजाना । यतऽस्रुचा । बर्हिः । ऊं इति । तिस्तिराणा ।

तीव्रैः । सोमैः । परिऽसिक्तेभिः । अर्वाक् । आ । इन्द्राग्नी इति । सौमनसाय । यातम् ॥४

“अग्निषु गार्हपत्यादिषु अन्वाधानादिना “समिद्धेषु सम्यगिद्धेषु दीप्तेषु सत्सु “आनजाना हवींष्याज्येनाञ्जन्तौ यतस्रुचा तदनन्तरं यागार्थं गृहीतस्रुचौ “बर्हिरु वेद्यां बर्हिरपि "तिस्तिराणा आस्तीर्णं कृतवन्तौ अध्वर्युप्रतिप्रस्थातारौ एवंभूतावभूताम् । तथा सति हे इन्द्राग्नी “तीव्रैः क्षिप्रं मदकरैः “परिषिक्तेभिः परितः सर्वेषु ग्रहचमसादिष्वासिक्तैः “सोमैः हेतुभूतैः “अर्वाक् अस्मदभिमुखम् ॥ “यातम् आगच्छतम् । किमर्थम् । “सौमनसाय सौमनस्याय अस्माकमनुग्रहायेत्यर्थः ॥ आनजाना । ‘ अञ्जू व्यक्तिम्रक्षणगतिषु । लिटः कानच् । “अनिदिताम्' इति नलोपः। द्विर्भावे ‘अत आदेः' इति अभ्यासस्य दीर्घः। तस्मान्नुड्द्विहलः' इति अद्विहलोऽपि व्यत्ययेन नुट् । तिस्तिराणा। स्तॄञ् आच्छादने । पूर्ववत् कानच् । ‘ ऋत इद्धातोः' इति इत्वम् । द्विर्वचने शर्पूर्वाः खयः' । सुपां सुलुक् ' इति सर्वत्र विभक्तेः आकारः । चित्त्वादन्तोदात्तत्वम् ॥


यानी॑न्द्राग्नी च॒क्रथु॑र्वी॒र्या॑णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या॑नि ।

या वां॑ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभिः॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ ५

यानि॑ । इ॒न्द्रा॒ग्नी॒ इति॑ । च॒क्रथुः॑ । वी॒र्या॑णि । यानि॑ । रू॒पाणि॑ । उ॒त । वृष्ण्या॑नि ।

या । वा॒म् । प्र॒त्नानि॑ । स॒ख्या । शि॒वानि॑ । तेभिः॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥५

यानि । इन्द्राग्नी इति । चक्रथुः । वीर्याणि । यानि । रूपाणि । उत । वृष्ण्यानि ।

या । वाम् । प्रत्नानि । सख्या । शिवानि । तेभिः । सोमस्य । पिबतम् । सुतस्य ॥५

हे “इन्द्राग्नी “यानि “वीर्याणि वृत्रवधादिरूपाणि “चक्रथुः कृतवन्तौ युवां “यानि च “रूपाणि निरूप्यमाणानि गवाश्वादीनि भूतजातानि कृतवन्तौ । इन्द्राग्निभ्यां हि सर्वं जगत् सृज्यते । इन्द्रः सूर्यात्मना वृष्टिं सृजत्यग्निश्चाहुतिद्वारा वृष्टयुत्पादकः। वृष्टेः सकाशात् सर्वे प्राणिन उत्पद्यन्ते । “उत अवि च यानि “वृष्ण्यानि वृष्णि भवानि वृष्टिप्रदानादिरूपाणि कर्माणि कृतवन्तौ । तथा “वां युवयोः संबन्धीनि “प्रत्नानि चिरंतनानि "शिवानि शोभनानि “या यानि “सख्या सखित्वानि सन्ति । “तेभिः तैः सर्वैः सहितौ युवां “सुतस्य “सोमस्य अभिषुतं सोमं “पिबतम् ॥ सख्या । सख्युर्भावः सख्यम् । ‘ सख्युर्यः' इति यप्रत्ययः । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । तेभिः । ‘ बहुलं छन्दसि' इति भिस ऐसभावः । ‘ सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘ न गोश्वन्साववर्ण ' इति प्रतिषेधः ॥ ॥ २६ ॥


यदब्र॑वं प्रथ॒मं वां॑ वृणा॒नो॒३॒॑ऽयं सोमो॒ असु॑रैर्नो वि॒हव्यः॑ ।

तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ ६

यत् । अब्र॑वम् । प्र॒थ॒मम् । वा॒म् । वृ॒णा॒नः । अ॒यम् । सोमः॑ । असु॑रैः । नः॒ । वि॒ऽहव्यः॑ ।

ताम् । स॒त्याम् । श्र॒द्धाम् । अ॒भि । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥६

यत् । अब्रवम् । प्रथमम् । वाम् । वृणानः । अयम् । सोमः । असुरैः । नः । विऽहव्यः ।

ताम् । सत्याम् । श्रद्धाम् । अभि । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥६

हे इन्द्राग्नी “प्रथमं कर्मोपक्रमे एव “वां युवां “वृणानः संभजमानः “यदब्रवं सोमेन प्रीणयिष्यामीति यदवोचं “सत्यां यथार्थां “तां “श्रद्धां श्रद्धयादरातिशयेन कृतामुक्तिम् “अभि अभिलक्ष्य “आ “हि “यातम् आगच्छतमेव नोदासाथाम् । “अथ आगमनानन्तरमभिषुतं सोमं “पिबतम् । तथा सति “असुरैः हविषां प्रक्षेपकैर्ऋत्विग्भिः “अयं “नः अस्माकं सोमः “विहव्यः विशेषेण होतव्यो भवति इतरथा व्यर्थः स्यात् । तस्मादिन्द्राग्नी आगच्छतमित्यर्थः ॥ वृणानः । वृङ् संभक्तौ'। लटः शानच् । ‘ श्नाभ्यस्तयोरातः' इति आकारलोपः । असुरैः । ‘असु क्षेपणे'। असेरुरन् ' ( उ. सू. १. ४२ ) इति उरन्प्रत्ययः । विहव्यः । ‘हु दानादनयोः । अचो यत् । गुणः । ‘ धातोस्तन्निमित्तस्यैव इति अवादेशः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥


यदि॑न्द्राग्नी॒ मद॑थः॒ स्वे दु॑रो॒णे यद्ब्र॒ह्मणि॒ राज॑नि वा यजत्रा ।

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ ७

यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । मद॑थः । स्वे । दु॒रो॒णे । यत् । ब्र॒ह्मणि॑ । राज॑नि । वा॒ । य॒ज॒त्रा॒ ।

अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥७

यत् । इन्द्राग्नी इति । मदथः । स्वे । दुरोणे । यत् । ब्रह्मणि । राजनि । वा । यजत्रा ।

अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥७

“यजत्रा यष्टव्यौ हे “इन्द्राग्नी “स्वे "दुरोणे स्वकीये गृहे निवासस्थाने “यत् यदि “मदथः हृष्यथः । “यत् यदि “वा “ब्रह्मणि ब्राह्मणे अन्यस्मिन्यजमाने हविः स्वीकरणायागत्य हृष्यथः। यदि वा “राजनि क्षत्रिये युद्धे साहाय्यं कर्तुमागत्य हृष्यथः । “अतः “परि परितोऽस्मात् सर्वस्मात् स्थानात हे “वृषणौ कामानां वर्षिताराविन्द्राग्नी “आ “यातं “हि अगच्छतमेव । औदासीन्यं मा कार्ष्टम् । अन्यत् पूर्ववत् ।। मदथः । ‘ मदी हर्षे '। व्यत्ययेन शप् । यजत्रा । अमिनक्षि' इत्यादिना यजतेः कर्मणि अत्रन् । ‘ सुपां सुलुक् ' इति विभक्तेः आकारः ॥


यदि॑न्द्राग्नी॒ यदु॑षु तु॒र्वशे॑षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः ।

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ ८

यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । यदु॑षु । तु॒र्वशे॑षु । यत् । द्रु॒ह्युषु॑ । अनु॑षु । पू॒रुषु॑ । स्थः ।

अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥८

यत् । इन्द्राग्नी इति । यदुषु । तुर्वशेषु । यत् । द्रुह्युषु । अनुषु । पूरुषु । स्थः ।

अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥८

अत्र यदुषु इत्यादीनि पञ्च मनुष्यनामानि । हे “इन्द्राग्नी “यत् यदि “यदुषु नियतेषु परेषामहिंसकेषु मनुष्येषु “स्थः भवथः वर्तेथे । यदि वा “तुर्वशेषु हिंसकेषु मनुष्येषु वर्तेथे। “यत् यदि वा “द्रुह्युषु द्रोहं परेषामुपद्रवमिच्छत्सु मनुष्येषु वर्तेथे । यदि वा “अनुषु प्राणत्सु सफलैः प्राणैर्युक्तेषु ज्ञातृष्वनुष्ठातृषु मनुष्येषु । अन्येषां हि प्राणा निष्फला ज्ञानहीनत्वादनुष्ठानाभावाच्च । तेषु यदि भवथः। तथा “पुरुषु कामैः पूरयितव्येष्वन्येषु स्तोतृजनेषु यदि भवथः । “अतः सर्वस्मात् स्थानात हे कामाभिवर्षकाविन्द्राग्नी आगच्छतम् । अनन्तरम्' अभिषुतं सोमं “पिबतम् ॥ यदुषु । ‘यम उपरमे'। नियम्यन्ते इन्द्रियाण्येभिरिति यदवः । ‘यमेर्दुक् च' इति कुप्रत्ययो दुगागमश्च । अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । तुर्वशेषु । तुर्वी हिंसार्थः । औणादिकः अशप्रत्ययः । द्रुह्युषु । ‘द्रुह जिघांसायाम्। संपदादिलक्षणो भावे क्विप्। द्रुहं परेषामिच्छन्ति। 'छन्दसि परेच्छायामपि' इति क्यच् । ‘क्याच्छन्दसि' इति उप्रत्ययः । अनुषु । ‘ अन प्राणने'। अणश्च ' ( उ. सू. १. ८) इति विधीयमान उप्रत्ययो बहुलवचनादस्मादपि भवति । नित्' इत्यनुवृत्तेराद्युदात्तत्वम् । पूरुषु ।' पूरी आप्यायने । पूर्यन्ते इति पूरवः । औणादिक उप्रत्ययः ।।


यदि॑न्द्राग्नी अव॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्यां॑ पर॒मस्या॑मु॒त स्थः ।

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ ९

यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒मस्या॑म् । पृ॒थि॒व्याम् । म॒ध्य॒मस्या॑म् । प॒र॒मस्या॑म् । उ॒त । स्थः ।

अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥९

यत् । इन्द्राग्नी इति । अवमस्याम् । पृथिव्याम् । मध्यमस्याम् । परमस्याम् । उत । स्थः ।

अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥९

हे “इन्द्राग्नी “अवमस्यां पृथिव्यां संनिकृष्टायामस्यां भूम्यां “यत् यदि “स्थः वर्तमानौ भवथः । यदि वा “मध्यमस्यां पृथिव्यामन्तरिक्षलोके । अत्र पृथिवीशब्दस्त्रिष्वपि लोकेषु वर्तते । यथा ‘ यो द्वितीयस्यां तृतीयस्यां पृथिव्यामस्यायुषा नाम्ना ' ( तै. सं. १. २. १२. १ ) इति । “उत अपि च “परमस्याम् उत्कृष्टायां दूरे वर्तमानायां पृथिव्यां द्युलोके यदि वा वर्तेथे । “अतः सर्वस्मात् स्थानात् हे “वृषणौ आगच्छतम् । आगमनानन्तरं सुतं सोमं “पिबतम् ॥ अवमस्याम् । अवमशब्दादुत्तरस्य ङेर्व्यत्ययेन स्याडागमः । एवमुत्तरत्रापि ॥


यदि॑न्द्राग्नी पर॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्या॑मव॒मस्या॑मु॒त स्थः ।

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १०

यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । प॒र॒मस्या॑म् । पृ॒थि॒व्याम् । म॒ध्य॒मस्या॑म् । अ॒व॒मस्या॑म् । उ॒त । स्थः ।

अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥१०

यत् । इन्द्राग्नी इति । परमस्याम् । पृथिव्याम् । मध्यमस्याम् । अवमस्याम् । उत । स्थः ।

अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥१०

पूर्ववद्व्याख्येयम् । एतावांस्तु विशेषः । पूर्वं भूम्यादिषु त्रिषु लोकेषु याविन्द्राग्नी तावागच्छतामित्युक्तम् । इदानीं तु द्युप्रभृतिषु अवरोहक्रमेण वर्तमानेषु त्रिषु लोकेषु याविन्द्राग्नी वर्तेते तावागच्छतामिति प्रार्थ्यते ॥


यदि॑न्द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ ११

यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । दि॒वि । स्थः । यत् । पृ॒थि॒व्याम् । यत् । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु ।

अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥११

यत् । इन्द्राग्नी इति । दिवि । स्थः । यत् । पृथिव्याम् । यत् । पर्वतेषु । ओषधीषु । अप्ऽसु ।

अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥११

हे "इन्द्राग्नी “दिवि द्युलोके “यत् यदि "स्थः भवथः । यदि वा “पृथिव्यां भूलोके यदि वा “पर्वतेषु मेर्वादिषु मेघेषु वा । तथा “ओषधीषु तिलमाषव्रीह्यादिषु “अप्सु उदकेषु चानुग्राहकतया यदि वा स्थः । हे कामाभिवर्षकौ युवाम् “अतः सर्वस्मात् स्थानादागच्छतम् । आगत्य चाभिषुतं सोमं पिबतम् ॥ पृथिव्याम् ।' उदात्तयण:०' इति विभक्तेरुदात्तत्वम् । ओषधीषु । ओषः पाक आसु धीयते इति ओषधयः । ‘ कर्मण्यधिकरणे च' इति किप्रत्ययः । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञन्तमाद्युदात्तम् । ओषधेश्च विभक्तावप्रथमायाम्' इति दीर्घः ॥


यदि॑न्द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दये॑थे ।

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १२

यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । उत्ऽइ॑ता । सूर्य॑स्य । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दये॑थे॒ इति॑ ।

अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥१२

यत् । इन्द्राग्नी इति । उत्ऽइता । सूर्यस्य । मध्ये । दिवः । स्वधया । मादयेथे इति ।

अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥१२

हे “इन्द्राग्नी “उदिता उदितस्योदयं प्राप्तस्य “सूर्यस्य आदित्यस्य संबन्धिनः "दिवः द्योतमानस्य अन्तरिक्षस्य “मध्ये मध्यभागे “स्वधया आत्मीयेन तेजसा हविर्लक्षणेनान्नेन वा “यत् यस्मात् कारणात् "मादयेथे तृप्तौ भवथः तस्मात् कारणात् "अतः सर्वस्मादन्तरिक्षभागात् हे कामाभिवर्षकाविन्द्राग्नी आगच्छतम् । आगमनानन्तरमभिषुतं सोमं “पिबतम् ॥ उदिता । ‘सुपां सुलुक्° ' इति षष्यातम डादेशः । दिवः । ऊडिदम्' इति विभक्तेरुदात्तत्वम् । मादयेथे । ‘ मद तृप्तियोगे । चुरादिरात्मनेपदी ।


ए॒वेन्द्रा॑ग्नी पपि॒वांसा॑ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना॑नि ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १३

ए॒व । इ॒न्द्रा॒ग्नी॒ इति॑ । प॒पि॒ऽवांसा॑ । सु॒तस्य॑ । विश्वा॑ । अ॒स्मभ्य॑म् । सम् । ज॒य॒त॒म् । धना॑नि ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥१३

एव । इन्द्राग्नी इति । पपिऽवांसा । सुतस्य । विश्वा । अस्मभ्यम् । सम् । जयतम् । धनानि ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥१३

हे “इन्द्राग्नी "सुतस्य अभिषुतं सोमम् “एव एवं पपिवांसा पीतवन्तौ युवाम् “अस्मभ्यं “विश्वा सर्वाणि “धनानि “सं “जयतं प्रयच्छतम् । यदनेन सूक्तेन प्रार्थितं “तत् मित्रादयः “ममहन्तां पूजयन्तु' । पपिवांसा। ‘पा पाने'। लिटः क्वसुः। ‘वस्वेकाजाद्धसाम्' इति इडागमः ॥।॥ २७ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१०८&oldid=205187" इत्यस्माद् पुनः प्राप्तिः