ऋग्वेदः सूक्तं १.१३१

(ऋग्वेद: सूक्तं १.१३१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१३० ऋग्वेदः - मण्डल १
सूक्तं १.१३१
परुच्छेपो दैवोदासिः
सूक्तं १.१३२ →
दे. इन्द्रः। अत्यष्टिः।


इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः ।
इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः ।
इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥१॥
विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् ।
तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
इन्द्रं न यज्ञैश्चितयन्त आयव स्तोमेभिरिन्द्रमायवः ॥२॥
वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।
आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥३॥
विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।
शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते ।
महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥४॥
आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ ।
चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।
ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥५॥
उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
यदिन्द्र हन्तवे मृधो वृषा वज्रिञ्चिकेतसि ।
आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥६॥
त्वं तमिन्द्र वावृधानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् ।
जहि यो नो अघायति शृणुष्व सुश्रवस्तमः ।
रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ॥७॥


सायणभाष्यम्

‘इन्द्राय हि' इति सप्तर्चं पञ्चमं सूक्तम् । ‘इन्द्राय सप्त' इत्यनुक्रमणिका । परुच्छेप ऋषिः । अत्यष्टिश्छन्दः । इन्द्रो देवता । पृष्ठ्यस्य षष्ठेऽहनि माध्यंदिनसवने होत्रकाः स्वस्वशस्त्रे एतत्सूक्तं तृचत्रयं कृत्वा आरम्भणीयाभ्य ऊर्ध्वमावपेयुः। अत्रायं विभागः। आद्यास्तिस्रो मैत्रावरुणस्य । तृतीयाद्यास्तिस्रो ब्राह्मणाच्छंसिनः । पञ्चम्याद्यास्तिस्रोऽच्छावाकस्य । एतत् 'चतुर्थेऽहनि' इति खण्डे सूत्रितं- षष्ठेऽहनीन्द्राय हि द्यौरसुरो अनम्नतेत्येवमेव ' ( आश्व. श्रौ. ७. ११ ) इति । तत्रैवाहनि तस्मिन्नेव सवने प्रशास्त्रादीनां प्रस्थितयाज्याभ्यः पुरस्तादादितः षडृचः एकैकशः प्रक्षेपणीयाः । ‘ षष्ठस्य ' इति खण्डे सूत्रितम्- इन्द्राय हि द्यौरसुरो अनम्नतेति षट् ' ( आश्व. श्रौ. ८. १ ) इति । महाव्रते निष्केवल्ये ‘इन्द्राय हि' इति तृचो वैकल्पिकानुरूपद्वितीयः । ‘ महाव्रतस्य' इति खण्डे सूत्रितम्-' एन्द्र याह्युप नः परावत इन्द्राय हि द्यौरसुरो अनम्नत ' ( ऐ. आ. ५. १. १ ) इति ॥


इंद्रा॑य॒ हि द्यौरसु॑रो॒ अन॑म्न॒तेंद्रा॑य म॒ही पृ॑थि॒वी वरी॑मभिर्द्यु॒म्नसा॑ता॒ वरी॑मभिः ।

इंद्रं॒ विश्वे॑ स॒जोष॑सो दे॒वासो॑ दधिरे पु॒रः ।

इंद्रा॑य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ संतु॒ मानु॑षा ॥१

इन्द्रा॑य । हि । द्यौः । असु॑रः । अन॑म्नत । इन्द्रा॑य । म॒ही । पृ॒थि॒वी । वरी॑मऽभिः । द्यु॒म्नऽसा॑ता । वरी॑मऽभिः ।

इन्द्र॑म् । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । द॒धि॒रे॒ । पु॒रः ।

इन्द्रा॑य । विश्वा॑ । सव॑नानि । मानु॑षा । रा॒तानि॑ । स॒न्तु॒ । मानु॑षा ॥१

इन्द्राय । हि । द्यौः । असुरः । अनम्नत । इन्द्राय । मही । पृथिवी । वरीमऽभिः । द्युम्नऽसाता । वरीमऽभिः ।

इन्द्रम् । विश्वे । सऽजोषसः । देवासः । दधिरे । पुरः ।

इन्द्राय । विश्वा । सवनानि । मानुषा । रातानि । सन्तु । मानुषा ॥१

“द्यौः द्योतनशीलो द्युलोकः तन्निवासी देवसंघः वा स च "असुरः निरसनशीलः शत्रूणां पुण्यकृतामेव तन्निवासात् “इन्द्राय “हि इन्द्रायैव “अनम्नत स्वयमेव प्रह्वो भवति ।। नमेश्छान्दसे लङि कर्मकर्तरि आत्मनेपदम् ।‘न दुहस्नुनमाम्' (पा. सू. ३. १.८९) इति यगभावः। छान्दसः शपः श्लुः। हलादिशेषाभावश्च । अनुनासिकलोपः ।। हिशब्दः प्रसिद्ध्यर्थो वा । तथा “इन्द्राय इन्द्रार्थं “मही महती “पृथिवी भूमिः तत्रत्यः सर्वो जनो वा अनम्नत । उभयत्र आश्रयवाचिशब्देन आश्रयी लक्ष्यते ग्रामः आगतः इतिवत् । केन साधनेन इति तदुच्यते । “वरीमभिः वरणीयैः स्तोत्रैर्हविर्भिर्वा । किंच “द्युम्नसाता द्युम्नसातौ अन्नस्य यशसो वा लाभे निमित्ते सति “वरीमभिः वरणीयैर्हविभिर्युक्ता यजमानाः प्रह्वा भवन्ति। किंच “इन्द्रम् एव “विश्वे सर्वे “देवासः देवाः “सजोषसः समानप्रीतियुक्ता ऐकमत्यभाजः पूर्वमसुरजयार्थं “पुरः “दधिरे पुरतः स्थापितवन्तः इन्द्रमुखेनैवासुरान् जितवन्तः इत्यर्थः। तथा “मानुषा “सवनानि मनुष्याणां संबन्धीनि अभिषवयुक्तानि प्रातरादिसवनानि “इन्द्राय “सन्तु इन्द्रायैव भवन्तु । तथा “मानुषा मनुष्याणामृत्विजां संबन्धीनि “रातानि दातव्यानि पुरोडाशादीनि इन्द्राय हि इन्द्रायैव सन्तु इन्द्रं प्रीणयितुं समर्थानि भवन्त्वित्यर्थः ॥


विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तुं॒जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क् स्वः॑ सनि॒ष्यवः॒ पृथ॑क् ।

तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि ।

इंद्रं॒ न य॒ज्ञैश्चि॒तयं॑त आ॒यवः॒ स्तोमे॑भि॒रिंद्र॑मा॒यवः॑ ॥२

विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यवः । पृथ॑क् । स्व१॒॑रिति॑ स्वः॑ । स॒नि॒ष्यवः॑ । पृथ॑क् ।

तम् । त्वा॒ । नाव॑म् । न । प॒र्षणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ ।

इन्द्र॑म् । न । य॒ज्ञैः । चि॒तय॑न्तः । आ॒यवः॑ । स्तोमे॑भिः । इन्द्र॑म् । आ॒यवः॑ ॥२

विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृषऽमन्यवः । पृथक् । स्वरिति स्वः । सनिष्यवः । पृथक् ।

तम् । त्वा । नावम् । न । पर्षणिम् । शूषस्य । धुरि । धीमहि ।

इन्द्रम् । न । यज्ञैः । चितयन्तः । आयवः । स्तोमेभिः । इन्द्रम् । आयवः ॥२

हे इन्द्र “त्वा त्वाम् “एकम् एकमेव सन्तं “विश्वेषु सर्वेषु “सवनेषु तद्वत्सु एकाहाहीनसत्ररूपेषु सर्वेषु सोमयागेषु यजमानाः “तुञ्जते त्वरयन्ति हविरादीनि ददते । कीदृशं त्वाम् । “समानं सर्वेषामेकरूपम् । कीदृशा यजमानाः । “वृषमण्यवः अभिमतवर्षणाय त्वामेव मन्यमानाः “पृथक् विविच्य स्वस्वयागे । किमिच्छन्तः । “स्वः स्वर्ग सुखविशेषं वा “सनिष्यवः संभक्तुकामाः “पृथक् तुञ्जते पृथगेव त्वरयन्ति । तुञ्जतिर्दानार्थः, ‘ शिक्षति तुञ्जते '(नि. ३.२०.८) इति तन्नामसु पाठात् । “तं तादृशं “त्वा त्वां “शूषस्य बलस्य सेनारूपस्य “धुरि वहने तज्जयाय “धीमहि स्थापयामः । यद्वा । शूषस्य अस्मदीयशारीरबलस्य धुरि धीमहि। शूषमिति बलनाम, ‘ शूषं सहः' (नि.२. ९. १६) इति तन्नामसु पाठात् । तत्र दृष्टान्तः । पर्षणिं नावं “न पारस्य संभक्त्रीं पूरयित्रीं वा - फलस्य नावमिव। तां यथा भारवहने स्थापयन्ति ।। ‘पार तीर कर्मसमाप्तौ'। ‘छन्दसि वनसन' (पा. सू. ३.२.२७) इति सनेः इन्प्रत्ययः । पृषोदरादिः । पिपर्तेः औणादिकः सनिप्रत्ययो वा ॥ कीदृशा ववम् । “आयवः मनुष्या यजमानाः “यज्ञैः साधनैः “इन्द्रं “न “चितयन्तः परमेश्वरमिव वां चेतयन्तः परमेश्वरबुद्ध्या भावयन्त इत्यर्थः । यद्वा नशब्दः एवकारार्थः । इन्द्रमेव त्वां जानन्तः । तथा स्तोमेभिः स्तोत्रैः “इन्द्रम् इन्द्रमेव “आयवः गच्छन्तो वयं धीमहि ॥ दधातेर्लिङि छान्दसः शपो लुक् ॥


वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्षं॑त इंद्र निः॒सृजः॑ ।

यद्ग॒व्यंता॒ द्वा जना॒ स्व१॒॑र्यंता॑ स॒मूह॑सि ।

आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिंद्र सचा॒भुवं॑ ॥३

वि । त्वा॒ । त॒त॒स्रे॒ । मि॒थु॒नाः । अ॒व॒स्यवः॑ । व्र॒जस्य॑ । सा॒ता । गव्य॑स्य । निः॒ऽसृजः॑ । सक्ष॑न्तः । इ॒न्द्र॒ । निः॒ऽसृजः॑ ।

यत् । ग॒व्यन्ता॑ । द्वा । जना॑ । स्वः॑ । यन्ता॑ । स॒म्ऽऊह॑सि ।

आ॒विः । करि॑क्रत् । वृष॑णम् । स॒चा॒ऽभुव॑म् । वज्र॑म् । इ॒न्द्र॒ । स॒चा॒ऽभुव॑म् ॥३

वि । त्वा । ततस्रे । मिथुनाः । अवस्यवः । व्रजस्य । साता । गव्यस्य । निःऽसृजः । सक्षन्तः । इन्द्र । निःऽसृजः ।

यत् । गव्यन्ता । द्वा । जना । स्वः । यन्ता । सम्ऽऊहसि ।

आविः । करिक्रत् । वृषणम् । सचाऽभुवम् । वज्रम् । इन्द्र । सचाऽभुवम् ॥३

हे “इन्द्र “त्वा त्वामुद्दिश्य “मिथुनाः पत्नीसहिता यजमानाः “वि ततस्रे यज्ञं वितन्वते । यद्वा । यज्ञे पयोव्रतादिना आत्मानमुपक्षयन्ति ।। ‘ तसु उपक्षये '। छान्दसे लिटि ‘ इरयो रे' इति रेभावः ॥ किमर्थम् । “गव्यस्य “व्रजस्य “साता गवां संबन्धिनो यूथस्य लाभे निमित्तभूते सति । न च सर्वत्र अग्निहोत्रादिनित्यवाक्येषु कारीरीचित्रादिकाम्यवाक्येषु यस्योदयं यस्य गृहान् इत्यादिनैमित्तिकवाक्येषु पुरुषस्यैव अर्थित्वादेः सद्भावात् तस्यैवाधिकारः स्त्रियास्तु सत्यप्यर्थित्वे अध्ययनाभावेन विद्वत्ताया अभावात् अत एव सामर्थ्याभावाच्च नास्त्यधिकारः इति वाच्यम् । यद्यपि स्त्रियाः नास्ति पृथगधिकारस्तथापि पूर्वमीमांसायां षष्ठेऽधिकाराध्याये तृतीयचतुर्थाभ्यामधिकरणाभ्यां अस्त्येव स्त्रिया अधिकारः स च पत्या सहेति प्रपञ्चितत्वात् “ जायापती अग्निमादधीयाताम्' इत्याधानविधानात् स्मृतिषु च नास्ति स्त्रीणां पृथग्यज्ञो न व्रतम् ' (मनु. ५. १५५) इति पृथगधिकारस्यैव निवारितत्वात् अस्त्येव स्त्रियाः पत्या सहाधिकारः । अध्ययनाभावेऽपि वेदं पत्न्यै प्रदाय वाचयेत् ' ( आश्व. श्रौ. १. ११) इति सूत्रकारवचनात् ‘पत्न्यन्वास्ते' इत्यादिविधिषु ‘सुप्रजसस्त्वा वयम् '(तै. सं. १. १. १०. १ ) इत्यादिमन्त्रविधानात् यत्र वचनमस्ति तत्र अस्त्येव मन्त्रेऽधिकारः किं हि वचनेन कुर्यात् नास्ति वचनस्यातिभारः इति न्यायात् । तस्मात् मिथुना यज्ञं ततस्रे इत्येतत् युक्तम् । कीदृशास्ते। “अवस्यवः इन्द्राय आत्मने वा तृप्तिमिच्छन्तः “निःसृजः निःशेषेण हविस्त्यजन्तः "सक्षन्तः ॥ सक्षतिर्गत्यर्थः । त्वां संभजमानाः । पुनस्त एव विशेष्यन्ते । “निःसृजः फलप्रतिबन्धकं पापं निर्गमयन्तः । कस्तव विशेष इति तदुच्यते। “यत् यस्मात् कारणात् “गव्यन्ता गामात्मनः इच्छन्तौ ॥ गोशब्दात् ‘सुप आत्मनः क्यच्'। ‘वान्तो यि प्रत्यये ' इति अवादेशः “स्वर्यन्ता स्वर्गं यन्तौ गन्तुमुद्युक्तौ “द्वा "जना द्वौ जायापतिरूपौ जनौ “समूहसि संयुक्तयोः एव अभिमतं स्वर्गादिकं प्रापयसि । यद्वा । सम्यगनुष्ठितवन्तौ इत्यूहसि निश्चिनोषि । अतः पत्नीसहिता अनुतिष्ठन्तीत्यर्थः । किंच हे “इन्द्र त्वं “वृषण वर्षकं कामानां “सचाभुवं सहैवोत्पन्नं त्वया अविनाभूतं तथा “सचाभुवं शत्रुवधादिव्यापारसामर्थ्येन' सहैवोत्पन्नं "वज्रम् "आविष्करिक्रत् आविष्कुर्वन् प्रकटयन् वर्तसे इति शेषः ॥


वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रवः॒ पुरो॒ यदिं॑द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः ।

शास॒स्तमिं॑द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते ।

म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो मं॑दसा॒न इ॒मा अ॒पः ॥४

वि॒दुः । ते॒ । अ॒स्य । वी॒र्य॑स्य । पू॒रवः॑ । पुरः॑ । यत् । इ॒न्द्र॒ । शार॑दीः । अ॒व॒ऽअति॑रः । स॒स॒हा॒नः । अ॒व॒ऽअति॑रः ।

शासः॑ । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अय॑ज्युम् । श॒व॒सः॒ । प॒ते॒ ।

म॒हीम् । अ॒मु॒ष्णाः॒ । पृ॒थि॒वीम् । इ॒माः । अ॒पः । म॒न्द॒सा॒नः । इ॒माः । अ॒पः ॥४

विदुः । ते । अस्य । वीर्यस्य । पूरवः । पुरः । यत् । इन्द्र । शारदीः । अवऽअतिरः । ससहानः । अवऽअतिरः ।

शासः । तम् । इन्द्र । मर्त्यम् । अयज्युम् । शवसः । पते ।

महीम् । अमुष्णाः । पृथिवीम् । इमाः । अपः । मन्दसानः । इमाः । अपः ॥४

हे “इन्द्र “ते “वीर्यस्य तव संबन्धिनः “अस्य वीर्यस्य ॥ कर्मणि षष्ठी ।। वक्ष्यमाणमेतद्वीर्यं “विदुः । ये “पूरवः मनुष्या यजमानास्तव महत्त्वं जानानाः त्वामेव यजन्ति “ते विदुः । यद्वा । अस्य वीर्यस्य माहात्म्यम् इति शेषः ॥ विदुष्टे इत्यत्र ‘युष्मत्तत्ततक्षुषु° ' इति विसर्जनीयस्य सत्वम् ॥ वीर्यमेव विशेष्यते । हे इन्द्र. "यत् यस्मात् कारणात् "शारदीः संवत्सरसंबन्धिनीः संवत्सरपर्यन्तं प्राकारपरिखादिभिर्दृढीकृताः “पुरः शत्रूणां पुरीः "अवातिरः अनाशयः ॥ अवपूर्वस्तिरतिर्नाशनार्थः ॥ किं कुर्वन् । 'ससहानः तत्रत्यानभिभवन् धनाद्यपहारेण पीडयन् ॥ सहतेर्यङ्लुगन्तात् ताच्छीलिकः चानश् । “अवातिरः । किंच हे "इन्द्र “तं “मर्त्यं मरणधर्माणम् "अयज्युम् अयष्टारं यज्ञविघातिनं राक्षसादि “शासः निगृहीतवानसि। हे "शवसस्पते बलस्य पालकेन्द्र त्वं 'महीं महतीं “पृथिवीम् “इमाः "अपः च समुद्रनद्यात्मकान्युदकानि च "अमुष्णाः बलात् अपहृतवानसि । असुरैरन्यैर्वा यज्ञविद्वेषिभिः आक्रान्तां भूमिं तत्संबन्धिनीरपश्च तेषां पुराणि भित्त्वा अपहृतवानसीत्यर्थः । किं दुःखेन । नेत्याह । “मन्दसानः हृष्यन्नेव “इमाः "अपः इमानि अप्कार्याणि व्रीह्याद्यन्नानि अमुष्णाः लब्धवानसि ॥


आदित्ते॑ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ ।

च॒कर्थ॑ का॒रमे॑भ्यः॒ पृत॑नासु॒ प्रवं॑तवे ।

ते अ॒न्याम॑न्यां न॒द्यं॑ सनिष्णत श्रव॒स्यंतः॑ सनिष्णत ॥५

आत् । इत् । ते॒ । अ॒स्य । वी॒र्य॑स्य । च॒र्कि॒र॒न् । मदे॑षु । वृ॒ष॒न् । उ॒शिजः॑ । यत् । आवि॑थ । स॒खि॒ऽय॒तः । यत् । आवि॑थ ।

च॒कर्थ॑ । का॒रम् । ए॒भ्यः॒ । पृत॑नासु । प्रऽव॑न्तवे ।

ते । अ॒न्याम्ऽअ॑न्याम् । न॒द्य॑म् । स॒नि॒ष्ण॒त॒ । श्र॒व॒स्यन्तः॑ । स॒नि॒ष्ण॒त॒ ॥५

आत् । इत् । ते । अस्य । वीर्यस्य । चर्किरन् । मदेषु । वृषन् । उशिजः । यत् । आविथ । सखिऽयतः । यत् । आविथ ।

चकर्थ । कारम् । एभ्यः । पृतनासु । प्रऽवन्तवे ।

ते । अन्याम्ऽअन्याम् । नद्यम् । सनिष्णत । श्रवस्यन्तः । सनिष्णत ॥५

हे इन्द्र “आत् अत एव हेतोः “ते “वीर्यस्य तव संबन्धिने वीर्याय तदभिवृद्धये “चर्किरन् पुनः पुनः सोमं विकिरन्ति । किरतेर्यङ्लुगन्तात् व्यत्ययेन शः ॥ सर्वेषु सवनेषु वितरन्ति यजमानाः । अत इत्युक्तं कुत इत्याह । “मदेषु “वृषन् सोमजनितमदेषु सत्सु हे कामानां वर्षितः “उशिजः त्वां कामयमानान् यजमानान् “यत् यतः कारणात् "आविथ रक्षसि । किंच “सखीयतः तव सखित्वमात्मन इच्छतोऽस्मान् “यत् यस्मात् “आविथ तर्पयसि अभिमतेन प्रीणयसि अतश्चर्किरन् । किंच हे इन्द्र “एभ्यः यजमानेभ्यः “कारं शब्दं सिंहनादलक्षणं “चकर्थ करोषि ॥ करोतेः कर्मणि घञ् । ‘कर्षात्वतः इत्यन्तोदात्तत्वम् ॥ कुत्रेति तदुच्यते । “पृतनासु संग्रामेषु । किमर्थम् । “प्रवन्तवे प्रकर्षेण वनितुं संभक्तुम् । युद्धाय हि धीराः संभजन्ते ॥ वनतेस्तुमर्थे तवेन्प्रत्ययः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् ॥ किंच “ते तव संग्रामवासिनः त्वयि “अन्यामन्याम् अन्यांश्चान्यांश्च अन्यमन्यं प्रति ॥ कर्मव्यतिहारे सर्वनाम्नो द्विर्वचनम् ॥ “नद्यं नदिं सन्तोषं समृद्धिम् ॥ ‘टुनदि समृद्धौ । पूर्वरूपत्वं बाधित्वा छान्दसो यणादेशः ॥ “सनिष्णत संभजन्ते ॥ सनेलेंटि' सिब्बहुलम्' इति सिप् । इट् । व्यत्ययेन पुनः श्नाप्रत्ययः । ‘ आत्मनेपदेष्वनतः' इत्यदादेशे ‘श्नाभ्यस्तयोरातः' इत्याकारलोपः । छान्दसः टेः एत्वाभावः ॥ तथा “श्रवस्यन्तः अन्नमिच्छन्तो जयाल्लब्धमन्नं काङ्क्षन्तः “सनिष्णत संभजन्ते ॥


उ॒तो नो॑ अ॒स्या उ॒षसो॑ जु॒षेत॒ ह्य१॒॑र्कस्य॑ बोधि ह॒विषो॒ हवी॑मभिः॒ स्व॑र्षाता॒ हवी॑मभिः ।

यदिं॑द्र॒ हंत॑वे॒ मृधो॒ वृषा॑ वज्रि॒ञ्चिके॑तसि ।

आ मे॑ अ॒स्य वे॒धसो॒ नवी॑यसो॒ मन्म॑ श्रुधि॒ नवी॑यसः ॥६

उ॒तो इति॑ । नः॒ । अ॒स्याः । उ॒षसः॑ । जु॒षेत॑ । हि । अ॒र्कस्य॑ । बो॒धि॒ । ह॒विषः॑ । हवी॑मऽभिः । स्वः॑ऽसाता । हवी॑मऽभिः ।

यत् । इ॒न्द्र॒ । हन्त॑वे । मृधः॑ । वृषा॑ । व॒ज्रि॒न् । चिके॑तसि ।

आ । मे॒ । अ॒स्य । वे॒धसः॑ । नवी॑यसः । मन्म॑ । श्रु॒धि॒ । नवी॑यसः ॥६

उतो इति । नः । अस्याः । उषसः । जुषेत । हि । अर्कस्य । बोधि । हविषः । हवीमऽभिः । स्वःऽसाता । हवीमऽभिः ।

यत् । इन्द्र । हन्तवे । मृधः । वृषा । वज्रिन् । चिकेतसि ।

आ । मे । अस्य । वेधसः । नवीयसः । मन्म । श्रुधि । नवीयसः ॥६

अयमिन्द्रः “नः अस्माकं संबन्धिनीम् “अस्याः "उषसः । कर्मणि षष्ठी ॥ एतामुषसं सुत्याहःसंबन्धिनमुषःकालम् “उतो "जुषेत अपि नाम सेवेत । उषस्येव अस्माकमयमिन्द्रो यज्ञं गच्छेदित्यर्थः । हिः पूरणार्थः । गत्वा च "अर्कस्य “हविषः ॥ पूर्ववत्कर्मणि षष्ठी ॥ अर्चनसाधनं हविः “हवीमभिः हवनप्रकारविशेषैः दत्तं हविः उतो “बोधि अपि नाम जानीहि । किंच “स्वर्षाता स्वर्गस्यान्यस्य सुखविशेषस्य वा संभजनस्थाने यज्ञे “हवीमभिः आह्वानैः आहूतो भवेति शेषः । अस्माभिराहूतः सन् उषस्येवागत्य हविः स्वीकरोषीत्यर्थः । कस्मादिदमुच्यते । “यत् यस्मात् कारणात् हे "वज्रिन् वज्रयुक्त “इन्द्र "मृधः हिंसकाञ्छत्रून् “हन्तवे हन्तुं “वृषा वर्षिता सन् कामानां “चिकेतसि अवबुध्यसे ।। ‘कित ज्ञाने'। जौहोत्यादिकः । लेट्यडागमः । ‘ नाभ्यस्तस्याचि पिति° ' इत्यत्र ‘छन्दसि बहुलम्' इति वचनात् लघूपधगुणप्रतिषेधाभावः। ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । तस्मात् ब्रूमः । हे इन्द्र “मे मम “मन्म मननीयं स्तोत्रम् "आ “श्रुधि सर्वतः शृणु । कीदृशस्य मे । “वेधसः मेधाविनः "नवीयसः नवतरस्य । दीक्षितसंस्कारैः संस्कृतत्वात् नवीयस्त्वम् । पुनर्विशेष्यते । “नवीयसः अतिशयेन नवनवतः असाधारणस्तुतिमतः । अत्र यजमानविशेषणैः तत्कर्तृकं स्तोत्रमेव विशिष्टं भवति ।


त्वं तमिं॑द्र वावृधा॒नो अ॑स्म॒युर॑मित्र॒यंतं॑ तुविजात॒ मर्त्यं॒ वज्रे॑ण शूर॒ मर्त्यं॑ ।

ज॒हि यो नो॑ अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः ।

रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ॥७

त्वम् । तम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्म॒ऽयुः । अ॒मि॒त्र॒ऽयन्त॑म् । तु॒वि॒ऽजा॒त॒ । मर्त्य॑म् । वज्रे॑ण । शू॒र॒ । मर्त्य॑म् ।

ज॒हि । यः । नः॒ । अ॒घ॒ऽयति॑ । शृ॒णु॒ष्व । सु॒श्रवः॑ऽतमः ।

रि॒ष्टम् । न । याम॑न् । अप॑ । भू॒तु॒ । दुः॒ऽम॒तिः । विश्वा॑ । अप॑ । भू॒तु॒ । दुः॒ऽम॒तिः ॥७

त्वम् । तम् । इन्द्र । ववृधानः । अस्मऽयुः । अमित्रऽयन्तम् । तुविऽजात । मर्त्यम् । वज्रेण । शूर । मर्त्यम् ।

जहि । यः । नः । अघऽयति । शृणुष्व । सुश्रवःऽतमः ।

रिष्टम् । न । यामन् । अप । भूतु । दुःऽमतिः । विश्वा । अप । भूतु । दुःऽमतिः ॥७

हे “इन्द्र “तुविजात अस्मत्स्तुत्या बहुभावमापन्न “शूर विक्रान्त “त्वं “ववृधानः अत्यर्थं वर्धमानः “अस्मयुः अस्मान् त्वद्भक्तान् कामयमानस्त्वम् “अमित्रयन्तम् अस्मासु शत्रुत्वमाचरन्तं “मर्त्यं मरणस्वभावं “तं “मर्त्यं “वज्रेण "जहि ॥ ‘ हन्तेर्जः' इति जादेशः । तस्य ‘असिद्धवदत्रा भात् ' इत्यसिद्धत्वात् हेर्लुगभावः ॥ तमित्युक्तं कमित्याह । “यः मर्त्यः “नः अस्माकम् “अघायति अघं पापं दुःखं वा इच्छति तं जहि ॥ ‘ अश्वाघस्यात्' इति आत्वम् ॥ किंच “सुश्रवस्तमः अतिशयेन शोभनश्रवणः त्वं “शृणुष्व श्रावय अस्मद्वाक्यम् । कीदृशं तदिति तदुच्यते । हे इन्द्र त्वत्प्रसादात् “दुर्मतिः अस्मज्जिघांसाविषया दुष्टा बुद्धिः "अप “भूतु अपगता भवतु ॥ छान्दसः शपो लुक् ॥ ‘ भूसुवोस्तिङि' इति गुणप्रतिषेधः ॥ न केवलं हिंसारूपा अपि तु "विश्वा सर्वापि क्रोधपरिवादादिरूपा “अप "भूतु । तत्र दृष्टान्तः । “यामन् यामनि अध्वनि "रिष्टं “न । अध्वनः श्रमेण हिंसितं परिश्रान्तं यथा दुर्मतिश्चौरादिविषया बाधते तद्वत् अस्मान् बाधमाना दुर्मतिः अपगच्छतु । यद्वा । यामनि मार्गे यज्ञादिरूपे रिष्टम् असुरकृतहिंसादिरूपं विघ्नं परिहरसि तद्वत् ॥ ॥ २० ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३१&oldid=207804" इत्यस्माद् प्रतिप्राप्तम्