ऋग्वेदः सूक्तं १.१४५
← सूक्तं १.१४४ | ऋग्वेदः - मण्डल १ सूक्तं १.१४५ दीर्घतमा औचथ्यः |
सूक्तं १.१४६ → |
दे. अग्निः। जगती, ५ त्रिष्टुप्। |
तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते ।
तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥१॥
तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥२॥
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥३॥
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥४॥
स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥५॥
सायणभाष्यम्
' तं पृच्छत ' इति पञ्चर्चं पञ्चमं सूक्तम् । अत्रानुक्रमणिका-' तं पृच्छत पञ्चान्त्या त्रिष्टुप् इति । दीर्घतमा ऋषिः । पूर्वत्र ‘ आग्नेयं तु तत्' इत्युक्तत्वात् इदमप्याग्नेयम् । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । प्रातरनुवाकाश्विनशस्त्रयोरस्य विनियोग उक्तः ॥
तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते ।
तस्मि॑न्त्संति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ॥१
तम् । पृ॒च्छ॒त॒ । सः । ज॒गा॒म॒ । सः । वे॒द॒ । सः । चि॒कि॒त्वान् । ई॒य॒ते॒ । सः । नु । ई॒य॒ते॒ ।
तस्मि॑न् । स॒न्ति॒ । प्र॒ऽशिषः॑ । तस्मि॑न् । इ॒ष्टयः॑ । सः । वाज॑स्य । शव॑सः । शु॒ष्मिणः॑ । पतिः॑ ॥१
तम् । पृच्छत । सः । जगाम । सः । वेद । सः । चिकित्वान् । ईयते । सः । नु । ईयते ।
तस्मिन् । सन्ति । प्रऽशिषः । तस्मिन् । इष्टयः । सः । वाजस्य । शवसः । शुष्मिणः । पतिः ॥१
हे यजमानाः “तम् अग्निं “पृच्छत । यत्स्वर्गादिविषयं प्रष्टव्यमस्ति तत् । तस्यैव प्रष्टव्यत्वे अतिशयमाह । “स “जगाम स सर्वत्र गच्छति । अत एव “स "वेद स च प्रष्टव्यं जानाति । किमितरसाधारण्येन नेत्याह । “स “चिकित्वान् स एव चेतनावान् । स विशेषज्ञ इत्यर्थः । सः एव “ईयते ज्ञेयसकाशं गच्छति । पुनर्गतिरेव विशेष्यते । “सः सोऽग्निरेव “नु क्षिप्रम् “ईयते । यत् यजमानस्य ज्ञेयमस्ति तमर्थं ज्ञातुं शीघ्रमेव गच्छतीत्यर्थः । यद्वा । ज्ञानार्थम् ईयते सेव्यते । तथा शीघ्रमनुसेव्यते । यस्मादयमुक्तरूपः तस्मात्तमेव पृच्छतेत्यर्थः । तत्र अपेक्षिताः कामाः सन्तीत्याह । “तस्मिन् अग्नौ “प्रशिषः प्रशासनानि नियमनसामर्थ्यानि “सन्ति । असाध्यं नियम्यापि साधयितुं शक्त इत्यर्थः । किंच “तस्मिन् एवाग्नौ “इष्टयः एष्टव्या भोगाः सर्वफलसाधका यागा वा सन्ति । किंच “सः अग्निः “वाजस्य अन्नस्य “शवसः बलस्य च "पतिः पालयिता दाता । किंच “शुष्मिणः बलवतो राजादेरपि पतिः स्वामी । यस्मादयं महानुभावस्तस्मात्तमेव पृष्ट्वा पुरुषार्थं साधयतेति ॥
तमित्पृ॑च्छंति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने॑व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् ।
न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा॑ सचते॒ अप्र॑दृपितः ॥२
तम् । इत् । पृ॒च्छ॒न्ति॒ । न । सि॒मः । वि । पृ॒च्छ॒ति॒ । स्वेन॑ऽव । धीरः॑ । मन॑सा । यत् । अग्र॑भीत् ।
न । मृ॒ष्य॒ते॒ । प्र॒थ॒मम् । न । अप॑रम् । वचः॑ । अ॒स्य । क्रत्वा॑ । स॒च॒ते॒ । अप्र॑ऽदृपितः ॥२
तम् । इत् । पृच्छन्ति । न । सिमः । वि । पृच्छति । स्वेनऽव । धीरः । मनसा । यत् । अग्रभीत् ।
न । मृष्यते । प्रथमम् । न । अपरम् । वचः । अस्य । क्रत्वा । सचते । अप्रऽदृपितः ॥२
पूर्वमन्त्रेऽग्निं पृच्छतेत्युक्तम् । अत्र तु सोऽनुनयेन प्रष्टव्यः इत्याह । “तमित् तमेवाग्निं “पृच्छन्ति स तु नान्यं पृच्छति प्रश्नसमयेऽपि । “सिमः सर्वजनः “न “वि “पृच्छति विपरीतं न पृच्छति । पृष्टोऽपि “धीरः धीमानयं “स्वेनेव "मनसा । इवशब्दः एवार्थे । स्वकीययैव बुद्ध्या “यत् यत्कार्यम् “अग्रभीत् वदामीत्यादत्ते तदेव प्रतिब्रूते न तु प्रश्नानुकूलम् । स्वतन्त्रेश्वर इत्युक्तं भवति । यद्वा । प्रष्टा धीमान् स्वेन मनसा वाचा वाच्यं विचार्य यदग्रभीत् यद्वाक्यं वक्तव्यत्वेन स्वीकुर्यात् तदेवाग्निं पृच्छति न तु बहु भाषते इत्यर्थः । परवाक्यासह्यत्वमाह । अयमग्निः “प्रथमं “वचः स्ववाक्यात्पूर्वभावि वचनं “न "मृष्यते न सहते । तथा अपरं वचः स्वोक्त्यनन्तरभावि प्रतिवचनं “न मृष्यते । यस्मादयमेवंविधस्तस्मात् "अप्रदृपितः अप्रदृप्तः यद्वा तेन शिक्षितोऽनुद्दण्डः सर्वो लोकः “अस्य महानुभावस्याग्नेः “क्रत्वा क्रतुना रक्षणादिकर्मणा सह “सचते संगच्छते जीवतीत्यर्थः ।।
तमिद्ग॑च्छंति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्वचां॑सि मे ।
पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ॥३
तम् । इत् । ग॒च्छ॒न्ति॒ । जु॒ह्वः॑ । तम् । अर्व॑तीः । विश्वा॑नि । एकः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ ।
पु॒रु॒ऽप्रै॒षः । ततु॑रिः । य॒ज्ञ॒ऽसाध॑नः । अच्छि॑द्रऽऊतिः । शिशुः॑ । आ । अ॒द॒त्त॒ । सम् । रभः॑ ॥३
तम् । इत् । गच्छन्ति । जुह्वः । तम् । अर्वतीः । विश्वानि । एकः । शृणवत् । वचांसि । मे ।
पुरुऽप्रैषः । ततुरिः । यज्ञऽसाधनः । अच्छिद्रऽऊतिः । शिशुः । आ । अदत्त । सम् । रभः ॥३
"जुह्वः अस्मदीया जुहूपभृदादयः “तमित् तमेवोद्दिश्य आज्यपूर्णाः सत्यः गच्छन्ति प्रीणयितुम् । यद्वा । हूयन्ते इति जुह्वः आहुतयः सोमादिरूपाः । अथवा जुह्वादिषु स्थितानि आज्यानि अपि आश्रयाश्रयिणोः अभेदेन जुह्वः इत्युच्यन्ते ' मञ्चाः क्रोशन्ति' इतिवत् । ता अपि तमेव गच्छन्ति अस्य सर्वदेवतात्मकत्वात् । अत्रैव इतरदेवतार्थमपि हूयमानं च इति भावः। किंच “अर्वतीः प्राप्तिमत्यः स्तुतयः “तम् इत् तमैवाग्निं गच्छन्ति सर्वदेवतात्मकत्वादेव । सः एव “एकः अयमग्निः “विश्वानि “मे मदीयानि “वचांसि स्तोत्ररूपाणि “शृणवत् शृणोति । अग्नेः सर्वदेवतात्मकत्वं तैत्तिरीया आहुः-’ ते देवा बिभ्यतोऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवताः' (तै. सं. ६. २. २. ६ ) इति । तथा अत्रैव पुरस्तादाम्नास्यते- त्वमग्ने वरुणो जायसे यत्त्वं मित्रः ' ( ऋ. सं. ५. ३. १ ) इत्यादि । कोऽस्य विशेषः इत्युच्यते । “पुरुप्रैषः बहुप्रैषभाक् । यद्वा । बहुप्रेषणः । सर्वस्याज्ञापयितेत्यर्थः । “ततुरिः तारयिता । तरतेः अन्तर्भावितण्यर्थात् “ आदृगमहनः० ' इति किन्प्रत्ययः । ‘ बहुलं छन्दसि' इति उत्वम् ॥ “यज्ञसाधनः यज्ञसाधकः अग्न्यधीनत्वाद्यज्ञस्य । “अच्छिद्रोतिः अविच्छिन्नरक्षणः “शिशुः शिशुवत्प्रियकारी शोचयिता वा शत्रूणाम् । एवंभूतोऽग्निः “सं “रभः यज्ञादिसंरम्भवान् सन् “आदत्त आदत्ते हविरादिकं स्वीकरोति ॥
उ॒प॒स्थायं॑ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः ।
अ॒भि श्वां॒तं मृ॑शते नां॒द्ये॑ मु॒दे यदीं॒ गच्छं॑त्युश॒तीर॑पिष्ठि॒तं ॥४
उ॒प॒ऽस्थाय॑म् । च॒र॒ति॒ । यत् । स॒म्ऽआर॑त । स॒द्यः । जा॒तः । त॒त्सा॒र॒ । युज्ये॑भिः ।
अ॒भि । श्वा॒न्तम् । मृ॒श॒ते॒ । ना॒न्द्ये॑ । मु॒दे । यत् । ई॒म् । गच्छ॑न्ति । उ॒श॒तीः । अ॒पि॒ऽस्थि॒तम् ॥४
उपऽस्थायम् । चरति । यत् । सम्ऽआरत । सद्यः । जातः । तत्सार । युज्येभिः ।
अभि । श्वान्तम् । मृशते । नान्द्ये । मुदे । यत् । ईम् । गच्छन्ति । उशतीः । अपिऽस्थितम् ॥४
“यत् यदा अध्वर्युः “उपस्थायं “चरति उपस्थायोपस्थाय अनुतिष्ठति उत्पत्त्यनुकूलव्यापारं करोति । कदेत्याह । यत् “समारत समागच्छत मथनेन आविरभवत् ॥ ‘ समो गम्यृच्छि ' इति अर्तेः आत्मनेपदम् ॥ “सद्यः तदानीमेव “जातः उत्पन्नः सन् "युज्येभिः योक्तुं संबद्धुं समर्थैः फलैः मिश्रयितुमर्हैस्तेजोभिर्वा युक्तः सन् “तत्सार अरण्योर्गूढः सन् चचार । यद्वा । युज्येभिरश्वैर्जातमात्रः एव सर्वत्र संचचार ॥ ‘ त्सर च्छद्मगतौ ' । लिटि णलि रूपम् ॥ एवं प्रवृद्धोऽयं “श्वान्तं श्रान्तं शान्तं वा यजमानं 'नान्द्ये नन्दनीये कर्मणि निमित्तभूते सति “मुदे तस्य संतोषाय "अभि "मृशते अभिमर्शनं करोति । फलप्रदानेनेति भावः । यथा लोके गुर्वादिः श्रान्तं शिष्यादिकं स्पृशति तद्वत् । कदेति चेत् उच्यते । “यत् यदा “अपिष्ठितं व्याप्य वर्तमानम् “ईम् एनमग्निम् "उशतीः कामयमाना आज्यधाराः स्तुतयो वा “गच्छन्ति प्राप्नुवन्ति तदा अभि मृशते ॥
स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि ।
व्य॑ब्रवीद्व॒युना॒ मर्त्ये॑भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥५
सः । ई॒म् । मृ॒गः । अप्यः॑ । व॒न॒र्गुः । उप॑ । त्व॒चि । उ॒प॒ऽमस्या॒म् । नि । धा॒यि॒ ।
वि । अ॒ब्र॒वी॒त् । व॒युना॑ । मर्त्ये॑भ्यः । अ॒ग्निः । वि॒द्वान् । ऋ॒त॒ऽचित् । हि । स॒त्यः ॥५
सः । ईम् । मृगः । अप्यः । वनर्गुः । उप । त्वचि । उपऽमस्याम् । नि । धायि ।
वि । अब्रवीत् । वयुना । मर्त्येभ्यः । अग्निः । विद्वान् । ऋतऽचित् । हि । सत्यः ॥५
“स “ईं स एवाग्निः “उपमस्याम् उपमायामुपमास्पदायां “त्वचि ओषध्यादिभिराच्छादितायाँ वेद्याम् “उप “नि “धायि उपस्थाप्यते उत्तरत्रोपभोगाय । कीदृशः सः। “मृगः मार्जयिता अन्वेषणशीलो वा । ‘मृगो मार्ष्टेर्गतिकर्मणः' (निरु. १.२०) इति यास्कः । “अप्यः आप्यो गन्तव्यः । अपः कर्म तत्र साधुर्वा। “वनर्गुः वनगामी ॥ ऋच्छतेर्गमेः च इदं रूपम् । यद्वा । गमेरेव । उपपदस्य रुडागमश्छान्दसः ॥ एवंभूतः अग्निः “मर्त्येभ्यः मरणधर्मभ्यो यजमानादिरूपेभ्यः वयुनानि प्रज्ञानानि अनुष्ठेयज्ञानानि “व्यब्रवीत् विशेषेण ब्रवीति उपदिशति । वयुनमिति प्रज्ञानाम, ‘ वयुनम् अभिख्या ' (नि. ३. ९. १०) इति तन्नामसु पाठात् । ईदृक् सामर्थ्यमस्तीति दर्शयति । अयम् “अग्निर्विद्वान् सर्वज्ञः “ऋतचित् यज्ञस्योदकस्य वा चेतिता ज्ञाता “सत्यः । सत् क्रियमाणं कर्म । तत्र साधुः । सत्सु भवो वा । सत् फलं तदर्हतीति वा । सम्यक्फलप्रद इत्यर्थः । यस्मादयमुक्तसामर्थ्योपेतः तस्मात् प्रज्ञोपदेशो युक्तः । हिशब्दः प्रसिद्धौ ॥ ॥ १४ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|