प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.१६८

(ऋग्वेद: सूक्तं १.१६८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१६७ ऋग्वेदः - मण्डल १
सूक्तं १.१६८
अगस्त्यो मैत्रावरुणिः।
सूक्तं १.१६९ →
दे. मरुतः। जगती, ८-१० त्रिष्टुप्।
अगस्त्यः


यज्ञायज्ञा वः समना तुतुर्वणिर्धियंधियं वो देवया उ दधिध्वे ।
आ वोऽर्वाचः सुविताय रोदस्योर्महे ववृत्यामवसे सुवृक्तिभिः ॥१॥
वव्रासो न ये स्वजाः स्वतवस इषं स्वरभिजायन्त धूतयः ।
सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥२॥
सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते ।
ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे ॥३॥
अव स्वयुक्ता दिव आ वृथा ययुरमर्त्याः कशया चोदत त्मना ।
अरेणवस्तुविजाता अचुच्यवुर्दृळ्हानि चिन्मरुतो भ्राजदृष्टयः ॥४॥
को वोऽन्तर्मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया ।
धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥५॥
क्व स्विदस्य रजसो महस्परं क्वावरं मरुतो यस्मिन्नायय ।
यच्च्यावयथ विथुरेव संहितं व्यद्रिणा पतथ त्वेषमर्णवम् ॥६॥
सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती ।
भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥७॥
प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति ।
अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति ॥८॥
असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम् ।
ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन् ॥९॥
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥१०॥

सायणभाष्यम्

‘यज्ञायज्ञा' इति दशर्चं चतुर्थं सूक्तमागस्त्यं मारुतम् । अन्त्यास्तिस्रस्त्रिष्टुभः । शिष्टाः सप्त त्रिष्टुबन्तपरिभाषया जगत्यः । यज्ञायज्ञा दश त्रित्रिष्टुबन्तम्' इत्यनुक्रान्तम् । विशेषविनियोगो लैङ्गिकः॥


य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं॑धियं वो देव॒या उ॑ दधिध्वे ।

आ वो॒ऽर्वाच॑ः सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभि॑ः ॥१

य॒ज्ञाऽय॑ज्ञा । वः॒ । स॒म॒ना । तु॒तु॒र्वणिः॑ । धिय॑म्ऽधियम् । वः॒ । दे॒व॒ऽयाः । ऊं॒ इति॑ । द॒धि॒ध्वे॒ ।

आ । वः॒ । अ॒र्वाचः॑ । सु॒वि॒ताय॑ । रोद॑स्योः । म॒हे । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥१

यज्ञाऽयज्ञा । वः । समना । तुतुर्वणिः । धियम्ऽधियम् । वः । देवऽयाः । ऊँ इति । दधिध्वे ।

आ । वः । अर्वाचः । सुविताय । रोदस्योः । महे । ववृत्याम् । अवसे । सुवृक्तिऽभिः ॥१॥

हे मरुतः “वः “समना समीकृतिर्न्यूनाधिकाभावलक्षणा “यज्ञायज्ञा सर्वेष्वपि यज्ञेषु तुर्वणिः तूर्णवनिस्त्वरमाणा संभजमाना भवति । ‘तुर्वणिस्तूर्णवनिः' (निरु, ६. १४ ) इति यास्कः । तत्तद्यागावसरे अगत्य हविः स्वीकृत्य वैकल्यपरिहारेण समं कुरुथेत्यर्थः । किंच “वः यूयं “धियंधियं युष्मत्संबन्धिवृष्टिप्रदानादिरूपं सर्वं कर्म “देवयाः देवान् प्रापयितार एव सन्तः “दधिध्वे धारयथ धारयध्वे वा । देवार्थहविराद्युत्पादनाय वृष्टिं कुरुथेत्यर्थः । यस्मादेवं कुरुथ तस्मात् “वः युष्मान् “अर्वाचः अस्मदभिमुखान् “आ “ववृत्याम् आवर्तयामि । किमर्थम् । “रोदस्योः द्यावापृथिव्योः “महे महते “अवसे रक्षणाय प्रीणनाय वा । तदपि किमर्थमिति । सुविताय सुष्ठु व्याप्ताय। कैः साधनैः। "सुवृक्तिभिः शोभनावर्जनैः स्तोत्रैः ॥


व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जाय॑न्त॒ धूत॑यः ।

स॒ह॒स्रिया॑सो अ॒पां नोर्मय॑ आ॒सा गावो॒ वन्द्या॑सो॒ नोक्षण॑ः ॥२

व॒व्रासः॑ । न । ये । स्व॒ऽजाः । स्वऽत॑वसः । इष॑म् । स्वः॑ । अ॒भि॒ऽजाय॑न्त । धूत॑यः ।

स॒ह॒स्रिया॑सः । अ॒पाम् । न । ऊ॒र्मयः॑ । आ॒सा । गावः॑ । वन्द्या॑सः । न । उ॒क्षणः॑ ॥२

वव्रासः । न । ये । स्वऽजाः । स्वऽतवसः । इषम् । स्वः । अभिऽजायन्त । धूतयः ।।

सहस्रियासः । अपाम् । न । ऊर्मयः । आसा । गावः । वन्द्यासः । न । उक्षणः ॥ २ ॥

"ये मरुतः “वव्रासो “न । वव्रिरिति रूपनाम । रूपवन्त इव । ते यथा प्रकृष्टा लक्ष्यन्ते तद्वत् । यद्वा । अरूपा अपि सरूपा इव । “स्वजाः स्वयमेव स्वस्मात् वा जायमानाः । अनन्यहेतुकाः इत्यर्थः। “धूतयः कम्पनशीलाः सन्ति ते “इषम् अन्नं हविर्लक्षणमन्नसाधनं सस्यादिकं वा “स्वः स्वर्गं च "अभिजायन्त अभिलक्ष्य प्रादुर्भवन्ति । ते दृष्टान्तमुखेन श्रूयन्ते । “अपां “नोर्मयः उदकानामूर्मय इव सहस्रियासः सहस्रसंमिताः तथा “वन्द्यासः बहुक्षीरादिप्रदतवेन स्तुत्याः “गावः “न गाव इव "आसा समीपे एव “उक्षणः वृष्ट्युदकस्य सेक्तारः । तादृशा मरुतः प्रादुर्भवन्तीत्यन्वयः ॥


सोमा॑सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो॑ दु॒वसो॒ नास॑ते ।

ऐषा॒मंसे॑षु र॒म्भिणी॑व रारभे॒ हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ॥३

सोमा॑सः । न । ये । सु॒ताः । तृ॒प्तऽअं॑शवः । हृ॒त्ऽसु । पी॒तासः॑ । दु॒वसः॑ । न । आस॑ते ।

आ । ए॒षा॒म् । अंसे॑षु । र॒म्भिणी॑ऽइव । र॒र॒भे॒ । हस्ते॑षु । खा॒दिः । च॒ । कृ॒तिः । च॒ । सम् । द॒धे॒ ॥३

सोमासः । न । ये । सुताः । तृप्तऽअंशवः । हृत्ऽसु । पीतासः । दुवसः । न । आसते ।

आ। एषाम् । अंसेषु । रम्भिणीऽइव । ररभे । हस्तेषु । खादिः । च । कृतिः । च । सम्। दधे ॥३॥

ये मरुतः “सुताः अभिषुताः “तृप्तांशवः तर्पितावयवाः “सोमासो न सोमा इव । यथा वल्लीरूपाः सोमा अभिषवात्पूर्वमाप्यायनेन तृप्तावयवाः सन्तः पश्चात् सुताः अभिषुताः रसभूताः “पीतासः पीताः सन्तः "हृत्सु पातॄणां हृदयेषु “दुवसो “न “आसते परिचरन्त इवासते तद्वत् ये मरुतो यज्ञे आहूतास्तृप्तावयवा भवन्ति ध्यायमानाः सन्तो हृत्सु हृदयेषु दुवसो न परिचरन्त इवासते । यद्वा । प्राणादिरूपेण शरीरे स्थिताः दुवसः परिचरन्त इव गमनादिचेष्टाः कुर्वन्त आसते । “एषामंसेषु “रम्भिणीव युवतमांसालम्बिनी योषिदिव “आ “रारभे आरेभे आश्लिष्यति । अवलम्बने सामर्थ्यात् शक्त्याख्यायुधविशेषो भुजलक्ष्मीर्वा । किंच “हस्तेषु “खादिः हस्तत्राणकः “च “कृतिः कर्तनी “च खड्गलताष्टिश्च “सं “दधे संधीयते सम्यग्धृता भवति । परस्परसमुच्चयार्थाश्चकाराः । ये मरुतः उक्तरूपाः ते आविर्भवन्तीत्यर्थः ॥


अव॒ स्वयु॑क्ता दि॒व आ वृथा॑ ययु॒रम॑र्त्या॒ः कश॑या चोदत॒ त्मना॑ ।

अ॒रे॒णव॑स्तुविजा॒ता अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ॥४

अव॑ । स्वऽयु॑क्ताः । दि॒वः । आ । वृथा॑ । य॒युः॒ । अम॑र्त्याः । कश॑या । चो॒द॒त॒ । त्मना॑ ।

अ॒रे॒णवः॑ । तु॒वि॒ऽजा॒ताः । अ॒चु॒च्य॒वुः॒ । दृ॒ळ्हानि॑ । चि॒त् । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥४

अव । स्वऽयुक्ताः । दिवः । आ । वृथा । ययुः । अमर्त्याः । कशया । चोदत । त्मना ।

अरेणवः । तुविऽजाताः । अचुच्यवुः । दृळहानि । चित् । मरुतः । भ्राजत्ऽऋष्टयः ॥ ४ ॥

एते मरुतः “स्वयुक्ताः स्वैर्युक्ताः परस्परं संयुक्ताः स्वेन धनेन वा युक्ताः सन्तः “दिवः द्युलोकात् “वृथा अनायासेन “अव “आ “ययुः अवाङ्मुखमागच्छन्ति । हे “अमर्त्याः मरुतः यूयं “त्मना आत्मना स्वयमेव "कशया । वाङ्नामैतत् । वाचा स्तुतिरूपया “चोदत प्रेरयत । स्तोतुमिति शेषः । ते च "मरुतः "अरेणवः अपापाः "तुविजाताः बहुयज्ञेषु प्रादुर्भूताः “भ्राजदृष्टयः दीप्ताः एवंभूताः सन्तः “दृळ्हानि “चित् दृढान्यपि पर्वतानि "अचुच्यवुः च्यावयन्ति चालयन्ति ॥


को वो॒ऽन्तर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे॑व जि॒ह्वया॑ ।

ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा॑ अह॒न्यो॒३॒॑ नैत॑शः ॥५

कः । वः॒ । अ॒न्तः । म॒रु॒तः॒ । ऋ॒ष्टि॒ऽवि॒द्यु॒तः॒ । रेज॑ति । त्मना॑ । हन्वा॑ऽइव । जि॒ह्वया॑ ।

ध॒न्व॒ऽच्युतः॑ । इ॒षाम् । न । याम॑नि । पु॒रु॒ऽप्रैषाः॑ । अ॒ह॒न्यः॑ । न । एत॑शः ॥५

कः । वः । अन्तः । मरुतः । ऋष्टिऽविद्युतः । रेजति । त्मना । हन्वाऽइव । जिह्वया ।।

धन्वऽच्युतः । इषाम् । न । यामनि । पुरुऽप्रैषाः । अहन्यः । न । एतशः ॥ ५ ॥

हे “मरुतः हे “ऋष्टिविद्युतः मेघभेदनायुधविशेषेण विद्योतमानाः युष्माकम् “अन्तः युष्मासु मध्ये स्थित्वा “कः पुमान् “रेजति चालयति प्रेरयति । तर्हि कथं चालनमिति उच्यते । “त्मना आत्मनैव । चालने दृष्टान्तः । “जिह्वया “हन्वेव ॥ द्विवचनस्य आकारः ॥ हनू इव । तौ यथा रसनया चाल्येते तद्वत् । यद्यप्येवं तथापि “इषाम् अन्नानां तत्साधनानां सस्यानां “यामनि प्राप्तौ समृद्ध्यर्थं “धन्वच्युतः “न । धन्वञ्छब्दोऽन्तरिक्षस्य वचनः । तेन तत्स्थमुदकं लक्ष्यते । उदकस्राविणो मेघा इव । ते यथा आकाङ्क्ष्यन्ते तथा युष्मान् अन्नादिप्राप्तये “पुरुप्रैषाः बहुविधं फलमिच्छन् यजमानः स्तोत्रैर्बहुप्रकारमाकारयतीत्यर्थः । तत्र दृष्टान्तः । “अहन्यः अह्नि भवः एतशः “न अश्व इव । स यथा शिक्षकेण नानाप्रकारं प्राप्यते तद्वत् ॥ ॥ ६ ॥


क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य ।

यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वम् ॥६

क्व॑ । स्वि॒त् । अ॒स्य । रज॑सः । म॒हः । पर॑म् । क्व॑ । अव॑रम् । म॒रु॒तः॒ । यस्मि॑न् । आ॒ऽय॒य ।

यत् । च्य॒वय॑थ । वि॒थु॒राऽइ॑व । सम्ऽहि॑तम् । वि । अद्रि॑णा । प॒त॒थ॒ । त्वे॒षम् । अ॒र्ण॒वम् ॥६

क्व। स्वित् । अस्य । रजसः । महः । परम्। क्व। अवरम्। मरुतः । यस्मिन् । आऽयय ।

यत् । च्यवयथ । विथुराऽइव । सम्ऽहितम् । वि । अद्रिणा । पतथ। त्वेषम्। अर्णवम् ॥६॥

हे “मरुतः यूयं “यस्मिन् उदके निमित्तभूते सति “आयय आगच्छत “अस्य “रजसः वृष्ट्युदकस्य लोकस्य वा "महः महतः “परं पारमन्तं “क्व “स्वित् । कुत्रास्तीति । नास्तीत्यर्थः । तथा “अवरम् अवाङ्भागः आदिश्च “क्व स्वित् । कुत्रास्ति । आद्यन्तं न कोऽपि जानातीत्यर्थः । “यत् यदा यूयं “विथुरेव विथुराणि शिथिलानि तृणानीव “संहितम् एकभूतमुदकं “च्यावयथ स्वस्थानात् चालयथ तदा "अद्रिणा वज्रेण “त्वेषं दीप्तम् “अर्णवम् उदकवन्तं मेघं "वि “पतथ विशीर्णं पातयथ ।।।


सा॒तिर्न वोऽम॑वती॒ स्व॑र्वती त्वे॒षा विपा॑का मरुत॒ः पिपि॑ष्वती ।

भ॒द्रा वो॑ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी॑ असु॒र्ये॑व॒ जञ्ज॑ती ॥७

सा॒तिः । न । वः॒ । अम॑ऽवती । स्वः॑ऽवती । त्वे॒षा । विऽपा॑का । म॒रु॒तः॒ । पिपि॑ष्वती ।

भ॒द्रा । वः॒ । रा॒तिः । पृ॒ण॒तः । न । दक्षि॑णा । पृ॒थु॒ऽज्रयी॑ । असु॒र्या॑ऽइव । जञ्ज॑ती ॥७

सातिः । न । वः । अमऽवती । स्वःऽवती । त्वेषा । विऽपाका । मरुतः । पिपिष्वती ।

भद्रा । वः । रातिः । पृणतः । न । दक्षिणा । पृथुऽज्रयी । असुर्याइव । जञ्जती ॥ ७ ॥

हे "मरुतः वः युष्माकं संबन्धिनी "सातिर्न संभक्तिरिव युष्मत्संभजनं यथा प्रशस्तगुणं तद्वत् "वः “रातिः वृष्टयादिविषया "अमवती अमात्यवती इन्द्रादिसहायवती । यथा ‘राजेवामवान' (ऋ. सं. ४. ४. १ ) इत्यत्र अमशब्दोऽमात्यवचनस्तद्वत् । यद्वा । वः सातिः संविभक्तिः न अमवती रोगवती न भवति किंतु “स्वर्वती सुखवती “त्वेषा दीप्ता “विपाका परिपक्कफला “पिपिष्वती पेषणवती कृषीवलैः कर्षणवती । वृष्टौ सत्यां कर्षन्तीति प्रसिद्धम् । स्वविरोधिपेषणवती वा । “भद्रा भन्दनीया स्तुत्या। किंच "पृणतः दातुर्धनिकस्य “दक्षिणा “न दक्षिणेव तद्वत् समृद्धकरी “पृथुज्रयी पृथुजवा शीघ्रगामिनी। किंच "असुर्येव असुरस्य स्वभूता "जञ्जती सर्वानभिभवन्ती शक्तिरिव । सा यथा अन्येभ्योऽपहृत्य अन्यस्मै दातुं समर्था तद्वदियमपि मेघस्थमुदकमपहृत्य जगतो दातुं शक्तेत्यर्थः । ईदृशी रातिः अस्मभ्यमस्त्विति भावः ॥


प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय॑न्ति ।

अव॑ स्मयन्त वि॒द्युत॑ः पृथि॒व्यां यदी॑ घृ॒तं म॒रुत॑ः प्रुष्णु॒वन्ति॑ ॥८

प्रति॑ । स्तो॒भ॒न्ति॒ । सिन्ध॑वः । प॒विऽभ्यः॑ । यत् । अ॒भ्रिया॑म् । वाच॑म् । उ॒त्ऽई॒रय॑न्ति ।

अव॑ । स्म॒य॒न्त॒ । वि॒ऽद्युतः॑ । पृ॒थि॒व्याम् । यदि॑ । घृ॒तम् । म॒रुतः॑ । प्रु॒ष्णु॒वन्ति॑ ॥८

प्रति । स्तोभन्ति । सिन्धवः । पविऽभ्यः । यत् । अभ्रियाम् । वाचम् । उत्ऽईरयन्ति ।

अव । स्मयन्त । विऽद्युतः । पृथिव्याम् । यदि । घृतम् । मरुतः । प्रुष्णुवन्ति ॥ ८ ॥

“पविभ्यः मरुत्संबन्धिवज्रेभ्यः “सिन्धवः स्यन्दनशीला आपः “प्रति “ष्टोभन्ति प्रतिचलन्ति । कदा । “यत् यदा “अभ्रियाम् अभ्रभवां ”वाचं शब्दं स्तनितलक्षणम् “उदीरयन्ति उच्चारयन्ति वज्राणि । किंच “विद्युतः विद्योतमानास्तडितः “पृथिव्याम् अन्तरिक्षे । पृथिवीत्यन्तरिक्षनाम ‘पृथिवी भू:' ( नि. १. ३.९ ) इति तन्नामसूक्तत्वात् । तत्र “अव “स्मयन्त स्मयन्ते अवाङ्मुखं प्रकाशन्ते । पृथिव्याम् इत्येतदुत्तरत्र वा योज्यम् । “यदि यदा पृथिव्यां भूम्यां “घृतं क्षरदुदकं “मरुतः “प्रुष्णुवन्ति प्रुष्णन्ति सिञ्चन्ति ॥ प्रुषेः कैयादिकस्य व्यत्ययेन श्नुः ॥ यदैवं तदेत्यर्थः ।।


असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कम् ।

ते स॑प्स॒रासो॑ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥९

असू॑त । पृश्निः॑ । म॒ह॒ते । रणा॑य । त्वे॒षम् । अ॒यासा॑म् । म॒रुता॑म् । अनी॑कम् ।

ते । स॒प्स॒रासः॑ । अ॒ज॒न॒य॒न्त॒ । अभ्व॑म् । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥९

असूत । पृश्निः । महते । रणाय । त्वेषम् । अयासम् । मरुताम् । अनीकम् । ते । सप्सरासः । अजनयन्त। अभ्वम् । आत् । इत् । स्व॒धाम् । इषिराम् । परि। अपश्यन् ॥९॥ “पृश्निः मरुन्माता नानावर्णा । ‘पृश्नियै वै पयसो मरुतो जाताः ' ( तै. सं. २. २. ११. ४ ), ' पृश्नेः पुत्रा उपमासः ' ( ऋ. सं. ५, ५८. ५ ) इत्यादिश्रुतेः । तामेवान्तरिक्षदेवतां केचिदाहुः । सा देवी “त्वेषं दीप्तम् "अयासां गन्तॄणां मरुतामनीकं समूहम् एकोनपञ्चाशत्संख्याकम् “असूत उत्पादितवती । किमर्थम् । “महते “रणाय संग्रामाय । मेघजयायेत्यर्थः । “ते च मरुतः “सप्सरासः समानरूपा हिंसको वा मेघानाम् “अभ्वं मेघं जनयन्ति उत्पादितवन्तः । “आदित् अनन्तरमेव “इषिरां सर्वैरेष्टव्यां स्वधाम् अन्नं सस्यादिसमृद्धिलक्षणं “पर्यपश्यन् परिपश्यन्ति सर्वे जनाः ॥


ए॒ष व॒ः स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।

एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥१०

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।

आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥१०

एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।।

आ। इषा । यासीष्ट । त॒न्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ १० ॥

‘एष वः' इति दशमी व्याख्याता ॥ ॥ ७ ।।


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६८&oldid=207880" इत्यस्माद् पुनः प्राप्तिः