प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.६३

(ऋग्वेद: सूक्तं १.६३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.६२ ऋग्वेदः - मण्डल १
सूक्तं १.६३
नोधा गौतमः
सूक्तं १.६४ →
दे. इन्द्रः। त्रिष्टुप्।


त्वं महाँ इन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवी अमे धाः ।
यद्ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन् ॥१॥
आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात् ।
येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः ॥२॥
त्वं सत्य इन्द्र धृष्णुरेतान्त्वमृभुक्षा नर्यस्त्वं षाट् ।
त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥३॥
त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्नुभ्नाः ।
यद्ध शूर वृषमणः पराचैर्वि दस्यूँर्योनावकृतो वृथाषाट् ॥४॥
त्वं ह त्यदिन्द्रारिषण्यन्दृळ्हस्य चिन्मर्तानामजुष्टौ ।
व्यस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान् ॥५॥
त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते ।
तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत् ॥६॥
त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः ।
बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः ॥७॥
त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् ।
यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै ॥८॥
अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् ।
सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात् ॥९॥

सायणभाष्यम्

त्वं महान्' इति नवर्चं षष्ठं सूक्तं नोधस आर्षं त्रैष्टुभमैन्द्रम् । अनुक्रम्यते च--त्वं नव ' इति । समूळ्हे दशरात्रे द्वितीये छन्दोमे मरुत्वतीयशस्त्रे एतत्सूक्तम् । ‘ विश्वजितोऽग्निं नरः' इति खण्डे सूत्रितं - तां सु ते कीर्तिं त्वं महाँ इन्द्र यो ह ' ( आश्व. श्रौ. ८.७ ) इति ।।


त्वं म॒हाँ इ॑न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः ।

यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒ळ्हास॑ः कि॒रणा॒ नैज॑न् ॥१

त्वम् । म॒हान् । इ॒न्द्र॒ । यः । ह॒ । शुष्मैः॑ । द्यावा॑ । ज॒ज्ञा॒नः । पृ॒थि॒वी इति॑ । अमे॑ । धाः॒ ।

यत् । ह॒ । ते॒ । विश्वा॑ । गि॒रयः॑ । चि॒त् । अभ्वा॑ । भि॒या । दृ॒ळ्हासः॑ । कि॒रणाः॑ । न । ऐज॑न् ॥१

त्वम् । महान् । इन्द्र । यः । ह । शुष्मैः । द्यावा । जज्ञानः । पृथिवी इति । अमे । धाः ।

यत् । ह । ते । विश्वा । गिरयः । चित् । अभ्वा । भिया । दृळ्हासः । किरणाः । न । ऐजन् ॥१

हे “इन्द्र “त्वं "महान् गुणैः सर्वाधिको भवसि । "यो “ह यः खलु त्वम् "अमे असुरकृते भये सति "जज्ञानः तदानीमेव प्रादुर्भूतः सन् "शुष्मैः शत्रूणां शोषकैरात्मीयैर्बलैः "द्यावा “पृथिवी द्यावापृथिव्यौ “धाः अधारयः । तादृशाद्भयात् अमूमुचः इत्यर्थः । किंच। "यद्ध "ते यस्य खलु तव संबन्धिन्या "भिया भीत्या "विश्वा विश्वानि व्याप्तानि यानि भूतजातानि “गिरयश्चित् ये च शिलोच्चयाः । "अभ्वा । महन्नामैतत् । अन्यान्यपि महान्ति यानि सन्ति । तेऽपि सर्वे "दृळ्हासः दृढा अपि “ऐजन् अकम्पिषत । तत्र दृष्टान्तः । "किरणा “न । यथा सूर्यरश्मय इतस्ततो नभसि कम्पन्ते तद्वत् ॥ जज्ञानः । “जनी प्रादुर्भावे'। लिटः कानच् ।' गमहन° ' इत्यादिना उपधालोपः। स्थानिवद्भावात् द्विर्भावादि। ‘ चितः' इत्यन्तोदात्तत्वम् । द्यावापृथिवी इत्यस्य समस्तपदस्य मध्ये जज्ञान इत्यस्य पाठश्छान्दसः । यत् ।' सुपां सुलुक्° ' इति षष्ठ्या लुक् । अभ्वा । आ समन्ताद्भ वन्ति सद्भावं प्राप्नुवन्तीति अभ्वा महान्तः । आङ्पूर्वात् भवतेः औणादिको ड्वन्प्रत्ययः । उपसर्गस्य ह्रस्वत्वं च । यद्वा । नञ्पूर्वात् भवतेः प्राप्त्यर्थात् ' नञि भुवो डित् ' इति क्वन्प्रत्ययः । महान्तो हि प्राप्तुं न शक्यन्ते । ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । किरणाः । कीर्यन्ते विक्षिप्यन्ते इति किरणाः । ‘ कॄ विक्षेपे ' । ‘कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः ' ( उ. सू. २. ८२ ) इति क्युप्रत्ययः । योरनादेशे प्रत्ययाद्युदात्तत्वम् । 'ऋत इद्धातोः' इति इत्वम् । ऐजन् । ‘एजृ कम्पने' । लङि आडागमः । स चोदात्तः । वृद्धिश्च ॥


आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् ।

येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥२

आ । यत् । हरी॒ इति॑ । इ॒न्द्र॒ । विऽव्र॑ता । वेः । आ । ते॒ । वज्र॑म् । ज॒रि॒ता । बा॒ह्वोः । धा॒त् ।

येन॑ । अ॒वि॒ह॒र्य॒त॒क्र॒तो॒ इत्य॑विहर्यतऽक्रतो । अ॒मित्रा॑न् । पुरः॑ । इ॒ष्णासि॑ । पु॒रु॒ऽहू॒त॒ । पू॒र्वीः ॥२

आ । यत् । हरी इति । इन्द्र । विऽव्रता । वेः । आ । ते । वज्रम् । जरिता । बाह्वोः । धात् ।

येन । अविहर्यतक्रतो इत्यविहर्यतऽक्रतो । अमित्रान् । पुरः । इष्णासि । पुरुऽहूत । पूर्वीः ॥२

हे “इन्द्र त्वं “यत् यदा “विव्रता विविधकर्माणौ “हरी त्वदीयावश्वौ “आ “वेः रथे आगमयसि रथे योजयसीत्यर्थः । तदानीं "ते तव 'बाह्वोः हस्तयोः "जरिता स्तोता "वज्रम् "आ “धात् स्तोत्रेण स्थापयति । स्तोत्रा स्तुते प्रयत्नमन्तरेण वज्रं त्वद्धस्ते दृश्यते इत्यर्थः । हे “अविहर्यतक्रतो प्रेप्सितकर्मन्निन्द्र “अमित्रान् शत्रून् “येन वज्रेण “इष्णासि अभिगच्छसि । हे “पुरुहूत पुरुभिर्बहुभिर्यजमानैराहूत त्वं “पूर्वीः बह्वीः “पुरः असुरपुराणि भेत्तुमभिगच्छसीत्यर्थः । विव्रता । व्रतमिति कर्मनाम । विविधं व्रतं ययोस्तौ । ‘ सुपां सुलुक् ' इति पूर्वसवर्णदीर्घत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वेः । ‘ वी गतिप्रजनकान्त्यशनखादनेषु । अन्तर्भावितण्यर्थात् छान्दसे लङि सिपि अदादित्वात् शपो लुक् । ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । धात् । दधातेः छान्दसे लुङि ‘ गातिस्था° ' इति सिचो लुक् । पूर्ववत् अडभावः । अविहर्यतक्रतो । ‘ हर्यतिः प्रेप्साकर्मा ' (निरु. ७. १७ ) इति यास्कः । ‘हर्य गतिकान्त्योः । कान्तिरभिलाषः । विहर्यतोऽनभिलषितः । अविहर्यतोऽभिलषित इत्यर्थः । तादृशः क्रतुः कर्म यस्य स तथोक्तः । अमित्रान् । न सन्ति मित्राण्येष्विति बहुव्रीहौ ' नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । इष्णासि । ‘इष आभीक्ष्ण्ये । अत्र गत्यर्थः । ‘क्र्यादिभ्यः श्ना'। सिपः पित्त्वादनुदात्तत्वे तस्यैव स्वरः शिष्यते । यद्वृत्तयोगादनिघातः ।।


त्वं स॒त्य इ॑न्द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् ।

त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥३

त्वम् । स॒त्यः । इ॒न्द्र॒ । धृ॒ष्णुः । ए॒तान् । त्वम् । ऋ॒भु॒क्षाः । नर्यः॑ । त्वम् । षाट् ।

त्वम् । शुष्ण॑म् । वृ॒जने॑ । पृ॒क्षे । आ॒णौ । यूने॑ । कुत्सा॑य । द्यु॒ऽमते॑ । सचा॑ । अ॒ह॒न् ॥३

त्वम् । सत्यः । इन्द्र । धृष्णुः । एतान् । त्वम् । ऋभुक्षाः । नर्यः । त्वम् । षाट् ।

त्वम् । शुष्णम् । वृजने । पृक्षे । आणौ । यूने । कुत्साय । द्युऽमते । सचा । अहन् ॥३

हे इन्द्र “त्वं “सत्यः सत्सु भवः सर्वोत्कृष्ट इत्यर्थः । “एतान् शत्रूनभिगतः सन् “धृष्णुः तेषां धर्षयिता तिरस्कर्ता। किंच “त्वम् “ऋभुक्षाः ऋभूणामधिपतिः । तेषु कृतनिवासो वा । यद्वा । महन्नामैतत् । महान् प्रवृद्धोऽसि । “नर्यः नृभ्यो हितः । तथा “त्वं “षाट् शत्रूणामभिभविता हन्तेत्यर्थः । किंच। वृजने इत्यादीनि त्रीणि संग्रामनामानि । अत्र पूर्वे विशेषणे । “वृजने वर्जनयुके । संग्रामे हि वीराः पुरुषा वर्ज्यन्ते हिंस्यन्ते । “पृक्षे संपर्चनीये वीरैः योद्धुं प्राप्तव्ये । एवंविधे "आणौ संग्रामे “द्युमते दीप्तिमते "यूने तरुणाय “कुत्साय "सचा “त्वं सहायो भूत्वा “शुष्णं शोषयितारमेतस्संज्ञमसुरम् “अहन् अवधीः ॥ ऋभुक्षाः । ऋभुरिति मेधाविनाम । उरु विस्तीर्णं भाति । यद्वा । ऋतेन यज्ञेन भाति भवतीति वा ऋभुः । उरुशब्दे ऋतशब्दे वोपपदे भातेर्भवतेर्वा ‘मृगय्वादयश्च' (उ. सू. १. ३८) इति कुप्रत्ययः पूर्वपदस्य ऋभावश्च निपात्यते । क्षयतिरैश्वर्यकर्मा । तेषामीष्टे इति ऋभुक्षाः । यद्वा । ‘ क्षि निवासगत्योः । तेषु निवसतीति - पतेस्थ' ( उ. सू. ४. ४५२) इति विधीयमान इनिप्रत्ययो बहुलवचनादस्मादपि भवति । टिलोपश्च । सौ ‘पथिमथ्यृभुक्षामात्' (पा.सू. ७. १. ८५) इति आत्वम् । प्रत्ययस्वरः। षाट् । ' सह अभिभवे । छन्दसि सहः ' ( पा. सू. ३. २. ६३ ) इति केवलादपि ण्विः । षत्वं छान्दसम् । द्युमते। द्यौर्दीप्तिरस्मिन्नस्तीति द्युमान् ।' स्वादिष्वसर्वनामस्थाने इति पदसंज्ञायां दिव उत्' इति उत्वम् । ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् ॥


त्वं ह॒ त्यदि॑न्द्र चोदी॒ः सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः ।

यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ॥४

त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । चो॒दीः॒ । सखा॑ । वृ॒त्रम् । यत् । व॒ज्रि॒न् । वृ॒ष॒ऽक॒र्म॒न् । उ॒भ्नाः ।

यत् । ह॒ । शू॒र॒ । वृ॒ष॒ऽम॒नः॒ । प॒रा॒चैः । वि । दस्यू॑न् । योनौ॑ । अकृ॑तः । वृ॒था॒षाट् ॥४

त्वम् । ह । त्यत् । इन्द्र । चोदीः । सखा । वृत्रम् । यत् । वज्रिन् । वृषऽकर्मन् । उभ्नाः ।

यत् । ह । शूर । वृषऽमनः । पराचैः । वि । दस्यून् । योनौ । अकृतः । वृथाषाट् ॥४

हे “इन्द्र “त्वं "ह त्वं खलु "सखा कुत्सस्य सहायः सन् "त्यत् तत् प्रसिद्धं धनं जयलक्षणं यशो वा “चोदीः प्रेरितवान् अकार्षीरित्यर्थः । हे "वृषकर्मन् वृष्ट्युदकसेचनरूपकर्मोपेत "वज्रिन् वज्रवन्निन्द्र "वृत्रं सर्वस्य धनस्यावरीतारं कुत्सस्य शत्रुं "यत् यदा उभ्नाः अतुभ्नाः अहिंसीः । अपि च हे “शूर शत्रूणां प्रेरक "वृषमणः कामाभिवर्षकमनस्केन्द्र "वृथाषाट् अनायासेन शत्रूणामभिभविता त्वं "यद्ध यदा खलु "योनौ वीरैर्मिश्रणीये संग्रामे "दस्यून् कुत्सस्योपक्षयितॄन् अन्यान् शत्रून् "पराचैः परागमनैः "वि “अकृतः पराङ्मुखा यथा भवन्ति तथा व्यच्छिनः । तदानीं कुत्सः सर्वं यशः प्राप्नोदित्यर्थः ॥ चोदीः । ‘चुद प्रेरणे । लुङि ' नेटि' (पा. सू. ७. २. ४ ) इति सिचि वृद्धिप्रतिषेधः । उभ्नाः । ‘ णभ तुभ हिंसायाम् । क्रैयादिकः । लङि सिमि तल्लोपश्छान्दसः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि' इति अडभावः । पराचैः इत्येतदव्ययं नीचैरुच्चैरितिवत् इति भट्टभास्करमिश्रः । ‘पराचैः पराञ्चनैः ' (निरु. ११. २५) इति निरुक्तम् । दस्यून् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा' इति ऊकारस्य सानुनासिकता । अकृतः । ‘ कृती छेदने । लङि सिपि तुदादित्वात् शप्रत्ययः । आगमानुशासनस्यानित्यत्वात् ‘शे मुचादीनाम् इति नुमागमस्याभावः । शस्य ङित्त्वात् गुणाभावः ।।


त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन्दृ॒ळ्हस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ ।

व्य१॒॑स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ॥५

त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । अरि॑षण्यन् । दृ॒ळ्हस्य॑ । चि॒त् । मर्ता॑नाम् । अजु॑ष्टौ ।

वि । अ॒स्मत् । आ । काष्ठाः॑ । अर्व॑ते । वः॒ । घ॒नाऽइ॑व । व॒ज्रि॒न् । श्न॒थि॒हि॒ । अ॒मित्रा॑न् ॥५

त्वम् । ह । त्यत् । इन्द्र । अरिषण्यन् । दृळ्हस्य । चित् । मर्तानाम् । अजुष्टौ ।

वि । अस्मत् । आ । काष्ठाः । अर्वते । वः । घनाऽइव । वज्रिन् । श्नथिहि । अमित्रान् ॥५

हे "इन्द्र “त्वं "ह त्वं खलु “त्यत् तस्य "दृळ्हस्य “चित् दृढस्य कस्यचिदपि "अरिषण्यन् रेषणमनिच्छन् एवंस्वभावो भवसि । देवतात्वेनानुग्रहीतृत्वात् । तथापि "मर्तानां स्तोतॄणामस्माकं शत्रुभिः "अजुष्टौ अप्रीतौ सत्याम् "अस्मत् "अर्वते अस्मदीयाश्वाय गन्तुं "काष्ठाः दिशः "आ समन्तात् "वि “वः विवृताः कुरु। यथा सर्वासु दिक्षु अस्मदीया अश्वाः प्रतिरोधमन्तरेण गच्छन्ति तथा कुरु इत्यर्थः। किंच तत्रत्यान् "अमित्रान् हे "वज्रिन वज्रवन्निन्द्र “घनेव घनेन कठिनेन पर्वतेनेव वज्रेण “श्नथिहि श्नथय जहीत्यर्थः । यद्वा । मर्तानां मनुष्याणां मध्ये यस्मिन् कस्मिंश्चित्तव अप्रीतो सत्यां तस्य शत्रोर्दृढस्यापि अरिषण्यन रेषणं हिंसनमनिच्छन् वर्तसे । यस्मिंस्तु कुत्सादौ प्रीतिरस्ति तस्य शत्रुवधं चकृषे । अतस्तव प्रियाणामस्माकमर्वते इत्यादि पूर्ववत् ॥ त्यत् । सुपां सुलुक् ' इति षष्ठ्या लुक् । अरिषष्यन् । रिष्टशब्दात् क्यचि दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति' (पा. सू. ७. ४. ३६ ) इति रिषण्भावो निपात्यते । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मत् । पूर्ववत् षष्ठ्या लुक् । अर्वते । ‘ अर्वणस्रसावनञः' इति नकारस्य तकारादेशः । वनिप्सुपौ पित्त्वादनुदात्तौ । परिशेषात् धातुस्वरः । घनेव । मूर्तौ घनः' (पा. सू. ३. ३. ७७ ) इति काठिन्ये गम्यमाने हन्तेः अप्प्रत्ययान्तो निपात्यते । श्नथिहि । श्नथ हिंसार्थः । ण्यन्तात् लोटि ‘बहुलं छन्दसि' इति शपो लुक् ॥ ॥ ४ ॥


त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व॑र्मीळ्हे॒ नर॑ आ॒जा ह॑वन्ते ।

तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ॥६

त्वाम् । ह॒ । त्यत् । इ॒न्द्र॒ । अर्ण॑ऽसातौ । स्वः॑ऽमीळ्हे । नरः॑ । आ॒जा । ह॒व॒न्ते॒ ।

तव॑ । स्व॒धा॒ऽवः॒ । इ॒यम् । आ । स॒ऽम॒र्ये । ऊ॒तिः । वाजे॑षु । अ॒त॒साय्या॑ । भू॒त् ॥६

त्वाम् । ह । त्यत् । इन्द्र । अर्णऽसातौ । स्वःऽमीळ्हे । नरः । आजा । हवन्ते ।

तव । स्वधाऽवः । इयम् । आ । सऽमर्ये । ऊतिः । वाजेषु । अतसाय्या । भूत् ॥६

हे “इन्द्र “अर्णसातौ अर्णानां गन्तॄणां युद्धे प्रवृत्तानां पुरुषाणां सातिर्लाभो यस्मिन् “स्वमींळ्हे । मीळ्हमिति धननाम । सुष्ठु अरणीयं धनं यस्मिन् । एवंभूते “आजा आजौ संग्रामे “त्यत् तं प्रसिद्धं त्वामेव "नरः योद्धकामाः पुरुषाः सहायार्थं “हवन्ते आह्वयन्ति । यद्वा । अर्णस उदकस्य सातिर्लाभो यस्मिन् वृत्रादियुद्धे तस्मिन्नित्यर्थः । वृष्टिनिरोधकेन वृत्रेण सह वर्षणार्थं “तव यद्युद्धं तत्र स्तोतारस्त्वां प्रोत्साहयन्तीति भावः । यस्मादेवं तस्मात् हे "स्वधावः हे अन्नवन् बलवन् वा इन्द्र “समर्ये संग्रामे “तव संबन्धिनी “इयम् ऊतिः त्वदीयमिदं रक्षणम् “आ अस्मदाभिमुख्येन “भूत् भवतु । “वाजेषु संग्रामेषु या एषा “ऊतिः “अतसाय्या योद्धृभिः प्राप्तव्या भवति ॥ त्यत् । ‘ सुपां सुलुक्” ' इति द्वितीयाया लुक् । अर्णसातौ । ‘ ऋ गतौ । बहुलवचनात् औणादिको नप्रत्ययः । ‘ षणु दाने' इत्यस्मात् भावे क्तिनि ‘ जनसनखनाम्' इत्यनुनासिकस्य आत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । ‘ उदके नुट् च ' ( उ. सू. ४. ६३६ ) इति अर्तेः असुनूप्रत्ययो नुडागमश्च । ‘ पीवोपवसनादीनां छन्दसि लोपो वक्तव्यः' (पा. म. ६. ३. १०९. ६) इति सलोपः । नित्त्वादाद्युदात्तत्वम् । पूर्ववत् बहुव्रीहिस्वरः । स्वर्मीळ्हे । स्वर्शब्दः ‘न्यङ्स्वरौ स्वरितौ ' (फि. सू. ७४ ) इति स्वरितः । बहुव्रीहिस्वरेण स एव शिष्यते । आजा । ‘सुपां सुलुक्' इति सप्तम्या डादेशः । स्वधावः । ‘ मतुवसो रुः' इति मतुपो रुत्वम् । अतसाय्या । अत सातत्यगमने' । औणादिकः साय्यप्रत्ययः तस्य अडागमश्च । आगमानुदात्तत्वे प्रत्ययाद्युदात्तत्वम् । भूत् । 'छन्दसि लुङ्लङ्लिटः' इति प्रार्थनायां लुङि • बहुलं छन्दस्यमायोगेऽपि ' इति अडभावः ॥


त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः ।

ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥७

त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । स॒प्त । युध्य॑न् । पुरः॑ । व॒ज्रि॒न् । पु॒रु॒ऽकुत्सा॑य । द॒र्द॒रिति॑ दर्दः ।

ब॒र्हिः । न । यत् । सु॒ऽदासे॑ । वृथा॑ । वर्क् । अं॒होः । रा॒ज॒न् । वरि॑वः । पू॒रवे॑ । कः ॥७

त्वम् । ह । त्यत् । इन्द्र । सप्त । युध्यन् । पुरः । वज्रिन् । पुरुऽकुत्साय । दर्दरिति दर्दः ।

बर्हिः । न । यत् । सुऽदासे । वृथा । वर्क् । अंहोः । राजन् । वरिवः । पूरवे । कः ॥७

हे “वज्रिन् वज्रवन् “इन्द्र “पुरुकुत्साय एतत्संज्ञाय ऋषये “युध्यन् तदीयशत्रुभिः सह युद्धं कुर्वाणः “त्वम् एव “त्यत् ताः “सप्त “पुरः तदीयानि सप्तसंख्यानि नगराणि "दर्दः व्यदारयः अभैत्सीरित्यर्थः । अपि च "सुदासे एतत्संज्ञाय राज्ञे “अंहोः एतत्संज्ञस्यासुरस्य संबन्धि “यत् धनमस्ति तत् “वृथा अनायासेन “बर्हिर्न बर्हिरिव “वर्क् अवृणक् अच्छिनः इत्यर्थः । तदनन्तरं “पूरवे त्वां हविषा पूरयते तस्मै सुदासे हे “राजन् स्वामिन् इन्द्र “वरिवः धनं “कः अकार्षीः ॥ त्यत् । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । दर्दः । “दॄ विदारणे'। अस्मात् यङ्लुगन्तात् लङि सिपि ‘अदादिवच्च' इति वचनात् शपो लुक् । 'हल्ङ्याब्भ्यः° ' इति सलोपः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । सुदासे। शोभनं ददातीति सुदाः । असुन् । ‘सुदाः कल्याणदानः' (निरु. २. २४ ) इति यास्कः । वर्क्। वृजी वर्जने'। लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । लघूपधगुणे पूर्ववत् सलोपः। अडभावश्च । चोः कुः' इति कुत्वम् । कः । डुकृञ् करणे । लुङि सिपि ‘ मन्त्रे घस” ' इति च्लेर्लुक् । पूर्ववत् सलोपाडभावौ ॥


त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी॑पय॒ः परि॑ज्मन् ।

यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥८

त्वम् । त्याम् । नः॒ । इ॒न्द्र॒ । दे॒व॒ । चि॒त्राम् । इष॑म् । आपः॑ । न । पी॒प॒यः॒ । परि॑ऽज्मन् ।

यया॑ । शू॒र॒ । प्रति॑ । अ॒स्मभ्य॑म् । यंसि॑ । त्मन॑म् । ऊर्ज॑म् । न । वि॒श्वध॑ । क्षर॑ध्यै ॥८

त्वम् । त्याम् । नः । इन्द्र । देव । चित्राम् । इषम् । आपः । न । पीपयः । परिऽज्मन् ।

यया । शूर । प्रति । अस्मभ्यम् । यंसि । त्मनम् । ऊर्जम् । न । विश्वध । क्षरध्यै ॥८

हे “देव द्योतमान “इन्द्र “त्वं “नः अस्माकं “चित्रां चायनीयां “त्यां ताम् “इषम् अन्नं “परिज्मन् परितो व्याप्तायां भूमौ “पीपयः प्रावर्धयः । यथा सर्वा भूमिरन्नेन परिपूर्णा भवति तथा कुर्वित्यर्थः । तत्र दृष्टान्तः । “आपो “न । यथा अपो वृष्ट्युदकानि भूम्यां वर्षणेन प्रवर्धयसि तद्वत् । यद्वा । भूमौ वर्तमानानस्मान् यथा अपः पाययसि तद्वत् चित्रामिषमपि पाययेति भावः । हे "शूर इन्द्र “यया इषा “त्मनम् आत्मानं जीवम् “अस्मभ्यं “प्रति “यंसि प्रयच्छसि । तत्र दृष्टान्तः । “विश्वध विश्वतः सर्वतः “क्षरध्यै क्षरितुम् “ऊर्जं “न उदकमिव । यथास्मभ्यं बहुलमुदकं प्रयच्छसि तद्वत्प्राणधारणरूपं जीवनमपि प्रयच्छसीति भावः ॥ आपः । शसि प्राप्त व्यत्ययेन जस् ।' अप्तृन्” इत्यादिना दीर्घः। पीपयः । ‘स्फायी ओप्यायी वृद्धौ' । ण्यन्तात् छान्दसे लुङि ‘ प्यायः पी' (पा. सू. ६. १. २८) इति व्यत्ययेन पीभावः । ‘ णिश्रिद्रुस्रुभ्यः । इति च्लेः चङादेशः । णिलोपादीनि । यद्वा । ' पीङ् पाने' इत्यस्मात् लुङि चङि पूर्ववत् । ‘बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । परिज्मन् । जमतिर्गतिकर्मा । ‘ अज गतिक्षेपणयोः । आभ्यां परिपूर्वाभ्यां ‘श्वन्नुक्षन्' इत्यादौ कनिन्प्रत्ययान्तो निपातितः । ‘ सुपां सुलुक् ' इति सप्तम्या लुक् । यंसि । “ यम उपरमे '। बहुलं छन्दसि ' इति शपो लुक् । त्मनम्। ‘ आङोऽन्यत्रापि च्छन्दसि दृश्यते ' ( का. ६. ४. १४१. १) इत्यात्मनः आकारलोपः । संज्ञापूर्वकस्य विधेरनित्यत्वात् उपधादीर्घाभावः । विश्वध। विश्वशब्दात्तसिलः सकारलोपो धत्वं च पृषोदरादित्वात् । क्षरध्यै। ‘ क्षर संचलने'। तुमर्थे सेसेन् ' इति अध्यैन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ।।


अका॑रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् ।

सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥९

अका॑रि । ते॒ । इ॒न्द्र॒ । गोत॑मेभिः । ब्रह्मा॑णि । आऽउ॑क्ता । नम॑सा । हरि॑ऽभ्याम् ।

सु॒ऽपेश॑सम् । वाज॑म् । आ । भ॒र॒ । नः॒ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥९

अकारि । ते । इन्द्र । गोतमेभिः । ब्रह्माणि । आऽउक्ता । नमसा । हरिऽभ्याम् ।

सुऽपेशसम् । वाजम् । आ । भर । नः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥९

हे “इन्द्र "ते तव "गोतमेभिः गन्तृतमैरेतत्संज्ञैर्ऋषिभिः "अकारि स्तोत्रं कृतमित्यर्थः। एतदेव स्पष्टीकरोति । “ब्रह्माणि मन्त्रजातानि “नमसा हविर्लक्षणेनान्नेन सह “हरिभ्याम् अश्वाभ्यां युक्ताय तुभ्यम् “ओक्ता आभिमुख्येन उक्तानि। यद्वा । मर्यादायाम् आकारः । यथाशास्त्रं प्रयुक्तानि । स त्वं “सुपेशसम् । पेश इति रूपनाम । बहुविधरूपयुक्तं "वाजम् अन्नं "नः अस्मभ्यम् “आ “भर आहर देहीति यावत् । धिया बुद्ध्या कर्मणा वा प्राप्तधन इन्द्रः प्रातःकाले अस्मद्रक्षणार्थं “जगम्यात् आगच्छतु ।। ओक्ता । ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः । सुपेशसम् ।' पिश अवयवे'। असुन्। बहुव्रीहौ ‘ आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । भर। 'हृग्रहोर्भः' इति भत्वम् । 'द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः ॥ ॥ ५ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.६३&oldid=196642" इत्यस्माद् पुनः प्राप्तिः