ऋग्वेदः सूक्तं १.१०१
← सूक्तं १.१०० | ऋग्वेदः - मण्डल १ सूक्तं १.१०१ कुत्स आङ्गिरसः |
सूक्तं १.१०२ → |
दे. इन्द्रः( १ गर्भस्राविण्युपनिषद्)। जगती, ८-११ त्रिष्टुप् |
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥१॥
यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् ।
इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥२॥
यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः ।
यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥३॥
यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः ।
वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥४॥
यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् ।
इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥५॥
यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः ।
इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥६॥
रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः ।
इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥७॥
यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे ।
अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥८॥
त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः ।
अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥९॥
मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने ।
आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥१०॥
मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
सायणभाष्यम्
प्र मन्दिने' इति एकादशर्चमष्टमं सूक्तमाङ्गिरसस्य कुत्सस्यार्षम् । अष्टम्याद्याश्चतस्रस्त्रिष्टुभः शिष्टाः सप्त जगत्यः । इन्द्रो देवता । तथा चानुक्रान्तं - ' प्रमन्दिन एकादश कुत्स आद्या गर्भस्राविण्युपनिषच्चतुस्त्रिष्टुबन्तम्' इति । दशरात्रस्य नवमेऽहनि मरुत्वतीये एतत्सूक्तम् । विश्वजितः' इति खण्डे सूत्रितं- ‘प्र मन्दिन इमा उ त्वेति मरुत्वतीयम्' (आश्व. श्रौ. ८.७.) इति ॥
प्र म॒न्दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना ।
अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥१
प्र । म॒न्दिने॑ । पि॒तु॒ऽमत् । अ॒र्च॒त॒ । वचः॑ । यः । कृ॒ष्णऽग॑र्भाः । निः॒ऽअह॑न् । ऋ॒जिश्व॑ना ।
अ॒व॒स्यवः॑ । वृष॑णम् । वज्र॑ऽदक्षिणम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥१
प्र । मन्दिने । पितुऽमत् । अर्चत । वचः । यः । कृष्णऽगर्भाः । निःऽअहन् । ऋजिश्वना ।
अवस्यवः । वृषणम् । वज्रऽदक्षिणम् । मरुत्वन्तम् । सख्याय । हवामहे ॥१
हे ऋत्विजः "मन्दिने स्तुतिमते स्तोतव्यायेन्द्राय “पितुमत् हविर्लक्षणेनान्नेनोपेतं "वचः स्तुतिलक्षणं वचनं “प्र “अर्चत प्रकर्षेणोच्चारयत । "यः इन्द्रः “ऋजिश्वना एतत्संज्ञकेन राज्ञा सख्या सहितः सन् "कृष्णगर्भाः । कृष्णो नाम कश्चिदसुरः । तेन निषिक्तगर्भास्तदीयाः भार्याः "निरहन् अवधीत् । कृष्णमसुरं हत्वा पुत्राणाम् अपि अनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्याः अप्यवधीदित्यर्थः । "अवस्यवः रक्षणेच्छवो वयं “वृषणं कामानां वर्षितारं "वज्रदक्षिणं वज्रयुक्तेन दक्षिणहस्तेनोपेतं तं "मरुत्वन्तम् इन्द्रं "सख्याय सख्युः कर्मणे "हवामहे आह्वयामहे ॥ मन्दिने । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । औणादिकः इनिप्रत्ययः । तदुक्तं यास्केन-’ मन्दी मन्दतेः स्तुतिकर्मणः ' (निरु. ४. २४ ) इति । पितुमत् । ‘ ह्रस्वनुड्भ्यां मतुप् ' इति मतुप उदात्तत्वम् । कृष्णगर्भाः कृष्णेन निषिक्ताः गर्भाः यासु तास्तथोक्ताः। ‘ परादिश्छन्दसि बहुलम् ' इति पूर्वपदान्तोदात्तत्वम् । अवस्यवः । अवेरौणादिको भावेऽसुन्। अवः इच्छति अवस्यति । सुप आत्मनः क्यच् ' । ‘क्याच्छन्दसि ' इति उप्रत्ययः । वृषणम् । वा षपूर्वस्य निगमे ' इति विकल्पनादुपधादीर्घाभावः । सख्याय । सख्युः कर्म सख्यम् ।' सख्युर्यः' इति यप्रत्ययः । हवामहे । ह्वेञो लटि ‘ बहुलं छन्दसि ' इति संप्रसारणम् ॥
यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शम्ब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तं ।
इन्द्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥२
यः । विऽअं॑सम् । ज॒हृ॒षा॒णेन॑ । म॒न्युना॑ । यः । शम्ब॑रम् । यः । अह॑न् । पिप्रु॑म् । अ॒व्र॒तम् ।
इन्द्रः॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । नि । अवृ॑णक् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥२
यः । विऽअंसम् । जहृषाणेन । मन्युना । यः । शम्बरम् । यः । अहन् । पिप्रुम् । अव्रतम् ।
इन्द्रः । यः । शुष्णम् । अशुषम् । नि । अवृणक् । मरुत्वन्तम् । सख्याय । हवामहे ॥
"यः इन्द्रः "जहृषाणेन प्रवृद्धेन "मन्युना क्रोधेन "व्यंसं विगतभुजं वृत्रम् "अहन् अवधीत् । अपि च "यः इन्द्रः शम्बरम् एतत्संज्ञमसुरं चावधीत् । तथा “अव्रतं व्रतस्य यागादेः कर्मणो विरोधिनं "पिप्रुम् एतत्संज्ञमसुरं च "यः इन्द्रोऽवधीत् । किंच "यः “इन्द्रः "अशुषं शोषकरहितं "शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं नि "अवृणक् न्यवर्जयत् । समूलं हतवानित्यर्थः । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ व्यंसम्। विगतः अंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणः ‘ उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् । जहृषाणेन । 'हृष तुष्टौ । अत्र वृद्ध्यर्थः । ‘छन्दसि लिट्, ‘ लिटः कानज्वा' इति तस्य कानजादेशः । अन्येषामपि दृश्यते ' इति संहितायामभ्यासस्य दीर्घत्वम् । चित्त्वादन्तोदात्तत्वम् । अशुषम् । शुष शोषणे' । इगुपधलक्षणः कः । शुषाः शोषका न सन्त्यस्येति अशुषः । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । अवृणक् । ‘ वृजी वर्जने '। रौधादिकः ॥
यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ ।
यस्येन्द्र॑स्य॒ सिन्ध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥३
यस्य॑ । द्यावा॑पृथि॒वी इति॑ । पौंस्य॑म् । म॒हत् । यस्य॑ । व्र॒ते । वरु॑णः । यस्य॑ । सूर्यः॑ ।
यस्य॑ । इन्द्र॑स्य । सिन्ध॑वः । सश्च॑ति । व्र॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥३
यस्य । द्यावापृथिवी इति । पौंस्यम् । महत् । यस्य । व्रते । वरुणः । यस्य । सूर्यः ।
यस्य । इन्द्रस्य । सिन्धवः । सश्चति । व्रतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥३
"यस्य इन्द्रस्य “महत् विपुलं “पौंस्यं बलं "द्यावापृथिवी द्यावापृथिव्यावनुवर्तेते । “यस्य चेन्द्रस्य “व्रते नियमरूपे कर्मणि "वरुणः वर्तते । वरुणोऽपीन्द्रस्य नियमनं नातिक्रामतीत्यर्थः । अपि च “सूर्यः अपि "यस्य इन्द्रस्य व्रते वर्तते । तथा "यस्य "इन्द्रस्य “व्रतं कर्म “सिन्धवः नद्यः "सश्चति । वचनव्यत्ययः । गच्छन्ति । सश्चतिर्गतिकर्मा । इन्द्रेणानुशिष्टाः प्रवहन्तीत्यर्थः । तं “मरुत्वन्तम् इन्द्रं “सख्याय आह्वयामहे ॥ द्यावापृथिवी । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘ दिवो द्यावा ' इति द्यावादेशः । स चाद्युदात्तो निपातितः । पृथिवीशब्दो ङीष्प्रत्ययान्तः अन्तोदात्तः । ‘ देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम् । “ वा छन्दसि ' इति पूर्वसवर्णदीर्घः ॥
यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः ।
वी॒ळोश्चि॒दिन्द्रो॒ यो असु॑न्वतो व॒धो म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥४
यः । अश्वा॑नाम् । यः । गवा॑म् । गोऽप॑तिः । व॒शी । यः । आ॒रि॒तः । कर्म॑णिऽकर्मणि । स्थि॒रः ।
वी॒ळोः । चि॒त् । इन्द्रः॑ । यः । असु॑न्वतः । व॒धः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥४
यः । अश्वानाम् । यः । गवाम् । गोऽपतिः । वशी । यः । आरितः । कर्मणिऽकर्मणि । स्थिरः ।
वीळोः । चित् । इन्द्रः । यः । असुन्वतः । वधः । मरुत्वन्तम् । सख्याय । हवामहे ॥४
"यः इन्द्रः "अश्वानां पतिरधिपतिः । तथा "यः इन्द्रः "गोपतिः । न केवलमेकस्या गोः किंतु सर्वासामित्याह "गवाम् इति । सर्वासां गवाम् अधिपतिर्भवति । "वशी अपराधीनः । स्वतन्त्र इत्यर्थः । अपि च "यः इन्द्रः "कर्मणिकर्मणि सर्वेषु कर्मसु “स्थिरः नैश्चल्येनावतिष्ठमानः "आरितः स्तुतिभिः प्रत्यृतः प्राप्तो भवति । ‘आरितः प्रत्यृतः स्तोमान्' (निरु. ५. १५) इति निरुक्तम् । “यः च "इन्द्रः "असुन्वतः सुन्वतां यागानुष्ठातॄणां विरोधिनः "वीळोश्चित् दृढस्यापि शत्रोः "वधः हन्ता तं “मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ गवाम् । न गोश्वन्साववर्ण° ' इति विभक्त्युदात्तत्वस्य प्रतिषेधः । गोपतिः ।' पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् । आरितः । ‘ऋ ‘ गतौ । अस्मात् ण्यन्तात् निष्ठा । आगमानुशासनस्यानित्यत्वात् पुगभावः । यद्वा । ‘ सूचिसूत्रिमूञ्यट्यर्त्यशूर्णोतीनाम् ' (पा. म. ३. १. २२. ३) इति विहितस्य यङः ‘यङोऽचि च' इत्यत्र चशब्देन बहुलग्रहणानुकर्षणादनैमित्तिके लुकि प्रत्ययलक्षणेन ‘ सन्यङोः ' इति ऋ इत्येतस्य द्विर्वचने उरदत्वहलादिशेषयोः सतोः ‘ रुग्रिकौ च लुकि ' इति रुक् । ततो निष्ठायां छान्दस इडागमः। ऋकारस्य यणादेशः । ‘रो रि' इति अभ्यासरेफलोपः । ‘ ढ्रलोपे पूर्वस्य दीर्घाऽणः' इति दीर्घत्वम् । वधः । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् ' हनश्च वधः' इति कर्तरि अप् वधादेशश्च । स. चादन्तः । अतो लोपे उदात्तनिवृत्तिस्वरेण प्रत्ययस्य उदात्तत्वम्॥
यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे॑ प्रथ॒मो गा अविं॑दत् ।
इन्द्रो॒ यो दस्यूँ॒रध॑राँ अ॒वाति॑रन्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥५
यः । विश्व॑स्य । जग॑तः । प्रा॒ण॒तः । पतिः॑ । यः । ब्र॒ह्मणे॑ । प्र॒थ॒मः । गाः । अवि॑न्दत् ।
इन्द्रः॑ । यः । दस्यू॑न् । अध॑रान् । अ॒व॒ऽअति॑रत् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥५
यः । विश्वस्य । जगतः । प्राणतः । पतिः । यः । ब्रह्मणे । प्रथमः । गाः । अविन्दत् ।
इन्द्रः । यः । दस्यून् । अधरान् । अवऽअतिरत् । मरुत्वन्तम् । सख्याय । हवामहे ॥५
“यः इन्द्रः “विश्वस्य "जगतः गच्छतः "प्राणतः प्रश्वसतः प्राणिजातस्य “पतिः स्वामी "यः च “ब्रह्मणे ब्राह्मणजातिभ्योऽङ्गिरोभ्यः "प्रथमः अन्येभ्यो देवेभ्यः पूर्वभावी सन् पणिभिरपहृताः “गा: “अविन्दत् अलभत । अन्येभ्यो देवेभ्यः पूर्वमेव तैरसुरैर्युद्ध्वा गाः स्वयमलभतेत्यर्थः । अपि च "यः "इन्द्रः “दस्यून् उपक्षपयितॄनसुरान् "अधरान निकृष्टान् कृत्वा "अवातिरत् अवधीत् । अवतरतिर्वधकर्मा । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ जगतः । ‘ गम्लृ सप्लृ गतौ' । वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च' ( उ. सू. २. २४१ ) इति अतिप्रत्ययान्तो निपातितो जगच्छब्द आद्युदात्त: । प्राणतः । ‘ श्वस प्राणने, अन च ' । अस्मात् लटः शतृ । अदादित्वात् शपो लुक् । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् ।।
यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ ।
इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥६
यः । शूरे॑भिः । हव्यः॑ । यः । च॒ । भी॒रुऽभिः॑ । यः । धाव॑त्ऽभिः । हू॒यते॑ । यः । च॒ । जि॒ग्युभिः॑ ।
इन्द्र॑म् । यम् । विश्वा॑ । भुव॑ना । अ॒भि । स॒म्ऽद॒धुः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥६
यः । शूरेभिः । हव्यः । यः । च । भीरुऽभिः । यः । धावत्ऽभिः । हूयते । यः । च । जिग्युभिः ।
इन्द्रम् । यम् । विश्वा । भुवना । अभि । सम्ऽदधुः । मरुत्वन्तम् । सख्याय । हवामहे ॥६
"यः इन्द्रः "शूरेभिः शौर्योपेतैः पुरुषैः "हव्यः योद्धुमाह्वातव्यः । "यश्च “भीरुभिः भयशीलैः कातरैः पुरुषैः सहायार्थमाह्वातव्यः । अपि च "यः इन्द्रः “धावद्भिः पराजयेन पलायमानैः “हूयते रक्षार्थमाहूयते । "यश्च जिग्युभिः प्राप्तजयैराहूयते । "यं च “इन्द्रं "विश्वा "भुवना सर्वाणि भूतजातानि स्वेषु स्वेषु कार्येषु "अभि "संदधुः आभिमुख्येन स्थापयन्ति । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ शूरेभिः । ‘ बहुलं छन्दसि ' इति भिस ऐसभावः । हव्यः । ह्वयतेः ‘ अचो यत्' इति यत् । “ ह्वः' इत्यनुवृत्तौ ‘ बहुलं छन्दसि' इति संप्रसारणम् । गुणे ‘ धातोस्तन्निमित्तस्यैव' इति अवादेशः । भीरुभिः । ‘ भियः क्रुक्लुकनौ ' ( पा. सू. ३. २. १७४) इति क्रुप्रत्ययः । धावद्भिः । ‘ सृ गतौ । सर्तेः वेगितायां शपि : पाध्रा०' इत्यादिना धावादेशः। शपः पित्त्वात् अनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । जिग्युभिः ।' जि जये। लिटः क्वसुः । द्विर्वचने ‘ सन्लिटोर्जेः' इति अभ्यासादुत्तरस्य जकारस्य कुत्वम् । भिसि अयस्मयादित्वेन भत्वात् ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । छान्दसोऽन्त्यलोपः ॥ ॥ १२ ॥
रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रयः॑ ।
इन्द्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥७
रु॒द्राणा॑म् । ए॒ति॒ । प्र॒ऽदिशा॑ । वि॒ऽच॒क्ष॒णः । रु॒द्रेभिः॑ । योषा॑ । त॒नु॒ते॒ । पृ॒थु । ज्रयः॑ ।
इन्द्र॑म् । म॒नी॒षा । अ॒भि । अ॒र्च॒ति॒ । श्रु॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥७
रुद्राणाम् । एति । प्रऽदिशा । विऽचक्षणः । रुद्रेभिः । योषा । तनुते । पृथु । ज्रयः ।
इन्द्रम् । मनीषा । अभि । अर्चति । श्रुतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥७
“विचक्षणः सूर्यात्मना प्रकाशमान इन्द्रः "रुद्राणां रुद्रपुत्राणाम् अध्यात्मं प्राणरूपेण वर्तमानानां मरुताम् । यद्वा । रोदयितॄणां प्राणानाम् । प्राणा हि शरीरात् निर्गताः सन्तो बन्धुजनान् रोदयन्ति । “प्रदिशा प्रदेशनेन मनुष्येभ्यः प्रदानेन सह “एति अन्तरिक्षे गच्छति। तथा चाम्नायते- योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ' ( तै. आ. १. १४. १ ) इति । अपि च "रुद्रेभिः अधिभूतं वर्तमानैः रुद्रपुत्रैर्मरुद्भिः "योषा माध्यमिका वाक् "पृथु विस्तीर्णं “ज्रयः वेगं "तनुते विस्तारयति । प्रसंगादत्र मरुतां स्तुतिः । तैर्मरुद्भिः सह वर्तमानं “श्रुतं प्रख्यातं सूर्यात्मानम् "इन्द्रं मनीषा स्तुतिलक्षणा वाक् “अभ्यर्चति आभिमुख्येन स्तौति । तं मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ प्रदिशा । ‘ दिश अतिसर्जने' । संपदादिलक्षणो भावे क्विप्। ज्रयः । ‘ जि ज्रि अभिभवे । ज्रीयतेऽभिभूयतेऽजेनेति ज्रयो वेगः । करणे असुन् । मनीषा । ईषाअक्षादित्वात् प्रकृतिभावः ।।
यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से ।
अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥८
यत् । वा॒ । म॒रु॒त्वः॒ । प॒र॒मे । स॒धऽस्थे॑ । यत् । वा॒ । अ॒व॒मे । वृ॒जने॑ । मा॒दया॑से ।
अतः॑ । आ । या॒हि॒ । अ॒ध्व॒रम् । नः॒ । अच्छ॑ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । स॒त्य॒ऽरा॒धः॒ ॥८
यत् । वा । मरुत्वः । परमे । सधऽस्थे । यत् । वा । अवमे । वृजने । मादयासे ।
अतः । आ । याहि । अध्वरम् । नः । अच्छ । त्वाऽया । हविः । चकृम । सत्यऽराधः ॥८
हे “मरुत्वः मरुद्भिर्युक्तेन्द्र "परमे उत्कृष्टे "सधस्थे सहस्थाने गृहे "यद्वा यदि वा "मादयासे । तृप्तो वर्तसे । "यद्वा यदि वा "अवमे अर्वाचीने “वृजने । वृज्यते रिक्तीक्रियतेऽस्मिन् धनमिति वृजनं गृहम् । तस्मिन् मादयासे । "अतः अस्मादुभयविधात् स्थानात् "नः अस्माकं "अध्वरं यज्ञम् “अच्छ आभिमुख्येन “आ “याहि आगच्छ । हे "सत्यराधः सत्यधन" “त्वाया त्वत्कामनया वयं “हविश्चकृम कृतवन्तः ।। मरुत्वः । ‘ मतुवसो रुः० ' इति संबुद्धौ नकारस्य रुत्वम् । सधस्थे । ‘ सुपि स्थः' इति कप्रत्ययः । ‘ सध मादस्थयोश्छन्दलि' इति सहस्य सधादेशः । मादयासे । ‘ मद तृप्तियोगे'। चुरादिरात्मनेपदी । लेटि आडागमः । त्वाया । त्वामात्मन इच्छति । ‘ सुप आत्मनः क्यच् ' । ‘ प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । व्यत्ययेन दकारस्य आत्वम् । 'अ प्रत्ययात्' इति अकारप्रत्ययः । सुपां सुलुक्' इति तृतीयाया लुक् ॥
त्वा॒येन्द्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः ।
अधा॑ नियुत्वः॒ सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥९
त्वा॒ऽया । इ॒न्द्र॒ । सोम॑म् । सु॒सु॒म॒ । सु॒ऽद॒क्ष॒ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । ब्र॒ह्म॒ऽवा॒हः॒ ।
अध॑ । नि॒यु॒त्वः॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ ॥९
त्वाऽया । इन्द्र । सोमम् । सुसुम । सुऽदक्ष । त्वाऽया । हविः । चकृम । ब्रह्मऽवाहः ।
अध । नियुत्वः । सऽगणः । मरुत्ऽभिः । अस्मिन् । यज्ञे । बर्हिषि । मादयस्व ॥९
हे "सुदक्ष शोभनबल “इन्द्र “त्वाया त्वत्कामनया "सोमं "सुषुम अभिषुतवन्तो वयम् । हे “ब्रह्मवाहः ब्रह्मणा मन्त्ररूपेण स्तोत्रेणोह्यमान प्राप्यमाणेन्द्र “त्वाया त्वत्कामनया आहवनीये पुरोडाशलक्षणं “हविश्चकृम कृतवन्तः। हे “नियुत्वः । नियुतोऽश्वाः । तद्वन्निन्द्र "अधा अनन्तरं "मरुद्भिः सप्तगणरूपैरेतत्संज्ञैर्देवैः "सगणः गणसहितः सन् 'अस्मिन् वर्तमाने "यज्ञे “बर्हिषि आस्तीर्णे दर्भे उपविश्य "मादयस्व तृप्तो भव ॥ सुषुम ।' षुञ् अभिषवे'। लिटि क्रादिनियमप्राप्तस्य इटः “ अनित्यमागमशासनम्' इति वचनादभावः ॥
मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इन्द्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ ।
आ त्वा॑ सुशिप्र॒ हर॑यो वहन्तू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥१०
मा॒दय॑स्व । हरि॑ऽभिः । ये । ते॒ । इ॒न्द्र॒ । वि । स्य॒स्व॒ । शिप्रे॒ इति॑ । वि । सृ॒ज॒स्व॒ । धेने॒ इति॑ ।
आ । त्वा॒ । सु॒ऽशि॒प्र॒ । हर॑यः । व॒ह॒न्तु॒ । उ॒शन् । ह॒व्यानि॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ ॥१०
मादयस्व । हरिऽभिः । ये । ते । इन्द्र । वि । स्यस्व । शिप्रे इति । वि । सृजस्व । धेने इति ।
आ । त्वा । सुऽशिप्र । हरयः । वहन्तु । उशन् । हव्यानि । प्रति । नः । जुषस्व ॥१०
हे "इन्द्र "हरिभिः अश्वैः सह "मादयस्व तृप्तो भव । "ये "ते तव स्वभूतास्तदर्थं "शिप्रे हनू संहते “वि “ष्यस्व सोमपानार्थं विवृते कुरु । तथा “धेने पानसाधनभूते जिह्वोपजिह्विके "वि "सृजस्व सोमपानार्थं विश्लिष्टे कुरु । हे "सुशिप्र । शिप्रे हनू नासिके वा '। शोभनशिप्रेन्द्र “त्वा त्वां "हरयः अश्वाः "आ “वहन्तु अस्मदीयं यज्ञं प्रापयन्तु । त्वं च "उशन् अस्मान् कामयमानः "नः अस्माकं “हव्यानि हवींषि “प्रति "जुषस्व प्रत्येकं सेवस्व मा उदासिष्ठाः ॥ वि ष्यस्व । षो अन्तकर्मणि '। व्यत्ययेन आत्मनेपदम् । दिवादित्वात् श्यन् । ‘ओतः श्यनि ' ( पा. सू. ७. ३. ७१ ) इति ओकारलोपः ।' उपसर्गात्सुनोति° ' इति षत्वम् ॥
म॒रुत्स्तो॑त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिन्द्रे॑ण सनुयाम॒ वाजं॑ ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥११
म॒रुत्ऽस्तो॑त्रस्य । वृ॒जन॑स्य । गो॒पाः । व॒यम् । इन्द्रे॑ण । स॒नु॒या॒म॒ । वाज॑म् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥११
मरुत्ऽस्तोत्रस्य । वृजनस्य । गोपाः । वयम् । इन्द्रेण । सनुयाम । वाजम् ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥११
“मरुत्स्तोत्रस्य । मरुद्भिः सह स्तोत्रं यस्य स मरुत्स्तोत्रः। तस्य "वृजनस्य शत्रूणां क्षेप्तुरिन्द्रस्य संबन्धिनः “गोपाः गोपायनीयाः रक्षणीयाः “वयं तेन "इन्द्रेण “वाजम् अन्नं "सनुयाम लभेमहि । यदेतदस्माभिः प्रार्थितं "नः अस्मदीयं "तत् मित्रादयो द्यावापृथिव्यौ च "ममहन्तां पूजितं कुर्वन्तु ॥ वृजनस्य । ‘वृजी वर्जने'। ‘कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः' इति क्युप्रत्ययः ॥ ॥ १३ ॥
टिप्पणी
१.१०१.१ प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
ऋजिश्वना - ऋजुरेवावक्षिप्तो लक्ष्ये यः शवति गच्छति स ऋजिश्वा वज्रस्तेन कृष्णगर्भाः - कृष्णस्य मेघस्य गर्भभूता अपः निरहन् - नीचैरहन् निरगमयदित्यर्थः। - निरुक्त ४.५ टीका
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|