ऋग्वेदः सूक्तं १.११३

(ऋग्वेद: सूक्तं १.११३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.११२ ऋग्वेदः - मण्डल १
सूक्तं १.११३
कुत्स आङ्गिरसः
सूक्तं १.११४ →
दे. १ उषाः (उत्तरार्धस्य) रात्रिश्च, २-२० उषाः। त्रिष्टुप् ।


इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
यथा प्रसूता सवितुः सवायँ एवा रात्र्युषसे योनिमारैक् ॥१॥
रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥२॥
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥३॥
भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः ।
प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥४॥
जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वम् ।
दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वा ॥५॥
क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै ।
विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा ॥६॥
एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः ।
विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ ॥७॥
परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् ।
व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती ॥८॥
उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य ।
यन्मानुषान्यक्ष्यमाणाँ अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥९॥
कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् ।
अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति ॥१०॥
ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः ।
अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान् ॥११॥
यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती ।
सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छ ॥१२॥
शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी ।
अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभिः ॥१३॥
व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः ।
प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥१४॥
आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।
ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् ॥१५॥
उदीर्ध्वं जीवो असुर्न आगादप प्रागात्तम आ ज्योतिरेति ।
आरैक्पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥१६॥
स्यूमना वाच उदियर्ति वह्नि स्तवानो रेभ उषसो विभातीः ।
अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् ॥१७॥
या गोमतीरुषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय ।
वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत्सोमसुत्वा ॥१८॥
माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि ।
प्रशस्तिकृद्ब्रह्मणे नो व्युच्छा नो जने जनय विश्ववारे ॥१९॥
यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥२०॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

इत्थं सप्तममध्यायं व्याख्याय अष्टमोऽध्यायो व्याख्यातुमारभ्यते । प्रथमे मण्डले षोडशेऽनुवाके सप्त सूक्तानि गतानि । ‘ इदम् ' इति विंशत्यृचमष्टमं सूक्तम् । अत्रानुक्रम्यते - इदं विंशतिरुषस्यं द्वितीयोऽर्धर्चो रात्रेश्च ' इति । ‘ ऋषिश्चान्यस्मात् ' इति परिभाषया अनुवृत्तेः आङ्गिरसः कुत्स ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । उषा देवता । द्वितीयस्यार्धर्चस्य रात्रिरपि । प्रातरनुवाके उषस्ये क्रतौ त्रैष्टुभे छन्दसि एतत्सूक्तम् । सूत्रितं च - इदं श्रेष्ठं पृथू रथ इति सूक्ते ' ( आश्व. श्रौ. ४. १४ ) इति । आश्विनशस्त्रे चेदं सूक्तं प्रातरनुवाकातिदेशात् ।।


इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा॑च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा॑ ।

यथा॒ प्रसू॑ता सवि॒तुः स॒वाय॑ँ ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ॥ १

इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । आ । अ॒गा॒त् । चि॒त्रः । प्र॒ऽके॒तः । अ॒ज॒नि॒ष्ट॒ । विऽभ्वा॑ ।

यथा॑ । प्रऽसू॑ता । स॒वि॒तुः । स॒वाय॑ । ए॒व । रात्री॑ । उ॒षसे॑ । योनि॑म् । अ॒रै॒क् ॥१

इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । आ । अगात् । चित्रः । प्रऽकेतः । अजनिष्ट । विऽभ्वा ।

यथा । प्रऽसूता । सवितुः । सवाय । एव । रात्री । उषसे । योनिम् । अरैक् ॥१

“ज्योतिषां ग्रहनक्षत्रादीनां द्योतमानानां मध्ये “इदम् उषआख्यं “ज्योतिः “श्रेष्ठं प्रशस्यतमम् । अस्य कोऽतिशय इति चेत् उच्यते । नक्षत्रादिकं ज्योतिः स्वात्मानमेव प्रकाशयति नान्यत् । चन्द्रस्तु यद्यप्यन्यत् प्रकाशयति तथापि न विस्पष्टप्रकाशः । औषसं तु ज्योतिः युगपदेव सर्वस्य जगतः अन्धकारनिराकरणेन विशेषेण प्रकाशकम् । अतः प्रशस्यतममित्यर्थः । तादृशं ज्योतिः “आगात् पूर्वस्यां दिश्यागमत् । आगते च तस्मिन् “चित्रः चायनीयः “प्रकेतः अन्धकारावृतस्य सर्वस्य पदार्थस्य प्रज्ञापकः तदीयो रश्मिः “विभ्वा विभुर्व्याप्तः सन् ”अजनिष्ट प्रादुरभूत्। किंच "यथा “रात्री रात्रिः स्वयं “सवितुः सूर्यसकाशात् “प्रसूता उत्पन्ना । सूर्यो हि अस्तं गच्छन् रात्रिं जनयति । तस्मिन्ननस्तमिते रात्रेरुत्पत्त्यभावात् । एवमेव रात्रिरपि “उषसे “सवाय उषस उत्पत्तये तदर्थं “योनिं स्थानं स्वकीयापरभागलक्षणम् "अरैक् आरेचितवती कल्पितवतीत्यर्थः । यद्वा । प्रसूता रात्रिसकाशादुत्पन्नोषाः सवितुः सूर्यस्य सवाय प्रसवाय जन्मने यथा भवति एवं रात्रिरपि उषसे उषसो यज्जन्म तदर्थं योनिं स्वापरभागलक्षणं स्थानं कृतवती । अत्र निरुक्तम् - इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत् चित्रं प्रकेतनं प्रज्ञाततममजनिष्ट विभूततमं यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्यैवं रात्र्युषसे योनिमरिचत्स्थानम् ' (निरु. २. १९) इति ॥ श्रेष्ठम् । प्रशस्यशब्दात् अतिशायनिकः इष्ठन् । ‘प्रशस्यस्य श्रः' (पा. सू. ५. ३. ६०) इति श्रादेशः । प्रकृत्यैकाच् (पा. सू. ६.. ४. १६३) इति प्रकृतिभावात् टिलोपाभावः । अगात् । एतेः लुङि • इणो गा लुङि' इति गादेशः। ‘ गातिस्था° ' इति सिचो लुक् । प्रकेतः । ‘कित ज्ञाने' । अन्तर्भावितण्यर्थात् कर्मणि घञ् । थाथादिना उत्तरपदान्तोदात्तत्वम् । अजनिष्ट । ‘ जनी प्रादुर्भावे'। लुङि सिच इडागमः । विभ्वा ।' विप्रसंभ्यो ड्वसंज्ञायाम्' इति भवतेः डुप्रत्ययः । ‘सुपां सुलुक् । इत्यादिना सोः आकारादेशः । ‘ ओः सुपि ' इति यणादेशस्य ' न भूसुधियोः' इति प्रतिषेधे प्राप्ते ‘ छन्दस्युभयथा ' इति यणादेशः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । विपूर्वात् भवतेः औणादिको डुन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । प्रसूता । षूङ् प्राणिप्रसवे'। कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सवाय । छन्दसि जवसवौ वक्तव्यौ ' ( पा. सू. ३. ३. ५६. ४) इति निपातनात् अच् । चित्त्वादन्तोदात्तत्वम् । अणोऽप्रगृह्यस्यानुनासिकः इति संहितायाम् अकारः सानुनासिकः । एव। ‘ निपातस्य च ' इति संहितायां दीर्घः । रात्री । ‘ रात्रेश्चाजसौ ' इति ङीप्। “यस्येति च ' इति इकारलोपः। अरैक्।' रिचिर विरेचने । लङि ‘ बहुलं छन्दसि' इति विकरणस्य लुक् । लघूपधगुणे ‘ हल्ङ्याब्भ्यः० ' इति तिलोपः। वर्णव्यापत्त्या व्यत्ययेन एकारस्य ऐकारः ।।


रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः ।

स॒मा॒नब॑न्धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥ २

रुश॑त्ऽवत्सा । रुश॑ती । श्वे॒त्या । आ । अ॒गा॒त् । अरै॑क् । ऊं॒ इति॑ । कृ॒ष्णा । सद॑नानि । अ॒स्याः॒ ।

स॒मा॒नब॑न्धू॒ इति॑ स॒मा॒नऽब॑न्धू । अ॒मृते॒ इति॑ । अ॒नू॒ची इति॑ । द्यावा॑ । वर्ण॑म् । च॒र॒तः॒ । आ॒मि॒ना॒ने इत्या॑ऽमि॒ना॒ने ॥२

रुशत्ऽवत्सा । रुशती । श्वेत्या । आ । अगात् । अरैक् । ऊं इति । कृष्णा । सदनानि । अस्याः ।

समानबन्धू इति समानऽबन्धू । अमृते इति । अनूची इति । द्यावा । वर्णम् । चरतः । आमिनाने इत्याऽमिनाने ॥२

श्वेत्या इत्युषसो नामधेयम् । “रुशती दीप्ता “श्वेत्या श्वेतवर्णोषाः। “रुशद्वत्सा रुशन् दीप्तः सूर्यो वत्सो यस्याः सा तथोक्ता। यथा मातुः समीपे वत्सः संचरति एवमुषसः समीपे सूर्यस्य नित्यम् अवस्थानात्तद्वत्सत्वम् । अथवा यथा वत्सो मातुः स्तन्यं रसं पिबन् हरति एवमुषसोऽवश्यायाख्यं रसं पिबन् वत्स इत्युच्यते । तादृशी सती “आगात् आगतवती । आगतायाः “अस्याः उषसः “कृष्णा कृष्णवर्णा रात्रिः “सदनानि स्थानानि स्वकीयान्त्यार्धयामलक्षणानि "अरैक् आरेचितवती कल्पितवती दत्तवतीत्यर्थः । “उ इत्येतत् पादपूरणम्। अपि चैते रात्र्युषसौ “समानबन्धू समानेनैकेन सूर्याख्येन बन्धुना सख्या युक्ते । यद्वा । सूर्येण सह संबद्धे । यथोषाः उदेष्यता सूर्येण संबद्धा एवं रात्रिरपि अस्तं यता सूर्येण संबद्धा । “अमृते मरणरहिते कालात्मकतया नित्यत्वात् “अनूची अन्वञ्चन्त्यौ । प्रथमं रात्रिः पश्चादुषा इत्यनेन क्रमेण गच्छन्त्यौ । यद्वा । सूर्यगत्यनुसारेण गच्छन्त्यौ । एवंभूते "वर्णं सर्वेषां प्राणिनां रूपम् “आमिनाने जरयन्त्यौ । यद्वा । स्वकीयं रूपं हिंसन्त्यौ । उषसा नैशं तमो निवर्त्यते प्रकाशात्मकमुषसो रूपं रात्र्या । एवंविधे सत्यौ “द्यावा द्योतमाने “चरतः प्रतिदिवसमावर्तेते । यद्वा । द्यावा नभसा अन्तरिक्षमार्गेण चरतः प्रतिदिवसं गच्छतः । अत्र निरुक्तं -रुशद्वत्सा सूर्यवत्सा रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः । सूर्यमस्या वत्समाह साहचर्याद्रसहरणाद्वा । रुशती श्वेत्यागात् श्वेत्या श्वेततेररिचत्कृष्णा सदनान्यस्याः कृष्णवर्णा रात्रिः कृष्णं कृष्यतेर्निकृष्टो वर्णः । अथैने संस्तौति समानबन्धू समानबन्धने अमृते अमरणधर्माणावनूची अनूच्यावितीतरेतरमभिप्रेत्य द्यावा वर्णं चरतस्ते एव द्यावौ द्योतनादपि वा द्यावा चरतस्तया सह चरत इति स्यादमिनाने आमिन्वाने अन्योन्यस्याध्यात्मं कुर्वाणे' (निरु. २. २०) इति ॥ श्वेत्या।' श्विता वर्णे '। अस्मात् ण्यन्तात् 'अचो यत्' इति भावे यत्। णिलोपः । अर्शआदित्वात् मत्वर्थीयः अच् । अमृते । मृतं मरणमनयोर्नास्तीति बहुव्रीहौ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । अनूची । अनुपूर्वादञ्चतेः 'ऋत्विक्' इत्यादिना क्विन् । ‘ अनिदिताम् ' इति नलोपः । अञ्चतेश्चोपसंख्यानम् ' इति ङीप्। ‘ अचः' इत्यकारलोपे ‘चौ ' इति दीर्घः । अनुदात्तस्य च यत्रोदात्तलोपः' इति ङीप् उदात्तत्वम् ।' सुपां सुलुक्° ' इति विभक्तेर्लुक् । आमिनाने । “ मीङ् हिंसायाम्' । क्रैयादिकः । शानचि ‘मीनातेर्निगमे ' इति ह्रस्वत्वम् ॥


स॒मा॒नो अध्वा॒ स्वस्रो॑रन॒न्तस्तम॒न्यान्या॑ चरतो दे॒वशि॑ष्टे ।

न मे॑थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे ॥ ३

स॒मा॒नः । अध्वा॑ । स्वस्रोः॑ । अ॒न॒न्तः । तम् । अ॒न्याऽअ॑न्या । च॒र॒तः॒ । दे॒वशि॑ष्टे॒ इति॑ दे॒वऽशि॑ष्टे ।

न । मे॒थे॒ते॒ इति॑ । न । त॒स्थ॒तुः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । नक्तो॒षसा॑ । सऽम॑नसा । विरू॑पे॒ इति॒ विऽरू॑पे ॥३

समानः । अध्वा । स्वस्रोः । अनन्तः । तम् । अन्याऽअन्या । चरतः । देवशिष्टे इति देवऽशिष्टे ।

न । मेथेते इति । न । तस्थतुः । सुमेके इति सुऽमेके । नक्तोषसा । सऽमनसा । विरूपे इति विऽरूपे ॥३

“स्वस्रोः भगिन्योः रात्र्युषसोः “अध्वा संचरणसाधनभूतो मार्गः “समानः एक एव । येनैव आकाशमार्गेणोषा निर्गच्छति तेनैव रात्रिरपि । स च मार्गः “अनन्तः अवसानरहितः । “तं मार्गं “देवशिष्टे देवेन द्योतमानेन सूर्येण अनुशिष्टे शिक्षिते सत्यौ “अन्यान्या एकैका “चरतः क्रमेण गच्छतः । अपि च “सुमेके शोभनमेहने सर्वेषामुत्पादकत्वात् शोभनप्रजनने “नक्तोषासा रात्रिरुषाश्च “विरूपे तमःप्रकाशलक्षणाभ्यां विरुद्धरूपाभ्यां युक्ते अपि “समनसा समानमनस्के ऐकमत्यं प्राप्ते सत्यौ “न “मेथेते परस्परं न हिंस्तः । तथा “न “तस्थतुः क्वचिदपि न तिष्ठतः । सर्वदा लोकानुग्रहार्थं गच्छतः इत्यर्थः ॥ अन्यान्या ।' कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् ' ( पा. म. ८. १. १२. ११ ) इति अन्यशब्दस्य द्विर्भावः । तस्य परमाम्रेडितम् ' इति आम्रेडितसंज्ञायाम् ‘अनुदात्तं च ' इति आम्रेडितानुदात्तत्वम् । देवशिष्टे । “शासु अनुशिष्टौ' । अस्मात् कर्मणि निष्ठा ।' यस्य विभाषा ' इति इट्प्रतिषेधः । ‘ शास इदङ्हलोः ' (पा. सू. ६. ४. ३४) इति उपधाया इत्वम् । शासिवसिघसीनां च ' इति षत्वम् । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । मेथेते । मिथृ मेथृ मेधाहिंसनयोः'। भौवादिकः । अनुदात्तेत् । सुमेके। ‘मिह सेचने'। भावे घञ् । शोभनो मेहो ययोस्ते । व्यत्ययेन ककारः। उत्तरपदस्य ञित्स्वरेणाद्युदात्तत्वम्। ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । नक्तोषासा। ‘सुपां सुलक्' इति विभक्तेराकारः। अन्येषामपि दृश्यते' इति संहितायामुपधादीर्घः ॥


भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः ।

प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥ ४

भास्व॑ती । ने॒त्री । सू॒नृता॑नाम् । अचे॑ति । चि॒त्रा । वि । दुरः॑ । नः॒ । आ॒व॒रित्या॑वः ।

प्र॒ऽअर्प्य॑ । जग॑त् । वि । ऊं॒ इति॑ । नः॒ । रा॒यः । अ॒ख्य॒त् । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥४

भास्वती । नेत्री । सूनृतानाम् । अचेति । चित्रा । वि । दुरः । नः । आवरित्यावः ।

प्रऽअर्प्य । जगत् । वि । ऊं इति । नः । रायः । अख्यत् । उषाः । अजीगः । भुवनानि । विश्वा ॥४

“भास्वती विशिष्टप्रकाशनयुक्ता । सूनृतेति वाङ्नाम । "सूनृतानां वाचां “नेत्री उत्पादयित्री । उषसः प्रादुर्भावानन्तरं हि पशुपक्षिमृगादयः सर्वे शब्दं कुर्वन्ति । एवंभूता उषाः “अचेति अस्माभिः अज्ञायि । “चित्रा चायनीया ज्ञाता सा “नः अस्माकं “दुरः द्वाराणि तमसा तिरोहितानि “वि “आवः व्यवृणोत् । यथास्माभिर्दृश्यन्ते तथा तमो निवार्य प्रकाशयतीत्यर्थः। अपि च “जगत् सर्वं भुवनं “प्रार्प्य प्रकाशं गमयित्वा "नः अस्माकं “रायः धनानि वि “अख्यत् विशिष्टप्रकाशनयुक्तान्यकरोत् । “उ इत्येतत् पादपूरणम् । सैषा “उषाः “विश्वा “भुवनानि सर्वाणि भुवनानि तमसा तिरोहितत्वेन अविद्यमानकल्पानि "अजीगः उद्गिरति स्वमुखान्निर्गमयति । स्वकीयेन प्रकाशेन तमो निःसार्य पुनरुत्पन्नानीव करोतीत्यर्थः ॥ नेत्री। ‘णीञ् प्रापणे'। तृच् । 'ऋन्नेभ्यो ङीप् । उदात्तयणो हल्पूर्वात् ' इति ङीप उदात्तत्वम् । अचेति । चिती संज्ञाने। दुरः। द्वारशब्दस्य ‘ रयेर्मतौ बहुलम् ' (पा. सू. ६. १. ३७. ६) इति बहुलवचनात् संप्रसारणम् । आवः। वृञ् वरणे'। लुङि ‘मन्त्रे घस' इति च्लेर्लुक् । गुणः । हल्याेरब्भ्यः' इति तिलोपः। 'छन्दस्यपि दृश्यते' इति आडागमः । प्रार्प्य। 'ऋ गतौ । णौ ‘ अर्तिही ' इत्यादिना पुक्। ‘ समासेऽनञ्पूर्वे क्त्वो ल्यप् ' । अख्यत् । ‘ख्या प्रकथने ' । लुङि ‘ अस्यतिवक्ति' इत्यादिना च्लेरङादेशः । अजीगः। 'गॄ निगरणे'। लङि तिपि ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः । द्विर्वचनोरदत्वहलादिशेषाः । ‘अर्तिपिपर्त्योश्च, बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । छान्दसः ईकारः । यद्वा । अस्मात् ण्यन्तात् लुङि चङि द्विर्भावसन्वद्भावेत्वदीर्घाः । छान्दसः चङो लोपः ॥


जि॒ह्म॒श्ये॒३॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वम् ।

द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥ ५

जि॒ह्म॒ऽश्ये॑ । चरि॑तवे । म॒घोनी॑ । आ॒ऽभो॒गये॑ । इ॒ष्टये॑ । रा॒ये । ऊं॒ इति॑ । त्व॒म् ।

द॒भ्रम् । पश्य॑त्ऽभ्यः । उ॒र्वि॒या । वि॒ऽचक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥५

जिह्मऽश्ये । चरितवे । मघोनी । आऽभोगये । इष्टये । राये । ऊं इति । त्वम् ।

दभ्रम् । पश्यत्ऽभ्यः । उर्विया । विऽचक्षे । उषाः । अजीगः । भुवनानि । विश्वा ॥५

मघोनी इत्युषसो नामधेयम् । “मघोनी धनवती उषाः "जिह्मश्ये जिह्मं वक्रं शयानाय पुरुषाय “चरितवे चरितुं शयनादुत्थाय स्वापेक्षितं प्रति गन्तुं व्युच्छन्ती भवति । त्वम् । अयमेकशब्दपर्यायः सर्वनामशब्दः । यदाह- ‘ त्व इति विनिग्रहार्थीयं सर्वनामानुदात्तम्' (निरु. १.७) इति। “त्वम् एकं प्रति “आभोगये आभोग्याय शब्दादिविषयार्थं तथा अपरं प्रति “इष्टये यागार्थं तथा अन्यं प्रति "राये धनार्थं च व्युच्छन्तीति शेषः । उशब्दश्चार्थे । अपि च 'दभ्रम् अल्पं “पश्यद्यः"ो अन्धकारावृतत्वेन ईषद्द्रष्टृभ्यो मनुष्येभ्यः “विचक्षे विशिष्टप्रकाशाय व्युच्छन्ती “उर्विया उर्वी विस्तीर्णा “उषाः सर्वाणि भूतजातानि तमसा तिरोहितानि प्रकाशदानेन उद्गीर्णानीव करोति । जिह्मश्ये । ‘शीङ् स्वप्ने'। जिह्मं शेते इति जिह्मशीः । ‘ क्विप् च' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम्। ‘एरनेकाचः० ' इति यण् । उदात्तस्वरितयोर्यणः । इति विभक्तेः स्वरितत्वम् । आभोगये । आभोगशब्दाच्चतुर्थ्येकवचने यकारोपजनः । यद्वा । आङ्पूर्वात भुजेः बहुलवचनादौणादिकः किप्रत्ययः कुत्वं च। उर्विया । ‘इयाडियाजीकाराणामुपसंख्यानम् (पा. सू. ७. १. ३९.१ ) इति उर्वीशब्दादुत्तरस्य सोः डियाजादेशः। विचक्षे । ‘चक्षिङ् व्यक्तायां वाचि'। विपूर्वादस्मात् संपदादिलक्षणो भावे क्विप् ॥ ॥ १ ॥


क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै ।

विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥ ६

क्ष॒त्राय॑ । त्व॒म् । श्रव॑से । त्व॒म् । म॒ही॒यै । इ॒ष्टये॑ । त्व॒म् । अर्थ॑म्ऽइव । त्व॒म् । इ॒त्यै ।

विऽस॑दृशा । जी॒वि॒ता । अ॒भि॒ऽप्र॒चक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥६

क्षत्राय । त्वम् । श्रवसे । त्वम् । महीयै । इष्टये । त्वम् । अर्थम्ऽइव । त्वम् । इत्यै ।

विऽसदृशा । जीविता । अभिऽप्रचक्षे । उषाः । अजीगः । भुवनानि । विश्वा ॥६

“क्षत्राय । धननामैतत् । धनार्थं “त्वम् एकं प्रति उषा व्युच्छन्ती' इति शेषः । तथा “श्रवसे अन्नार्थं “त्वम् एकं प्रति “महीयै महत्यै “इष्टये अग्निष्टोमादिमहायज्ञार्थं “त्वम् एकं प्रति व्युच्छन्ती। तथा “अर्थमिव अपेक्षितमर्थं प्रति “इत्यै गमनार्थं “त्वम् एकं प्रति व्युच्छन्ती । अपि च “विसदृशा विलक्षणानि नानारूपाणि "जीविता जीवितानि जीवनोपायभूतानि कृषिवाणिज्यादीनि “अभिप्रचक्षे आभिमुख्येन प्रकाशयितुं व्युच्छन्ती “उषाः सर्वाणि भूतजातानि तमसा निगीर्णानि "अजीग: प्रकाशनेन उद्गीर्णानीवाकरोत् ।। त्वम् । त्वसमसिमनेमेत्यनुच्चानि' (फि. सू. ७८ ) इति सर्वानुदात्तत्वम्। महीयै। मह्यै । महेः ‘इन् सर्वधातुभ्यः' इति इन्प्रत्ययः। कृदिकारदक्तिनः' इति ङीष् । ‘ उदात्तयणः' इति विभक्तेरुदात्तत्वम् । छान्दसः ईकारोपजनः । यद्वा । महीशब्दादुत्तरस्य चतुर्थ्येकवचनस्य ' याडापः ' ( पा. सू. ७. ३. ११३ ) इति व्यत्ययेन याडागमः । छान्दसमन्तोदात्तत्वम् । विसदृशा । ‘त्यदादिषु दृशोऽनालोचने कञ्च' इत्यत्र ‘ समानान्ययोश्च' (पा. सू. ३. २. ६०. १) इति वचनात् दृशेः कञ् । 'समानस्य च्छन्दसि' इति सभावः। विगतसादृश्यानि विसदृशानि। ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अभिप्रचक्षे । चक्षेः “ तुमर्थे सेसेन्” ' इति सेन्प्रत्ययः । स्कोः संयोगाद्योः' इति कलोपः । कत्वषत्वे ॥


ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छन्ती॑ युव॒तिः शु॒क्रवा॑साः ।

विश्व॒स्येशा॑ना॒ पार्थि॑वस्य॒ वस्व॒ उषो॑ अ॒द्येह सु॑भगे॒ व्यु॑च्छ ॥ ७

ए॒षा । दि॒वः । दु॒हि॒ता । प्रति॑ । अ॒द॒र्शि॒ । वि॒ऽउ॒च्छन्ती॑ । यु॒व॒तिः । शु॒क्रऽवा॑साः ।

विश्व॑स्य । ईशा॑ना । पार्थि॑वस्य । वस्वः॑ । उषः॑ । अ॒द्य । इ॒ह । सु॒ऽभ॒गे॒ । वि । उ॒च्छ॒ ॥७

एषा । दिवः । दुहिता । प्रति । अदर्शि । विऽउच्छन्ती । युवतिः । शुक्रऽवासाः ।

विश्वस्य । ईशाना । पार्थिवस्य । वस्वः । उषः । अद्य । इह । सुऽभगे । वि । उच्छ ॥७

"दिवो “दुहिता व्योम्नो दुहितृस्थानीया । तस्य हि पूर्वार्धे उषा उत्पद्यते । सा “एषा “व्युच्छन्ती तमो वर्जयन्ती “प्रत्यदर्शि सर्वैः प्राणिभिर्दृष्टाभूत् । कीदृशी सा । “युवतिः यावयित्री फलानां पुरुषैः प्रापयित्री नित्ययौवनोपेता वा । “शुक्रवासाः श्वेतवसना निर्मलदीप्तिर्वा । तथा “विश्वस्य सर्वस्य “पार्थिवस्य पृथिव्याः संबन्धिनः “वस्वः धनस्य “ईशाना ईश्वरी। हे “सुभगे शोभनधने उषः तादृशी त्वम् “अद्य अस्मिन् काले “इह अस्मिन् देवयजनदेशे “व्युच्छ तमांसि विवासय वर्जयेत्यर्थः ॥ दिवः। ‘ उडिदम्' इति विभक्तेरुदात्तत्वम् । व्युच्छन्ती ।' उछी विवासे । विवासो वर्जनम् । तौदादिकः । युवतिः । ‘ यूनस्तिः ' (पा. सू. ४. १. ७७)। शुक्रवासाः । ‘वस आच्छादने । वस्ते सर्वमाच्छादयतीति प्रकाशो वासः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ईशाना। ‘ईश ऐश्वर्ये'। अदादित्वात् शपो लुक् । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । पार्थिवस्य । “पृथिव्या ञाञौ ' इति प्राग्दीव्यतीयः अञ्प्रत्ययः । वस्वः । लिङ्गव्यत्ययः । ‘ धेर्ङिति' इति गुणस्य ‘ जसादिषु च्छन्दसि वावचनम् ' इति विकल्पितत्वादभावे यणादेशः ।।


प॒रा॒य॒ती॒नामन्वे॑ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनाम् ।

व्यु॒च्छन्ती॑ जी॒वमु॑दी॒रय॑न्त्यु॒षा मृ॒तं कं च॒न बो॒धय॑न्ती ॥ ८

प॒रा॒ऽय॒ती॒नाम् । अनु॑ । ए॒ति॒ । पाथः॑ । आ॒ऽय॒ती॒नाम् । प्र॒थ॒मा । शश्व॑तीनाम् ।

वि॒ऽउ॒च्छन्ती॑ । जी॒वम् । उ॒त्ऽई॒रय॑न्ती । उ॒षाः । मृ॒तम् । कम् । च॒न । बो॒धय॑न्ती ॥८

पराऽयतीनाम् । अनु । एति । पाथः । आऽयतीनाम् । प्रथमा । शश्वतीनाम् ।

विऽउच्छन्ती । जीवम् । उत्ऽईरयन्ती । उषाः । मृतम् । कम् । चन । बोधयन्ती ॥८

“परायतीनां परागच्छन्तीनाम् अतीतानामुषसां संबन्धि "पाथः अन्तरिक्षैकदेशलक्षणं स्थानम् । ‘ पाथोऽन्तरिक्षं पथा व्याख्यातम् ' ( निरु. ६. ७) इति यास्कः। अद्यतन्युषाः “अन्वेति अनुगच्छति । अतीता उषसो यथा व्युष्टा एवमेवैषापि व्युच्छतीत्यर्थः । तथा “आयतीनाम् आगच्छन्तीनां “शश्वतीनां बह्वीनामुषसां “प्रथमा आद्या भवति । एषा यथा वर्तते एवमेव आगामिन्योऽप्युषस इत्यर्थः । तादृशी “व्युच्छन्ती तमो वर्जयन्ती "जीवं प्राणिनां जीवात्मानम् “उदीरयन्ती शयनादूर्ध्वं प्रेरयन्ती “उषाः “मृतं स्वापसमये प्रलीनेन्द्रियत्वात् मृतमिव सन्तं "कं “चन कमपि पुरुषं “बोधयन्ती पुनः इन्द्रियप्रवेशेन चेतनं कुर्वती प्रवर्तत इति शेषः ॥ परायतीनाम् । इण् गतौ । लटः शतृ । इणो यण् ‘ उगितश्च ' इति ङीप् । ड्याश्छन्दसि बहुलम्' इति नाम उदात्तत्वम् ॥


उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य ।

यन्मानु॑षान्य॒क्ष्यमा॑णा॒ँ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्नः॑ ॥ ९

उषः॑ । यत् । अ॒ग्निम् । स॒म्ऽइधे॑ । च॒कर्थ॑ । वि । यत् । आवः॑ । चक्ष॑सा । सूर्य॑स्य ।

यत् । मानु॑षान् । य॒क्ष्यमा॑णान् । अजी॑ग॒रिति॑ । तत् । दे॒वेषु॑ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः॑ ॥९

उषः । यत् । अग्निम् । सम्ऽइधे । चकर्थ । वि । यत् । आवः । चक्षसा । सूर्यस्य ।

यत् । मानुषान् । यक्ष्यमाणान् । अजीगरिति । तत् । देवेषु । चकृषे । भद्रम् । अप्नः ॥९

हे “उषः “त्वम् “अग्निं गार्हपत्यादिरूपं “समिधे समिन्धनाय प्रज्वलनार्थं “यत् “चकर्थ कृतवती । उषःकाले ह्यग्नयो होमार्थमुपसमिध्यन्ते । अपि च तमसा तिरोहितं जगत् “सूर्यस्य “चक्षसा प्रकाशेन “यत् "वि “आवः व्यवृणोः तमसा विश्लिष्टमकरोः । तथा “मानुषान् मनोः पुत्रान् मनुष्यान् “यक्ष्यमाणान् यागं करिष्यतस्त्वं “यत् "अजीगः पूर्वं तमसा ग्रस्तान् प्रकाशेन उद्गीर्णानिवाकरोः । हे उषः “देवेषु मध्ये स्वमेव “भद्रं भजनीयं “तत् एतत्त्रिविधम् "अप्नः कर्म “चकृषे कृतवती ॥ आवः । ‘ वृञ् वरणे ' । लुङि ‘मन्त्रे घस ' इति च्लेर्लुक् । गुणे ‘हल्ङ्याब्भ्यः ' इति सिलोपः। छन्दस्यपि दृश्यते' इति आडागमः । मानुषान् । “मनोर्जातावञ्यतौ षुक् च ' इति अञ् षुगागमश्च ॥


किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् ।

अनु॒ पूर्वाः॑ कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥ १०

किय॑ति । आ । यत् । स॒मया॑ । भवा॑ति । याः । वि॒ऽऊ॒षुः । याः । च॒ । नू॒नम् । वि॒ऽउ॒च्छान् ।

अनु॑ । पूर्वाः॑ । कृ॒प॒ते॒ । वा॒व॒शा॒ना । प्र॒ऽदीध्या॑ना । जोष॑म् । अ॒न्याभिः॑ । ए॒ति॒ ॥१०

कियति । आ । यत् । समया । भवाति । याः । विऽऊषुः । याः । च । नूनम् । विऽउच्छान् ।

अनु । पूर्वाः । कृपते । वावशाना । प्रऽदीध्याना । जोषम् । अन्याभिः । एति ॥१०

समया इत्यव्ययं समीपवचनम् । उषाः “समया "भवाति समीपस्था भवतीति “यत् एतत् तत् “कियति काले प्रवृत्तं परिसमाप्तं वा इति आकारः प्रश्नार्थः। एतदुक्तं भवति । उषा येन कालेन संयुक्ता स कालः कियान् तस्य कालस्य किं परिमाणमिति । अनेन उषसोऽनन्तत्वमुक्तम् । तदेव स्पष्टीकरोति । पुरा "याः उषसः “व्यूषुः व्युष्टाः संजाताः। “नूनम् अवश्यमितः परं “याश्च उषसः “व्युच्छान् व्युच्छन्ति व्युष्टा भविष्यन्ति । तत्र “पूर्वाः व्युष्टा अतीता उषसः “वावशाना कामयमाना इदानीं वर्तमाना उषाः “अनु “कृपते अनुकल्पते समर्था भवति । अतीता उषसो यथा प्रकाशमकुर्वन् तद्वदेषापि प्रकाशं करोतीत्यर्थः । तथा “प्रदीध्याना प्रकर्षेण दीप्यमाना उषाः “अन्याभिः आगामिनीभिः उषोभिः “जोषं सह “एति संगच्छते। आगामिन्योऽपि एतदीयं प्रकाशम् अनुकुर्वन्ति इत्यर्थः॥ कियति । किं परिमाणमस्य । किमिदंभ्यां वो घः' (पा. सू. ५. २. ४० ) इति घत्वविधानसामर्थ्यात् किंशब्दादपि परिमाणार्थे वतुप् वकारस्य घत्वम्। इदंकिमोरीश्की' (पा. सू. ६. ३.९०) इति किमः कीआदेशः । घस्य इयादेशे • यस्य° ' इति लोपः । प्रत्ययाद्युदात्तत्वम् । छान्दसः सांहितिको दीर्घः । भवाति ।लेटि आडागमः । व्यूषुः । विपूर्वो वसतिर्व्युच्छने वर्तते । लिटि उसि कित्त्वे यजादित्वात् संप्रसारणं द्विर्वचनादि । व्युच्छान् ।' उछी विवासे । विवासो वर्जनम् । लेटि आडागमः । संयोगान्तस्य लोपः । कृपते। ‘ कृपू सामर्थ्ये '। व्यत्ययेन शः । वावशाना । ‘ वश कान्तौ'। अस्मान् यङ्लुगन्तात् ताच्छीलिकः चानश् । प्रदीध्याना ।' दीधीङ् दीप्तिदेवनयोः '। लटः शानच् । अदादित्वात् शपो लुक् । ‘जक्षित्यादयः षट्' इति अभ्यस्तसंज्ञायाम् ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ ॥ २ ॥


ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः ।

अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥ ११

ई॒युः । ते । ये । पूर्व॑ऽतराम् । अप॑श्यन् । वि॒ऽउ॒च्छन्ती॑म् । उ॒षस॑म् । मर्त्या॑सः ।

अ॒स्माभिः॑ । ऊं॒ इति॑ । नु । प्र॒ति॒ऽचक्ष्या॑ । अ॒भू॒त् । ओ इति॑ । ते । य॒न्ति॒ । ये । अ॒प॒रीषु॑ । पश्या॑न् ॥११

ईयुः । ते । ये । पूर्वऽतराम् । अपश्यन् । विऽउच्छन्तीम् । उषसम् । मर्त्यासः ।

अस्माभिः । ऊं इति । नु । प्रतिऽचक्ष्या । अभूत् । ओ इति । ते । यन्ति । ये । अपरीषु । पश्यान् ॥११

"ये “मर्त्यासः मरणधर्माणो मनुष्याः “व्युच्छन्तीं विवासयन्तीं “पूर्वतराम् अतिशयेन पूर्वां विप्रकृष्टाम् “उषसम् “अपश्यन् दृष्टवन्तः “ते मनुष्याः “ईयुः गताः। तथा “अस्माभिः अपि “नु इदानीं “प्रतिचक्ष्या प्रकर्षेण द्रष्टव्या “अभूत् जाता । तथा “अपरीषु भाविनीषु रात्रिषु “ये मनुष्याः एतामुषसं “पश्यान् पश्यन्ति “ते । आ उ इति निपातद्वयसमुदायः । तत्र उ इत्येतदवधारणे । एव "यन्ति आगच्छन्त्येव । कालत्रयेऽप्येषा व्याप्य वर्तते इत्यर्थः ॥ ईयुः । ‘ इण् गतौ '। लिटि उसि इणो यण्' इति यणादेशः । ‘ द्विर्वचनेऽचि' इति तस्य स्थानिवद्भावात् द्विर्भावे' दीर्घ इणः किति' (पा. सू. . ७. ४. ६९ ) इति अभ्यासस्य दीर्घत्वम् । ते । ‘ युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति सकारस्य षत्वं ष्टुत्वं च । मर्त्यासः । ‘ आज्जसेरसुक्' ॥


या॒व॒यद्द्वे॑षा ऋत॒पा ऋ॑ते॒जाः सु॑म्ना॒वरी॑ सू॒नृता॑ ई॒रय॑न्ती ।

सु॒म॒ङ्ग॒लीर्बिभ्र॑ती दे॒ववी॑तिमि॒हाद्योषः॒ श्रेष्ठ॑तमा॒ व्यु॑च्छ ॥ १२

य॒व॒यत्ऽद्वे॑षाः । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । सु॒म्न॒ऽवरी॑ । सू॒नृताः॑ । ई॒रय॑न्ती ।

सु॒ऽम॒ङ्ग॒लीः । बिभ्र॑ती । दे॒वऽवी॑तिम् । इ॒ह । अ॒द्य । उ॒षः॒ । श्रेष्ठ॑ऽतमा । वि । उ॒च्छ॒ ॥१२

यवयत्ऽद्वेषाः । ऋतऽपाः । ऋतेऽजाः । सुम्नऽवरी । सूनृताः । ईरयन्ती ।

सुऽमङ्गलीः । बिभ्रती । देवऽवीतिम् । इह । अद्य । उषः । श्रेष्ठऽतमा । वि । उच्छ ॥१२

“यावयद्द्वेषाः । यावयन्ति अस्मत्तः पृथक्तकृतानि द्वेषांसि द्वेष्टॄणि राक्षसादीनि यया सा तथोक्ता । न ह्युष्यसि जातायां राक्षसादयोऽवतिष्ठन्ते यतस्ते निशाचराः । “ऋतपाः ऋतस्य सत्यस्य यज्ञस्य वा पालयित्री “ऋतेजाः यज्ञार्थं प्रादुर्भूता । सत्यामुषसि अहनि यागा अनुष्ठीयन्ते अतो यज्ञार्थं जातेत्युच्यते। “सुम्नावरी । सुम्नमिति सुखनाम तद्वती । "सूनृताः । वाङ्नामैतत् । पशुपक्षिमृगादीनां वचांसि “ईरयन्ती प्रेरयन्त्युत्पादयन्ती । “सुमङ्गलीः सौमङ्गल्योपेता । पत्या कदाचिदपि न वियुक्तेत्यर्थः । “देववीतिं देवैः काम्यमानं यज्ञं “बिभ्रती धारयन्ती हे “उषः “श्रेष्ठतमा उक्तेन प्रकारेणातिप्रशस्ता त्वम् “इह अस्मिन् देवयजनदेशे "अद्य अस्मिन् यागसमये “व्युच्छ विवासय ॥ यावयद्द्वेषाः। ‘यु मिश्रणामिश्रणयोः' । अस्मात् ण्यन्तात् लटः शतृ । तस्य छन्दस्युभयथा ' इति आर्धधातुकत्वात् अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावात् प्रत्ययस्वर एव शिष्यते । पुनर्बहुव्रीहौ स एव स्वरः । छान्दसः पदकालीनो ह्रस्वः । ऋतपाः । ऋतं पाति रक्षतीति ऋतपाः। ‘पा रक्षणे'। विच् । ऋतेजाः ।ऋते निमित्तभूते जायते इति ऋतेजाः । जनी प्रादुर्भावे ' । जनसनखनक्रमगमो विट् । ‘ विड्वनोरनुनासिकस्यात् ' इति आत्वम् । तत्पुरुषे कृति बहुलम्' इति अलुक्। सुम्नावरी । ‘ छन्दसीवनिपौ । इति मत्वर्थीयो वनिप् । 'वनो र च ' इति ङीप् नकारस्य रेफादेशश्च । अन्येषामपि दृश्यते ' इति दीर्घः । व्यत्ययेन प्रत्ययाद्युदात्तत्वम्। सुमङ्गलीः। ‘सुमङ्गलात् संज्ञायाम्' (पा. सू. ४.१.४१. ग.) इति गौरादिषु पाठात् ङीष् । सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति 'हल्ङ्याब्भ्यः' इति सुलोपस्य विकल्पितत्वात् अभावे रुत्वविसर्गौ । देववीतिम् । ‘ वी गतिप्रजनकान्त्यशनखादनेषु । देवैर्वीयते काम्यते इति देववीतिर्यज्ञः । कर्मणि क्तिन् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ॥


शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑ ।

अथो॒ व्यु॑च्छा॒दुत्त॑रा॒ँ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभिः॑ ॥ १३

शश्व॑त् । पु॒रा । उ॒षाः । वि । उ॒वा॒स॒ । दे॒वी । अथो॒ इति॑ । अ॒द्य । इ॒दम् । वि । आ॒वः॒ । म॒घोनी॑ ।

अथो॒ इति॑ । वि । उ॒च्छा॒त् । उत्ऽत॑रान् । अनु॑ । द्यून् । अ॒जरा॑ । अ॒मृता॑ । च॒र॒ति॒ । स्व॒धाभिः॑ ॥१३

शश्वत् । पुरा । उषाः । वि । उवास । देवी । अथो इति । अद्य । इदम् । वि । आवः । मघोनी ।

अथो इति । वि । उच्छात् । उत्ऽतरान् । अनु । द्यून् । अजरा । अमृता । चरति । स्वधाभिः ॥१३

“देवी देवनशीला "उषाः “पुरा पूर्वस्मिन्काले “शश्वत् नित्यं संततं “व्युवास व्यौच्छत् । “अथो अनन्तरम् “अद्य अस्मिन् काले “मघोनी धनवती उषाः तमसा तिरोहितम् “इदं सर्वं जगत् “व्यावः विवासितं प्रकाशनेन तमसा वियुक्तमकरोत् । “अथो अनन्तरम् “उत्तरान् ऊर्ध्वंतरान् भाविनः “द्यून् दिवसान् अनुलक्ष्य आगामिष्वपि दिवसेषु “व्युच्छात् व्युच्छति विवासयति । अतः कालत्रयव्यापिनी सोषाः “अजरा जरारहिता सर्वदैकरूपा "अमृता मरणरहिता च सती "स्वधाभिः आत्मीयैस्तेजोभिः सह "चरति वर्तते ॥ उवास। ‘वस निवासे '।‘लिट्यभ्यासस्योभयेषाम् ' इति अभ्यासस्य संप्रसारणम् । आवः । तस्मादेव धातोर्लंङि बहुलं छन्दसि' इति विकरणस्य लुक्। 'हल्ङ्याब्भ्यः' इति तिलोपः। 'छन्दस्यपि दृश्यते ' इति आडागमः । उच्छात् । लेटि आडागमः । उत्तरान् । ' दीर्घादटि समानपदे ' इति नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिकः आकारः। अनु। 'अनुर्लक्षणे' (पा. सू. १. ४. ८४ ) इति अनोः कर्मप्रवचनीयत्वम्। अजरा अमृता । तत्र बहुव्रीहौ ‘नञो जरमरमित्रमृताः ' इति उत्तरपदाद्युदात्तत्वम् ॥


व्य१॒॑ञ्जिभि॑र्दि॒व आता॑स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं॑ दे॒व्या॑वः ।

प्र॒बो॒धय॑न्त्यरु॒णेभि॒रश्वै॒रोषा या॑ति सु॒युजा॒ रथे॑न ॥ १४

वि । अ॒ञ्जिऽभिः॑ । दि॒वः । आता॑सु । अ॒द्यौ॒त् । अप॑ । कृ॒ष्णाम् । निः॒ऽनिज॑म् । दे॒वी । आ॒व॒रित्या॑वः ।

प्र॒ऽबो॒धय॑न्ती । अ॒रु॒णेभिः॑ । अश्वैः॑ । आ । उ॒षाः । या॒ति॒ । सु॒ऽयुजा॑ । रथे॑न ॥१४

वि । अञ्जिऽभिः । दिवः । आतासु । अद्यौत् । अप । कृष्णाम् । निःऽनिजम् । देवी । आवरित्यावः ।

प्रऽबोधयन्ती । अरुणेभिः । अश्वैः । आ । उषाः । याति । सुऽयुजा । रथेन ॥१४

“दिवः नभसः संबन्धिनीषु “आतासु । दिङ्नामैतत् । आततासु विस्तीर्णासु दिक्षु उषाः “अञ्जिभिः व्यञ्जकैः प्रकाशकैः तेजोभिः “वि “अद्यौत् विद्योतते प्रकाशते । सैषा “देवी देवनशीला “कृष्णां “निर्णिजम् । निर्णिगिति रूपनाम। रात्रिकृतं कृष्णं रूपम् "अप “आवः अपावृणोत् । प्रकाशेन तिरस्कृतवती । अपि च “अरुणेभिः अरुणैः लोहितवर्णैः “अश्वैः व्यापनशीलैः स्वकीयैः किरणैस्तुरगैर्वा “सुयुजा सम्यग्युक्तेन “रथेन “उषाः “आ “याति आगच्छति । किं कुर्वती । "प्रबोधयन्ती सुप्तान् प्राणिनः प्रबुद्धान् कुर्वती ॥ अद्यौत् ।' द्युत दीप्तौ । लुङ्। ‘ द्युद्भ्यो लुङि' (पा. सू. १. ३. ९१) इति परस्मैपदम् । व्यत्ययेन च्लेर्लुक् । गुणे प्राप्ते वृद्धिश्छान्दसी। यद्वा। ‘द्यु अभिगमने'। आदादिकः। ‘ उतो वृद्धिर्लुकि हलि ' ( पा. सू. ७. ३. ८९ ) इति वृद्धिः ॥


देवीनां हविःषु आवहन्ती' इत्येषा उषसो याज्या । सूत्रितं च - ‘आ द्यां तनोषि रश्मिभिरावहन्ती पोष्या वार्यणि न ता अर्वा रेणुककाटो अश्नुते ' ( आश्व. श्रौ. ६. १४ ) इति ॥

आ॒वह॑न्ती॒ पोष्या॒ वार्या॑णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना ।

ई॒युषी॑णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ॥ १५

आ॒ऽवह॑न्ती । पोष्या॑ । वार्या॑णि । चि॒त्रम् । के॒तुम् । कृ॒णु॒ते॒ । चेकि॑ताना ।

ई॒युषी॑णाम् । उ॒प॒ऽमा । शश्व॑तीनाम् । वि॒ऽभा॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒श्वै॒त् ॥१५

आऽवहन्ती । पोष्या । वार्याणि । चित्रम् । केतुम् । कृणुते । चेकिताना ।

ईयुषीणाम् । उपऽमा । शश्वतीनाम् । विऽभातीनाम् । प्रथमा । उषाः । वि । अश्वैत् ॥१५

“पोष्या यावज्जीवं पोषणसमर्थानि “वार्याणि वरणीयानि धनानि “आवहन्ती अस्मभ्यमानयन्ती “चेकिताना सर्वं जनं प्रज्ञापयन्ती “उषाः “चित्रं विचित्रमाश्चर्यभूतं चायनीयं वा "केतुं प्रज्ञापकं रश्मिं कृत्स्नजगत्प्रकाशनसमर्थं “कृणुते स्वात्मनः प्रकाशात् कुरुते। सैषा "ईयुषीणां गमनवतीनां पूर्वनिष्पन्नानां “शश्वतीनां बह्वीनामुषसाम् “उपमा उप समीपे निर्मितोपमानभूता वा ”विभातीनां विशेषेण प्रकाशमानानामागामिनीनाम् उषसां “प्रथमा आद्या एवंभूतोषाः “व्यश्वैत् तेजसा प्रवृद्धासीत् ।। पोष्या । ‘ पुष पुष्टौ ' । पोषणं पोषः। भावे घञ् । तत्र भवानि। ‘भवे छन्दसि ' इति यत् । यतोऽनावः इत्याद्युदात्तत्वम् । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । वार्याणि । ' वृङ् संभक्तौ । ‘ ऋहलोर्ण्यत् '। ' ईडवन्दवृशंसदुहां ण्यतः' इत्याद्युदात्तत्वम् । चेकिताना । ‘ कित ज्ञाने'। अस्मात् यङन्तात् लटः शानच् । 'छन्दस्युभयथा' इति तस्य आर्धधातुकत्वात् अतोलोपयलोपौ । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ईयुषीणाम् । • इण् गतौ ' । लिटः क्वसुः । द्विर्भावादि । ‘ उगितश्च ' इति ङीप् । “वसोः संप्रसारणम् । ‘ इणो यण्' इति यणादेशः । ‘ दीर्घ इणः किति ' इति अभ्यासस्य दीर्घत्वम् । शासिवसिघसीनां च' इति षत्वम् । ङीप्सुपौ पित्त्वादनुदात्तौ। विभातीनाम्। ‘ भा दीप्तौ । अस्मात् शत्रन्तात् पूर्ववत् ङीप् । ‘ङ्याश्छन्दसि बहुलम्' इति नाम उदात्तत्वम् । अश्वैत् । टुओश्वि गतिवृद्धयोः'। लङि • बहुलं छन्दसि' इति विकरणस्य लुक्। गुणे कृते व्यत्ययेन ऐत्वम् ॥ ॥ ३ ॥


उदी॑र्ध्वं जी॒वो असु॑र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति ।

आरै॒क्पन्थां॒ यात॑वे॒ सूर्या॒याग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥ १६

उत् । ई॒र्ध्व॒म् । जी॒वः । असुः॑ । नः॒ । आ । अ॒गा॒त् । अप॑ । प्र । अ॒गा॒त् । तमः॑ । आ । ज्योतिः॑ । ए॒ति॒ ।

अरै॑क् । पन्था॑म् । यात॑वे । सूर्या॑य । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥१६

उत् । ईर्ध्वम् । जीवः । असुः । नः । आ । अगात् । अप । प्र । अगात् । तमः । आ । ज्योतिः । एति ।

अरैक् । पन्थाम् । यातवे । सूर्याय । अगन्म । यत्र । प्रऽतिरन्ते । आयुः ॥१६

हे मनुष्याः उदीर्ध्वं शयनं परित्यज्य उद्गच्छत। "नः अस्माकम् “असुः शरीरस्य प्रेरयिता "जीवः जीवात्मा “आगात् आगतवान्। “तम: “अप “प्रागात् अपक्रान्तम्। उषसः प्रकाशे सति सर्वजीवनव्यापारयोगः। तस्मात् परमात्मरूपतया स च जीवस्तदेव "ज्योतिः “आ “एति आगच्छति। "सूर्याय सूर्यस्य “पन्थां मार्गम् “आरैक् विविक्तीकरोति । “यातवे गमनाय । तस्मिन् देशे “अगन्म गच्छामः “यत्र यस्मिन् देशे “आयुः । अन्ननामैतत् । अन्नं "प्रतिरन्ते । प्रपूर्वस्तिरतिर्वर्धनार्थः । उदारा दानेन प्रवर्धयन्ति ॥ ईर्ध्वम् । ‘ ईर गतौ । आदादिकोऽनुदात्तेत् । अरैक् । ‘रिचिर् विरेचने '। लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । गुणे व्यत्ययेन ऐत्वम् । पन्थाम् । द्वितीयायामपि ‘ पथिमथ्यृभुक्षामात्' इति व्यत्ययेन आत्वम् । अगन्म । गमेर्लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ' म्वोश्च ' ( पा. सू. ८. २. ६५) इति मकारस्य नकारः ॥


स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्निः॒ स्तवा॑नो रे॒भ उ॒षसो॑ विभा॒तीः ।

अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ॥ १७

स्यूम॑ना । वा॒चः । उत् । इ॒य॒र्ति॒ । वह्निः॑ । स्तवा॑नः । रे॒भः । उ॒षसः॑ । वि॒ऽभा॒तीः ।

अ॒द्य । तत् । उ॒च्छ॒ । गृ॒ण॒ते । म॒घो॒नि॒ । अ॒स्मे इति॑ । आयुः॑ । नि । दि॒दी॒हि॒ । प्र॒जाऽव॑त् ॥१७

स्यूमना । वाचः । उत् । इयर्ति । वह्निः । स्तवानः । रेभः । उषसः । विऽभातीः ।

अद्य । तत् । उच्छ । गृणते । मघोनि । अस्मे इति । आयुः । नि । दिदीहि । प्रजाऽवत् ॥१७

“वह्निः स्तोत्राणां वोढा । “रेभः । स्तोतृनामैतत् । स्तोता “उषसो “विभातीः तमसोऽपनोदनेन प्रकाशमाना उषोदेवताः “स्तवानः स्तुवन् “वाचः वेदरूपायाः संबन्धीनि “स्यूमना स्यूमानि अनुस्यूतानि संततानि उक्थानि “उदियर्ति उद्गमयति उच्चारयति । अतो हे “मघोनि मघवति उषः “अद्य अस्मिन् समये “गृणते स्तुवते तस्मै पुरुषाय “तदुच्छ । दृष्टिनिरोधकतया प्रसिद्धं नैशं तमो विवासय वर्जय । “अस्मे अस्मभ्यं च “प्रजावत् प्रजाभिः पुत्रपौत्रादिभिर्युक्तम् “आयुः अन्नं “नि “दिदीहि नितरां प्रकाशय। दीदेतिश्छान्दसो दीप्तिकर्मा । प्रयच्छेत्यर्थः ॥ स्यूमना । ‘ षिवु तन्तुसंताने' । अन्येभ्योऽपि दृश्यन्ते' इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् कर्मणि मनिन् । ‘ च्छ्वोः शूठ्' इति ऊठ्। ‘ आङ्याजयारां चोपसंख्यानम् ' (पा. म. ७. १, ३९. १ ) इति विभक्तेः आङादेशः । यद्वा । औणादिको भावे मक् । पामादिलक्षणो मत्वर्थीयो नः । बन्धनयुक्तानि इत्यर्थः । ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः। व्यत्ययेनाद्युदात्तत्वम् । वाचः । ‘ सावेकाचः° ? इति ङस उदात्तत्वम् । इयर्ति । ‘ ऋ गतौ ' । जौहोत्यादिकः'। 'अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । स्तवानः । “ष्टुञ् स्तुतौ '। शानिचि अदादित्वात् शपो लुक् । तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वेन ङित्त्वाभावात् गुणावादेशौ । व्यत्ययेनाद्युदात्तत्वम् । विभातीः।‘शतुरनुमो नद्यजादी' इति ङीप उदात्तत्वम् । गृणते । ‘गॄ शब्दे ' । क्रैयादिकः । ‘ प्वादीनां ह्रस्वः । पूर्वोक्तेन सूत्रेण विभक्तेरुदात्तत्वम् । अस्मे । ‘सुपां सुलुक्' इति चतुर्थ्याः शेआदेशः ॥


या गोम॑तीरु॒षसः॒ सर्व॑वीरा व्यु॒च्छन्ति॑ दा॒शुषे॒ मर्त्या॑य ।

वा॒योरि॑व सू॒नृता॑नामुद॒र्के ता अ॑श्व॒दा अ॑श्नवत्सोम॒सुत्वा॑ ॥ १८

याः । गोऽम॑तीः । उ॒षसः॑ । सर्व॑ऽवीराः । वि॒ऽउ॒च्छन्ति॑ । दा॒शुषे॑ । मर्त्या॑य ।

वा॒योःऽइ॑व । सू॒नृता॑नाम् । उ॒त्ऽअ॒र्के । ताः । अ॒श्व॒ऽदाः । अ॒श्न॒व॒त् । सो॒म॒ऽसुत्वा॑ ॥१८

याः । गोऽमतीः । उषसः । सर्वऽवीराः । विऽउच्छन्ति । दाशुषे । मर्त्याय ।

वायोःऽइव । सूनृतानाम् । उत्ऽअर्के । ताः । अश्वऽदाः । अश्नवत् । सोमऽसुत्वा ॥१८

“दाशुषे हवींषि दत्तवते मर्त्याय मनुष्याय यजमानाय "गोमतीः गोमत्यो बहुभिर्गोंभिर्युकताः “सर्ववीराः सर्वैः सरणसमर्थैः वीरैः शूरैर्युक्ताः “याः "उषसः “व्युच्छन्ति तमो वर्जयन्ति। “वायोरिव वायुवच्छीघ्रं प्रवर्तमानानां “सूनृतानां स्तुतिरूपाणां वाचाम् “उदर्के समाप्तौ “अश्वदाः अश्वानां दात्रीः “ताः उषसः “सोमसुत्वा सोमानामभिषोता यजमानः “अश्नवत् व्याप्नोतु ॥ दाशुषे । ‘ दाशृ दाने । ‘ दाश्वान्साह्वान् ' इति क्वसुप्रत्ययान्तो निपात्यते । चतुर्थ्येकवचने ‘वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् । अश्नवत् । अशू व्याप्तौ '। व्यत्ययेन परस्मैपदम्। लेट अडागमः । ‘ इतश्च लोपः० ' इति इकारलोपः। सोमसुत्वा । ‘ षुञ् अभिषवे'। ‘ अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप् । ह्रस्वस्य पिति' इति तुक्॥


मा॒ता दे॒वाना॒मदि॑ते॒रनी॑कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा॑हि ।

प्र॒श॒स्ति॒कृद्ब्रह्म॑णे नो॒ व्यु१॒॑च्छा नो॒ जने॑ जनय विश्ववारे ॥ १९

मा॒ता । दे॒वाना॑म् । अदि॑तेः । अनी॑कम् । य॒ज्ञस्य॑ । के॒तुः । बृ॒ह॒ती । वि । भा॒हि॒ ।

प्र॒श॒स्ति॒ऽकृत् । ब्रह्म॑णे । नः॒ । वि । उ॒च्छ॒ । आ । नः॒ । जने॑ । ज॒न॒य॒ । वि॒श्व॒ऽवा॒रे॒ ॥१९

माता । देवानाम् । अदितेः । अनीकम् । यज्ञस्य । केतुः । बृहती । वि । भाहि ।

प्रशस्तिऽकृत् । ब्रह्मणे । नः । वि । उच्छ । आ । नः । जने । जनय । विश्वऽवारे ॥१९

हे उषस्त्वं “देवानां “माता जननी । उषसि सर्वे देवाः स्तुत्या प्रबोध्यन्ते अतः सा तज्जननवती इत्युच्यते । अत एव “अदितेः देवानां मातुः "अनीकं प्रत्यनीकम् । प्रतिस्पर्धिनी त्वमित्यर्थः । यद्वा । दीव्यन्तीति देवा रश्मयः । तेषां निर्मात्री । अदितेरखण्डनीयाया भूमेरनीकं मुखम् । यथेन्द्रियाश्रयत्वात् मुखं प्रकाशकम् एवमुषाः भूमेः प्रकाशयित्रीत्यर्थः । “यज्ञस्य “केतुः केतयित्री ज्ञापयित्री “बृहती महती सती “वि “भाहि प्रकाशस्व । अपि च “प्रशस्तिकृत् सम्यक् स्तुतमिति प्रशंसनं कुर्वती “नः अस्मदीयाय “ब्रह्मणे मन्त्ररूपाय स्तोत्राय “व्युच्छ विवासय। तदनन्तरं हे “विश्ववारे सर्वैर्वरणीये उषः “नः अस्मान् “जने जनपदे “आ “जनय आभिमुख्येन प्रादुर्भावय अवस्थापयेत्यर्थः ॥ बृहती। बृहन्महतोरुपसंख्यानम् इति ङीप उदात्तत्वम् । प्रशस्तिकृत् । ‘ शंसु स्तुतौ '। भावे क्तिन् । ‘ तितुत्र ' इति इट्प्रतिषेधः। “अनिदिताम्' इति नलोपः । तस्मिन्नुपपदे करोतेः ‘क्विप् च' इति क्विप्। जनय। ‘जनी प्रादुर्भावे'। णिचि उपधावृद्धिः । ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च ' इति मित्त्वे ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् ।।


यच्चि॒त्रमप्न॑ उ॒षसो॒ वह॑न्तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रम् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ २०

यत् । चि॒त्रम् । अप्नः॑ । उ॒षसः॑ । वह॑न्ति । ई॒जा॒नाय॑ । श॒श॒मा॒नाय॑ । भ॒द्रम् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥२०

यत् । चित्रम् । अप्नः । उषसः । वहन्ति । ईजानाय । शशमानाय । भद्रम् ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥२०

“चित्रं चायनीयं “अप्नः आप्तव्यं “यत् धनम् “उषसो “वहन्ति आनयन्ति “ईजानाय हविर्भिः इष्टवते “शशमानाय स्तुतिभिः संभजमानाय पुरुषाय “भद्रं भजनीयं तत् भवतीति शेषः । यदनेन सूक्तेनास्माभिः प्रार्थितं तत् मित्रादयः षड्देवताः "ममहन्तां पूजितं कुर्वन्तु ॥ अप्नः । ‘ आप्लृ व्याप्तौ'। ‘ आपः कर्माख्यायां ह्रस्वो नुट् च वा' इति बहुलग्रहणात् अकर्माख्यायामपि असुन्; धातोर्ह्रस्वो नुडागमश्च । ईजानाय । यजतेश्छन्दसि लिट्।' लिटः कानज्वा'।' वचिस्वपि° ' इत्यादिना संप्रसारणम् । द्विर्वचनादि । शशमानाय । ‘शश प्लुतगतौ'। ताच्छीलिकश्चानश्। तस्य लसार्वधातुकत्वाभावात् अदुपदेशात् लसार्वधातुकस्वराभावे चित्स्वर एव शिष्यते ॥ ॥ ४ ॥

टिप्पणी

१.११३.१ इदं श्रेष्ठं ज्योतिषां इति

तु. ऋ. १०.१७०.३

उशनाः


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११३&oldid=401270" इत्यस्माद् प्रतिप्राप्तम्