प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.११५

(ऋग्वेद: सूक्तं १.११५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.११४ ऋग्वेदः - मण्डल १
सूक्तं १.११५
कुत्स आङ्गिरसः
सूक्तं १.११६ →
दे. सूर्यः। त्रिष्टुप्।


चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१॥
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥२॥
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥३॥
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।
यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥४॥
तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥५॥
अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥६॥


सायणभाष्यम्

‘ चित्रम्' इति षडृचं दशमं सूक्तं कुत्सस्यार्षं त्रैष्टुभं सूर्यदेवताकम् । तथा चानुक्रान्तं-- चित्रं षट् सौर्यम्' इति । आश्विनशस्त्रे सूर्योदयादूर्ध्वं सौर्याणि सूक्तानि शंसनीयानि । तत्रेदं सूक्तं शंसनीयम् । सूत्रितं च - ‘ चित्रं देवानां नमो मित्रस्य ' ( आश्व. श्रौ. ६. ५) इति ॥ आदितस्तिस्र ऋचः सौर्यस्य पशोः वपापुरोडाशहविषां क्रमेणानुवाक्याः । ततो द्वे वपापुरोडाशयोः याज्ये । तथा च सूत्रितं - चित्रं देवानामुदगादनीकमिति पञ्च शं नो भव चक्षसा शं नो अह्ना ' ( आश्व. श्रौ. ३. ८) इति । अतिमूर्तिनाम्नि एकाहे शुनासीर्ये पर्वणि च सूर्यस्य हविषः ‘ चित्रं देवानाम् ' इत्येषा याज्या । सूत्रितं च - तरणिर्विश्वदर्शतः चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः' (आश्व. श्रौ. ९. ८) इति ।।


चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।

आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥१

चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः ।

आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥१

चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षुः । मित्रस्य । वरुणस्य । अग्नेः ।

आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च ॥१

“देवानाम् । दीव्यन्तीति देवा रश्मयः तेषाम् । देवजनानामेव वा । “अनीकं समूह रूपं “चित्रम् आश्चर्यकरं सूर्यस्य मण्डलम् “उदगात् उदयाचलं प्राप्तमासीत्। कीदृशम् । “मित्रस्य “वरुणस्य “अग्नेः च । उपलक्षणमेतत् । तदुपलक्षितानां जगतां “चक्षुः प्रकाशकं चक्षुरिन्द्रियस्थानीयं वा । उदयं प्राप्य च “द्यावापृथिवी दिवं पृथिवीमन्तरिक्षं च “अप्राः । स्वकीयेन तेजसा “आ समन्तात् अपूरयत् । ईदृग्भूतमण्डलान्तर्वर्ती “सूर्यः अन्तर्यामितया सर्वस्य प्रेरकः परमात्मा “जगतः जङ्गमस्य “तस्थुषः स्थावरस्य “च आत्मा स्वरूपभूतः । स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यवर्गस्य कारणम् । कारणाच्च कार्यं नातिरिच्यते । तथा च पारमर्षं सूत्र - ‘ तदनन्यत्वमारम्भणशब्दादिभ्यः ( ब्र. सू. २. १. १४) इति । यद्वा । स्थावरजङ्गमात्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा । उदिते हि सूर्ये मृतप्रायं सर्वं जगत् पुनश्चेतनयुक्तं सदुपलभ्यते । तथा च श्रूयते - योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ' ( तै. आ. १. १४. १ ) इति ।। आप्राः । ‘ प्रा पूरणे'। लडिः पुरुषव्यत्ययः । अदादित्वात् शपो लुक् । जगतः । ‘ गमेर्द्वे च ' ( पा. सू. ३. २. १७८.३) इति क्विप् द्विर्वचनम् । गमः क्वौ ' इति अनुनासिकलोपः । तस्थुषः । तिष्ठतेर्लिटः क्वसुः । द्विर्वचने० ‘ शर्पूर्वाः खयः । षष्ठ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । अतो लोप इटि च । इति आकारलोपः । ‘ शासिवसि° ' इति षत्वम् ॥


सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् ।

यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥२

सूर्यः॑ । दे॒वीम् । उ॒षस॑म् । रोच॑मानाम् । मर्यः॑ । न । योषा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।

यत्र॑ । नरः॑ । दे॒व॒ऽयन्तः॑ । यु॒गानि॑ । वि॒ऽत॒न्व॒ते । प्रति॑ । भ॒द्राय॑ । भ॒द्रम् ॥२

सूर्यः । देवीम् । उषसम् । रोचमानाम् । मर्यः । न । योषाम् । अभि । एति । पश्चात् ।

यत्र । नरः । देवऽयन्तः । युगानि । विऽतन्वते । प्रति । भद्राय । भद्रम् ॥२

“सूर्यः "देवीं दानादिगुणयुक्तां “रोचमानां दीप्यमानाम् “उषसं “पश्चात् “अभ्येति उषसः प्रादुर्भावानन्तरं तामभिलक्ष्य गच्छति । तत्र दृष्टान्तः । “मर्यो “न “योषाम् । यथा कश्चिन्मनुष्यः शोभनावयवां गच्छन्तीं युवतिं स्त्रियं सततमनुगच्छति तद्वत् । “यत्र यस्यामुषसि जातायां “देवयन्तः देवं द्योतमानं सूर्यं यष्टुमिच्छन्तः “नरः यज्ञस्य नेतारो यजमानाः "युगानि । युगशब्दः कालवाची । तेन च तत्र कर्तव्यानि कर्माणि लक्ष्यन्ते यथा दर्शपूर्णमासौ इति । अग्निहोत्रादीनि कर्माणि “वितन्वते विस्तारयन्ति । यद्वा । देवयन्तो देवयागार्थं धनमात्मन इच्छन्तो यजमानपुरुषा युगानि हलावयवभूतानि कर्षणाय वितन्वते प्रसारयन्ति । तामुषसमनुगच्छतीत्यर्थः । एवंविधं “भद्रं कल्याणं सूर्यं “प्रति “भद्राय कल्याणरूपाय कर्मफलाय' स्तुमः इति शेषः । यद्वा । देवयन्तः देवकामा यजमाना युगानि युग्मानि भूत्वा पत्नीभिः सहिताः सन्तो भद्रं कल्याणम् अग्निहोत्रादिकं कर्म भद्राय तत्फलार्थं प्रति प्रत्येकं यस्यामुषसि प्रवृत्तायां वितन्वते विस्तारयन्ति ॥ मर्यः । ‘मृङ् प्राणत्यागे'। छन्दसि निष्टर्क्य इत्यादौ यत्प्रत्ययान्तो निपात्यते । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । युगानि । युजेः कर्मणि घञ् । युगशब्दः कालविशेषे रथाद्युपकरणे च ( का. ६. १. १६०) इति उञ्छादिषु पाठात् गुणाभावः अन्तोदात्तत्वं च । वितन्वते । ‘ तनु विस्तारे । ‘ तनादिकृञ्भ्य उः । सहेति योगविभागात तिङोपसर्गस्य समासे सति ‘ समासस्य ' इत्यन्तोदात्तत्वम् ॥


भ॒द्रा अश्वा॑ ह॒रित॒ः सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः ।

न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थु॒ः परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥३

भ॒द्राः । अश्वाः॑ । ह॒रितः॑ । सूर्य॑स्य । चि॒त्राः । एत॑ऽग्वाः । अ॒नु॒ऽमाद्या॑सः ।

न॒म॒स्यन्तः॑ । दि॒वः । आ । पृ॒ष्ठम् । अ॒स्थुः॒ । परि॑ । द्यावा॑पृथि॒वी इति॑ । य॒न्ति॒ । स॒द्यः ॥३

भद्राः । अश्वाः । हरितः । सूर्यस्य । चित्राः । एतऽग्वाः । अनुऽमाद्यासः ।

नमस्यन्तः । दिवः । आ । पृष्ठम् । अस्थुः । परि । द्यावापृथिवी इति । यन्ति । सद्यः ॥३

“भद्राः कल्याणाः । अश्वाः एतग्वाः इत्येतदुभयम् अश्वनाम। तत्रैकं क्रियापरं योजनीयम् । “अश्वाः तुरगा व्यापनशीला वा "हरितः हर्तारः “चित्राः विचित्रावयवाः “अनुमाद्यासः अनुक्रमेण सर्वे स्तुत्या मादनीया एवंभूताः “सूर्यस्य “एतग्वाः अश्वाः । यद्वा । एतं गन्तव्यं मार्गं गन्तारोऽश्वाः। एतं शबलवर्णं वा प्राप्नुवन्तोऽश्वाः । “नमस्यन्तः अस्माभिः नमस्यमानाः सन्तः “दिवः अन्तरिक्षस्य “पृष्ठम् उपरिप्रदेशं पूर्वभागलक्षणम् “आ “अस्थुः आतिष्ठन्ति प्राप्नुवन्ति। यद्वा । हरितो रसहरणशीला: रश्मयः भद्रादिलक्षणविशिष्टाः दिवः पृष्ठं नभःस्थलमातिष्ठन्ति । आस्थाय च “द्यावापृथिवी द्यावापृथिव्यौ “सद्यः तदानीमेव एकेनाह्ना “परि "यन्ति परितो गच्छन्ति व्याप्नुवन्तीत्यर्थः ॥ अश्वाः । ‘ अशू व्याप्तौ ' । ‘ अशिप्रुषि° ' इत्यादिना क्वन् । एतग्वाः । ‘ इण् गतौ । ‘ असिहसि । इत्यादिना कर्मणि तन्प्रत्ययः । गमेरौणादिको भावे ड्वप्रत्ययः । एतमेतव्यं प्रति ग्वो गमनं येषां ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अनुमाद्यासः । “मदि स्तुतौ । अस्मात् ण्यन्तात् ‘अचो यत्' । यतोऽनावः' इत्याद्युदात्तत्वम् । नमस्यन्तः । ‘ नमोवरिवः० ' इति पूजार्थे क्यच् । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । अस्थुः । तिष्ठतेश्छन्दसो वर्तमाने लुङ् । गातिस्था° ' इति सिचो लुक् । ‘ आतः । इति झेः जुस् ॥


तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार ।

य॒देदयु॑क्त ह॒रित॑ः स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥४

तत् । सूर्य॑स्य । दे॒व॒ऽत्वम् । तत् । म॒हि॒ऽत्वम् । म॒ध्या । कर्तोः॑ । विऽत॑तम् । सम् । ज॒भा॒र॒ ।

य॒दा । इत् । अयु॑क्त । ह॒रितः॑ । स॒धऽस्था॑त् । आत् । रात्री॑ । वासः॑ । त॒नु॒ते॒ । सि॒मस्मै॑ ॥४

तत् । सूर्यस्य । देवऽत्वम् । तत् । महिऽत्वम् । मध्या । कर्तोः । विऽततम् । सम् । जभार ।

यदा । इत् । अयुक्त । हरितः । सधऽस्थात् । आत् । रात्री । वासः । तनुते । सिमस्मै ॥४

“सूर्यस्य सर्वप्रेरकस्य आदित्यस्य “तत् “देवत्वम् ईश्वरत्वम् । स्वातन्त्र्यमिति यावत्। “महित्वं महत्त्वं माहात्म्यं च “तत् एव । तच्छब्दश्रुतेः यच्छब्दाध्याहारः । यत् "कर्तोः । कर्मनामैतत् । प्रारब्धापरिसमाप्तस्य कृष्यादिलक्षणस्य कर्मणः “मध्या मध्ये अपरिसमाप्ते एव तस्मिन् कर्मणि “विततं विस्तीर्णं स्वकीयं रश्मिजालम् अस्तं गच्छन् सूर्यः “सं "जभार अस्माल्लोकात् स्वात्मन्युपसंहरति । कर्मकरश्च प्रवृत्तमपरिसमाप्तमेव विसृजति अस्तं यन्तं सूर्यं दृष्ट्वा । ईदृशं स्वातन्त्र्यं महिमा च सूर्यव्यतिरिक्तस्य कस्यास्ति । न कस्यापि । सूर्य एवेदृशं स्वातन्त्र्यं महिमानं चावगाहते। अपि च इत् इत्यवधारणे । “यदेत् यस्मिन्नेव काले “हरितः रसहरणशीलान् स्वरश्मीन् हरिद्वर्णानश्वान् वा “सधस्थात् सहस्थानात् अस्मात् पार्थिवाल्लोकादादाय “अयुक्त अन्यत्र संयुक्तान् करोति । यद्वा । युजिः केवलोऽपि विपूर्वः द्रष्टव्यः। यदैवासौ स्वरश्मीनश्वान् वा सधस्थात् सह तिष्ठन्त्यस्मिन्निति सधस्थो रथः । तस्मात् अयुक्त अमुञ्चत् । “आत् अनन्तरमेव “रात्री निशा “वासः आच्छादयितृतमः “सिमस्मै । सिमशब्दः सर्वशब्दपर्यायः। सप्तम्यर्थे चतुर्थी। सर्वस्मिन् लोके “तनुते विस्तारयति । यद्वा । वासो वासरम् अहः । तत् सर्वस्मात् अस्माल्लोकादपनीय रात्री तमस्तनुते । अत्र निरुक्तं - तत्सूर्यस्य देवत्वं तन्महित्वं मध्ये यत्कर्मणां क्रियमाणानां विततं संह्रियते यदासौ अयुक्त हरणानादित्यरश्मीन हरितोऽश्वानिति वाथ रात्री वासस्तनुते सिमस्मै वासरमहरवयुवती सर्वस्मात् ' (निरु. ४. ११) इति । महित्वम् । ‘मह पूजायाम्। औणादिक इन्प्रत्ययः । ‘ तस्य भावस्त्वतलौ ' ( पा. सू. ५. १. ११९ )। मध्या। मध्यशब्दात् सप्तम्येकवचनस्य ‘ सुपां सुलुक् । इति डादेशः । कर्तोः । करोतेरौणादिकः तुन्प्रत्ययः । विततम् । विपूर्वात्तनोतेः कर्मणि निष्ठा । उदित्त्वेन क्त्वाप्रत्यये इटो विकल्पनात् ' यस्य विभाषा ' इति इट्प्रतिषेधः । ‘ गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । जभार । ‘ हृग्रहोर्भः० ' इति भत्वम् । अयुक्त । युजेर्लुङि 'झलो झलि' इति सिचो लोपः । सधस्थात्। घञर्थे कविधानम्' इति अधिकरणे कप्रत्ययः। सध मादस्थयोश्छन्दसि' इति सधादेशः । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । रात्री । ‘ रात्रेश्चाजसौ ' इति ङीप् ॥


तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।

अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाज॑ः कृ॒ष्णम॒न्यद्ध॒रित॒ः सं भ॑रन्ति ॥५

तत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्यः॑ । रू॒पम् । कृ॒णु॒ते॒ । द्योः । उ॒पऽस्थे॑ ।

अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाजः॑ । कृ॒ष्णम् । अ॒न्यत् । ह॒रितः॑ । सम् । भ॒र॒न्ति॒ ॥५

तत् । मित्रस्य । वरुणस्य । अभिऽचक्षे । सूर्यः । रूपम् । कृणुते । द्योः । उपऽस्थे ।

अनन्तम् । अन्यत् । रुशत् । अस्य । पाजः । कृष्णम् । अन्यत् । हरितः । सम् । भरन्ति ॥५

“तत् तदानीम् उदयसमये "मित्रस्य “वरुणस्य एतदुभयोपलक्षितस्य सर्वस्य जगतः “अभिचक्षे आभिमुख्येन प्रकाशनाय “द्योः नभसः “उपस्थे उपस्थाने मध्ये “सूर्यः सर्वस्य प्रेरकः सविता “रूपं सर्वस्य निरूपकं प्रकाशकं तेजः “कृणुते करोति । अपि च “अस्य सूर्यस्य “हरितः रसहरणशीला रश्मयः हरिद्वर्णाः अश्वा वा “अनन्तम् अवसानरहितं कृत्स्नस्य जगतो व्यापकं “रुशत् दीप्यमानं श्वेतवर्णं “पाजः । बलनामैतत् । बलयुक्तम् अतिबलस्यापि नैशस्य तमसो निवारणे समर्थम् “अन्यत् तमसो विलक्षणं तेजः “सं “भरन्ति अहनि स्वकीयागमनेन निष्पादयन्ति । तथा “कृष्णं कृष्णवर्णम् “अन्यत् तमः स्वकीयापगमनेन रात्रौ । अस्य रश्मयोऽप्येवं कुर्वन्ति किमु वक्तव्यं तस्य माहात्म्यमिति सूर्यस्य स्तुतिः ॥ अभिचक्षे । संपदादिलक्षणो भावे क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । द्योः । ‘ ङसिङसोश्च ' ( पा. सू. ६. १. ११० ) इति पूर्वरूपता । उपस्थे । ‘ घञर्थे कविधानम्' इति कप्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । पाजः । पाति रक्षतीति पाजो बलम् । पातेर्बले जुट् च ' ( उ. सू. ४, ६४२) इति असुन् जुडागमश्च । छान्दसो मत्वर्थीयस्य विनो लोपः ।।


अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥६

अ॒द्य । दे॒वाः॒ । उत्ऽइ॑ता । सूर्य॑स्य । निः । अंह॑सः । पि॒पृ॒त । निः । अ॒व॒द्यात् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥६

अद्य । देवाः । उत्ऽइता । सूर्यस्य । निः । अंहसः । पिपृत । निः । अवद्यात् ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥६

हे “देवाः द्योतमानाः सूर्यरश्मयः “अद्य अस्मिन्काले “सूर्यस्य आदित्यस्य “उदिता उदितौ उदये सति इतस्ततः प्रसरन्तो यूयम् अस्मान् “अंहसः पापात् “निः “पिपृत निष्कृष्य पालयत । यदिदमस्माभिरुक्तं “नः अस्मदीयं “तत् मित्रादयः षड्देवता: ममहन्तां पूजयन्तु अनुमन्यन्ताम् । रक्षन्त्विति यावत् । “मित्रः प्रमीतेस्त्रायकः अहरभिमानी देवः । “वरुणः अनिष्टानां निवारयिता रात्र्यभिमानी । “अदितिः अखण्डनीया अदीना वा देवमाता । “सिन्धुः स्यन्दनशीलोदकाभिमानिनी देवता । “पृथिवी भूलोकस्याधिष्ठात्री “द्यौः द्युलोकस्य । उतशब्दः समुच्चये ॥ अद्य । ‘ निपातस्य च ' इति संहितायां दीर्घत्वम् । उदिता । उत्पूर्वात् एतेर्भावे क्तिन् । सुपां सुलुक्° ' इति डादेशः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । पिपृत। ‘ पॄ पालनपूरणयोः पृ इत्येके'। लोटि जुहोत्यादित्वात् शपः श्लुः । द्विर्वचनोरदत्वहलादिशेषाः । ‘ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । ‘ सार्वधातुकमपित्' इति तशब्दस्य ङित्त्वे सति ‘ ऋचि तुनुघ° ' इत्यादिना संहितायां दीर्घः ॥ ७ ॥ ॥ १६ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११५&oldid=205400" इत्यस्माद् पुनः प्राप्तिः