प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.१२२

(ऋग्वेद: सूक्तं १.१२२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१२१ ऋग्वेदः - मण्डल १
सूक्तं १.१२२
कक्षीवान् दैर्घतमस औशिजः।
सूक्तं १.१२३ →
दे. विश्वे देवाः । त्रिष्टुप्, ५-६ विराड्रूपा।


प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् ।
दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥१॥
पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने ।
स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥२॥
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् ।
शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥३॥
उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै ।
प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः ॥४॥
आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे ।
प्र वः पूष्णे दावन आँ अच्छा वोचेय वसुतातिमग्नेः ॥५॥
श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् ।
श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ॥६॥
स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे ।
श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥७॥
अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः ।
जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ॥८॥
जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक् ।
स्वयं स यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिरृतावा ॥९॥
स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः ।
विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः ॥१०॥
अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः ।
नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते ॥११॥
एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे ।
द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥१२॥
मन्दामहे दशतयस्य धासेर्द्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना ।
किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋञ्जते नॄन् ॥१३॥
हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः ।
अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ॥१४॥
चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः ।
रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥१५॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।।

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

प्रक्रिया प्रथमे काण्डे साकल्येनोपवर्णिता ।।

अत ऊर्ध्वंतनी ज्ञेया स्मर्यते च क्वचित्क्वचित् ।।

अथ द्वितीयाष्टके प्रथमोऽध्यायः आरभ्यते । शतर्चिनामाद्ये मण्डले चतुर्विंशत्यनुवाकाः । तेषु ‘ कदित्था ' इति अष्टादशानुवाके षट् सूक्तानि । तत्र ‘ प्र वः पान्तम्' इति द्वितीयं सूक्तम् । ‘ पञ्चोना' इति अनुवर्तमानात् पञ्चदशर्चम् । ‘ ऋषिश्चान्यस्मादृषेः' इति परिभाषया कक्षीवानृषिः । अनादेशपरिभाषया त्रिष्टुप् । विश्वे देवा देवता । ‘प्र वो वैश्वदेवम्' इत्यनुक्रमणिका । अस्य विशेषविनियोगो लैङ्गिकः ॥


प्र व॒ः पान्तं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वम् ।

दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥१

प्र । वः॒ । पान्त॑म् । र॒घु॒ऽम॒न्य॒वः॒ । अन्धः॑ । य॒ज्ञम् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । भ॒र॒ध्व॒म् ।

दि॒वः । अ॒स्तो॒षि॒ । असु॑रस्य । वी॒रैः । इ॒षु॒ध्याऽइ॑व । म॒रुतः॑ । रोद॑स्योः ॥१

प्र । वः । पान्तम् । रघुऽमन्यवः । अन्धः । यज्ञम् । रुद्राय । मीळ्हुषे । भरध्वम् ।

दिवः । अस्तोषि । असुरस्य । वीरैः । इषुध्याऽइव । मरुतः । रोदस्योः ॥१

हे “रघुमन्यवः लघुक्रोधाः अक्रोधिनः ऋत्विजः “वः युष्माकं “पान्तं पालनशीलं पातव्यं वा “यज्ञं यागसाधनम् “अन्धः अन्नम् आज्यसोमादिलक्षणं “रुद्राय । रुत् दुःखं तद्धेतुभूतं दुरितं वा । तस्य द्रावयित्रे एतन्नामकाय देवाय मीळ्हुषे फलस्य वर्षित्रे तदर्थं “प्र “भरध्वं प्रकर्षेण संपादयत । अहं च “इषुध्येव इषुध्या शत्रून् यथा निरस्यति तथा “वीरैः अमित्राणां विविधमीरकैः वीर्योपेतैः वा तदनुचरैः मरुदादिभिः सह “दिवः द्युलोकसकाशात् । उपलक्षणमेतत् । लोकत्रयादपि "असुरस्य निरसितव्यानामसुराणां निरसितुः । कर्मणि षष्ठी । निरसितारं तमेव देवं “रोदस्योः निरोधनवत्योः द्यावापृथिव्योर्मध्ये वर्तमानान् “मरुतः च “अस्तोषि स्तौमि ॥ पान्तम् । पान्तमित्यत्र पातेः शतृ पिबतेर्वा औणादिको झः । मीळ्हुषे । “दाश्वान्साह्वान् °' इति क्वसुप्रत्ययान्तो निपातः । चतुर्थ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । “शासिवसि ' इत्यादिना षत्वम् । दिवः। ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । अस्तोषि । स्तौतेश्छान्दसो लुङ् । इषुध्येव । इषवो धीयन्ते अत्र इति इषुधिः । ‘ कर्मण्यधिकरणे च' इति दधातेः किः । कृत्स्वरेणान्तोदात्तः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ।।


पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने ।

स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥२

पत्नी॑ऽइव । पू॒र्वऽहू॑तिम् । व॒वृ॒धध्यै॑ । उ॒षसा॒नक्ता॑ । पु॒रु॒धा । विदा॑ने॒ इति॑ ।

स्त॒रीः । न । अत्क॑म् । विऽउ॑तम् । वसा॑ना । सूर्य॑स्य । श्रि॒या । सु॒ऽदृशी॑ । हिर॑ण्यैः ॥२

पत्नीऽइव । पूर्वऽहूतिम् । ववृधध्यै । उषसानक्ता । पुरुधा । विदाने इति ।

स्तरीः । न । अत्कम् । विऽउतम् । वसाना । सूर्यस्य । श्रिया । सुऽदृशी । हिरण्यैः ॥२

“पत्नीव पत्नी यथा “पूर्वहूतिं पत्युः पूर्वाह्वानं “ववृधध्यै वर्धयितुं शीघ्रगतिर्भवति तद्वत् “उषासानक्ता अहोरात्रे देवते अपि “पुरुधा बहुप्रकारं बहुविधैः स्तोत्रैः “विदाने ज्ञायमाने सत्यौ पूर्वहूतिं ववृधध्यै अस्मदीयं पूर्वाह्वानं वर्धयितुं शीघ्रमागच्छतमिति शेषः । यद्वा । ववृधध्यै अस्मद्वर्धनाय पुरुधा बहुप्रकारं विदाने वर्धनोपायान् जानत्यौ भवतमिति शेषः ॥ उषासानक्ता । ‘ उषासोषसः ' ( पा. सू. ६. ३. ३१ ) इति पूर्वपदस्य उषासादेशः। ‘देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् ॥ अथ केवला उषा उच्यते । “स्तरीः शत्रूणां हिंसकः तेजसाच्छन्नः वा आदित्यः स इव हिरण्यैः हिरण्यवर्णैः रश्मिभिः “व्युतं विततं विशेषेण संबद्धम् “अत्कम् अक्तं संततं वा रूपं “वसाना अच्छादयन्ती धारयन्ती “सूर्यस्य “श्रिया शोभया “सुदृशी शोभनं दृश्यमाना । सूर्यस्य पुरोगामिनी रश्मिभिः खल्वेषा जगद्भासयति । तादृशी उषा अस्मत्पूर्वहूतिं पालयत्वित्यर्थः । यद्वा । हिरण्यैः हितरमणीयैः प्रकाशैः धनविशेषेर्वा सहागच्छतु । व्युतम् । व्येञो निष्ठायां वचिस्वपि' इत्यादिना संप्रसारणम् । स्तरीः । ‘ अवितॄस्तॄ' इति ईकारप्रत्ययः ॥


म॒मत्तु॑ न॒ः परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् ।

शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥३

म॒मत्तु॑ । नः॒ । परि॑ऽज्मा । व॒स॒र्हा । म॒मत्तु॑ । वातः॑ । अ॒पाम् । वृष॑ण्ऽवान् ।

शि॒शी॒तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । यु॒वम् । नः॒ । तत् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥३

ममत्तु । नः । परिऽज्मा । वसर्हा । ममत्तु । वातः । अपाम् । वृषण्ऽवान् ।

शिशीतम् । इन्द्रापर्वता । युवम् । नः । तत् । नः । विश्वे । वरिवस्यन्तु । देवाः ॥३

“नः अस्मान् “वसर्हा वसनार्हो गार्हपत्यादिरूपेण । यद्वा । वासकानामाच्छादकानां वृक्षादीनां हन्ता अग्निः । अथवा । वसर्हा वासार्हो वासरस्य गमयिता। “परिज्मा परितो गन्ता आदित्यः “ममत्तु मादयतु । तथा “अपां वृष्ट्युदकानां “वृषण्वान् वर्षणवान् वृष्ट्युत्पादकः “वातः वायुरस्मान् “ममत्तु । किंच हे “इन्द्रापर्वता । इन्द्रः प्रसिद्धः । पर्वतः पर्ववान् वृष्टयादिपूरणवान् पर्जन्यः । तौ “युवं युवां “नः अस्मान् अस्मद्बुद्धिं वा “शिशीतं तीक्ष्णीकुरुतं शोधयतमित्यर्थः । “तत् तस्मात् यस्मादहं सर्वान् देवान् स्तौमि तस्मात् “विश्वे सर्वेऽपि “देवाः “नः अस्माकं “वरिवस्यन्तु प्रभूतमन्नं प्रदातुमिच्छन्तु । समृद्धान्नप्रदानेन प्रीणयन्त्वित्यर्थः ।। ममत्तु। ‘मदी हर्षे' । अन्तर्भावितण्यर्थात् लोटि छान्दसो विकरणस्य श्लुः । ‘ द्विर्वचनम् । शिशीतम् । ‘ई हल्यघोः' इति ईत्वम् । ‘बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । ‘ इन्द्रापर्वता' इत्यत्र ‘ देवताद्वन्द्वे च ' इति पूर्वपदस्य आनङादेशः ।।


उ॒त त्या मे॑ य॒शसा॑ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ॑शि॒जो हु॒वध्यै॑ ।

प्र वो॒ नपा॑तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा॑ रास्पि॒नस्या॒योः ॥४

उ॒त । त्या । मे॒ । य॒शसा॑ । श्वे॒त॒नायै॑ । व्यन्ता॑ । पान्ता॑ । औ॒शि॒जः । हु॒वध्यै॑ ।

प्र । वः॒ । नपा॑तम् । अ॒पाम् । कृ॒णु॒ध्व॒म् । प्र । मा॒तरा॑ । रा॒स्पि॒नस्य॑ । आ॒योः ॥४

उत । त्या । मे । यशसा । श्वेतनायै । व्यन्ता । पान्ता । औशिजः । हुवध्यै ।

प्र । वः । नपातम् । अपाम् । कृणुध्वम् । प्र । मातरा । रास्पिनस्य । आयोः ॥४

“औशिजः उशिजः पुत्रः कक्षीवानहं “मे । तादर्थ्ये चतुर्थी । मदर्थं "यशसा । यश इत्यन्नं बलं कीर्तिर्वा उच्यते । तद्वन्तौ “व्यन्ता भक्षयन्तौ चरुपुरोडाशादिकं “पान्ता पिबन्तौ अज्यसोमादिकं “त्या। तच्छब्दसमानार्थः त्यच्छब्दः । यौ स्तुत्यत्वेन प्रसिद्धौ तावश्विनौ । अत्र यद्यपि विशेषो न श्रुतः तथापि सूक्तस्य वैश्वदेवत्वात् उषःसंबन्धात् द्विवचनलिङ्गाच्चाश्विनाविति गम्यते तादृशावश्विनौ । “श्वेतनायै इति षष्ठ्यर्थे चतुर्थी । विश्वं जगत् श्वेतयन्त्याः उषसः तत्संबन्धिनि काले। उषःकालीनाह्वानाय यतेयम्। इति शेषः । हे ऋत्विजः “वः यूयम् । प्रथमार्थे द्वितीया । “अपाम् उदकानां “नपातं नपातयितारं तासां नप्तारं वा अग्निम् । अद्भ्यः ओषधिवनस्पतयः ताभ्यः अग्निः इत्यपां नप्तृत्वमग्नेः । तं देवं “प्र “कृणुध्वम् । करोतिरत्र क्रियासामान्यवाची क्रियाविशेषे स्तोत्रे पर्यवस्यति । प्रकर्षेण स्तुध्वमित्यर्थः । किंच “रास्पिनस्य । रपतेः रसतेर्वा शब्दनार्थस्य घञन्तस्य कृतसकारपकारोपजनस्य रास्प इति भवति । तदस्यास्तीति रास्पि स्तोत्रम् । तद्वान् रास्पिनः स्तोता । तस्य “आयोः तादृशस्य मनुष्यस्य मम मह्यं “मातरा मातृवद्धितकारिण्यौ अहोरात्रदेवते अपि “प्र कृणुध्वम् । अथवा रास्पिनस्य । एको मत्वर्थप्रत्ययश्छान्दसः। प्रवर्षणध्वनियुक्तस्य वृष्ट्युदकस्य गमनशीलस्य निर्मात्र्यौ अहोरात्रे प्र कृणुध्वम् ॥ व्यन्ता पान्ता । उभयत्र ‘सुपां सुलक्' इति आकारः ॥


आ वो॑ रुव॒ण्युमौ॑शि॒जो हु॒वध्यै॒ घोषे॑व॒ शंस॒मर्जु॑नस्य॒ नंशे॑ ।

प्र व॑ः पू॒ष्णे दा॒वन॒ आँ अच्छा॑ वोचेय व॒सुता॑तिम॒ग्नेः ॥५

आ । वः॒ । रु॒व॒ण्युम् । औ॒शि॒जः । हु॒वध्यै॑ । घोषा॑ऽइव । शंस॑म् । अर्जु॑नस्य । नंशे॑ ।

प्र । वः॒ । पू॒ष्णे । दा॒वने॑ । आ । अच्छ॑ । वो॒चे॒य॒ । व॒सुऽता॑तिम् । अ॒ग्नेः ॥५

आ । वः । रुवण्युम् । औशिजः । हुवध्यै । घोषाऽइव । शंसम् । अर्जुनस्य । नंशे ।

प्र । वः । पूष्णे । दावने । आ । अच्छ । वोचेय । वसुऽतातिम् । अग्नेः ॥५

हे देवाः “औशिजः कक्षीवानहं “वः युष्माकं संबन्धिनं “रुवण्युं रवणीयं शब्दनीयं “शंसं स्तोत्रम् "आ "हुवध्यै युष्मदाह्रानाय "अच्छ ”आ “वोचेय आभिमुख्येन ब्रवीमि । यद्वा । अत्रापि अश्विनावेव उच्येते । तस्मिन् पक्षे बहुवचनं पूजार्थम् । हे अश्विनौ “वः युष्मान् “घोषव एतन्नामिका ब्रह्मवादिनीव । सा यथा “अर्जुनस्य श्वेतवर्णस्य स्वशरीरगतत्वग्रोगस्य “नंशे नाशनाय यथाश्विनोः शंसमकार्षीत् तद्वदहमपीत्यर्थः । हे देवाः युष्मत्संबन्धिने “दावने आ आभिमुख्येन फलस्य दात्रे “पूष्णे पोषकाय एतन्नामकाय देवायापि ॥ आकारस्य ‘ आङोऽनुनासिकश्छन्दसि ' इति प्रकृतिभावः ॥ अच्छ आभिमुख्यगमनेन वोचेय स्तौमि ॥ ‘ वच परिभाषणे'। लिङयाशिष्यङ् । ‘ वच उम्' इति उम् । किंच “अग्नेः “वसुतातिं तत्संबन्धि धनमपि वोचेय स्तौमि तमेवाग्निम् ॥ ॥ १ ॥


श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वत॑ः सीम् ।

श्रोतु॑ न॒ः श्रोतु॑रातिः सु॒श्रोतु॑ः सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ॥६

श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा । उ॒त । श्रु॒त॒म् । सद॑ने । वि॒श्वतः॑ । सी॒म् ।

श्रोतु॑ । नः॒ । श्रोतु॑ऽरातिः । सु॒ऽश्रोतुः॑ । सु॒ऽक्षेत्रा॑ । सिन्धुः॑ । अ॒त्ऽभिः ॥६

श्रुतम् । मे । मित्रावरुणा । हवा । इमा । उत । श्रुतम् । सदने । विश्वतः । सीम् ।

श्रोतु । नः । श्रोतुऽरातिः । सुऽश्रोतुः । सुऽक्षेत्रा । सिन्धुः । अत्ऽभिः ॥६

हे "मित्रावरुणा एतन्नामानौ अहोरात्राभिमानिदेवौ युवाम् “इमा इमानि “हवा अस्मदाह्वानानि “श्रुतं शृणुतम् । न केवलमस्मदाह्वानम् “उत अपि च “सदने यागगृहे “विश्वतः उद्गात्रादिभिः सर्वतः क्रियमाणं “सीम् एतत्स्तोत्रमपि “श्रुतं शृणुतम् । किंच “श्रोतुरातिः सर्वत्र श्रूयमाणधनः तादृशदानो वा “सुश्रोतुः अस्मदाह्वानस्य सम्यक् श्रोता “सिन्धुः जलाभिमानी देवः “सुक्षेत्रा सुक्षेत्राणि “अद्भिः वृष्टिजलैः क्लेदयन्निति शेषः । यद्वा । अस्मत्क्षेत्राणि अद्भिः सुक्षेत्राणि सस्यादिसमृद्धानि कुर्वन् “नः हवं शृणोतु । सुक्षेत्रत्वलाभाय' शृणोत्वित्यर्थः ॥ हवा इमा । उभयत्र विभक्त्या आकारः । श्रुतमित्यत्र ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥


स्तु॒षे सा वां॑ वरुण मित्र रा॒तिर्गवां॑ श॒ता पृ॒क्षया॑मेषु प॒ज्रे ।

श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा॑नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो॑ अग्मन् ॥७

स्तु॒षे । सा । वा॒म् । व॒रु॒ण॒ । मि॒त्र॒ । रा॒तिः । गवा॑म् । श॒ता । पृ॒क्षऽया॑मेषु । प॒ज्रे ।

श्रु॒तऽर॑थे । प्रि॒यऽर॑थे । दधा॑नाः । स॒द्यः । पु॒ष्टिम् । नि॒ऽरु॒न्धा॒नासः॑ । अ॒ग्म॒न् ॥७

स्तुषे । सा । वाम् । वरुण । मित्र । रातिः । गवाम् । शता । पृक्षऽयामेषु । पज्रे ।

श्रुतऽरथे । प्रियऽरथे । दधानाः । सद्यः । पुष्टिम् । निऽरुन्धानासः । अग्मन् ॥७

हे “मित्र हे “वरुण देव “वां युवाम् अहं “स्तुषे स्तुवे । व्यत्ययेन मध्यमः । युवयोः संबन्धिनी “सा प्रसिद्धा “रातिः दानं “शता शतानां शतसंख्यानाम् अपरिमितानां “गवां संबन्धिनी असंख्यातगोविषया रातिः “पज्रे कक्षीवति मयि “पृक्षयामेषु । पृक्ष इत्यकारान्तोऽप्यस्ति । पृक्षाणामन्नानां नियमनं येषु स्तोत्रेषु यज्ञेषु वा तेषु निमित्तभूतेषु भवत्विति शेषः । किंच मित्रादयो देवाः “श्रुतरथे सर्वत्र प्रसिद्धरथोपेते "प्रियरथे प्रीयमाणरथयुक्ते सर्वदा रथप्रिये पज्रे च मयि एव “दधानाः प्रीतिं धारयन्तः “सद्यः आगमनानन्तरमेव “पुष्टिं गवादिपोषं निरुन्धानासः अवरुन्धानाः अस्मास्वव स्थापयन्तः । यद्वा । मयि पुष्टिं दधानाः कुर्वाणा: निरुन्धानासः कृतामेव पुष्टिं मयि स्थिरां कुर्वन्तः “अग्मन् आगच्छन्तु ।। रातिः । ‘ रा दाने'। भावे क्तिन् । मन्त्रे वृष ' इत्यादिना क्तिन उदात्तत्वम् । शता । ‘ सुपा सुलुक् ' इति षष्ठ्याः पूर्वसवर्णदीर्घत्वम् । दधानाः । जुहोत्यादित्वात् शपः श्लुः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । अग्मन् । गमेश्छान्दसे लुङि ‘ मन्त्रे घस' इत्यादिना च्लेर्लुक् ।' गमहन ' इति उपधालोपः ॥


अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राध॒ः सचा॑ सनेम॒ नहु॑षः सु॒वीरा॑ः ।

जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥८

अ॒स्य । स्तु॒षे॒ । महि॑ऽमघस्य । राधः॑ । सचा॑ । स॒ने॒म॒ । नहु॑षः । सु॒ऽवीराः॑ ।

जनः॑ । यः । प॒ज्रेभ्यः॑ । वा॒जिनी॑ऽवान् । अश्व॑ऽवतः । र॒थिनः॑ । मह्य॑म् । सू॒रिः ॥८

अस्य । स्तुषे । महिऽमघस्य । राधः । सचा । सनेम । नहुषः । सुऽवीराः ।

जनः । यः । पज्रेभ्यः । वाजिनीऽवान् । अश्वऽवतः । रथिनः । मह्यम् । सूरिः ॥८

“महिमघस्य । महि महत् पूज्यं मघो धनमन्नं वा यस्य देवसंघस्य स तथोक्तः । तादृशस्य “अस्य “राधः धनं “स्तुषे स्तुवे । व्यत्ययेन मध्यमः । धनलाभाय प्रभूतधनं देवसंघं स्तौमीत्यर्थः । किंच “नहुषः । मनुष्यनामैतत् । परस्परस्नेहबन्धोपेता मनुष्या वयं कक्षीवन्तः “सुवीराः शोभनपुत्राद्युपेताः सन्तः “सचा सह परस्परैकमत्येन “सनेम त्वद्दत्तं धनं संभजेम लभेमहि । देवसंघो विशेष्यते । “यः “जनः देवजनो यश्च देवसंघः पज्रेभ्यः अङ्गिरोगोत्रोत्पन्नेभ्यः कक्षीवद्भ्यः । 'पज्रा वा अङ्गिरसः' इति श्रुतेः । तेभ्यः “वाजिनीवान् । वाजोऽन्नम् । तद्वती क्रिया वाजिनी । तया तद्वान् भवति । यद्वा । एको मत्वर्थीय प्रत्ययश्छान्दमः । अस्मभ्यं प्रदेयेन दत्तेन वा अन्नेन तद्वान् भवतीत्यर्थः । यश्च देवसंघः “अश्वावतः बहुभिः तद्दत्तैरश्वैः तद्वतः “रथिनः रथवतः “मह्यं मे “सूरिः प्रेरको भवति । अश्वानां रथानां प्रेरयितारं देवसंघं स्तुषे इत्यर्थः ।। सुवीराः । ‘ वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । अश्वावतः । अश्वशब्दस्य ' मन्त्रे सोमाश्व ' इत्यादिना मतुपि दीर्घत्वम् ।


जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् ।

स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिरृ॒तावा॑ ॥९

जनः॑ । यः । मि॒त्रा॒व॒रु॒णौ॒ । अ॒भि॒ऽध्रुक् । अ॒पः । न । वा॒म् । सु॒नोति॑ । अ॒क्ष्ण॒या॒ऽध्रुक् ।

स्व॒यम् । सः । यक्ष्म॑म् । हृद॑ये । नि । ध॒त्त॒ । आप॑ । यत् । ई॒म् । होत्रा॑भिः । ऋ॒तऽवा॑ ॥९

जनः । यः । मित्रावरुणौ । अभिऽध्रुक् । अपः । न । वाम् । सुनोति । अक्ष्णयाऽध्रुक् ।

स्वयम् । सः । यक्ष्मम् । हृदये । नि । धत्त । आप । यत् । ईम् । होत्राभिः । ऋतऽवा ॥९

हे “मित्रावरुणौ युष्माकं “यः “जनः अभिध्रुक् अभितो द्रोग्धा भवति अयष्टा भवतीत्यर्थः यश्च “अक्ष्णयाध्रुक् वक्रेण मार्गेण द्रुह्यति अन्यथाप्रकारेण द्रुह्यति । द्रोहप्रकार उच्यते । "वां युवाम्' “अपः सोमरसान् “न “सुनोति अभिषवं न करोति । युवाम् अतिक्रम्य अन्यदेवतार्थं सुनोतीत्यभिप्रायः अयमेव अक्ष्णयाद्रोहः। “सः मूढो द्विविधो जनः “स्वयं “यक्ष्मं व्याधिं “हृदये स्वचित्ते 'नि “धत्ते स्थापयति । अनुष्ठातॄणां भोगान् पश्यन् व्यथितो भवतीत्यर्थः । “यत् । लिङ्गव्यत्ययः । य उक्तविलक्षणः पुमान् “ऋतावा यज्ञवान् परिगृहीतयज्ञः "होत्राभिः । वाङ्नामैतत् । स्तुतिवाग्भिः “ईम् एनं सोमरसम् "आप व्याप्नोति । स्तुवन् सोममभिषुणोति इति यावत् । स नरः पृत्सु यातीति वक्ष्यमाणेन सह संबन्धः ॥ अभिध्रुक् । द्रुहे: ‘ सत्सूद्विप ' इति क्विप् । संहितायां भष्भावश्छान्दसः। ऋतावा इत्यत्र ‘ छन्दसीवनिपौ' इति मत्वर्थीयो वनिप् । “अन्येषामपि दृश्यते ' इति संहितायां दीर्घत्वम् ।।


स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूत॒ः शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः ।

विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा॑सु पृ॒त्सु सद॒मिच्छूर॑ः ॥१०

सः । व्राध॑तः । नहु॑षः । दंऽसु॑जूतः । शर्धः॑ऽतरः । न॒राम् । गू॒र्तऽश्र॑वाः ।

विसृ॑ष्टऽरातिः । या॒ति॒ । बा॒ळ्ह॒ऽसृत्वा॑ । विश्वा॑सु । पृ॒त्ऽसु । सद॑म् । इत् । शूरः॑ ॥१०

सः । व्राधतः । नहुषः । दंऽसुजूतः । शर्धःऽतरः । नराम् । गूर्तऽश्रवाः ।

विसृष्टऽरातिः । याति । बाळ्हऽसृत्वा । विश्वासु । पृत्ऽसु । सदम् । इत् । शूरः ॥१०

हे मित्रावरुणौ युवां गतमन्त्रावसानोक्तलक्षण: युष्मत्पूजको जनः “दंसुजूतः दान्तैरश्वैः सुष्ठु प्रेरितः अत एव “नरां नराणां “शर्धस्तरः अतिशयेनाभिभविता । अथवा अतिशयेन बलवान् । नराणां स्वसमानानां मध्ये “गूर्तश्रवाः उद्गूर्णदीप्तिः प्रख्यातान्नो वा “विसृष्टरातिः अर्थिभ्यः प्रदत्तधनः एवं महानुभावः “शूरः सन् “विश्वासु “पृत्सु सर्वेषु जन्येषु संग्रामेषु व्राधतः । महन्नामैतत् । हिंसकान् महतोऽपि “नहुषः । मनुष्यनामैतत् । मनुष्यान् शत्रून् प्रति “बाळ्हसृत्वा भृशं सर्ता अशङ्कितगमनः सन् “सदमित् सदैव "याति गच्छति ॥ दंसुजूतः । दामेर्विच् ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । गूर्तश्रवाः । ‘ गुरी उद्यमने '। ‘ नसत्तनिषत्त ' इत्यादौ निपातनात् निष्ठानत्वाभावः । विसृष्टरातिः । विपूर्वात् सृजतेः कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम्' इति पृतनाशब्दस्य पृदादेशः । ‘ सावेकाचः०' इति विभक्तेरुदात्तत्वम् । बाळ्हसृत्वा । सर्तेः ‘अन्येभ्योऽपि दृश्यन्ते ' इति क्वनिप् ॥ ॥ २ ॥


अध॒ ग्मन्ता॒ नहु॑षो॒ हवं॑ सू॒रेः श्रोता॑ राजानो अ॒मृत॑स्य मन्द्राः ।

न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राध॒ः प्रश॑स्तये महि॒ना रथ॑वते ॥११

अध॑ । ग्मन्त॑ । नहु॑षः । हव॑म् । सू॒रेः । श्रोत॑ । रा॒जा॒नः॒ । अ॒मृत॑स्य । म॒न्द्राः॒ ।

न॒भः॒ऽजुवः॑ । यत् । नि॒र॒वस्य॑ । राधः॑ । प्रऽश॑स्तये । म॒हि॒ना । रथ॑ऽवते ॥११

अध । ग्मन्त । नहुषः । हवम् । सूरेः । श्रोत । राजानः । अमृतस्य । मन्द्राः ।

नभःऽजुवः । यत् । निरवस्य । राधः । प्रऽशस्तये । महिना । रथऽवते ॥११

हे “राजानः राजमानाः सर्वस्य ईश्वर वा हे “मन्द्राः मादयितारः यूयम् “अमृतस्य अमरणस्य “सूरेः स्तोत्रादिप्रेरकस्य “नहुषः मनुष्यस्य मम “हवम् आह्वानं “श्रोत शृणुत । ‘बहुलं छन्दसि' इति शपो लुक् । अमृतस्य इत्यत्र बहुव्रीहौ ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । “अध अथ श्रवणानन्तरं “ग्मन्त आगच्छत । गमेश्छान्दसो लङ्' । मध्यमबहुवचनस्य व्यत्ययेन झः । ‘ बहुलं छन्दसि ' इति शपो लुक् ।' गमहन ' इत्युपधालोपः । किमर्थमागमनम्। उच्यते । “नभोजुवः नभसि व्याप्ता यूयं “यत् यस्मात् “निरवस्य निर्गतरक्षकस्य युष्मद्व्यतिरेकेण रक्षकान्तररहितस्य । अथवा । निर्गतो मुखादुच्चरितो रवः शब्दः स्तोत्ररूपो यस्य तादृशस्य “रथवते रथवतो यजमानस्य। षष्ठ्यर्थे चतुर्थी । “महिना महिम्ना माहात्म्येन। मकारलोपश्छान्दसः । तेन युक्तं “राधः समृद्धिसाधनं हविर्लक्षणं संराधकं स्तोत्रं वा “प्रशस्तये प्रशंसितुं कामयध्वे । तस्मादाह्वानं शृणुत आगच्छत चेति ॥


ए॒तं शर्धं॑ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे॑ ।

द्यु॒म्नानि॒ येषु॑ व॒सुता॑ती रा॒रन्विश्वे॑ सन्वन्तु प्रभृ॒थेषु॒ वाज॑म् ॥१२

ए॒तम् । शर्ध॑म् । धा॒म॒ । यस्य॑ । सू॒रेः । इति॑ । अ॒वो॒च॒न् । दश॑ऽतयस्य । नंशे॑ ।

द्यु॒म्नानि॑ । येषु॑ । व॒सुऽता॑तिः । र॒रन् । विश्वे॑ । स॒न्व॒न्तु॒ । प्र॒ऽभृ॒थेषु॑ । वाज॑म् ॥१२

एतम् । शर्धम् । धाम । यस्य । सूरेः । इति । अवोचन् । दशऽतयस्य । नंशे ।

द्युम्नानि । येषु । वसुऽतातिः । ररन् । विश्वे । सन्वन्तु । प्रऽभृथेषु । वाजम् ॥१२

“यस्य “सूरेः हविरादिप्रेरकस्य यजमानस्य संबन्धिनः “दशतयस्य दशेन्द्रियसंवर्धकत्वेन दशावयवस्यान्नस्य “नंशे प्राप्तये वयम् आहूताः स्म तस्मै यजमानाय “एतम् इदानीं दातव्यत्वेन वर्तमानं “शर्धः परेषामभिभावकमन्नं तत्प्राप्तिहेतुं बलं वा “धाम विदधाम करवाम “इत्यवोचन् देवाः ।। धाम । दधातेर्लुङि ‘ गातिस्था' इति सिचो लुक् । वचेः अकारस्य उम् । अस्यतिवक्ति' इत्यादिना च्लेः अङ्।। “येषु देवेषु “द्युम्नानि द्योतमानान्यन्नानि “वसुतातिः वसूनां धनानां तातिः विस्तारश्च वसून्येव वा “रारन् रमन्ते भृशम् ।। तातिः । तनोतेः क्तिनि व्यत्ययेन आत्वम् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । यद्वा । स्वार्थिकस्तातिल्। रारन्निति रमतेर्यङलुगन्तस्य लङि रूपम् । ते “विश्वे सर्वे देवाः “प्रभृथेषु प्रकृष्टभरणेषु यागेषु “वाजम् अन्नं “सन्वन्तु ददतु प्रयच्छन्तु ।। ‘ षणु दाने' ।। यद्वा । यस्य सूरेः स्वभूतस्य च दशतयस्य दश चमसेष्ववस्थितस्य सोमस्य प्राप्तये वयमाहूताः स्म तस्मै एतं शर्धं धाम इत्यवोचन् । यस्मादेवं तस्मात् प्रभृथेषु यागेषु वाजं तादृशं सोमलक्षणमन्नं विश्वे देवाः सन्वन्तु संभजन्ताम् ॥ ‘ वन षण संभक्तौ ' इत्यस्य व्यत्ययेन उप्रत्ययः ॥ कीदृशेषु यज्ञेषु । येषु वसुतातिः वसूनां हविर्लक्षणानां धनानां वा विस्तारयितारः ऋत्विजः । वचनव्यत्ययः । द्युम्नानि द्योतमानानि हवींषि रारन् ददति ॥ ‘रा दाने '। लेटि छान्दसः शपः श्लुः । ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् ' आतो लोप इटि च' इति आकारलोपः । अत एव ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वाभावश्च ॥


मन्दा॑महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना॑ ।

किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई॑शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ॥१३

मन्दा॑महे । दश॑ऽतयस्य । धा॒सेः । द्विः । यत् । पञ्च॑ । बिभ्र॑तः । यन्ति॑ । अन्ना॑ ।

किम् । इ॒ष्टऽअ॑श्वः । इ॒ष्टऽर॑श्मिः । ए॒ते । ई॒शा॒नासः॑ । तरु॑षः । ऋ॒ञ्ज॒ते॒ । नॄन् ॥१३

मन्दामहे । दशऽतयस्य । धासेः । द्विः । यत् । पञ्च । बिभ्रतः । यन्ति । अन्ना ।

किम् । इष्टऽअश्वः । इष्टऽरश्मिः । एते । ईशानासः । तरुषः । ऋञ्जते । नॄन् ॥१३

“मन्दामहे स्तुमो वयं देवान्।। ‘मदि स्तुतौ'। इदित्त्वात् नुम् ।। किमर्थम् । “दशतयस्य “धासेः दशेन्द्रियतृप्तिसाधनत्वेन दशावयवस्य अन्नस्य “यत् यस्मात् “द्विः “पञ्च दशविधानि अन्नानि । दश चमसगृहीतत्वादन्नस्य दशविधत्वम् । एवंविधम् अन्नं “बिभ्रतः धारयन्तो दश चमसाध्वर्यवः “यन्ति होमाय गच्छन्ति अहवनीयं प्रति । यद्वा । ‘ आश्वमेधिकानि दशान्नानि जुहोति इत्याम्नातानि आज्यमध्वादीनि दशविधान्यन्नानि विश्वेभ्यो देवेभ्यो होतुं धारयन्तो यन्ति यदा तदा मन्दामहे इति । न च इष्टाश्वप्रभृतीन यष्टॄन् विहाय कस्मात् अस्मान्प्रति आगमिष्यन्तीति वाच्यम् । “तरुषः शत्रूणां तारकान् । तरतेरौणादिक उसिन् । “नॄन् नेतॄन् कर्मणाम् एवं महानुभावान् वरुणादीन् “इष्टाश्वः एतन्नामको राजा "किम् “ऋञ्जते किं प्रसाधयति । तथा “इष्टरश्मिः च किमृञ्जते । “एते इदानीं वर्तमानाः “ईशानासः पृथिव्या ईश्वरा राजानश्च किं प्रसाधयन्ति । यद्वा । येषां स्तोतॄणामस्माकमेते स्तुता देवा ईशानासः स्वामिनः किल तादृशान् तरुषः शत्रूणां तारकान् नॄन् कर्मनिर्वाहकान् अस्मान इष्टाश्वादयः किं साधयन्ति किमुपद्रवन्ति न प्रभवन्तीत्यर्थः ।।


हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ।

अ॒र्यो गिर॑ः स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कन्तू॒भये॑ष्व॒स्मे ॥१४

हिर॑ण्यऽकर्णम् । म॒णि॒ऽग्री॒व॒म् । अर्णः॑ । तम् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ।

अ॒र्यः । गिरः॑ । स॒द्यः । आ । ज॒ग्मुषीः॑ । आ । उ॒स्राः । चा॒क॒न्तु॒ । उ॒भये॑षु । अ॒स्मे इति॑ ॥१४

हिरण्यऽकर्णम् । मणिऽग्रीवम् । अर्णः । तम् । नः । विश्वे । वरिवस्यन्तु । देवाः ।

अर्यः । गिरः । सद्यः । आ । जग्मुषीः । आ । उस्राः । चाकन्तु । उभयेषु । अस्मे इति ॥१४

“हिरण्यकर्णं हिरण्यविकारकुण्डलाद्युपेतकर्णं “मणिग्रीवं रत्नाद्युपेतकण्ठम् । एतद्द्वयं सर्वावयवस्याप्युपलक्षणम् । एवं सर्वाङ्गाभरणयुक्तम् “अर्णः अरणीयं रूपं तद्वन्तं पुत्रादिकमित्यर्थः । उक्तलक्षणमस्मदीयं रूपं वा “नः अस्माकं “विश्वे सर्वे “देवाः “वरिवस्यन्तु परिचरन्तु प्रयच्छन्त्वित्यर्थः । अर्यः अरणीयो विश्वेषां देवानां संघः “जग्मुषीः स्तोतुर्मुखान्निर्गच्छन्तीः “गिरः स्तुतीः “उस्रा:। विकारे प्रकृतिशब्दः । क्षीराज्यादीनि हवींषि च “सद्यः अस्मदागमनानन्तरमेव “चाकन्तु कामयन्ताम् ।। छान्दसः शपः श्लुः परस्मैपदं च । यद्वा । यङ्लुकि नुगभावः ।। आ चाकन्त्विति वा योज्यम् । पर्याप्तं कामयन्तामित्यर्थः । केष्विति तदुच्यते । “अस्मे अस्माकं संबन्धिषु “उभयेषु स्तोतृषु यष्टृषु च । यद्वा । अस्माकमुभयेषु ऐहिकामुष्मिकविषयेषु उभयविधेषु फलेषु ।।


च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः ।

रथो॑ वां मित्रावरुणा दी॒र्घाप्सा॒ः स्यूम॑गभस्ति॒ः सूरो॒ नाद्यौ॑त् ॥१५

च॒त्वारः॑ । मा॒ । म॒श॒र्शार॑स्य । शिश्वः॑ । त्रयः॑ । राज्ञः॑ । आय॑वसस्य । जि॒ष्णोः ।

रथः॑ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दी॒र्घऽअ॑प्साः । स्यूम॑ऽगभस्तिः । सूरः॑ । न । अ॒द्यौ॒त् ॥१५

चत्वारः । मा । मशर्शारस्य । शिश्वः । त्रयः । राज्ञः । आयवसस्य । जिष्णोः ।

रथः । वाम् । मित्रावरुणा । दीर्घऽअप्साः । स्यूमऽगभस्तिः । सूरः । न । अद्यौत् ॥१५

“मा मां कक्षीवन्तं “मशर्शारस्य। मशकीकृत्य भृशं शृणोति शारयति वा अमित्रानिति मशर्शारः । एतन्नामकस्य राज्ञः “शिश्वः शिशवः शिशुवदप्रबुद्धाः “चत्वारः पुत्राः बाधन्ते इति शेषः ॥ शिशुशब्दस्य : जसादिषु च्छन्दसि वावचनम् ' इति गुणाभावः ।। तथा “आयवसस्य सर्वतः प्राप्तान्नस्य एतन्नाम्नः “राज्ञः “जिष्णोः जयशीलस्य पुत्राः “त्रयः तेऽपि बाधन्ते इति शेषः । हे “मित्रावरुणा एतन्नामानौ देवौ “वां युवयोः संबन्धी “रथः दीर्घाप्साः । अप्स इति रूपनाम । अतिविस्तृतरूपः “स्यूमगभस्तिः । स्यूममिति सुखनाम । सुखकरदीप्तिः सन् “सूरो “न सूर्य इव “अद्यौत् द्योतताम् । उक्तानाम् अस्मद्विरोधिनां पुरतः स्फुरन् भयजनको भवत्वित्यर्थः ॥ द्युतेः ‘ छन्दसि लुङलङ्लिटः । इति लुङ् । ‘ द्युद्भ्यो लुङि' (पा. सू. १. ३. ९१ ) इति परस्मैपदम् । सिचि वृद्धिः परस्मैपदेषु ' ( पा. सू. ७, २. १ ) इति वृद्धि:। ‘ बहुलं छन्दसि ' इति इडभावे हल्ङ्यादिसंयोगान्तलोपौ । यद्वा । ‘ द्यु अभिगमने' । आदादिकः । छान्दसे लङि ‘ उतो वृद्धिर्लुकि हलि' ( पा. सू. ७. ३. ८९ ) इति वृद्धिः ॥ ।। ३ ।।


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२२&oldid=205402" इत्यस्माद् पुनः प्राप्तिः