ऋग्वेदः सूक्तं १.१५७

(ऋग्वेद: सूक्तं १.१५७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१५६ ऋग्वेदः - मण्डल १
सूक्तं १.१५७
दीर्घतमा औचथ्यः
सूक्तं १.१५८ →
दे. अश्विनौ। जगती, ५-६ त्रिष्टुप्।


अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा ।
आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥१॥
यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।
अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥२॥
अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥३॥
आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् ।
प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥४॥
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः ।
युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथाम् ॥५॥
युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः ।
अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ॥६॥


सायणभाष्यम्

द्वाविंशेऽनुवाके अष्टौ सूक्तानि । तत्र ‘ अबोध्यग्निर्ज्मः' इति प्रथमं सूक्तं षडृचं दैर्घतमसमाश्विनम् । पूर्वत्र ‘ जागतं तु ' इति तुशब्दादिदमपि जागतम् । अन्त्ये द्वे त्रिष्टुभौ । “अबोधि षळाश्विनं त्वन्त्ये त्रिष्टुभौ ' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दस्यस्य विनियोगः । ‘ अथाश्विनः' इति खण्डे सूत्रितम् – अबोध्यग्निर्ज्म एष स्य भानुः ' ( आश्व. श्रौ. ४. १५) इति ॥


अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु१॒॑षाश्च॒न्द्रा म॒ह्या॑वो अ॒र्चिषा॑ ।

आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ॥१

अबो॑धि । अ॒ग्निः । ज्मः । उत् । ए॒ति॒ । सूर्यः॑ । वि । उ॒षाः । च॒न्द्रा । म॒ही । आ॒वः॒ । अ॒र्चिषा॑ ।

अयु॑क्षाताम् । अ॒श्विना॑ । यात॑वे । रथ॑म् । प्र । अ॒सा॒वी॒त् । दे॒वः । स॒वि॒ता । जग॑त् । पृथ॑क् ॥१

अबोधि । अग्निः । ज्मः । उत् । एति । सूर्यः । वि । उषाः । चन्द्रा । मही । आवः । अर्चिषा ।

अयुक्षाताम् । अश्विना । यातवे । रथम् । प्र । असावीत् । देवः । सविता । जगत् । पृथक् ॥१

अयम् “अग्निः विहितः सन् "ज्मः ज्मायाः पृथिव्या वेदिलक्षणायाः संबन्धी सन् "अबोधि प्रतिबोधितः । ज्मेति पृथिवीनाम, ‘ग्मा ज्मा' (नि. १.१.३) इति तन्नामसूक्तत्वात् । किंच “सूर्यः “उदेति । “मही महती "उषाः “अर्चिषा प्रकृष्टेन तेजसा “चन्द्रा प्राणिनाम् आह्लादिनी सती “वि “आवः तमांसि विवासयति ॥ वसेर्लुङि' छान्दुसः च्लेर्लुक्। 'छन्दस्यपि दृश्यते' इति आडागमः ।। यतः इयमुषा उदेति यतश्च सूर्यो यतश्चायमग्निः प्रबुद्धो भवति अतः कारणात् हे अश्विनौ युष्मत्संबन्धिनं “रथं “यातवे देवयजनगमनाय रासभाभ्याम् “आयुक्षाताम् आभिमुख्येन युञ्जाथाम् । तथा “सविता सर्वकर्मणोऽनुज्ञाता “देवः "जगत् जङ्गमं प्राणिजातं “पृथक् स्वस्वकर्मानुरोधेन “प्रासावीत् प्रसौतु अनुजानातु ॥


यद्यु॒ञ्जाथे॒ वृष॑णमश्विना॒ रथं॑ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतम् ।

अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ॥२

यत् । यु॒ञ्जाथे॒ इति॑ । वृष॑णम् । अ॒श्वि॒ना॒ । रथ॑म् । घृ॒तेन॑ । नः॒ । मधु॑ना । क्ष॒त्रम् । उ॒क्ष॒त॒म् ।

अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । जि॒न्व॒त॒म् । व॒यम् । धना॑ । शूर॑ऽसाता । भ॒जे॒म॒हि॒ ॥२

यत् । युञ्जाथे इति । वृषणम् । अश्विना । रथम् । घृतेन । नः । मधुना । क्षत्रम् । उक्षतम् ।

अस्माकम् । ब्रह्म । पृतनासु । जिन्वतम् । वयम् । धना । शूरऽसाता । भजेमहि ॥२

हे “अश्विना अश्विनौ “यत् यदा “वृषणं वृष्ट्यादिवर्षकं “रथं “युञ्जाथे योजयथः तदा “नः “क्षत्रम् अस्मदीयं बलं क्षत्रियजातं वा “घृतेन उदकेन "मधुना मधुरेण “उक्षतं प्रवर्धयतमित्यर्थः। यद्वा। घृतेन क्षरणरूपेण मधुना मधुरेण अमृतेनोक्षतं युष्मद्रथस्थेन मधुना अस्मदीयं बलं प्रवर्धयतमित्यर्थः । अश्विनोः रथस्य मधुपूर्णत्वं मधुवाहनो रथः' इत्यादिषु प्रसिद्धम् । किंच “अस्माकं “पृतनासु अस्मदीयासु पुत्रभृत्यादिमनुष्यरूपासु प्रजासु “ब्रह्म ब्राह्मं तेजः “जिन्वतम् । पृतना इति मनुष्यनाम, ‘ विवस्वन्तः पृतनाः' (नि. २. ३. २५) इति तन्नामसूक्तत्वात् । यद्वा । पृतनासु परकीयासु प्रजासु ब्रह्म तासां परिवृढमन्नमस्माकं जिन्वतं प्रीणयतम् । ब्रह्म इति अन्ननाम, ब्रह्म वर्चः' (नि. २. ७. २५) इति तन्नामसूक्तत्वात् । “वयं च “शूरसाता शूरसातौ शूराणां प्रहारादिना युक्ते संग्रामे “धना तदीयानि धनानि बहुविधानि “भजेमहि लभेमहि ।


अ॒र्वाङ्त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो॑ जी॒राश्वो॑ अ॒श्विनो॑र्यातु॒ सुष्टु॑तः ।

त्रि॒व॒न्धु॒रो म॒घवा॑ वि॒श्वसौ॑भग॒ः शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ॥३

अ॒र्वाङ् । त्रि॒ऽच॒क्रः । म॒धु॒ऽवाह॑नः । रथः॑ । जी॒रऽअ॑श्वः । अ॒श्विनोः॑ । या॒तु॒ । सुऽस्तु॑तः ।

त्रि॒ऽव॒न्धु॒रः । म॒घऽवा॑ । वि॒श्वऽसौ॑भगः । शम् । नः॒ । आ । व॒क्ष॒त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ॥३

अर्वाङ् । त्रिऽचक्रः । मधुऽवाहनः । रथः । जीरऽअश्वः । अश्विनोः । यातु । सुऽस्तुतः ।

त्रिऽवन्धुरः । मघऽवा । विश्वऽसौभगः । शम् । नः । आ । वक्षत् । द्विऽपदे । चतुःऽपदे ॥३

“अश्विनोः “रथः “अर्वाङ् अस्मदभिमुखः "यातु गच्छतु । कीदृशः । “त्रिचक्रः चक्रत्रययुक्तः "मधुवाहनः मधुवोढा “जीराश्वः शीघ्रगाम्यश्वोपेतः “सुष्टुतः अत एवास्माभिः स्तूयमानः “त्रिवन्धुरः निम्नोन्नतकाष्ठत्रयोपेतः । सारथ्याश्रयस्थानं वन्धुरम् । “मघवा धनवान् अत एव “विश्वसौभगः सर्वसौभाग्योपेतः । ईदृशोऽश्विनोः रथः “नः अस्माकं “द्विपदे पुत्रादिप्रजायै “चतुष्पदे पशवे च “शं सुखम् “आ “वक्षत् आवहतु ॥ वहेर्लेटि अडागमः । सिप् ॥


आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं मधु॑मत्या न॒ः कश॑या मिमिक्षतम् ।

प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥४

आ । नः॒ । ऊर्ज॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मधु॑ऽमत्या । नः॒ । कश॑या । मि॒मि॒क्ष॒त॒म् ।

प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒ऽभुवा॑ ॥४

आ । नः । ऊर्जम् । वहतम् । अश्विना । युवम् । मधुऽमत्या । नः । कशया । मिमिक्षतम् ।

प्र । आयुः । तारिष्टम् । निः । रपांसि । मृक्षतम् । सेधतम् । द्वेषः । भवतम् । सचाऽभुवा ॥४

हे "अश्विना अश्विनौ “युवं युवां “नः अस्माकम् “ऊर्जं बलं प्राणनसमर्थमन्नं वा “आ “वहतं प्रापयतम् । किंच “नः अस्मान् “मधुमत्या माधुर्योपेतया “कशया वाचा इष्टप्रदानरूपया “मिमिक्षतं सिञ्चतं प्रीणयतम् । कशा इति वाङ्नाम, कशा धिषणा ' (नि. १.११.४३) इति तन्नामसूक्तत्वात। यद्वा । मधुमत्या मधुरवृष्टिमत्या माधुर्योपेतया कशया अश्वताडन्या नोऽस्मान् मिमिक्षतम् । मधु इति उदकनाम, ‘मधु पुरीषम् ' (नि. १. १२. ११ ) इति तन्नामसूक्तत्वात् । कशया अश्वताडनेन शीघ्रमागत्य वृष्टिरूपं फलं दास्यतः इति कशाया मधुमत्त्वम् । किंच “आयुः आयुष्यं “प्र “तारिष्टं प्रवर्धयतम् ॥ प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ तथा “रपांसि “मृक्षतं पापानि निःशेषेण शोधयतम् । ‘रपो रिप्रमिति पापनामनी भवतः ' (निरु. ४.२१) इति यास्कः । किंच द्वेषः द्वेष्यममित्रादिकं “सेधतं नाशयतम् । इदं च भाव्यम् । “सचाभुवा सहभुवौ अस्मत्कार्येषु सहभवनवन्तौ “भवतं भवन्तौ ऐकमत्यं भजत इत्यर्थः॥ वाक्यभेदादिनिघातः ।।


यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्व॒न्तः ।

यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथाम् ॥५

यु॒वम् । ह॒ । गर्भ॑म् । जग॑तीषु । ध॒त्थः॒ । यु॒वम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ ।

यु॒वम् । अ॒ग्निम् । च॒ । वृ॒ष॒णौ॒ । अ॒पः । च॒ । वन॒स्पती॑न् । अ॒श्वि॒नौ॒ । ऐर॑येथाम् ॥५

युवम् । ह । गर्भम् । जगतीषु । धत्थः । युवम् । विश्वेषु । भुवनेषु । अन्तरिति ।

युवम् । अग्निम् । च । वृषणौ । अपः । च । वनस्पतीन् । अश्विनौ । ऐरयेथाम् ॥५

हे "अश्विनौ "युवं “ह युवां खलु “जगतीषु "अन्तः गमनशीलासु गोषु मध्ये “गर्भं “धत्थः धारयथः । न केवलं गोष्वेव अपि तु "युवं युवां “विश्वेषु सर्वेषु “भुवनेषु भूतजातेष्वन्तर्मध्ये गर्भं धत्थः । वृष्टिद्वारा आमिषरूपत्वेन गर्भस्थरेतसः पोषकत्वात् । किंच हे “वृषणौ कामानां वर्षितारौ “युवं युवाम् “अग्निं “च "अपश्च “वनस्पतीन् च “ऐरयेथां प्रवर्तयेथाम् । आहुतिभोगायाग्निं स्वीकृत्य च वृष्ट्युदकानि उदकैः ओषधिवनस्पत्यादिकम् एतान्यस्मदर्थं प्रैरयेथाम् ।।


यु॒वं ह॑ स्थो भि॒षजा॑ भेष॒जेभि॒रथो॑ ह स्थो र॒थ्या॒३॒॑ राथ्ये॑भिः ।

अथो॑ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां॑ ह॒विष्मा॒न्मन॑सा द॒दाश॑ ॥६

यु॒वम् । ह॒ । स्थः॒ । भि॒षजा॑ । भे॒ष॒जेभिः॑ । अथो॒ इति॑ । ह॒ । स्थः॒ । र॒थ्या॑ । रथ्ये॑भि॒रिति॒ रथ्ये॑भिः ।

अथो॒ इति॑ । ह॒ । क्ष॒त्रम् । अधि॑ । ध॒त्थ॒ । उ॒ग्रा॒ । यः । वा॒म् । ह॒विष्मा॑न् । मन॑सा । द॒दाश॑ ॥६

युवम् । ह । स्थः । भिषजा । भेषजेभिः । अथो इति । ह । स्थः । रथ्या । रथ्येभिरिति रथ्येभिः ।

अथो इति । ह । क्षत्रम् । अधि । धत्थ । उग्रा । यः । वाम् । हविष्मान् । मनसा । ददाश ॥६

हे अश्विनौ “युवं युवां “ह खलु “भेषजेभिः भेषजैरौषधैः।' भेषजौषधभैषज्यान्यगदो जायुः ‘अगदं तत्रौषधम् ' इति चाभिधानात् । तैः “भिषजा भिषजौ “स्थः। हशब्दः ‘अश्विनौ हि देवानां भिषजौ' इत्यादिप्रसिद्धिद्योतनार्थः । “अथो अपि च “रथ्येभिः रथवोढृभिरश्वैः “रथ्या रथवन्तौ “स्थः । ‘ आ वां रथो अश्विना' ( ऋ. सं. १. ११८. १) इत्यादिप्रसिद्धिद्योतनार्थो हशब्दः । अनयोः रथेन विशेषसंबन्धः “युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति' (ऋ. सं. १. ३४. १०) इत्यादिमन्त्रान्तरेषु प्रसिद्धः । “अथो अपि च युवयोः “क्षत्रं बलम् “अधि "ह अधिकं खलु । हशब्दः प्रसिद्धौ । यस्मादेवं तस्मात् हे “उग्रा उद्गूर्णसामर्थ्यावश्विनौ “वां युवाभ्यां “यः “हविष्मान् आज्यपुरोडाशादिहविर्युक्तो यजमानः “मनसा युष्मदायत्तेन चेतसा “ददाश ददाति हविरादिकं तं “धत्थः धारयथः अत्यधिकमनुगृह्णीथ इत्यर्थः। प्रभूतबलौ युवां रथमारुह्य अस्मद्देवयजनमागत्य हविष्प्रदं मां धृत्वा अस्मद्यज्ञे अस्मान्विचिकित्सतमिति तात्पर्यार्थः ॥ ॥ २७ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके द्वितीयोऽध्यायः समाप्तः ॥




मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५७&oldid=205667" इत्यस्माद् प्रतिप्राप्तम्