प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.१७७

(ऋग्वेद: सूक्तं १.१७७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१७६ ऋग्वेदः - मण्डल १
सूक्तं १.१७७
अगस्त्यो मैत्रावरुणिः।
सूक्तं १.१७८ →
दे. इन्द्रः। त्रिष्टुप्।


आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः ।
स्तुतः श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाङ् ॥१॥
ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः ।
ताँ आ तिष्ठ तेभिरा याह्यर्वाङ्हवामहे त्वा सुत इन्द्र सोमे ॥२॥
आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि ।
युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥३॥
अयं यज्ञो देवया अयं मियेध इमा ब्रह्माण्ययमिन्द्र सोमः ।
स्तीर्णं बर्हिरा तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥४॥
ओ सुष्टुत इन्द्र याह्यर्वाङुप ब्रह्माणि मान्यस्य कारोः ।
विद्याम वस्तोरवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥५॥

सायणभाष्यम्

‘ आ चर्षणिप्राः' इति पञ्चर्चं त्रयोदशं सूक्तमागस्त्यमैन्द्रं त्रैष्टुभम् । ‘आ चर्षणिप्राः पञ्च' इत्यनुक्रमणिका । होत्रकशस्त्रेषु स्तोमवृद्धावस्य विशेषविनियोगः । ‘ ऐन्द्राणि त्रैष्टुभान्यमरुच्छब्दान्यावपेरन् ' ( आश्व. श्रौ. ७. १२ ) इति सूत्रितत्वात् ॥


आ च॑र्षणि॒प्रा वृ॑ष॒भो जना॑नां॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्र॑ः ।

स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या॑ह्य॒र्वाङ् ॥१

आ । च॒र्ष॒णि॒ऽप्राः । वृ॒ष॒भः । जना॑नाम् । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।

स्तु॒तः । श्र॒व॒स्यन् । अव॑सा । उप॑ । म॒द्रिक् । यु॒क्त्वा । हरी॒ इति॑ । वृष॑णा । आ । या॒हि॒ । अ॒र्वाङ् ॥१

आ । चर्षणिऽप्राः । वृषभः । जनानाम् । राजा । कृष्टीनाम् । पुरुऽहूतः । इन्द्रः ।

स्तुतः । श्रवस्यन् । अव॑सा । उप । मद्रिक् । युक्त्वा । हरी इति । वृषणा । आ । याहि । अर्वाङ् ॥ १ ॥

अयम् “इन्द्रः “चर्षणिप्राः । चर्षणयो मनुष्याः । तेषां धनादिना प्रीणयिता । “जनानां सर्वेषां “वृषभः कामानां वर्षिता । तथा "कृष्टीनाम् । मनुष्यनामैतत् । मनुष्याणां “राजा स्वामी “पुरुहूतः बहुभिराहूतः । ईदृश इन्द्रोऽस्मानाजानातु आगच्छतु वा । उत्तरार्धः परोक्षवादः । हे इन्द्र “स्तुतः अस्माभिः “श्रवस्यन् हविर्लक्षणान्नमिच्छन् “अवसा अस्मद्रक्षणेन तर्पणेन वा युक्तः सन् “मद्रिक मदभिमुखमञ्चन् “वृषणा वर्षकौ युवानौ “हरी अश्वौ युक्त्वा रथे योजयित्वा “अर्वाङ् अस्मदभिमुखम् “आ “याहि आगच्छ ॥


ये ते॒ वृष॑णो वृष॒भास॑ इन्द्र ब्रह्म॒युजो॒ वृष॑रथासो॒ अत्या॑ः ।

ताँ आ ति॑ष्ठ॒ तेभि॒रा या॑ह्य॒र्वाङ्हवा॑महे त्वा सु॒त इ॑न्द्र॒ सोमे॑ ॥२

ये । ते॒ । वृष॑णः । वृ॒ष॒भासः॑ । इ॒न्द्र॒ । ब्र॒ह्म॒ऽयुजः॑ । वृष॑ऽरथासः । अत्याः॑ ।

तान् । आ । ति॒ष्ठ॒ । तेभिः॑ । आ । या॒हि॒ । अ॒र्वाङ् । हवा॑महे । त्वा॒ । सु॒ते । इ॒न्द्र॒ । सोमे॑ ॥२

ये । ते । वृषणः । वृषभासः । इन्द्र । ब्रह्मऽयुजः । वृषऽरथासः । अत्याः ।

तान्। आ । तिष्ठ। तेभिः । आ। याहि । अर्वाङ् । हवामहे । त्वा । सुते । इन्द्र । सोमे ॥ २ ॥

हे "इन्द्र “ते तव संबन्धिनः “वृषणः वर्षका युवानो वर्षणवन्तो वा “वृषभासः श्रेष्ठाः “ब्रह्मयुजः परिवृढेन मन्त्रेण युज्यमानाः “वृषरथासः वर्षणरथवन्तः । तत्र नियुक्ता इत्यर्थः । ईदृशाः “अत्याः अश्वा "ये सन्ति “तान् आ “तिष्ठ आश्रय आरोह । “तेभिः तैः “अर्वाङ् अस्मदभिमुखम् “आ “याहि आगच्छ । वयं च हे “इन्द्र “सोमे "सुते सति “त्वा त्वां हवामहे आह्वयामः ॥


आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोम॒ः परि॑षिक्ता॒ मधू॑नि ।

यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥३

आ । ति॒ष्ठ॒ । रथ॑म् । वृष॑णम् । वृषा॑ । ते॒ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि ।

यु॒क्त्वा । वृष॑ऽभ्याम् । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । हरि॑ऽभ्याम् । या॒हि॒ । प्र॒ऽवता॑ । उप॑ । म॒द्रिक् ॥३

आ । तिष्ठ । रथम् । वृषणम् । वृषा । ते । सुतः । सोमः । परिऽसिक्ता । मधूनि ।

युक्त्वा । वृषऽभ्याम् । वृषभ । क्षितीनाम् । हरिऽभ्याम् । याहि । प्रऽवता । उप । मद्रिक् ॥३॥

हे इन्द्र त्वं “रथम् “आ “तिष्ठ आश्रय यज्ञगमनार्थम् । कीदृशं रथम् । “वृषणं वर्षकं कामानाम् । किमर्थमिति चेत् । उच्यते । “ते त्वदर्थं “वृषा वर्षकः “सोमः “सुतः अभिषुतः । तथा “मधूनि मधुराणि घृतक्षीरादीनि “परिषिक्ता परितः सिक्तानि संपादितानि । यद्वा । मधूनि मधुराः सोमरसाश्चमसेषु पूरिताः । आगमनप्रकार उच्यते । हे “वृषभ वर्षकेन्द्र “वृषभ्यां वर्षकाभ्यां “हरिभ्यां “युक्त्वा रथं योजयित्वा “क्षितीनां कर्मसु निवसतां यजमानानां अस्माकमनुग्रहाय । क्षितीनां वृषभेति वा योज्यम् । “प्रवता वेगवता रथेन “मद्रिक् मदभिमुखमञ्चन मदाभिमुख्येन उप “याहि ॥


अ॒यं य॒ज्ञो दे॑व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा॑ण्य॒यमि॑न्द्र॒ सोम॑ः ।

स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या॑हि॒ पिबा॑ नि॒षद्य॒ वि मु॑चा॒ हरी॑ इ॒ह ॥४

अ॒यम् । य॒ज्ञः । दे॒व॒ऽयाः । अ॒यम् । मि॒येधः॑ । इ॒मा । ब्रह्मा॑णि । अ॒यम् । इ॒न्द्र॒ । सोमः॑ ।

स्ती॒र्णम् । ब॒र्हिः । आ । तु । श॒क्र॒ । प्र । या॒हि॒ । पिब॑ । नि॒ऽसद्य॑ । वि । मु॒च॒ । हरी॒ इति॑ । इ॒ह ॥४

अयम् । यज्ञः । देवऽयाः । अयम् । मियेधः । इमा । ब्रह्माणि । अयम् । इन्द्र । सोमः ।।

स्तर्णम् । बर्हिः । आ । तु । शक्र । प्र । याहि । पिब । निऽसद्य । वि। मुच। हरी इति । इह ॥ ४ ॥

अहर्गणेषु मध्येष्वहःसु हारियोजनग्रहस्य याज्या । अग्निष्टोमोऽत्यग्निष्टोमः' इति खण्डे सूत्रितम्- अयं यज्ञो देवया अयं मियेध इतीतरेषु ' ( आश्व. श्रौ. ६. ११ ) इति ॥ हे “इन्द्र “अयं “यज्ञो “देवयाः देवान् गच्छन् भवति । तथा “अयं यज्ञः “मियेधः । मेधः पशुः । पशुवै मेधः' इति हि श्रुतिः । “इमा इमानि “ब्रह्माणि मन्त्राः । अयं सुतः “सोमः । “स्तीर्णं “बर्हिः आसनायास्तृता दर्भाः । एते पदार्थास्त्वदुचिता एवं संपादिताः । हे “शक इन्द्र “तु पुनः किमित्युक्ते “आ “प्र “याहि प्रकर्षेण शीघ्रमागच्छ । आगत्य च “निषद्य बर्हिष्युपविश्य “पिब सोमम् । तदर्थम्। “इह अस्मिन् देवयजने “हरी अश्वौ "वि "मुच वियोजय ॥ छान्दसो नुमभावः ॥


ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा॑णि मा॒न्यस्य॑ का॒रोः ।

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥५

ओ इति॑ । सुऽस्तु॑तः । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । उप॑ । ब्रह्मा॑णि । मा॒न्यस्य॑ । का॒रोः ।

वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥५

ओ इति । सुऽस्तुतः । इन्द्र । याहि । अर्वाङ् । उप । ब्रह्माणि । मान्यस्य । कारोः ।

विद्याम । वस्तोः । अवसा । गृणन्तः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ५ ॥

हे “इन्द्र “सुष्टुतः अस्माभिः सम्यक्स्तुतः सन् “अर्वाङ् अस्मदभिमुखम् आ “याहि आगच्छैव । मा विलम्बय । किमुद्दिश्य । 'मान्यस्य माननीयस्य “कारोः स्तोतुर्होतुः कर्तुर्यजमानस्य वा “ब्रह्माणि मन्त्रान् “उप उपलक्ष्य । “गृणन्तः स्तुवन्तोऽभिमतं शब्दयन्तो वा वयम् “अवसा त्वद्रक्षणेन रक्षिताः सन्तः “वस्तोः वस्तुं सुखेन संस्थातुमहनि वा सर्वेष्वहःसु अन्नादिकं “विद्याम लभेमहि । विद्याम इत्यादि व्याख्यातम् ॥ ॥ २० ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७७&oldid=207944" इत्यस्माद् पुनः प्राप्तिः