प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.१८४

(ऋग्वेद: सूक्तं १.१८४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१८३ ऋग्वेदः - मण्डल १
सूक्तं १.१८४
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१८५ →
दे. अश्विनौ। त्रिष्टुप्।


ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः ।
नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय ॥१॥
अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता ।
श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥२॥
श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः ।
वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥३॥
अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः ।
अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥४॥
एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति ।
यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥५॥
अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥६॥

सम्पाद्यताम्

सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं बेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

द्वितीयाष्टकमध्यस्थश्चतुर्थोऽध्याय आदरात् ।

व्याख्यातः सायणार्येण पञ्चमी व्याकरिष्यते ।।

तत्र ‘ता वाम्' इतीदं प्रथममण्डलस्य चतुर्विंशेऽनुवाके पञ्चमं सूक्तम् । पूर्वसूक्ते ' षट् ' इत्युक्तत्वात् ‘सूक्तसंख्यानुवर्तते ' इति परिभाषितत्वात् षडृचम् । ‘ऋषिश्चान्यस्मात् ' इति परिभाषया अगस्त्यम् । तथा ' आश्विनं वै' इत्युक्तत्वात् तुह्यादिपरिभाषया इदमप्याश्विनम् । अनादेशपरिभाषया त्रैष्टुभम् । ‘ता वाम्' इत्यनुक्रान्तम् ।' युवो रजांसि ' इत्यादीनां पञ्च सूक्तानां तृतीयवर्जितानां प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः । तत्रेदं पञ्चमम् ॥


ता वा॑म॒द्य ताव॑प॒रं हु॑वेमो॒च्छन्त्या॑मु॒षसि॒ वह्नि॑रु॒क्थैः ।

नास॑त्या॒ कुह॑ चि॒त्सन्ता॑व॒र्यो दि॒वो नपा॑ता सु॒दास्त॑राय ॥१

ता । वा॒म् । अ॒द्य । तौ । अ॒प॒रम् । हु॒वे॒म॒ । उ॒च्छन्त्या॑म् । उ॒षसि॑ । वह्निः॑ । उ॒क्थैः ।

नास॑त्या । कुह॑ । चि॒त् । सन्तौ॑ । अ॒र्यः । दि॒वः । नपा॑ता । सु॒दाःऽत॑राय ॥१

ता । वाम् । अद्य । तौ । अपरम् । हुवेम । उच्छन्त्याम् । उषसि । वह्निः । उक्थैः ।

नासत्या । कुह । चित् । सन्तौ । अर्यः । दिवः । नपाता । सुदाःऽतराय ॥ १ ॥

“ता तौ रक्षकत्वेन प्रसिद्धौ "वां युवाम् "अद्य अस्मिन् यागदिने "हुवेम आह्वयामः इति आशीः । तथा “अपरम् अपरस्मिन्नपि दिने "तौ युवां हुवेम । अपरमित्येतत् अपरस्मिन्नित्यर्थे समभिव्याहारात्, ‘ अद्या च नो मृळयतापरं च ' ( ऋ. सं. २. २९. २ ) इत्यादिमन्त्रान्तरे तथा दर्शनाच्च । अपरयागं प्रत्यपि इति वा । कस्मिन् काले। "उपसि उषोदेवतायाम् "उच्छन्त्यां तमो विवासयन्त्यां सत्याम् । उषःकाले हि प्रातरनुवाकाश्विनशस्त्रे प्रयुज्यते । उक्ते काले हे "नासत्या असत्यरहितौ “दिवो “नपाता द्युलोकस्य नपातयितारौ नप्तृस्थानीय वा "कुह "चित् "सन्तौ कुत्रचिद्देशे वर्तमानौ युवां "वह्निः स्तुतेर्वोढा "अर्यः ईरयिता स्तुतेरीश्वरो वा ईदृशोऽहं होता “सुदास्तराय अत्यर्थं शोभनहविर्दात्रे यजमानाय तदर्थं तौ युवाम् "उक्थैः शस्त्रैर्हुवेमेति संबन्धः । अत्र आख्यातं पदमेकवचनतया नेतव्यम् । वह्निरर्यशब्दौ वा बहुवचनत्वेन नेतव्यौ । अथवा वाक्यद्वयम् । यस्माद्वह्निरर्यो होता उक्तगुणकौ युवां शंसति तस्माद्वयं यजमानाः तौ युवामाह्वयामः इति ।


अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मद॑न्ता ।

श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णै॑ः ॥२

अ॒स्मे इति॑ । ऊं॒ इति॑ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् । प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद॑न्ता ।

श्रु॒तम् । मे॒ । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । एष्टा॑ । न॒रा॒ । निऽचे॑तारा । च॒ । कर्णैः॑ ॥२

अस्मे इति । ऊँ इति । सु । वृषणा। मादयेथाम् । उत् । पणीन् । हतम् । ऊर्म्या । मदन्ता ।

श्रुतम् । मे। अच्छोक्तिऽभिः । मतीनाम् । एष्टा । नरा। निऽचेतारा । च । कर्णैः ॥ २ ॥

हे "वृषणा कामानां वर्षकौ अश्विनौ युवाम् "अस्मे “उ अस्मास्वेव “सु “मादयेथां सुष्ठु तृप्यतम् । अस्मभ्यं तर्पयतमभिमतम् । तथा “पणीन् वणिजो लुब्धकानयष्टॄन् "उत् उन्मूल्य "हतं नाशयतम् । कीदृशौ युवाम् । “ऊर्म्या । रात्रिनामैतत् । रात्रौ "मदन्ता माद्यन्तौ । यद्वा । ऊर्मिरिति सोमनाम ।' ऊर्मिर्यस्ते पवित्र अ ' ( ऋ. सं. ९. ६४. ११ ) इत्यादिषु तथा प्रयोगात् । अस्मदीयेन सोमेन मदन्तौ । तादृशौ युवां "मे मम अच्छोक्तिभिः अभिमुख्यकरैर्निर्मलवेदवाक्यैः रचिताः "मतीनाम् ॥ कर्मणि षष्ठी ।। मननसाधनाः स्तुतीः "कर्णैः आकर्णनसाधनैः श्रोत्रैः "श्रुतम् शृणुतम् । हे "नरा नेतारौ युवां खलु “एष्टा अन्वेष्टारौ अस्मत्स्तुतीनां तथा “निचेतारा लब्धानां तासां संचयकर्तारौ । निरित्येष समित्येतस्य स्थाने । यस्मादेवंविधौ तस्माच्छृणुतमिति ॥


श्रि॒ये पू॑षन्निषु॒कृते॑व दे॒वा नास॑त्या वह॒तुं सू॒र्याया॑ः ।

व॒च्यन्ते॑ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरे॑ः ॥३

श्रि॒ये । पू॒ष॒न् । इ॒षु॒कृता॑ऽइव । दे॒वा । नास॑त्या । व॒ह॒तुम् । सू॒र्यायाः॑ ।

व॒च्यन्ते॑ । वा॒म् । क॒कु॒हाः । अ॒प्ऽसु । जा॒ताः । यु॒गा । जू॒र्णाऽइ॑व । वरु॑णस्य । भूरेः॑ ॥३

श्रिये । पूषन् । इषुकृताऽइव । देवा । नासत्या । वहतुम् । सूर्यायाः ।।

वच्यन्ते । वाम् । ककुहाः । अप्ऽसु । जाताः । युगा। जूर्णाऽइव । वरुणस्य । भूरेः ॥ ३ ॥

सविता सूर्यो दुहितरं सूर्याख्यां प्रदातुमनाः देवानाहूय सामर्थ्यसमीक्षणाय आजिं परिकल्प्य यः इमं जेष्यति स एषां कन्यकामृक्सहस्रक्लृप्तं स्तोत्रं च लभते इत्यकल्पयत्। तमग्निः प्रथममजयत् तमनु अश्विनावपि जित्वा अग्निं प्रधृष्य ऋक्सहस्रं कन्यकां च अलभेताम् । तत इन्द्रः उषाश्च अजयताम् । तौ च तैरग्न्यादिभिः प्रार्थितौ स्वशस्त्रस्य कंचित्कंचिद्भागं तेभ्यः परिकल्प्य सूर्यां स्वरथेऽधारयतामिति । अयमितिहासो ब्राह्मणे ‘प्रजापतिर्वै सोमाय राज्ञे' (ऐ. ब्रा. ४. ७) इत्यत्राम्नातोऽस्माभिः प्रथमाष्टमे “ आ वां पतित्वं सख्याय' (ऋ. सं. १. ११९. ५) इत्यत्र प्रपञ्चितः । अत्राह । हे “पूषन् पोषक सूर्य । एतच्चन्द्रस्याप्युपलक्षणं सूर्याचन्द्रमसोरेवाश्वित्वात् । ‘सूर्यचन्द्रमसावित्येके' (निरु. १२. १ ) इति यास्केनोक्तत्वात् । अतः पूषन्नित्युक्ते हे पोषकावश्विनावित्युक्तं भवति । हे पोषकौ हे "नासत्या असत्यरहितौ "देवा देवौ युवां "श्रिये श्रेयसे शस्त्रस्य कन्यायाश्च लाभायेत्यर्थः । “इषुकृतेव । इवशब्दः एवार्थे । आजिधावनाय इषुवच्छीघ्रमृजुगामिनौ कृतावेव सन्तौ "सूर्यायाः एतन्नामिकायाः सवितुः पुत्र्याः ॥ कर्मणि षष्ठी ॥ सूर्यां "वहतुं रथे धारयितुम् । आजिमुदजयतामित्यर्थः । यस्मादेवं तस्मात् "अप्सु "जाताः कर्मसु संपादिताः "ककुहाः शस्त्ररूपाः स्तुतयः “भूरेः अविच्छिन्नप्रवाहस्य “वरुणस्य फलप्रतिबन्धकपापनिवारकस्य यागस्य सिद्ध्यर्थं तत्संबन्धिन्यः “वां प्रति “वच्यन्ते होत्रादिभिः । युवामेव शस्त्रगतमन्त्रैः यागकाले च स्तुवन्तीत्यर्थः । "युगा “जूर्णेव जीर्णानि युगानीव। इवशब्दः संप्रत्यर्थः । पुरातना यागकालाः यथा तद्वत् अद्यतनाः अपि इत्यर्थः । पूर्वकाले यथा युवामेव स्तुवन्ति तद्वत् इदानीमपीति तात्पर्यम् ॥


अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः ।

अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मद॑न्ति ॥४

अ॒स्मे इति॑ । सा । वा॒म् । मा॒ध्वी॒ इति॑ । रा॒तिः । अ॒स्तु॒ । स्तोम॑म् । हि॒नो॒त॒म् । मा॒न्यस्य॑ । का॒रोः ।

अनु॑ । यत् । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । सु॒ऽवीर्या॑य । च॒र्ष॒णयः॑ । मद॑न्ति ॥४

अस्मे इति । सा । वाम् । माध्वी इति । रातिः । अस्तु । स्तोमम् । हिनोतम्। मान्यस्य । कारोः ।।

अनु। यत्। वाम् । श्रवस्या । सुदानू इति सुऽदानू । सुऽवीर्याय । चर्षणयः । मदन्ति ॥४॥

हे “माध्वी मधुपूर्णपात्रयुक्तावश्विनौ “वां युवयोः संबन्धिनी “सा प्रसिद्धा “रातिः दानम् “अस्मे अस्माकम् “अस्तु भवतु । तदर्थं “मान्यस्य मननीयस्य “कारोः स्तोतुरगस्त्यस्य “स्तोमं स्तुतिं "हिनोतं प्रीणयतम् । हे “सुदानू शोभनफलदानौ “वां युवां “श्रवस्या कीर्तेरन्नस्य वा इच्छया “यत् यस्मात् “सुवीर्याय यजमानाय शोभनबलाय वा “चर्षणयः मनुष्या ऋत्विग्रूपाः “अनु “मदन्ति अनुक्रमेण माद्यन्ति युवाभ्यां सह स्वयं वा ।


ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति ।

या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मद॑न्ता ॥५

ए॒षः । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒का॒रि॒ । माने॑भिः । म॒घ॒ऽवा॒ना॒ । सु॒ऽवृ॒क्ति ।

या॒तम् । व॒र्तिः । तन॑याय । त्मने॑ । च॒ । अ॒गस्त्ये॑ । ना॒स॒त्या॒ । मद॑न्ता ॥५

एषः । वाम् । स्तोमः । अश्विनौ । अकारि । मानेभिः । मघऽवाना । सुऽवृक्ति ।

यातम् । वर्तिः । तनयाय । त्मने । च । अगस्त्ये। नासत्या । मदन्ता ॥ ५ ॥ ॥ १ ॥

हे “अश्विनौ हे मघवाना हविर्लक्षणान्नवन्तौ “वां युवाभ्याम् “एषः “स्तोमः स्तोत्रं “सुवृक्ति सुष्ठु पापवर्जनं यथा भवति तथा । यद्वा । सुसमाप्ति “अकारि कृतः । कीदृशोऽयम् । “मानेभिः मानैः हविष्प्रदानरूपैः सहितः । हे “नासत्या असत्यरहितौ युवाम् "अगस्त्ये एतन्नाम्नि महर्षौ मयि “मदन्ता माद्यन्तौ सन्तौ "वर्तिः गृहं यज्ञसंबन्धि “यातं प्राप्नुतम् । किमर्थम्। “तनयाय पुत्रादिलाभाय “त्मने आत्मने “च हिताय ।।


अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।

एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६

अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ ।

आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥६

अतारिष्म । तमसः । पारम् । अस्य । प्रति। वाम् । स्तोमः । अश्विनौ । अधायि ।

आ। इह । यातम् । पृथिऽभिः । देवऽयानैः । विद्याम । इषम् । वृजनम्। जीरऽदानुम् ॥६॥

अतारिष्मेति षष्ठी व्याख्याता ॥ ॥ १ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८४&oldid=207951" इत्यस्माद् पुनः प्राप्तिः