ऋग्वेदः सूक्तं १.३७

(ऋग्वेद: सूक्तं १.३७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.३६ ऋग्वेदः - मण्डल १
सूक्तं १.३७
कण्वो घौरः
सूक्तं १.३८ →
दे. मरुतः। गायत्री


क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् ।
कण्वा अभि प्र गायत ॥१॥
ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः ।
अजायन्त स्वभानवः ॥२॥
इहेव शृण्व एषां कशा हस्तेषु यद्वदान् ।
नि यामञ्चित्रमृञ्जते ॥३॥
प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे ।
देवत्तं ब्रह्म गायत ॥४॥
प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम् ।
जम्भे रसस्य वावृधे ॥५॥
को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः ।
यत्सीमन्तं न धूनुथ ॥६॥
नि वो यामाय मानुषो दध्र उग्राय मन्यवे ।
जिहीत पर्वतो गिरिः ॥७॥
येषामज्मेषु पृथिवी जुजुर्वाँ इव विश्पतिः ।
भिया यामेषु रेजते ॥८॥
स्थिरं हि जानमेषां वयो मातुर्निरेतवे ।
यत्सीमनु द्विता शवः ॥९॥
उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत ।
वाश्रा अभिज्ञु यातवे ॥१०॥
त्यं चिद्घा दीर्घं पृथुं मिहो नपातममृध्रम् ।
प्र च्यावयन्ति यामभिः ॥११॥
मरुतो यद्ध वो बलं जनाँ अचुच्यवीतन ।
गिरीँरचुच्यवीतन ॥१२॥
यद्ध यान्ति मरुतः सं ह ब्रुवतेऽध्वन्ना ।
शृणोति कश्चिदेषाम् ॥१३॥
प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः ।
तत्रो षु मादयाध्वै ॥१४॥
अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् ।
विश्वं चिदायुर्जीवसे ॥१५॥


सायणभाष्यम्

‘क्रीळ वः' इति द्वितीयं सूक्तं पञ्चदशर्चम् । अत्रेयमनुक्रमणिका - क्रीळं पञ्चोना मारुतं हि गायत्रं तु ' इति । ऋषिश्चान्यस्मादृषेरवाविशिष्टः' इति परिभाषया घोरपुत्रः कण्व ऋषिः । इदमुत्तरं च गायत्रीच्छन्दस्के । इदमादिसूक्तत्रयं मरुद्देवताकं तुहिहवेति परिभाषितत्वात् । व्यूळ्हे द्वितीये छन्दोमे आग्निमारुतशस्त्रे एतत्सूक्तं निविद्धानीयम् । द्वितीयस्याग्निं वो देवम्' इति खण्डे सूत्रितं -- क्रीळं वः शर्धाऽग्ने मृळेत्याग्निमारुतम् ' ( आश्व. श्रौ. ८. १० ) इति । ब्राह्मणं च -- क्रीळ वः शर्धो मारुतम्' (ऐ.ब्रा. ५. १९) इति। ‘मरुद्भ्यः क्रीडिभ्यः पुरोडाशं सप्तकपालम्' इत्यस्यामिष्टौ ‘क्रीलं वः' इत्येषा प्रधानस्यानुवाक्या। ‘ तथा ततः' इति खण्डे सूत्रितं - क्रीळं वः शर्धो मारुतमत्यासो न ये मरुतः स्वञ्चः ' ( आश्व. श्रौ. २. १८) इति ॥


क्री॒ळं व॒ः शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म् ।

कण्वा॑ अ॒भि प्र गा॑यत ॥१

क्री॒ळम् । वः॒ । शर्धः॑ । मारु॑तम् । अ॒न॒र्वाण॑म् । र॒थे॒ऽशुभ॑म् ।

कण्वाः॑ । अ॒भि । प्र । गा॒य॒त॒ ॥१

क्रीळम् । वः । शर्धः । मारुतम् । अनर्वाणम् । रथेऽशुभम् ।

कण्वाः । अभि । प्र । गायत ॥१

हे “कण्वाः कण्वगोत्रोत्पन्ना महर्षयः । यद्वा । मेधाविन ऋत्विजः । “वः युष्मदर्थं “मारुतं मरुत्समूहरूपं “शर्धः बलम् “अभि “प्र “गायत अभितः प्रकर्षेण स्तुध्वम् । कीदृशं शर्धः । “क्रीळं विहरणशीलम् “अनर्वाणं भ्रातृव्यरहितम् । अत एव श्रुत्यन्तरब्राह्मणेन मन्त्रान्तरमेवं व्याख्यातम् - ‘अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भातृव्यापनुत्त्यै' (तै. सं. ६. ३. ८. ४ ) इति । “रथेशुभं स्वकीये रथेऽवस्थाय शोभमानम् ।। क्रीळम् ।' क्रीडृ विहारे ' । पचाद्यच् । शर्धः । शृधु प्रसहने '। शर्धयत्यनेन शत्रूनिति शर्धो बलम् । असुन् । नित्त्वादाद्युदात्तत्वम् । मारुतं मरुतां संबन्धि । तस्येदम्' इति अण् । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । समूहार्थे ' अनुदात्तादेरञ्' (पा. सू. ४. २. ४४ ) इत्यनुदात्तादिलक्षणः अञ्प्रत्ययः । अनर्वाणम् । व्यत्ययेन पुंलिङ्गता । नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । रथेशुभम् । ‘शुभ दीप्तौ'। रथे शोभते इति रथेशुप् । क्विप् च ' इति क्विप्। तत्पुरुषे कृति बहुलम्' इति अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । गायत । ‘कै गै रै शब्दे'। तिङ्ङतिङः' इति निघातः ॥


ये पृष॑तीभिरृ॒ष्टिभि॑ः सा॒कं वाशी॑भिर॒ञ्जिभि॑ः ।

अजा॑यन्त॒ स्वभा॑नवः ॥२

ये । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । सा॒कम् । वाशी॑भिः । अ॒ञ्जिऽभिः॑ ।

अजा॑यन्त । स्वऽभा॑नवः ॥२

ये । पृषतीभिः । ऋष्टिऽभिः । साकम् । वाशीभिः । अञ्जिऽभिः ।

अजायन्त । स्वऽभानवः ॥२

ये मरुतः पृषत्यादिभिः "साकं “स्वभानवः स्वकीयदीप्तियुक्ताः “अजायन्त इति संपन्नाः । पृषत्यो बिन्दुयुक्ता मृग्यो मरुद्वाहनभूताः। ‘ पृषत्यो मरुताम्' (नि.१.१५.६) इति निघण्टावुक्तत्वात् । ऋष्टय आयुधानि । वाश्यः शब्दविशेषाः परकीयसेनाभीतिहेतवः। ‘वाशी वाणी' ( नि. १. ११. ११) इति वाङ्नामसु पठितत्वात् । अञ्जयोऽलंकरणानि । तान् स्तुम इति शेषः ॥ अजायन्त । ‘जनी प्रादुर्भावे' । श्यनि ‘ज्ञाजनोर्जा' ( पा. सू. ७. ३. ७९ ) इति जादेशः । अडागम उदात्तः । स्वभानवः । स्वकीया भानवो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।।


इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद्वदा॑न् ।

नि याम॑ञ्चि॒त्रमृ॑ञ्जते ॥३

इ॒हऽइ॑व । शृ॒ण्वे॒ । ए॒षा॒म् । कशाः॑ । हस्ते॑षु । यत् । वदा॑न् ।

नि । याम॑न् । चि॒त्रम् । ऋ॒ञ्ज॒ते॒ ॥३

इहऽइव । शृण्वे । एषाम् । कशाः । हस्तेषु । यत् । वदान् ।

नि । यामन् । चित्रम् । ऋञ्जते ॥३

“एषां मरुतां “हस्तेषु स्थिताः “कशाः स्वस्ववाहनताडनहेतवः “यद्वदान् यद्वदन्ति यं ध्वनि कुर्वन्ति तं ध्वनिम् “इहेव अत्रेव स्थित्वा “शृण्वे शृणोमि । स ध्वनिविशेषः "यामन् संग्रामे “चित्रं विविधं शौर्यं “नि “ऋञ्जते नितरामलंकरोति । ‘ ऋञ्जतिः प्रसाधनकर्मा ' ( निरु. ६. २१) इति यास्कः ॥ शृण्वे । ‘श्रु श्रवणे'। व्यत्ययेनात्मनेपदम्। ‘ श्रुवः शृ च' इति श्नुः। “हुश्नुवोः सार्वधातुके' इति यणादेशः । वदान् ।' वद व्यक्तायां वाचि'। लेटि आडागमः । ‘ इतश्च लोपः' इति इकारलोपे संयोगान्तलोपः । आगमानुदात्तत्वे धातुस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । यामन् ।' सुपां सुलुक्° ' इति सप्तम्या लुक् ।' न ङिसंबुद्ध्योः' (पा. सू. ८. २. ८) इति नलोपप्रतिषेधः। ऋञ्जते । ‘ ऋजि भृजी भर्जने '। अत्र प्रसाधनार्थः ॥


प्र व॒ः शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ ।

दे॒वत्तं॒ ब्रह्म॑ गायत ॥४

प्र । वः॒ । शर्धा॑य । घृष्व॑ये । त्वे॒षऽद्यु॑म्नाय । शु॒ष्मिणे॑ ।

दे॒वत्त॑म् । ब्रह्म॑ । गा॒य॒त॒ ॥४

प्र । वः । शर्धाय । घृष्वये । त्वेषऽद्युम्नाय । शुष्मिणे ।

देवत्तम् । ब्रह्म । गायत ॥४

हे ऋत्विजः “वः युष्माकं संबन्धिने "शर्धाय प्रसहनशीलाय “घृष्वये शत्रुघर्षणयुक्ताय त्वेषद्युम्नाय दीप्यमानयशसे । ‘द्युम्नं द्योततेर्यशोवान्नं वा ' (निरु. ५. ५) इति यास्कः । “शुष्मिणे बलवते । शुष्मं शुष्णम् ' ( नि. २. ९. ११ ) इति बलनामसु पाठात् । एवंभूताय मरुद्गणाय “ब्रह्म हविर्लक्षणमन्नमुद्दिश्य “प्र “गायत स्तुध्वम्। कीदृशं ब्रह्म। “देवत्तं देवैर्दत्तं देवतानुग्रहाल्लब्धम् ॥ शर्धाय । ‘ शृधु प्रसहने '। शर्धयत्यभिभवतीति शर्धो बलम् । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । घृष्वये । ‘ घृष संघर्षे '।' कृविघृष्वि ' ( उ. सू. ४. ४९६ ) इत्यादिना क्विन्प्रत्ययान्तो निपातितः । त्वेषद्युम्नाय । त्विष दीप्तौ । पचाद्यच् । त्वेषं दीप्तं द्युम्नं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । देवत्तं देवैर्दत्तम् । छान्दसो वर्णलोपः । उक्तं च - ‘ द्वौ चापरौ वर्णविकारनाशौ ' (का. ६. ३. १०९) इति । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥


प्र शं॑सा॒ गोष्वघ्न्यं॑ क्री॒ळं यच्छर्धो॒ मारु॑तम् ।

जम्भे॒ रस॑स्य वावृधे ॥५

प्र । शं॒स॒ । गोषु॑ । अघ्न्य॑म् । क्री॒ळम् । यत् । शर्धः॑ । मारु॑तम् ।

जम्भे॑ । रस॑स्य । व॒वृ॒धे॒ ॥५

प्र । शंस । गोषु । अघ्न्यम् । क्रीळम् । यत् । शर्धः । मारुतम् ।

जम्भे । रसस्य । ववृधे ॥५

“गोषु मरुन्मातृभूतपृश्निप्रभृतिषु धेनुष्ववस्थितम् । ' पृश्नियै वै पयसो मरुतो जाताः' (तै. सं. २. २. ११. ४) इति श्रुत्यन्तरात् । अघ्न्यम् अहन्तव्यं "क्रीळं विहारोपेतं "मारुतं मल्संबन्धि “शर्धः प्रसहनशीलं तेजो "यत् अस्ति तत् “प्र “शंस हे ऋत्विक्समूह स्तुहि । 'रसस्य गोक्षीररूपस्य संबन्धि तत् तेजः “जम्भे मुखे उदरे वा “ववृधे वृद्धमभूत् ॥ शंस। ‘ शंसु स्तुतौ ।' द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः । गोषु ।' सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तस्य न गोश्वन्साववर्ण° ' इति प्रतिषेधः । अघ्न्यम् । घ्नो हननम् । ‘ घञर्थे कविधानम् ' (पा. सू. ३. ३. ५८. ४ ) इति कः । गमहन' ' इत्यादिना उपधालोपः। ‘ हो हन्तेः ' ( पा. सू. ७. ३. ५४ ) इति घत्वम् । तदर्हतीति घ्न्यम्। छन्दसि च' इति यः । न घ्न्यम् अघ्न्यम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । क्रीळादयो गताः । जम्भे ।' जभि नाशने'। जम्भ्यते भक्ष्यतेऽनेनेति जम्भमास्यम् । करणे घञ् । ववृधे । 'वृधु वृद्धौ'। लिट् । छान्दसं संहितायामभ्यासदीर्घत्वम् ॥ ॥ १२ ॥


को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः ।

यत्सी॒मन्तं॒ न धू॑नु॒थ ॥६

कः । वः॒ । वर्षि॑ष्ठः । आ । न॒रः॒ । दि॒वः । च॒ । ग्मः । च॒ । धू॒त॒यः॒ ।

यत् । सी॒म् । अन्त॑म् । न । धू॒नु॒थ ॥६

कः । वः । वर्षिष्ठः । आ । नरः । दिवः । च । ग्मः । च । धूतयः ।

यत् । सीम् । अन्तम् । न । धूनुथ ॥६

"दिवश्च द्युलोकस्यापि “ग्मश्च भूलोकस्यापि । ‘गौः ग्मा'(नि. १.१.२) इति भूनामसु पठितत्वात्। “धूतयः कम्पनकारिणो हे "नरः नेतारो मरुतः “वः युष्माकं मध्ये "आ समन्तात् “वर्षिष्ठः वृद्धतमः “कः। “यत् यस्मात् कारणात् “सीं सर्वतः "अन्तं “न वृक्षाग्रमिव “धूनुथ चालयथ । तस्मात् कारणात् कम्पयितॄणां युष्माकं मध्ये कः प्रबल इति प्रश्नः॥ वर्षिष्ठः। वृद्धशब्दात् इष्ठनि ‘ प्रियस्थिर' (पा. सू. ६.४.१५७) इत्यादिना वर्षादेशः । नित्त्वादाद्युदात्तः । ग्मः । ग्माशब्दात् षष्ठ्येकवचने “ आतो धातोः ' इत्यत्र ‘आत इति योगविभागः कर्तव्यः ' ( का. ६. ४. १४० ) इत्युक्तत्वात् आकारलोपः उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । धूतयः । ‘ धूञ् कम्पने '। ' क्तिच्क्तौ च संज्ञायाम् इति क्तिच् । ‘ तितुत्र° ' इत्यादिना इट्प्रतिषेधः । ‘ आमन्त्रितस्य च' इति सर्वानुदात्तत्वम् । धूनुथ । 'स्वादिभ्यः श्नुः' । 'सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति वचनात् सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते । अतस्तिङ एव स्वरः । यद्वृत्तयोगादनिघातः ॥


नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑ ।

जिही॑त॒ पर्व॑तो गि॒रिः ॥७

नि । वः॒ । यामा॑य । मानु॑षः । द॒ध्रे । उ॒ग्राय॑ । म॒न्यवे॑ ।

जिही॑त । पर्व॑तः । गि॒रिः ॥७

नि । वः । यामाय । मानुषः । दध्रे । उग्राय । मन्यवे ।

जिहीत । पर्वतः । गिरिः ॥७

हे मरुतः “वः युष्माकं “यामाय गमनार्थं “मानुषः गृहस्वामी कश्चिन्मनुजः “नि “दध्रे गृहदार्ढ्यार्थं दृढं स्तम्भं निक्षिप्तवान् । भवदीयगमनेन चालितं गृहं पतिष्यतीति भीत्या तन्निवारणाय दृढस्तम्भप्रक्षेपः । कीदृशाय यामाय । “उग्राय तीव्राय "मन्यवे चालनार्थमभिमन्यमानाय । युज्यते हि भवद्गमनाद्भीतिः। यतो भवद्गत्या चालितः “पर्वतः बहुविधपर्वयुक्तः "गिरिः शिखरी "जिहीत गच्छेत् ॥ मानुषः ।' मनोर्जातावञ्यतौ षुक् च ' ( पा. सू. ४. १. १६१ ) इति मनुशब्दात् अपत्यार्थे अञ् षुगागमश्च । ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् । दध्रे । ‘ धृञ् अवस्थाने ' इत्यस्य लिटि कित्त्वाद्गुणाभावे सति यणादेशः । प्रत्ययस्वरः । पादादित्वात् न निघातः । जिहीत । ‘ ओहाङ् गतौ । लिङि जुहोत्यादित्वात् शपः श्लुः । ‘ भृञामित्' ( पा. सू. ७. ४. ७६ ) इति अभ्यासस्य इत्वम् । श्नाभ्यस्तयोरातः' इति आकारलोपः । पर्ववान् पर्वतः । मत्वर्थीयः तप्रत्ययः ॥


येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पति॑ः ।

भि॒या यामे॑षु॒ रेज॑ते ॥८

येषा॑म् । अज्मे॑षु । पृ॒थि॒वी । जु॒जु॒र्वान्ऽइ॑व । वि॒श्पतिः॑ ।

भि॒या । यामे॑षु । रेज॑ते ॥८

येषाम् । अज्मेषु । पृथिवी । जुजुर्वान्ऽइव । विश्पतिः ।

भिया । यामेषु । रेजते ॥८

हे मरुतः “येषां युष्माकं "यामेषु गमनेषु “अज्मेषु क्षेपकेषु सत्सु “पृथिवी भूमिः “रेजते कम्पते । तत्र दृष्टान्तः । “जुजुर्वांइव "विश्पतिः । यथा वयोहानिरोगादिना जीर्णः प्रजापालको राजा वैरिभयात् कम्पते तद्वत् ॥ अज्मेषु ।' अज गतिक्षेपणयोः '। बहुलग्रहणात् औणादिको मन् । ‘ अजेर्व्यघञपोः ' (पा. सू. २. ४. ५६ ) इति वीभावो न भवति, ‘वलादावार्धधातुके विकल्प इष्यते' (का. २. ४. ५६. २) इति वचनात् । नित्त्वादाद्युदात्तत्वम् । जुजुर्वान् । ‘जुष् वयोहानौ'। लिटः क्वसुः । ‘बहुलं छन्दसि' ( पा. सू. ७. १. १०३ ) इति उत्वम् । अभ्यासहलादिशेषौ । “वस्वेकाजाद्धसाम्' इति नियमात इडागमाभावः । ‘ ऋच्छत्यॄताम् ' ( पा. सू. ७, ४, ११ ) इति गुणः, “ हलि च ' इति दीर्घत्वं च ' संज्ञापूर्वको विधिरनित्यः' इति वचनात् न भवति । विशां पतिर्विश्पतिः । पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरे प्राप्ते ' परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । भिया । सावेकाचः० ' इति विभक्तेरुदात्तत्वम् । यामेषु ।' यम उपरमे '। भावे घञ् । ‘ कर्षात्वतो घञ:०' इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । रेजते । ‘रेजृ कम्पने ' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥


स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे ।

यत्सी॒मनु॑ द्वि॒ता शव॑ः ॥९

स्थि॒रम् । हि । जान॑म् । ए॒षा॒म् । वयः॑ । मा॒तुः । निःऽए॑तवे ।

यत् । सी॒म् । अनु॑ । द्वि॒ता । शवः॑ ॥९

स्थिरम् । हि । जानम् । एषाम् । वयः । मातुः । निःऽएतवे ।

यत् । सीम् । अनु । द्विता । शवः ॥९

“एषां मरुतां “जानं जन्मस्थानमाकाशं “स्थिरं “हि चलनरहितं खलु । “मातुः मरुतां जननीस्थानीयादाकाशात् “वयः पक्षिणः “निरेतवे निर्गन्तुं समर्था भवन्तीति शेषः । तादृशादाकाशाद्भवज्जन्मेति मरुतां स्तुतिः। “यत् यस्मात् कारणात् “शवः भवदीयं बलम् अनुक्रमेण “सीं सर्वतः “द्विता द्वित्वेन द्यावापृथिव्योर्विभज्य वर्तते । अतो भवदीयं जानं स्थिरं हि इति पूर्वत्रान्वयः ॥ जानम् । जन्यतेऽस्मिन्निति जानमन्तरिक्षम् । अधिकरणे घञ् । एषाम् । इदमोऽन्वादेशे इति अशादेशोऽनुदात्तः । विभक्तिश्च सुप्त्वादनुदात्ता । न च ‘ ऊडिदम्' इत्यादिना विभक्त्युदात्तत्वम् , अन्तोदात्तात् इदंशब्दात् तस्य विधानात् । निरेतवे। ‘ इण् गतौ । तुमर्थे सेसेन्' इति तवेन्प्रत्ययः । तादौ च । इति गतेः प्रकृतिस्वरत्वम् ॥


उदु॒ त्ये सू॒नवो॒ गिर॒ः काष्ठा॒ अज्मे॑ष्वत्नत ।

वा॒श्रा अ॑भि॒ज्ञु यात॑वे ॥१०

उत् । ऊं॒ इति॑ । त्ये । सू॒नवः॑ । गिरः॑ । काष्ठाः॑ । अज्मे॑षु । अ॒त्न॒त॒ ।

वा॒श्राः । अ॒भि॒ऽज्ञु । यात॑वे ॥१०

उत् । ऊं इति । त्ये । सूनवः । गिरः । काष्ठाः । अज्मेषु । अत्नत ।

वाश्राः । अभिऽज्ञु । यातवे ॥१०

“त्ये पूर्वप्रकृताः “गिरः “सूनवः वाच उत्पादका मरुतः । वायवो हि ताल्वौष्ठादिषु संचरन्तो वाचमुत्पादयन्ति । “अज्मेषु स्वकीयेषु गमनेषु सत्सु “काष्ठाः अपः । ‘ आपोऽपि काष्ठा उच्यन्ते क्रान्त्वा स्थिता भवन्ति' ( निरु. २. १५) इति यास्कः। “उदु उत्कर्षेणैव “अत्नत अतनिषत विस्तारितवन्तः । उदकं विस्तार्य तत्पानार्थं "वाश्राः हम्भारोपेता गाः "अभिज्ञु जान्वाभिमुख्यं यथा भवति तथा “यातवे गन्तुं प्रेरितवन्त इति शेषः ॥ सूनवः । ‘ षू प्रेरणे' । ‘सुवः कित्' ( उ. सू. ३. ३१५) इति नुप्रत्ययः । कित्त्वाद्गुणाभावः । अत्नत । तनु विस्तारे '। लङि झस्य अदादेशे ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ तनिपत्योश्छन्दसि ' ( पा. सू. ६. ४. ९९ ) इति उपधालोपः । अडागमः । अभिज्ञु । अभिगते जानुनी यस्य तदभिज्ञु ।' प्रसंभ्यां जानुनोर्ज्ञुः ' ( पा. सू.५. ४. १२९ ) इति व्यत्ययेनाभिपूर्वस्यापि जानुशब्दस्य ज्ञुशब्दादेशः समासान्तः। यातवे । ' तुमर्थे सेसेन्°' इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥ ॥ १३ ॥


त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रम् ।

प्र च्या॑वयन्ति॒ याम॑भिः ॥११

त्यम् । चि॒त् । घ॒ । दी॒र्घम् । पृ॒थुम् । मि॒हः । नपा॑तम् । अमृ॑ध्रम् ।

प्र । च्य॒व॒य॒न्ति॒ । याम॑ऽभिः ॥११

त्यम् । चित् । घ । दीर्घम् । पृथुम् । मिहः । नपातम् । अमृध्रम् ।

प्र । च्यवयन्ति । यामऽभिः ॥११

“त्यं “चिद्ध प्रसिद्धो यो मेघस्तमपि मेघं "यामभिः स्वकीयगमनैः “प्र “च्यावयन्ति मरुतः प्रकर्षेण गमयन्ति । कीदृशम् । “दीर्घम् आयामोपेतं “पृथुं तिर्यग्विस्तृतं “मिहो "नपातं सेचनीयस्य जलस्य न पातयितारं वृष्टिमकुर्वन्तमित्यर्थः। “अमृध्रं केनाप्यहिंस्यम् ॥ घ। ऋचि तुनुघ' इत्यादिना दीर्घः । मिहः । ‘ मिह सेचने '। मेहति सिञ्चतीति मिट् वृष्टिः । ‘ क्विप् च ' इति क्विप् । ‘ सावेकाचः° ' इति विभक्तेरुदात्तत्वम् । नपातम् । न पातयतीति नपात् । । नभ्राण्नपात्” । इत्यादिना नञः प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अमृध्रम् । श्रुधु मृधु उन्दने ' । मर्धति उदकेन उनत्तीति मृध्रः । बहुलवचनात् औणादिको रक्प्रत्ययः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । संग्रामवाचिना मृधशब्देन हिंसा लक्ष्यते । मत्वर्थीयो रः । पूर्ववत् स्वरसमासौ । च्यावयन्ति ।। ‘ च्युङ् गतौ ' । णिचि वृद्ध्यावादेशौ । पदकाले ह्रस्वश्छान्दसः ॥


मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन ।

गि॒रीँर॑चुच्यवीतन ॥१२

मरु॑तः । यत् । ह॒ । वः॒ । बल॑म् । जना॑न् । अ॒चु॒च्य॒वी॒त॒न॒ ।

गि॒रीन् । अ॒चु॒च्य॒वी॒त॒न॒ ॥१२

मरुतः । यत् । ह । वः । बलम् । जनान् । अचुच्यवीतन ।

गिरीन् । अचुच्यवीतन ॥१२

हे “मरुतः “यद्ध यस्मादेव कारणात् “वः युष्माकं “बलम् अस्ति अस्मादेव कारणात् “जनान् प्राणिनः “अचुच्यवीतन स्वस्वव्यापारेषु प्रेरयत । तथा “गिरीन् मेघान् "अचुच्यवीतन प्रेरयत ॥ मरुतः । आमन्त्रिताद्युदात्तत्वम् । अचुच्यवीतन । च्यवतेर्लङि व्यत्ययेन परस्मैपदम् । ‘तप्तनप्तनथनाश्च इति तस्य तनबादेशः। ‘ बहुलं छन्दसि ' इति शपः श्लुः। ‘बहुलं छन्दसि' (पा. सू. ७. ३.९७) इति ईडागमः । गुणावादेशौ । तिङ्ङतिङः' इति निघातः । गिरीन् । दीर्घादटि समानपादे' इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः' इति ईकारस्यानुनासिकः ॥


यद्ध॒ यान्ति॑ म॒रुत॒ः सं ह॑ ब्रुव॒तेऽध्व॒न्ना ।

शृ॒णोति॒ कश्चि॑देषाम् ॥१३

यत् । ह॒ । यान्ति॑ । म॒रुतः॑ । सम् । ह॒ । ब्रु॒व॒ते॒ । अध्व॑न् । आ ।

शृ॒णोति॑ । कः । चि॒त् । ए॒षा॒म् ॥१३

यत् । ह । यान्ति । मरुतः । सम् । ह । ब्रुवते । अध्वन् । आ ।

शृणोति । कः । चित् । एषाम् ॥१३

“यद्ध यदा खलु "मरुतः “यान्ति गच्छन्ति तदानीम् "अध्वन्ना मार्गे सर्वतः “सं “ब्रुवते “ह संभूय ध्वनिमवश्यं कुर्वन्ति । “एषां मरुतां संबन्धिनं शब्दं “कश्चित् यः कोऽपि “शृणोति ॥ यान्ति । ‘ या प्रापणे '। अदादित्वात् शपो लुक् । ‘ झोऽन्तः' इति अन्तादेशस्य उपदेशिवद्भावात् अन्तीत्येतदाद्युदात्तम् । धातुना सहैकादेश एकादेशस्वरः । यद्वृत्तयोगादनिघातः । ब्रुवते । ब्रूञ् व्यक्तायां वाचि'। झस्य अदादेशे कृते परत्वात् प्राप्तस्य गुणस्य ङित्त्वेन बाधितत्वात् उवङादेशः । अध्वन् । ‘ सुपां सुलुक् ' इति सप्तम्या लुक् । शृणोति । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः ॥


प्र या॑त॒ शीभ॑मा॒शुभि॒ः सन्ति॒ कण्वे॑षु वो॒ दुव॑ः ।

तत्रो॒ षु मा॑दयाध्वै ॥१४

प्र । या॒त॒ । शीभ॑म् । आ॒शुऽभिः॑ । सन्ति॑ । कण्वे॑षु । वः॒ । दुवः॑ ।

तत्रो॒ इति॑ । सु । मा॒द॒या॒ध्वै॒ ॥१४

प्र । यात । शीभम् । आशुऽभिः । सन्ति । कण्वेषु । वः । दुवः ।

तत्रो इति । सु । मादयाध्वै ॥१४

हे मरुतः "आशुभिः वेगवद्भिः स्वकीयैर्वाहनैः "शीभं शीघ्रम् । ' शीभं तृषु तूयम्' (नि. २. १५. ९ ) इति क्षिप्रनामसु पाठात् । “प्र “यात प्रकर्षेण कर्मभूमिं गच्छत । “कण्वेषु मेधाविष्वनुष्ठातृषु “वः युष्माकं “दुवः दुवांसि परिचरणानि “सन्ति । “तत्रो “षु तेष्वेव परिचारकेषु कण्वेषु “मादयाध्वै तृप्ता भवत ॥ आशुभिः । ‘ अशू व्याप्तौ । ‘ कृवापाजि° ' इत्यादिना उण् । प्रत्ययस्वरः । सन्ति । ‘ श्नसोरल्लोपः' इति अकारलोपः । मादयाध्वै । ‘ मद तृप्तियोगे'। चुरादिः । आकुस्मीय आत्मनेपदी । लेटि आडागमः । टेः एत्वम् ।' वैतोऽन्यत्र ' ( पा. सू. ३. ४. ९६ ) इति एकारस्य ऐकारादेशः ॥


अस्ति॒ हि ष्मा॒ मदा॑य व॒ः स्मसि॑ ष्मा व॒यमे॑षाम् ।

विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥१५

अस्ति॑ । हि । स्म॒ । मदा॑य । वः॒ । स्मसि॑ । स्म॒ । व॒यम् । ए॒षा॒म् ।

विश्व॑म् । चि॒त् । आयुः॑ । जी॒वसे॑ ॥१५

अस्ति । हि । स्म । मदाय । वः । स्मसि । स्म । वयम् । एषाम् ।

विश्वम् । चित् । आयुः । जीवसे ॥१५

‘ हे मरुतः वः युष्माकं “मदाय तृप्तये "अस्ति "हि “ष्म अस्माभिः प्रयुज्यमानं हविर्वो विद्यते खलु । “एषां युष्माकं भृत्यभूताः “वयं “स्मसि “ष्म विद्यामहे खलु । “जीवसे जीवितुं “विश्वं “चिदायुः सर्वमप्यायुः प्रयच्छतेति शेषः । स्म ' निपातस्य च ' इति संहितायां दीर्घः । स्मसि । इदन्तो मसिः । जीवसे । ‘ तुमर्थे सेसेन्° ' इति असेप्रत्ययः ।। ॥ १४ ॥

टिप्पणी

चातुर्मास्येषु साकमेधे याज्यानुवाक्याः - क्रीडं वः शर्धो मारुतम् अनर्वाणꣳ रथेशुभम् । - TS.4.3.13.6" ;

MS.4.10.5: 155-4;

KS.21.13;

क्रीळं वः शर्धो मारुतमिति मारुतं जम्भे रसस्य वावृध इति वृधन्वदष्टमेऽहन्यष्टमस्याह्नो रूपं - AB.5.19.16;

AÇ.2.18.

16. Ps: krilam vaḥ çardhah AÇ.8.10.3; krīdam val

चातुर्मास्यान्तर्गतसाकमेधपर्वप्रकरणम् - तस्य निष्काषं प्रातः पूर्णदर्व्यं हुत्वेष्टिं मरुद्भ्यः क्रीलिभ्यः १४। क्रीलं वः पर्वतश्चित् १५। - CC.3.15.15.

Cf. BrhD.3.107.


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.३७&oldid=403083" इत्यस्माद् प्रतिप्राप्तम्