ऋग्वेदः सूक्तं १.४०

(ऋग्वेद: सूक्तं १.४० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.३९ ऋग्वेदः - मण्डल १
सूक्तं १.४०
कण्वो घौरः
सूक्तं १.४१ →
दे. ब्रह्मणस्पतिः। प्रगाथः -- विषमा बृहत्यः, समाः सतोबृहत्यः


उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।
उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ॥१॥
त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते ।
सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ॥२॥
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता ।
अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥३॥
यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः ।
तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् ॥४॥
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥५॥
तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् ।
इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत् ॥६॥
को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् ।
प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥७॥
उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे ।
नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥८॥


सायणभाष्यम्

' उत्तिष्ठ ' इत्यष्टर्चं पञ्चमं सूक्तं कण्वस्य आर्षं बार्हतम् । युज सतोबृहत्यः । अयुजो बृहत्यः । ब्रह्मणस्पतिदेवताकम् । अनुक्रम्यते च-' उत्तिष्ठाष्टौ ब्राह्मणस्पत्यम् ' इति । सूक्त विनियोगो लैङ्गिकः । चतुर्विंशेऽहनि मरुत्वतीये प्राकृतात् ब्राह्मणस्पत्यात् प्रगाथात् पूर्वम् ' उत्तिष्ठ ब्रह्मणस्पते ' इत्ययं प्रगाथः । ' मरुत्वतीये ' इति खण्डे सूत्रितं - प्रैतु ब्रह्मणस्पतिरुत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्यावावपते पूर्वौ नित्यात् ' ( आश्व श्रौ. ७. ३) इति । आद्या तु प्रवर्ग्येऽप्यभिष्टवे विनियुक्ता । ' उत्तिष्ठ ब्रह्मणस्पत इत्येतामुक्त्वावतिष्ठते ' ( आश्व. श्रौ. ४. ७) इति सूत्रितत्वात् ।।


उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे ।

उप॒ प्र य॑न्तु म॒रुत॑ः सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥१

उत् । ति॒ष्ठ॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । दे॒व॒ऽयन्तः॑ । त्वा॒ । ई॒म॒हे॒ ।

उप॑ । प्र । य॒न्तु॒ । म॒रुतः॑ । सु॒ऽदान॑वः । इन्द्र॑ । प्रा॒शूः । भ॒व॒ । सचा॑ ॥१

उत् । तिष्ठ । ब्रह्मणः । पते । देवऽयन्तः । त्वा । ईमहे ।

उप । प्र । यन्तु । मरुतः । सुऽदानवः । इन्द्र । प्राशूः । भव । सचा ॥१

हे “ब्रह्मणस्पते एतन्नामक देव “उत्तिष्ठ अस्मदनुग्रहाय त्वदीयनिवासादुत्थानं कुरु। देवयन्तः देवान् कामयमाना वयं “त्वा त्वाम् ईमहे याचामहे । “सुदानवः शोभनदानयुक्ताः “मरुतः “उप “प्र "यन्तु समीपे प्रकर्षेण गच्छन्तु । हे "इन्द्र त्वं "सचा ब्रह्मणस्पतिना सह “प्राशूः सोमस्य प्राशको “भव । यद्वा वृत्रस्य हिंसको भव ॥ उत्तिष्ठ । ऊर्ध्वकर्मत्वात् आत्मनेपदाभावः (पा. सू. १. ३. २४)। ब्रह्मणस्पते। ‘ सुबामन्त्रिते° ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् । देवयन्तः । देवानात्मन इच्छन्तः । ‘सुप आत्मनः क्यच्' । न च्छन्दस्यपुत्रस्य' इति ईत्वस्येव दीर्घस्यापि निषेधः, अश्वाघस्यात् ' इति पुनरात्वविधानसामर्थ्यात् । ईमहे इत्यादयो गताः । प्राशूः । ‘ शॄ हिंसायाम् । प्रकर्षेण आ समन्तात् शृणाति हिनस्तीति प्राशूः । ‘ बहुलं छन्दसि' (पा. सू. ७. १. १०३ ) इति उत्वम्। ‘ र्वोरुपधाया दीर्घः' । कृदुत्तरपदप्रकृतिस्वरत्वम् । भव ।' द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम् ॥


त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते ।

सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥२

त्वाम् । इत् । हि । स॒ह॒सः॒ । पु॒त्र॒ । मर्त्यः॑ । उ॒प॒ऽब्रू॒ते । धने॑ । हि॒ते ।

सु॒ऽवीर्य॑म् । म॒रु॒तः॒ । आ । सु॒ऽअश्व्य॑म् । दधी॑त । यः । वः॒ । आ॒ऽच॒के ॥२

त्वाम् । इत् । हि । सहसः । पुत्र । मर्त्यः । उपऽब्रूते । धने । हिते ।

सुऽवीर्यम् । मरुतः । आ । सुऽअश्व्यम् । दधीत । यः । वः । आऽचके ॥२

हे “सहसस्पुत्र बलस्य बहुपालक ब्रह्मणस्पते । ‘पुत्रः पुरु त्रायते निपरणाद्वा' (निरु. २.११ ) इति निरुक्तम् । 'मर्त्यः मनुष्यः “हिते शत्रुषु प्रक्षिप्ते “धने निमित्तभूते सति “त्वामित् त्वामेव “उपब्रूते “हि समीपं प्राप्य स्तौति खलु । तद्धनसंपादनाय प्रार्थयते इत्यर्थः । हे "मरुतः “यः धनार्थी मर्त्यः “वः युष्मान् ब्रह्मणस्पतिसहितान् “आचके स्तौति स मर्त्यः स्वश्व्यं शोभनाश्वयुक्तं “सुवीर्यं शोभनवीर्ययुक्तं च धनं “दधीत धारयेत् ॥ सहसस्पुत्र । ब्रह्मणस्पते इतिवत् ' षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् । उपब्रूते । ‘ हि च' इति निघातप्रतिषेधः । ‘ तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । हिते । निष्ठायां दधातेर्हिः' इति हिरादेशः । सुवीर्यम् । शोभनं वीर्यं यस्येति बहुव्रीहौ ‘ वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । स्वश्व्यम् । अश्वानां समूहोऽश्वीयम् । ‘केशाश्वाभ्यां यञ्छावन्यतरस्याम् ' (पा. सू. ४.२.४८) इति समूहार्थे छप्रत्ययः । छस्य ईयादेशः । शोभनमश्वीयं यस्य तत् स्वश्व्यम् । ईकारलोपश्छान्दसः । ‘ परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । दधीत । सीयुटः सकारलोपे सति ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । पादादित्वात् निघाताभावः । आचके । ‘ कै गै रै शब्दे'। ‘ आदेचः' इति आत्वम्। लिटि द्विर्वचने अभ्यासस्य ह्रस्वचुत्वे । ‘ आतो लोप इटि च ' इति आकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥


चतुर्विंशेऽहनि मरुत्वतीये ‘उत्तिष्ठ ब्रह्मणस्पते ' इत्यस्मात्प्रगाथात्पूर्वं प्रैतु ब्रह्मणस्पतिः' इत्ययं प्रगाथो विनियुक्तः । सूत्रं तु ' उत्तिष्ठ ब्रह्मणस्पते ' इत्यत्रैवोदाहृतम् । महावीरमादाय शालां प्रतिगच्छत्सु • प्रैतु ब्रह्मणस्पतिः' इत्येतां पठन् होतानुगच्छेत् । सूत्रं च - प्रैतु ब्रह्मणस्पतिरित्यनुव्रजेत् ' ( आश्व. श्रौ ४. ७) इति । एषैव अग्निषोमीयप्रणयनेऽपि विनियुक्ता । सूत्रितं च - प्रैतु ब्रह्मणस्पतिर्होता देवो अमर्त्यः ' ( आश्व. श्रौ. ४. १० ) इति ॥

प्रैतु॒ ब्रह्म॑ण॒स्पति॒ः प्र दे॒व्ये॑तु सू॒नृता॑ ।

अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥३

प्र । ए॒तु॒ । ब्रह्म॑णः । पतिः॑ । प्र । दे॒वी । ए॒तु॒ । सू॒नृता॑ ।

अच्छ॑ । वी॒रम् । नर्य॑म् । प॒ङ्क्तिऽरा॑धसम् । दे॒वाः । य॒ज्ञम् । न॒य॒न्तु॒ । नः॒ ॥३

प्र । एतु । ब्रह्मणः । पतिः । प्र । देवी । एतु । सूनृता ।

अच्छ । वीरम् । नर्यम् । पङ्क्तिऽराधसम् । देवाः । यज्ञम् । नयन्तु । नः ॥३

“ब्रह्मणस्पतिः देवः “प्रैतु अस्मान प्राप्नोतु । "सूनृता “देवी प्रियसत्यरूपा वाग्देवता “प्र “एतु अस्मान् प्राप्नोतु । “देवाः ब्रह्मणस्पत्यादयो देवताः "वीरं शत्रुं निःशेषेण दूरे प्रेरयन्तु । तं "नर्यं मनुष्येभ्यो हितं “पङ्क्तिराधसं ब्राह्मणोक्तहविष्पङ्क्त्यादिभिः समृद्धं “यज्ञं प्रति “नः अस्मान् “अच्छ आभिमुख्येन “नयन्तु ॥ प्रैतु । ' एङि पररूपम् ' (पा. सू. ६. १. ९४) इति पररूपे प्राप्ते ' एत्येधत्यूठ्सु' ( पा. सू. ६. १. ८९ ) इति वृद्धिः । देव्येतु इत्यत्र ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' इति स्वरितत्वम् । नर्यम् । नरेभ्यो हितम् । प्राक्क्रीतीय उगवादिलक्षणो यत्प्रत्ययो द्रष्टव्यः ( पा. सू. ५. १. २ )। पङ्क्तिराधसम् । पङ्क्तिभी राध्नोतीति पङ्क्तिराधाः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च। यज्ञम् । “यजयाच° ' इत्यादिना यजतेर्नङ्॥


यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑ः ।

तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस॑म् ॥४

यः । वा॒घते॑ । ददा॑ति । सू॒नर॑म् । वसु॑ । सः । ध॒त्ते॒ । अक्षि॑ति । श्रवः॑ ।

तस्मै॑ । इळा॑म् । सु॒ऽवीरा॑म् । आ । य॒जा॒म॒हे॒ । सु॒ऽप्रतू॑र्तिम् । अ॒ने॒हस॑म् ॥४

यः । वाघते । ददाति । सूनरम् । वसु । सः । धत्ते । अक्षिति । श्रवः ।

तस्मै । इळाम् । सुऽवीराम् । आ । यजामहे । सुऽप्रतूर्तिम् । अनेहसम् ॥४

"यः यजमानः "वाघते ऋत्विजे "सूनरं सुष्ठु नेतव्यं "वसु धनं “ददाति “सः यजमानो ब्रह्मणस्पतेः प्रसादात् 'अक्षिति क्षयरहितं “श्रवः अन्नं “धत्ते धारयति । “तस्मै तादृशयजमानाय “इळाम् एतन्नामधेयां मनोः पुत्रीं ‘ इळा वै मानवी यज्ञानूकाशिन्यासीत् ' (तै. ब्रा. १.१.४.४ ) इति श्रुत्यन्तरात्। “आ "यजामहे वयं ऋत्विजः सर्वतो यजामः । कीदृशीमिळाम् । "सुवीरां शोभनैर्वीरैर्भटैर्युक्तां सुप्रतूर्तिं सुष्ठु प्रकर्षेण हिंसाकारिणीम् "अनेहसं केनाप्यहिंस्याम् ॥ ददाति । अनुदात्ते च ' (पा. सू. ६. १. १९० ) इति अभ्यस्तस्याद्युदात्तत्वम् । यद्वृत्तयोगदनिघातः । सूनरम् । सुखेन नीयते इति सूनरम् । • ईषद्दुःसुषु° ' इति खल् ।' निपातस्य च ' इति उपसर्गस्य दीर्घत्वम् । अक्षिति । क्षयो नास्त्यस्येति अक्षिति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।' नञ्सुभ्याम् ' इति तु ' सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति वचनात् न प्रवर्तते । श्रवः । श्रूयते इति श्रवः । श्रु श्रवणे'। असुनो नित्त्वादाद्युदात्तत्वम् । सुवीराम् । शोभना वीरा यस्याः सा सुवीरा ताम्। वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम्। सुप्रतूर्तिम् । तुर्वी हिंसार्थः । प्रपूर्वादस्मात् भावे क्तिन् । शोभना प्रतूर्तिः शत्रूणां हिंसनं यस्याः सा ताम् । परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । क्रत्वादिर्वा द्रष्टव्यः । अनेहसम् । न हन्यते इति अनेहाः। नञि हन एह च ' ( उ. सू. ४. ६६३ ) इत्यसुन्प्रत्ययो धातोः एहादेशश्च । ‘ नलोपो नञः ' (पा. सू. ६. ३. ७३ ) इति नकारस्य लोपः । ‘ तस्मान्नुडचि' (पा. सू. ६. ३. ७४ ) इति नुट् ॥


अग्निष्टोमे मरुत्वतीयशस्त्र इन्द्रनिवहप्रगाथानन्तरं ‘ प्र नूनम् ' इति प्रगाथः । ‘ मरुत्वतीयेन' इति खण्डे सूत्रितं -- प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः ' ( आश्व. श्रौ. ५. १४) इति ॥

प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् ।

यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे ॥५

प्र । नू॒नम् । ब्रह्म॑णः । पतिः॑ । मन्त्र॑म् । व॒द॒ति॒ । उ॒क्थ्य॑म् ।

यस्मि॑न् । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । दे॒वाः । ओकां॑सि । च॒क्रि॒रे ॥५

प्र । नूनम् । ब्रह्मणः । पतिः । मन्त्रम् । वदति । उक्थ्यम् ।

यस्मिन् । इन्द्रः । वरुणः । मित्रः । अर्यमा । देवाः । ओकांसि । चक्रिरे ॥५

"ब्रह्मणस्पतिः देवः “उक्थ्यं शस्त्रयोग्यं “मन्त्रं "नूनम् अवश्यं “प्र “वदति होतृमुखे स्थितः सन् प्रब्रूते । “यस्मिन् मन्त्रे इन्द्रादयश्च सर्वे “देवाः “ओकांसि स्थानानि “चक्रिरे । तादृशं सर्वदेवप्रतिपादकं मन्त्रमिति पूर्वत्रान्वयः ॥ मन्त्रम् । मत्रि गुप्तभाषणे ' । पचाद्यच् । वृषादिषु पाठादाद्युदात्तत्वम् । उक्थ्यम् उक्थार्हम्। छन्दसि च ' इत्यर्थे यप्रत्ययः । यद्वा । ‘ भवे छन्दसि ' इति यत् । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति वचनात् । यतोऽनावः' इत्याद्युदात्तत्वाभावे व्यत्ययेन ‘तित्स्वरितम् ' इति स्वरितत्वम् । ओकांसि । ‘ उच समवाये । समवयन्त्यत्रेति अधिकरणे औणादिकोऽसुन् । बहुलग्रहणात् कुत्वं द्रष्टव्यमिति ‘ओक उचः के ' इत्यत्र वृत्तौ इत्युक्तम् (का. ७. ३. ६४ )। चक्रिरे । इरेचः चित्त्वादन्तोदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ ॥ २० ॥


तमिद्वो॑चेमा वि॒दथे॑षु श॒म्भुवं॒ मन्त्रं॑ देवा अने॒हस॑म् ।

इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत् ॥६

तम् । इत् । वो॒चे॒म॒ । वि॒दथे॑षु । श॒म्ऽभुव॑म् । मन्त्र॑म् । दे॒वाः॒ । अ॒ने॒हस॑म् ।

इ॒माम् । च॒ । वाच॑म् । प्र॒ति॒ऽहर्य॑थ । न॒रः॒ । विश्वा॑ । इत् । वा॒मा । वः॒ । अ॒श्न॒व॒त् ॥६

तम् । इत् । वोचेम । विदथेषु । शम्ऽभुवम् । मन्त्रम् । देवाः । अनेहसम् ।

इमाम् । च । वाचम् । प्रतिऽहर्यथ । नरः । विश्वा । इत् । वामा । वः । अश्नवत् ॥६

हे “देवाः ब्रह्मणस्पतिप्रभृतयः “तमित् तमेव इन्द्रादिसर्वदेवताप्रतिपादकं “मन्त्रं “विदथेषु यज्ञेषु “वोचेम वयमृत्विजो ब्रवाम । कीदृशम् । “शंभुवं सुखस्य भावयितारम् “अनेहसम् अहिंसनीयं दोषरहितम् । हे “नरः नेतारो देवाः “इमाम् अस्माभिरुच्यमानां मन्त्ररूपां “वाचं “प्रतिहर्यथ “च । यूयं कामयध्वे चेत् तर्हि "विश्वेत् सर्वापि “वामा वननीया वाक् “वः युष्मान् “अश्नवत् व्याप्नुयात् ॥ वोचेम । वच परिभाषणे ' । आशीर्लिङि ‘ लिङ्याशिष्यङ्' इति अङ् । ‘ वच उम्' इत्युमागमः । ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वात् “ लिङः सलोपोऽनन्त्यस्य ' इति यासुटः सकारस्य लोपः । ‘ अतो येयः' इति इयादेशः । आद्गुणः । तिङ्ङतिङः' इति निघातः । विदथेषु ।' विद् ज्ञाने । विद्यते फलसाधनत्वेन ज्ञायते इति विदथो यज्ञः । ‘ रुविदिभ्यां कित्' ( उ. सू. ३. ३९५ ) इति अथप्रत्ययः । शंभुवम् । भवतेः अन्तर्भावितण्यर्थात् ' क्विप् च ' इति क्विप् ।' ओः सुपि ' (पा. सू. ६. ४. ८३ ) इति यणादेशस्य ' न भूसुधियोः ' ( पा. सू. ६. ४. ८५ ) इति प्रतिषेधः । मन्त्रादयो गताः । प्रतिहर्यथ । ‘ हर्य गतिकान्त्योः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । इमां च इत्यत्र चशब्दश्चेदर्थः। चणिति निपातान्तरं न च समुच्चयाद्यर्थः। तेन • निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण° ' ( पा. सू. ८. १. ३० ) इति निघातप्रतिषेधः । अश्नवत् । ‘ अशू व्याप्तौ ' । लेटि अडागमः। व्यत्ययेन परस्मैपदम् । ‘इतश्च लोपः' इति इकारलोपः । ‘ इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन ' ( का. ६. ४. ७७ ) इति गुणः ॥


को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् ।

प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे ॥७

कः । दे॒व॒ऽयन्त॑म् । अ॒श्न॒व॒त् । जन॑म् । कः । वृ॒क्तऽब॑र्हिषम् ।

प्रऽप्र॑ । दा॒श्वान् । प॒स्त्या॑भिः । अ॒स्थि॒त॒ । अ॒न्तः॒ऽवाव॑त् । क्षय॑म् । द॒धे॒ ॥७

कः । देवऽयन्तम् । अश्नवत् । जनम् । कः । वृक्तऽबर्हिषम् ।

प्रऽप्र । दाश्वान् । पस्त्याभिः । अस्थित । अन्तःऽवावत् । क्षयम् । दधे ॥७

“देवयन्तं देवान् कामयमानं “जनं "कः "अश्नवत् ब्रह्मणस्पतिव्यतिरिक्तः को नाम देवो व्याप्नुयात् । तथा “वृक्तबर्हिषम् अनुष्ठानाय छिन्नबर्हिषं यजमानं "कः नाम अन्यो देवोऽश्नवत् । “दाश्वान् हविर्दत्तवान् यजमानः "पस्त्याभिः मनुष्यैर्ऋत्विग्भिः सह "प्रप्र "अस्थित देवयजनदेशं प्रति प्रस्थितवान्। अन्तर्वावत् अन्तःस्थितबहुधनोपेतम् । यद्वा । अन्तःस्थितपुत्रपौत्रादिप्रयुक्तबहुविधवागुपेतं "क्षयं निवासस्थानं गृहं "दधे धृतवान् भवति ॥ देवयन्तम् इत्यादयो गताः । प्रप्र । ‘ प्रसमुपोदः पादपूरणे' (पा. सू. ८. १. ६) इति प्रशब्दस्य द्विर्भावः । ‘ अनुदात्तं च ' इत्याम्रेडितानुदात्तत्वम् । अस्थित ।' ष्ठा गतिनिवृत्तौ । लुङि • समवप्रविभ्यः स्थः ' ( पा. सू. १. ३. २२ ) इत्यात्मनेपदम् । स्थाध्वोरिच्च ' ( पा. सू. १. २. १७ ) इति धातुसिचोः इत् । कित्त्वे ‘ह्रस्वादङ्गात्' (पा.सू. ८. २. २७) इति सलोपः। अन्तर्वावत्। ‘वा गतिगन्धनयोः' । अन्तर्वान्ति गच्छन्तीति अन्तर्वाः पुत्रपश्वादयः । आतो मनिन्' इत्यादिना विच् । तदस्यास्ति' इति मतुप्। मतुपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा । वावदीतेः क्विप् । क्षयम् । क्षियन्ति निवसन्त्यस्मिन्निति क्षयः। 'पुंसि संज्ञायाम्” इत्यधिकरणे घः। ‘ क्षयो निवासे' इत्याद्युदात्तत्वम् ॥


उप॑ क्ष॒त्रं पृ॑ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे ।

नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिण॑ः ॥८

उप॑ । क्ष॒त्रम् । पृ॒ञ्ची॒त । हन्ति॑ । राज॑ऽभिः । भ॒ये । चि॒त् । सु॒ऽक्षि॒तिम् । द॒धे॒ ।

न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । म॒हा॒ऽध॒ने । न । अर्भे॑ । अ॒स्ति॒ । व॒ज्रिणः॑ ॥८

उप । क्षत्रम् । पृञ्चीत । हन्ति । राजऽभिः । भये । चित् । सुऽक्षितिम् । दधे ।

न । अस्य । वर्ता । न । तरुता । महाऽधने । न । अर्भे । अस्ति । वज्रिणः ॥८

ब्रह्मणस्पतिर्देवः “क्षत्रं बलम् "उप "पृञ्चीत स्वात्मनि संपृक्तं कुर्यात् । ततः "राजभिः वरुणादिभिः सह "हन्ति शत्रून् मारयति । "भये "चित् भीतिहेतौ युद्धेऽपि "सुक्षितिं "दधे सुष्ठु निवासस्थैर्यं धारयति न तु पलायते । "वज्रिणः वज्राद्यायुधवतः "अस्य ब्रह्मणस्पतेः "महाधने प्रभूतधननिमित्ते युद्धे "वर्ता प्रवर्तयिता अन्यः कोऽपि "न "अस्ति स्वयमेव प्रवर्तते इत्यर्थः । महाधने इति संग्रामनाम, ‘महाधने समीके' (नि.२. १७. ४१ ) इति तन्नामसु पाठात् । तथा “तरुता तरणस्योल्लङ्घनस्य कर्ता अन्यः कोऽपि "न अस्ति । तथैव "अर्भे स्वल्पे युद्धेऽप्यन्यः प्रवर्तयिता "न अस्ति । पृञ्चीत।' पृची संपर्के'। लिङि रुधादित्वात् श्नम् । श्नसोरल्लोपः' इति अकारलोपः। प्रत्ययस्वरः । क्षत्रं पृञ्चीत राजभिर्हन्ति चेति समुच्चयलक्षणस्य चार्थस्य दर्शनात् ‘चादिलोपे विभाषा ' इति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः । हन्तीत्येषा द्वितीयापि तिङः परत्वात् न निहन्यते । सुक्षितिम् । शोभना क्षितिः सुक्षितिः । ‘ मन्क्तिन' इत्यादिना उत्तरपदान्तोदात्तत्वम् । वर्ता । वर्ततेर्वृणोतेर्वा तृचि आगमानुशासनस्यानित्यत्वात् इडभावः । तरुता । ‘ तॄ प्वनतरणयोः । ‘ ग्रसितस्कभित° ! (पा. सू. ७.२.३४ ) इत्यादिना तृचि उडागमो निपातितः। 'चितः' इत्यन्तोदात्तत्वम् । महाधने। महच्च तद्धनं च महाधनम्। 'आन्महतः' ( पा. सू. ६. ३. ४६ ) इति आत्वम् । तेन शब्देन तद्धेतुभूतः संग्रामो लक्ष्यते । अर्भे । ‘ ऋ गतौ ' । अर्तिगॄभ्यां भन्' ( उ. सू. ३. ४३२ ) इति भन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥ ॥ २१ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.४०&oldid=204678" इत्यस्माद् प्रतिप्राप्तम्