ऋग्वेदः सूक्तं १.४३
← सूक्तं १.४२ | ऋग्वेदः - मण्डल १ सूक्तं १.४३ कण्वो घौरः |
सूक्तं १.४४ → |
दे. रुद्रः, ३ रुद्रः, मित्रावरुणौ च, ७-९ सोमः। गायत्री, ९ अनुष्टुप्। |
कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे ।
वोचेम शंतमं हृदे ॥१॥
यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे ।
यथा तोकाय रुद्रियम् ॥२॥
यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति ।
यथा विश्वे सजोषसः ॥३॥
गाथपतिं मेधपतिं रुद्रं जलाषभेषजम् ।
तच्छंयोः सुम्नमीमहे ॥४॥
यः शुक्र इव सूर्यो हिरण्यमिव रोचते ।
श्रेष्ठो देवानां वसुः ॥५॥
शं नः करत्यर्वते सुगं मेषाय मेष्ये ।
नृभ्यो नारिभ्यो गवे ॥६॥
अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् ।
महि श्रवस्तुविनृम्णम् ॥७॥
मा नः सोमपरिबाधो मारातयो जुहुरन्त ।
आ न इन्दो वाजे भज ॥८॥
यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य ।
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥९॥
सायणभाष्यम्
‘ कद्रुद्राय ' इति नवर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते-- कद्रुद्राय नव रौद्रं तृतीया मैत्रावरुणी चान्यस्तृचः सौम्योऽन्त्यानुष्टुप् ' इति । घोरपुत्रः कण्व ऋषिः । गायत्री छन्दः । ‘ यास्ते प्रजाः । इत्यन्त्यानुष्टुप् । रुद्रो देवता । ‘ यथा नो मित्रः' इत्येषा मित्रावरुणदेवताका च। “अस्मे सोम' इत्यादिरन्त्यस्तृचस्तु सौम्य एव । सर्वेषु रुद्रदेवताकेषु कर्मसु अनेन सूक्तेन दिगुपस्थानं कर्तव्यम् । तथा च सूत्रितं - कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वन इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम् (आश्व. गृ. ४. ९. २१-२२ ) इति ॥
कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से ।
वो॒चेम॒ शंत॑मं हृ॒दे ॥१
कत् । रु॒द्राय॑ । प्रऽचे॑तसे । मी॒ळ्हुःऽत॑माय । तव्य॑से ।
वो॒चेम॑ । शम्ऽत॑मम् । हृ॒दे ॥१
कत् । रुद्राय । प्रऽचेतसे । मीळ्हुःऽतमाय । तव्यसे ।
वोचेम । शम्ऽतमम् । हृदे ॥१
"कत् कदा "रुद्राय एतन्नामकाय देवाय “शंतमम् अतिशयेन सुखकरं स्तोत्रं "वोचेम पठेम । कीदृशाय । "प्रचेतसे प्रकृष्टज्ञानयुक्ताय "मीळ्हुष्टमाय सेक्तृतमाय अभीष्टकामवर्षायेत्यर्थः । “तव्यसे अतिशयेन प्रवृद्धाय "हृदे अस्मदीयहृन्निष्ठाय ॥ कत् कदा । अन्त्यलोपश्छान्दसः । रुद्राय । रोदयति सर्वमन्तकाले इति रुद्रः। ‘रोदेर्णिलुक्च' ( उ. सू. २. १७९ ) इति रक्प्रत्ययः । प्रचेतसे । ‘ चिती संज्ञाने'। प्रकृष्टं चेततीति प्रचेताः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । मीळ्हुष्टमाय । अतिशयेन मीढ्वान् मीळ्हुष्टमः । दाश्वान् साह्वान् मीढ्वांश्च ' इति क्वसुप्रत्ययान्तो निपातितः । तमपि अयस्मयादित्वेन भत्वात् ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । ‘ शासिवसिघसीनां च ' इति षत्वम् । तव्यसे । तवतिर्वृद्ध्यर्थः सौत्रो धातुः । अतिशयेन तविता तवीयान् । “तुश्छन्दसि ' इति ईयसुन्प्रत्ययः । ‘ तुरिष्ठेमेयःसु ' इति तृलोपः । ईयसुन ईकारलोपछान्दसः । नित्त्वादाद्युदात्तत्वम् । वोचेम ।' वच परिभाषणे '। लिङयाशिष्यङ्' ।' वच उम्' इति उमागमः। यासुटः स्वरेण एकार उदात्तः । हृदे। ‘पद्दन्' इत्यादिना हृदयशब्दस्य हृदादेशः । ‘ ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ॥
यथा॑ नो॒ अदि॑ति॒ः कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ ।
यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥२
यथा॑ । नः॒ । अदि॑तिः । कर॑त् । पश्वे॑ । नृऽभ्यः॑ । यथा॑ । गवे॑ ।
यथा॑ । तो॒काय॑ । रु॒द्रिय॑म् ॥२
यथा । नः । अदितिः । करत् । पश्वे । नृऽभ्यः । यथा । गवे ।
यथा । तोकाय । रुद्रियम् ॥२
“अदितिः भूमिः "नः अस्माकं "रुद्रियं रुद्रसंबन्धि भेषजं "यथा येन प्रकारेण सिध्यति “करत् तथा करोतु । किंच "यथा येन प्रकारेण "पश्वे अस्मदीयाश्वमहिषादिपशवे "नृभ्यः अस्मदीयपुरुषेभ्यो विशेषेण "गवे गोजातये हितं रुद्रियं सिध्यति तथा करोतु । किंच "तोकाय अस्मदीयापत्याय रुद्रियं "यथा सिध्यति तथा करोतु । भेषजस्य रुद्रसंबन्धित्वं मन्त्रान्तरे समाम्नातं - ‘ या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी' (तै. सं. ४. ५. १०. १ ) इति । गवादिविषयभेषजं चान्यत्र स्पष्टमाम्नातं- भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजं सुभेषजम् ' ( तै. सं. १. ८. ६. १) इति ॥ करत् । डुकृञ् करणे'। लङि व्यत्ययेन शप् । यद्वा । लेटि अडागमः । इतश्च लोपः' इति इकारलोपः । यद्वा । लुङि • कृमृदृरुहिभ्यश्छन्दसि' इति च्लेः अङादेशः । ‘ ऋदृशोऽङि गुणः' इति गुणः। अद्ययोः पक्षयोः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । तृतीये तु व्यत्ययेन । यद्वृत्तयोगादनिघातः । पश्वे। संज्ञापूर्वकस्य विधेरनित्यत्वात् “ घेर्ङिति' (पा. सू. ७. ३. १११ ) इति गुणाभावः । यणादेशः । नृभ्यः । ‘ नृ चान्यतरस्याम् (पा. सू. ६. १. १८४ ) इति विभक्त्युदात्तत्वाभावः । गवे। ‘ सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तस्य ‘ न गोश्वन्साववर्ण ' इति प्रतिषेधः । रुद्रियम् । रुद्रशब्दात् तस्येदमित्यर्थे घप्रत्ययः ।।
यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति ।
यथा॒ विश्वे॑ स॒जोष॑सः ॥३
यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । यथा॑ । रु॒द्रः । चिके॑तति ।
यथा॑ । विश्वे॑ । स॒ऽजोष॑सः ॥३
यथा । नः । मित्रः । वरुणः । यथा । रुद्रः । चिकेतति ।
यथा । विश्वे । सऽजोषसः ॥३
“मित्रो "वरुणः च "नः अस्मान् "यथा येन प्रकारेण “चिकेतति अनुग्राह्यत्वेन जानाति। "रुद्रः अपि "यथा चिकेतति । "सजोषसः समानप्रीतयः "विश्वे सर्वे देवाः "यथा चिकेतन्ति तथा भवत्विति शेषः । यद्वा । यथाशब्दोपेतमन्त्रद्वयस्य तथा कदा वोचेमेति पूर्वत्रान्वयः ॥ चिकेतति । कित ज्ञाने'। लेटि अडागमः। ‘ नाभ्यस्तस्य' (पा. सू. ७. ३.८७) इति गुणनिषेधो न भवति, ‘बहुलं छन्दसीति वक्तव्यम्' इति वचनात् । सार्वधातुकत्वाच्च ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सजोषसः । ‘ जुषी प्रीतिसेवनयोः'। समानं जुषन्तीति सजोषसः । ‘ समानस्य च्छन्दसि' इति सभावः । असुनो नित्त्वादुत्तरपदस्याद्युदात्तत्वम् । तदेव कृदुत्तरपदप्रकृतिस्वरत्वेन शिष्यते ॥
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् ।
तच्छं॒योः सु॒म्नमी॑महे ॥४
गा॒थऽप॑तिम् । मे॒धऽप॑तिम् । रु॒द्रम् । जला॑षऽभेषजम् ।
तत् । श॒म्ऽयोः । सु॒म्नम् । ई॒म॒हे॒ ॥४
गाथऽपतिम् । मेधऽपतिम् । रुद्रम् । जलाषऽभेषजम् ।
तत् । शम्ऽयोः । सुम्नम् । ईमहे ॥४
'रुद्रम् अभिलक्ष्य वयं "शंयोः बृहस्पतिपुत्रस्य संबन्धि “तत् प्रसिद्धं सर्वप्रजाभ्यो हितं "सुम्नं सुखम् “ईमहे याचामहे । कीदृशं रुद्रम्। "गाथपतिं स्तुतिपालकं “मेधपतिं यज्ञपालकं "जलाषभेषजं सुखरूपौषधोपेतम्। यद्वा । उदकरूपौषधोपेतम् । उदकं हि रुद्रनामाभिमन्त्रितं सत् औषधं भवति ॥ गाथपतिम् । गाथा इति वाङ्नाम, ‘ गाथा गणः ' ( नि. १. ११. ३७ ) इति तन्नामसु पठितत्वात् । वायूपायाः स्तुतेः पतिर्गाथपतिः । ‘कै गै रै शब्दे'। ‘ आदेचः' इति आत्वम् । ‘ उषिकुषिगार्तिभ्यस्थन्' इति थन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ' इति पूर्वपदस्य ह्रस्वत्वम् । ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘ मरुद्वृधादीनां छन्दस्युपसंख्यानम् ' इति पूर्वपदान्तोदात्तत्वम् । मेधपतिम् । पूर्ववत् । जलाषभेषजम् । ‘जनी प्रादुर्भावे'। जायन्ते इति जाः । ‘ अन्येष्वपि दृश्यते' (पा. सू. ३. २. १०१ ) इति दृशिग्रहणात् केवलादपि डप्रत्ययः । लाषः । ‘ लष कान्तौ । कान्तिरभिलाषः। भावे घञ् । जानां लाषो यस्मिन् तज्जलाषं सुखम् । जलाषरूपं भेषजं यस्मिन् रुद्रे स जलाषभेषजः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शंयोः । ‘ कंशंभ्याम्' ( पा. सू. ५, २. १३८) इति मत्वर्थीयो युस्प्रत्ययः । ‘ सिति च' (पा. सू. १. ४. १६) इति पदसंज्ञायाम् अनुस्वारपरसवर्णौ । प्रत्ययस्वरः ॥
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते ।
श्रेष्ठो॑ दे॒वानां॒ वसु॑ः ॥५
यः । शु॒क्रःऽइ॑व । सूर्यः॑ । हिर॑ण्यम्ऽइव । रोच॑ते ।
श्रेष्ठः॑ । दे॒वाना॑म् । वसुः॑ ॥५
यः । शुक्रःऽइव । सूर्यः । हिरण्यम्ऽइव । रोचते ।
श्रेष्ठः । देवानाम् । वसुः ॥५
“यः रुद्रः “सूर्यः इव “शुक्रः सूर्यवद्दीप्तिमान् “हिरण्यमिव “रोचते। यथा सर्वेषां प्राणिनां हिरण्यं प्रीतिकरं भवति तथा रुद्रोऽपि । स च "देवानां सर्वेषां मध्ये “श्रेष्ठः “वसुः निवासहेतुश्च ॥ रोचते । ‘ रुच दीप्तावभिप्रीत्यां च ' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । श्रेष्ठः । प्रशस्यतरः । प्रशस्यशब्दात् इष्टनि प्रशस्यस्य श्रः' (पा. सू. ५. ३. ६० ) इति श्रादेशः । नित्त्वादाद्युदात्तत्वम् । वसुः । वासयति सर्वमिति वसुः । ‘वस निवासे' । अन्तर्भावितण्यर्थात् ' शृस्वृस्निहि° ! इत्यादिना उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम् ॥ ॥ २६ ॥
अग्निमारुते ' शं नः करति' इति धाय्या । ‘ अथ यथेतम्' इति खण्डे सूत्रितं - ‘ वैश्वानराय पृथुपाजसे शं नः करत्यर्वते' (आश्व. श्रौ. ५. २०) इति ॥
शं न॑ः कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।
नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥६
शम् । नः॒ । क॒र॒ति॒ । अर्व॑ते । सु॒ऽगम् । मे॒षाय॑ । मे॒ष्ये॑ ।
नृऽभ्यः॑ । नारि॑ऽभ्यः । गवे॑ ॥६
शम् । नः । करति । अर्वते । सुऽगम् । मेषाय । मेष्ये ।
नृऽभ्यः । नारिऽभ्यः । गवे ॥६
“नः अस्माकं संबन्धिभ्यः अर्वदादिभ्यः “सुगं सुष्ठु गम्यं “शं सुखं “करति देवः करोति । “अर्वते अश्वाय । अर्वञ्शब्दोऽश्वनाम, ‘अर्वा वाजी' (नि. १. १४. ३) इति तन्नामसु पाठात् । “मेषाय मेषजातिपुरुषाय “मेष्ये तज्जातीयस्त्रियै “नृभ्यः पुरुषेभ्यः "नारिभ्यः स्त्रीभ्यः "गवे गोजातये ॥ करति । ‘डुकृञ् करणे' । व्यत्ययेन शप् । अर्वते । अर्ति गच्छतीत्यर्वा । अन्येभ्योऽपि दृश्यन्ते ' इति वनिप् । चतुर्थ्येकवचने ‘ अर्वणस्त्रसावनञः' इति नकारस्य तृआदेशः । वनिप्सुपौ पित्त्वादनुदात्तौ । धातुस्वरः । मेषाय । ‘ मिष स्पर्धायाम् ' । पचाद्यच् ' देवसेनमेषादयः पचादिषु द्रष्टव्याः । इति वचनात् । मेष्ये । ‘ जातेरस्त्रीविषयादयोपधात् ' ( पा. सू. ४. १. ६३ ) इति ङीष्प्रत्ययः । प्रत्ययस्वरः । चतुर्थ्येकवचने आगमानुशासनस्यानित्यत्वात् आडागमाभावः । उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' इति स्वरितत्वम् ।' उदात्तयणो हल्पूर्वात् ' इति तु न भवति, ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति वचनात् । नृभ्यः। ‘सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘ नृ चान्यतरस्याम्' इति प्रतिषेधः । नारिभ्यः । नृनरयोर्वृद्धिश्च (पा. सू. ४. १. ७३ ग.) इति शार्ग्३रवादिषु पाठात् ङीन्प्रत्ययः । नित्त्वादाद्युदात्तः। गवे। ‘ न गोश्वन्साववर्ण ' इति विभक्त्युदात्तस्य प्रतिषेधः ॥
अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् ।
महि॒ श्रव॑स्तुविनृ॒म्णम् ॥७
अ॒स्मे इति॑ । सो॒म॒ । श्रिय॑म् । अधि॑ । नि । धे॒हि॒ । श॒तस्य॑ । नृ॒णाम् ।
महि॑ । श्रवः॑ । तु॒वि॒ऽनृ॒म्णम् ॥७
अस्मे इति । सोम । श्रियम् । अधि । नि । धेहि । शतस्य । नृणाम् ।
महि । श्रवः । तुविऽनृम्णम् ॥७
हे “सोम देव "नृणां पुरुषाणां "शतस्य पर्याप्तां “श्रियम् “अस्मे अस्मासु “अधि “नि “धेहि आधिक्येन स्थापय । तथा “महि महत् "तुविनृम्णं प्रभूतबलयुक्तं “श्रवः अन्नम् अधि नि धेहि ॥ अस्मे । ‘ सुपां सुलुक्' इति सप्तम्याः शेआदेशः । नृणाम् ।' नृ च ' ( पा. सू. ६. ४. ६ ) इति दीर्घप्रतिषेधः । ‘ नामन्यतरस्याम्' इति नाम उदात्तत्वम्। महीत्यादयो गताः ॥
मा न॑ः सोमपरि॒बाधो॒ मारा॑तयो जुहुरन्त ।
आ न॑ इन्दो॒ वाजे॑ भज ॥८
मा । नः॒ । सो॒म॒ऽप॒रि॒बाधः॑ । मा । अरा॑तयः । जु॒हु॒र॒न्त॒ ।
आ । नः॒ । इ॒न्दो॒ इति॑ । वाजे॑ । भ॒ज॒ ॥८
मा । नः । सोमऽपरिबाधः । मा । अरातयः । जुहुरन्त ।
आ । नः । इन्दो इति । वाजे । भज ॥८
“सोमपरिबाधः सोमस्य परितो बाधका यागरहिताः “नः अस्मान् “मा "जुहुरन्त मा हिंसन्तु। तथा “अरातयः शत्रवः “मा जुहुरन्त। हे "इन्दो सोम “वाजे बलविषयेऽन्नविषये वा “नः अस्मान् "आ “भज सर्वतः सेवस्व ॥ सोमपरिबाधः । सोमं परिबाधन्ते ये ते तादृशाः । ‘ क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अरातयः । ‘रा दाने '। ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्तरि क्तिन् । यद्वा। ‘क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। जुहुरन्त । ‘ हृ प्रसह्यकरणे'। व्यत्ययेनात्मनेपदम् । लङि जुहोत्यादित्वात् श्लुः । ‘ बहुलं छन्दसि' (पा. सू. ७. १. १०३ ) इति बहुलवचनात् इकारस्यापि ? उत्वम् । द्विर्भावहलादिशेषौ ।' सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति वचनात् । अदभ्यस्तात् ' ( पा. सू. ७. १, ४) इति अदादेशाभावे सति ‘ झोऽन्तः इति अन्तादेशः । ‘ न माङयोगे ' इति अडभावः ॥
यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ ।
मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥९
याः । ते॒ । प्र॒ऽजाः । अ॒मृत॑स्य । पर॑स्मिन् । धाम॑न् । ऋ॒तस्य॑ ।
मू॒र्धा । नाभा॑ । सो॒म॒ । वे॒नः॒ । आ॒ऽभूष॑न्तीः । सो॒म॒ । वे॒दः॒ ॥९
याः । ते । प्रऽजाः । अमृतस्य । परस्मिन् । धामन् । ऋतस्य ।
मूर्धा । नाभा । सोम । वेनः । आऽभूषन्तीः । सोम । वेदः ॥९
हे “सोम “ते तव संबन्धिन्यः “याः “प्रजाः सन्ति स्तोत्रं वा कुर्वन्ति ताः प्रजाः “मूर्धा शिरःस्थानीयस्त्वं “नाभा संनहनयुक्ते यज्ञगृहे "वेनः कामयस्व । कीदृशस्य ते । “अमृतस्य मरणरहितस्य “परस्मिन्धामन्नृतस्य उत्तमे स्थान प्राप्तस्य । हे “सोम आभूषन्तीः सर्वतस्त्वामलंकुर्वन्तीः प्रजाः "वेदः जानीहि ॥ धामन् । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । नाभा । ‘ णह बन्धने । ‘ नहो भश्च' ( उ. सू. ४. ५६५ ) इति कर्मणि इञ्प्रत्ययः । ञित्त्वादाद्युदात्तत्वम् । ‘सुपां सुलुक् ' इति सप्तम्या डादेशः । वेनः । ‘ वेनतिः कान्तिकर्मा' ( नि. २.६.४)। लेटि सिपि अडागमः । ‘ तिङ्ङतिङः' इति निघातः । आभूषन्तीः । ‘भूष अलंकारे ' । भौवादिकः । शपः पित्त्वादनुदात्तत्वम्, शतुश्च लसार्वधातुकस्वरेण । धातुस्वरेण आद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । वेदः । ‘ विद ज्ञाने '। लेटि सिपि अडागमः ॥ ॥ २७ ॥ ॥ ८ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|