प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.७२

(ऋग्वेद: सूक्तं १.७२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.७१ ऋग्वेदः - मण्डल १
सूक्तं १.७२
पराशरः शाक्त्यः
सूक्तं १.७३ →
दे. अग्निः। त्रिष्टुप्।


नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि ।
अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥१॥
अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः ।
श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चार्वग्नेः ॥२॥
तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् ।
नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥३॥
आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः ।
विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् ॥४॥
संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् ।
रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः ॥५॥
त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः ।
तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि ॥६॥
विद्वाँ अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः ।
अन्तर्विद्वाँ अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥७॥
स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्यृतज्ञा अजानन् ।
विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥८॥
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् ।
मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ॥९॥
अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन् ।
अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ॥१०॥


सायणभाष्यम्

‘नि काव्या ' इति दशर्चमष्टमं सूक्तं त्रैष्टुभमाग्नेयं पराशरस्यार्षम् । अनुक्रान्तं च नि काव्या' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


नि काव्या॑ वे॒धस॒ः शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।

अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ॥१

नि । काव्या॑ । वे॒धसः॑ । शश्व॑तः । कः॒ । हस्ते॑ । दधा॑नः । नर्या॑ । पु॒रूणि॑ ।

अ॒ग्निः । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । स॒त्रा । च॒क्रा॒णः । अ॒मृता॑नि । विश्वा॑ ॥१

नि । काव्या । वेधसः । शश्वतः । कः । हस्ते । दधानः । नर्या । पुरूणि ।

अग्निः । भुवत् । रयिऽपतिः । रयीणाम् । सत्रा । चक्राणः । अमृतानि । विश्वा ॥१

“शश्वतः शाश्वतस्य नित्यस्य “वेधसः विधातुर्ब्रह्मणः संबन्धीनि "काव्या काव्यानि मन्त्ररूपाणि स्तोत्राण्ययमग्निः “नि "कः नियमेन स्वात्माभिमुखं करोति । किं कुर्वन् । “नर्या नृभ्यो हितानि नृषु साधूनि वा “पुरूणि बहूनि धनानि “हस्ते “दधानः हस्ते धारयन् । ईदृग्भूतमग्निमवलोक्य सर्वे जनाः स्तुवन्तीति भावः । स्तोतृभ्यो धनेषु दन्तेष्वप्यग्नेर्धनं न क्षीयते इत्याह अग्निरिति । अयम् “अग्निः “रयीणां “रयिपतिः “भुवत् धनानां मध्ये यानि धनान्युत्कृष्टानि तेषां स्वामी भवति । किं कुर्वन् । “विश्वा विश्वानि सर्वाणि “अमृतानि । हिरण्यनामैतत् । “ अमृतं हिरण्यम्' (अ. सं. ५. २८. ११) इति श्रुतेः । सर्वाणि हिरण्यानि स्तोतृभ्यः “सत्रा सहैव "चक्राणः कुर्वन् युगपत्प्रयच्छन्नित्यर्थः ।। कः । करोतेश्छान्दसो लुङ् । मन्त्रे घस ' इति च्लेर्लुक् । “हल्ङ्याब्भ्यः' इति तकारलोपः । नर्या । नरशब्दात् हितार्थे गवादिलक्षणो यत्प्रत्ययो द्रष्टव्यः (पा. सू. ५. १, २) । यद्वा ।' तत्र साधुः' इति यत् । चक्राणः । करोतेर्लटः शानच् ।' बहुलं छन्दसि ' इति विकरणस्य श्लुः । नन्वेवं सति ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वं प्राप्नोति । एवम् । तर्हि लिटः कानजस्तु । तस्यार्धधातुकत्वेन अभ्यस्ताद्युदात्तत्वाभावे चित्स्वर एव शिष्यते ॥


अ॒स्मे व॒त्सं परि॒ षन्तं॒ न वि॑न्दन्नि॒च्छन्तो॒ विश्वे॑ अ॒मृता॒ अमू॑राः ।

श्र॒म॒युवः॑ पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ॥२

अ॒स्मे इति॑ । व॒त्सम् । परि॑ । सन्त॑म् । न । वि॒न्द॒न् । इ॒च्छन्तः॑ । विश्वे॑ । अ॒मृताः॑ । अमू॑राः ।

श्र॒म॒ऽयुवः॑ । प॒द॒ऽव्यः॑ । धि॒य॒म्ऽधाः । त॒स्थुः । प॒दे । प॒र॒मे । चारु॑ । अ॒ग्नेः ॥२

अस्मे इति । वत्सम् । परि । सन्तम् । न । विन्दन् । इच्छन्तः । विश्वे । अमृताः । अमूराः ।

श्रमऽयुवः । पदऽव्यः । धियम्ऽधाः । तस्थुः । पदे । परमे । चारु । अग्नेः ॥२

“अस्मे अस्माकं “वत्सं वत्सवदत्यन्तं प्रियम् । यद्वा । वत्सः पुत्रः पश्चादुत्पन्नत्वात् । तद्वदग्निरप्यस्माकं पुत्रः। तथा चाम्नायते---- ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः ' (तै. ब्रा. ३. ७. ७. १०) इति । "परि “पन्तं परितः सर्वत्र वर्तमानम् । देवेभ्यो निर्गत्याश्वत्थवेण्वादिषु निलीनं सन्तमित्यर्थः । एवंविधमग्निम् “इच्छन्तो “विश्वे “अमृताः सर्वेऽमरणधर्माणो देवाः “अमूराः अमूढा मरुतश्च “न “विन्दन् तमग्निं नालभन्त । अलभमानाश्च ते “श्रमयुवः हव्यवाहनस्याभावेन हविषामभावात्तज्जन्येन श्रमेण क्लेशेनैकीभूताः तस्य "अग्नेः अन्वेषणाय 'पदव्यः पादैर्गच्छन्तः “धियंधाः धियामग्नेः शयनासनस्थानादिलक्षणानां कर्मणां धारयितारः । एवंविधाः सन्तः “चारु चारुणि शोभनेऽग्नेः “परमे उत्तमेऽन्त्ये “पदे । यत्र ह्यग्निर्निलीनो वर्तते तत्रेत्यर्थः । तस्मिन्पदे “तस्थुः स्थितवन्तः । बहुविधेन प्रयासेनाग्निं ददृशुरित्यर्थः ॥ परि षन्तम् । ' उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ' ( पा. सू. ८. ३. ८७ ) इति षत्वम् । श्रमयुवः । ‘ यु मिश्रणे' । श्रमेण यूयन्ते इति श्रमयुवः।' क्विब्वचिप्रच्छि' (उ. सू. २. २१५) इत्यादिना विधीयमानौ क्विब्दीर्घावस्मादपि धातोर्भवतः । तन्वादित्वात् उवङ्। पदव्यः । वी गत्यादिषु । पादेन वियन्ति गच्छन्तीति पदव्यः । : क्विप् च ' इति क्विप् । धियंधाः । ‘ आतोऽनुपसर्गे कः' इति कः। तत्पुरुषे कृति बहुलम्' इति बहुलवचनात् द्वितीयाया अपि अलुक् । तस्थुः । पादादित्वात् निघाताभावः । चारु । ‘सुपां सुलुक्' इति सप्तम्या लुक् ॥


ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यान् ।

नामा॑नि चिद्दधिरे य॒ज्ञिया॒न्यसू॑दयन्त त॒न्व१॒ः॑ सुजा॑ताः ॥३

ति॒स्रः । यत् । अ॒ग्ने॒ । श॒रदः॑ । त्वाम् । इत् । शुचि॑म् । घृ॒तेन॑ । शुच॑यः । स॒प॒र्यान् ।

नामा॑नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया॑नि । असू॑दयन्त । त॒न्वः॑ । सुऽजा॑ताः ॥३

तिस्रः । यत् । अग्ने । शरदः । त्वाम् । इत् । शुचिम् । घृतेन । शुचयः । सपर्यान् ।

नामानि । चित् । दधिरे । यज्ञियानि । असूदयन्त । तन्वः । सुऽजाताः ॥३

“शुचयः शोधयितारो दीप्ता वा मरुतो हे “अग्ने “शुचिं शुद्धं दीप्यमानं वा “त्वामित् देवेभ्यो निर्गतं त्वामेवोद्दिश्य “तिस्रः “शरदः त्रीन् संवत्सरान् “घृतेन आज्येन “यत् यदा सपर्यान् पूजां कुर्युः तदानीं त्वमाविरभूः । तदनन्तरं ते मरुतस्त्वयानुगृहीताः सन्तः “यज्ञियानि यज्ञार्हाणि यज्ञे प्रयोक्तुं योग्यानि “नामानि “चित् नामान्यपि “दधिरे अधारयन् । नामानि च तैत्तिरीयके समाम्नायन्ते-- ‘ ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश्च संमितश्च सभराः ' ( तै. सं. ४. ६. ५. ५) इत्यादीनि । एतैश्चाग्निचयने मारुताः सप्तकपाला हूयन्ते । नामानि धारयित्वा च "सुजाताः पूर्वं रूपं परित्यज्य शोभनममृतत्वं प्राप्ताः सन्तः “तन्वः स्वकीयानि शरीराणि “असूदयन्त स्वर्गं प्रापितवन्तः ॥ तिस्रः । शसि • त्रिचतुरोः स्त्रियां तिसृचतसृ' इति पूर्वसवर्णदीर्घत्वे प्राप्ते ‘ अचि र ऋतः' इति रेफादेशः । त्रिशब्दः ‘फिषः० ' (फि. सू. १ ) इत्यन्तोदात्तः । तिस्रादेशस्यापि स्थानिवद्भावेनान्तोदात्तत्वे • उदात्तयणो हल्पूर्वात् ' इति शस उदात्तत्वम् । शरदः । ‘ शॄ हिंसायाम् ' । शीर्यन्तेऽस्याम् ओषधयः इति शरत् संवत्सरः । शॄदभसोऽदिः ' ( उ. सू. १. १२७) इति अदिप्रत्ययः । उभयत्र ‘ कालाध्वनोरत्यन्तसंयोगे'। पा. सू. २. ३. ५ ) इति द्वितीया । सपर्यान् । ‘ सपर पूजायाम् । कण्ड्वादिः । लेटि आडागमः । ‘ इतश्च लोपः० ' इति इकारलोपः । यज्ञियानि । “यज्ञर्त्विग्भ्यां घखञौ इत्यर्हार्थे घप्रत्ययः ॥


आ रोद॑सी बृह॒ती वेवि॑दाना॒ः प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः ।

वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांस॑म् ॥४

आ । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । वेवि॑दानाः । प्र । रु॒द्रिया॑ । ज॒भ्रि॒रे॒ । य॒ज्ञिया॑सः ।

वि॒दत् । मर्तः॑ । ने॒मऽधि॑ता । चि॒कि॒त्वान् । अ॒ग्निम् । प॒दे । प॒र॒मे । त॒स्थि॒ऽवांस॑म् ॥४

आ । रोदसी इति । बृहती इति । वेविदानाः । प्र । रुद्रिया । जभ्रिरे । यज्ञियासः ।

विदत् । मर्तः । नेमऽधिता । चिकित्वान् । अग्निम् । पदे । परमे । तस्थिऽवांसम् ॥४

“बृहती महत्यौ •रोदसी द्यावापृथिव्यौ "आ “वेविदानाः अत्यर्थं ज्ञापयन्तः । कुत्राग्निर्वर्तते इति परस्परं वदन्तः द्यावापृथिव्योर्मध्ये वर्तमाना इत्यर्थः । यद्वा । महत्योर्द्यावापृथिव्योर्मध्ये आ वेविदाना अग्निमुपलभमानाः । एवंभूताः “यज्ञियासः यज्ञार्हाः देवाः “रुद्रिया रुद्रोऽग्निः देवानामसुरैः सह युद्धसमये तैर्देवैः स्थापितं धनमपहृत्य गतवन्तमग्निं देवा आगत्य अग्निसकाशाद्बलेन तद्धनमगृह्णन् । तदानीं सोऽग्निररोदीत् । तस्मात् रुद्र इत्याख्यायते । तथा च तैत्तिरीयकं-’ तदग्निर्न्यकामयत तेनापाक्रामत् तद्देवा विजित्यावरुरुत्समाना अन्वायन् तदस्य सहसादित्सन्त सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ' (तै. सं. १, ५, १. १ ) इति । तस्य रुद्रस्यार्हाणि स्तोत्राणि “प्र “जभ्रिरे प्रजहिरे चक्रुः इत्यर्थः। “नेमधिता । नेमशब्दोऽर्धवचनः । तथा च यास्कः-’त्वो नेम इत्यर्धस्य' (निरु. ३. २०) इति । सर्वेषां देवानामर्धभागेन धीयते धार्यते इति नेमधित इन्द्रः । सर्वे देवा एकोऽर्धः इन्द्र एक एवापरोऽर्धः इति यावत् । तथा च तैत्तिरीयकं - यत्सर्वेषामर्धमिन्द्रः प्रति तस्मादिन्रोर् देवतानां भूयिष्ठभाक्तमः' (तै. सं. ५. ४. ८.३) इति । तेनेन्द्रेण सहितः “मर्तः मरुद्गणः “परमे उत्तमेऽन्त्ये “पदे स्थानेऽश्वत्थादौ “तस्थिवांसं स्थितवन्तम् “अग्निं “चिकित्वान् जानन् "विदत् अलभत ॥ वेविदानाः । विदेर्ज्ञानार्थात् लाभार्थाद्वा यङ्न्तात् लटः शानच् । 'बहुलं छन्दसि ' इति शपो लुक् । ‘ छन्दस्युभयथा ' इति शानच आर्धधातुकत्वात् अतोलोपयलोपौ । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । विदत् ।' विद्लृ लाभे' । लुङि लृदित्त्वात् च्लेः अङादेशः । नेमधिता। दधातेः कर्मणि निष्ठा । ‘सुधित वसुधित नेमधित° ' ( पा. सू. ७. ४. ४५) इति धिभावो निपात्यते । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्° ' इति तृतीयाया आकारः । तस्थिवांसम् । तिष्ठतेर्लिटः क्वसुः । ‘ वस्वेकाजाद्धसाम्' इति इडागमः ॥


घर्माभिष्टवे ‘ संजानानाः' इत्येषा । ‘ अथोत्तरम्' इति खण्डे सूत्रितं- संजानाना उप सीदन्नभिज्ञ्वा दशभिर्विवस्वतः ' (आश्व. श्रौ. ४. ७ ) इति ॥

सं॒जा॒ना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी॑वन्तो नम॒स्यं॑ नमस्यन् ।

रि॒रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ स्वाः सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ॥५

स॒म्ऽजा॒ना॒नाः । उप॑ । सी॒द॒न् । अ॒भि॒ऽज्ञु । पत्नी॑ऽवन्तः । न॒म॒स्य॑म् । न॒म॒स्य॒न्निति॑ नमस्यन् ।

रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । स्वाः । सखा॑ । सख्युः॑ । नि॒ऽमिषि॑ । रक्ष॑माणाः ॥५

सम्ऽजानानाः । उप । सीदन् । अभिऽज्ञु । पत्नीऽवन्तः । नमस्यम् । नमस्यन्निति नमस्यन् ।

रिरिक्वांसः । तन्वः । कृण्वत । स्वाः । सखा । सख्युः । निऽमिषि । रक्षमाणाः ॥५

हे अग्ने त्वां “संजानानाः सम्यग् जानन्तो देवाः “उप “सीदन् उपसीदन्ति प्राप्नुवन्ति । उपसत्तिं कृत्वा च "पत्नीवन्तः सपत्नीकाः सन्तः “नमस्यं नमस्कारार्हम् “अभिज्ञु आभिमुख्येनावस्थितजानुयुक्तं त्वां “नमस्यन् अपूजयन् ।। पूजयित्वा च "सख्युः मित्रस्य तव “निमिषि दर्शने निमित्तभूते सति “रक्षमाणाः त्वया परिरक्ष्यमाणाः “सखा सखायो देवाः “स्वाः “तन्वः स्वकीयानि शरीराणि रिरिक्वांसः अनशनादिरूपेण दीक्षानियमेन रिक्तीकुर्वन्तः शोषयन्तः “कृण्वत यागानकुर्वन् । ‘ देवा वै यज्ञमतन्वत ' ( ऐ. ब्रा. २. ११ ) इति श्रुतेः ॥ नमस्यन् । नमोवरिवश्चित्रङ:०' इति पूजार्थे क्यच् । लङि • बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः। रिरिक्वांसः । ‘ रिचिर् विरेचने । लिटः क्वसुः । निमिषि । मिष स्पर्धायाम् । अत्रोपसर्गवशाद्दर्शनार्थः । संपदादिलक्षणो भावे क्विप् । रक्षमाणाः । कर्मणि लटः शानच् । यकि प्राप्ते व्यत्ययेन शप् ॥ ॥ १७ ॥


त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः ।

तेभी॑ रक्षन्ते अ॒मृतं॑ स॒जोषाः॑ प॒शूञ्च॑ स्था॒तॄञ्च॒रथं॑ च पाहि ॥६

त्रिः । स॒प्त । यत् । गुह्या॑नि । त्वे इति॑ । इत् । प॒दा । अ॒वि॒द॒न् । निऽहि॑ता । य॒ज्ञिया॑सः ।

तेभिः॑ । र॒क्ष॒न्ते॒ । अ॒मृत॑म् । स॒ऽजोषाः॑ । प॒शून् । च॒ । स्था॒तॄन् । च॒रथ॑म् । च॒ । पा॒हि॒ ॥६

त्रिः । सप्त । यत् । गुह्यानि । त्वे इति । इत् । पदा । अविदन् । निऽहिता । यज्ञियासः ।

तेभिः । रक्षन्ते । अमृतम् । सऽजोषाः । पशून् । च । स्थातॄन् । चरथम् । च । पाहि ॥६

“त्रिः “सप्त एकविंशतिसंख्याकानि “गुह्यानि रहस्यानि वेदैकसमधिगम्यानि “यत् यानि “पदा पदानि । पद्यते गम्यते स्वर्गः एभिरिति व्युत्पत्त्या पदशब्देनात्र यज्ञा उच्यन्ते । ते चैकविंशतिसंख्याकाः। औपासनहोमवैश्वदेवादयः सप्त पाकयज्ञाः । अग्न्याधेयदर्शपूर्णमासादयः सप्त हविर्यज्ञाः । अग्निष्टोमात्यग्निष्टोमादयः सप्त सोमयज्ञाः । एवमेकविंशतिसंख्याकानि यज्ञलक्षणानि पदानि हे अग्न “त्वे “इत् त्वय्येव “निहिता स्थापितानि । तेषां सर्वेषां त्वत्प्रधानत्वात्। न ह्यग्निमन्तरेण यागा अनुष्ठातुं शक्यन्ते। “यज्ञियासः यज्ञार्हाः अर्थित्वसामर्थ्यवैदुष्यादिभिः' अधिकारहेतुभिर्युक्ताः। तथा चोक्तम्-‘अर्थी समर्थो विद्वान् शास्त्रेणापर्युदस्तः कर्मण्यधिकारी' इति । एवंविधलक्षणोपेता यजमानास्तानि पदानि "अविदन् अलभन्त । लब्ध्वा च "तेभिः यज्ञलक्षणैः पदैः "अमृतम् अमरणधर्माणं त्वां “रक्षन्ते पालयन्ति यजन्तीत्यर्थः। “सजोषाः । तैर्यजमानैः समानप्रीतिस्त्वं “पशून् गवाश्वादिपशून् “च "स्थातॄन् व्रीह्यादिस्थावराणि “चरथं पशुव्यतिरिक्तमन्यद्यत्प्राणिजातमस्ति तत् “च "पाहि रक्ष । तेषु हि रक्षितेषु त्वदीया यागाः कर्तुं शक्यन्ते नान्यथा । अतस्त्वमेवमुच्यसे इत्यर्थः ॥ यत् । 'सुपां सुलुक्' इति विभक्तेर्लुक् । गुह्यानि । गुहायां भवानि ।' भवे छन्दसि ' इति यत् । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । त्वे। ‘सुपां सुलुक् ' इति सप्तम्याः शेआदेशः । अविदन् । 'विद्लृ लाभे' । लुङि लृदित्वात् अङ् । पशून स्थातॄन् । उभयत्र ' उभयथर्क्षु ' (पा. सू. ८. ३. ८) इत्युभयथाभावात् नकारस्य रुत्वाभावः ॥


वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः ।

अ॒न्त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नत॑न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ॥७

वि॒द्वान् । अ॒ग्ने॒ । व॒युना॑नि । क्षि॒ती॒नाम् । वि । आ॒नु॒षक् । शु॒रुधः॑ । जी॒वसे॑ । धाः॒ ।

अ॒न्तः॒ऽवि॒द्वान् । अध्व॑नः । दे॒व॒ऽयाना॑न् । अत॑न्द्रः । दू॒तः । अ॒भ॒वः॒ । ह॒विः॒ऽवाट् ॥७

विद्वान् । अग्ने । वयुनानि । क्षितीनाम् । वि । आनुषक् । शुरुधः । जीवसे । धाः ।

अन्तःऽविद्वान् । अध्वनः । देवऽयानान् । अतन्द्रः । दूतः । अभवः । हविःऽवाट् ॥७

हे “अग्ने “वयुनानि । ज्ञाननामैतत् इह तु ज्ञातव्ये वर्तते । सर्वाणि ज्ञातव्यानि “विद्वान् जानंस्त्वं “क्षितीनां यजमानलक्षणानां प्रजानां “जीवसे जीवितुं “शुरुधः क्षुद्रूपस्य शोकस्य रोधयित्रीरिषोऽन्नानि “आनुषक् अनुषक्तं संततं यथा भवति तथा “वि “धाः विधेहि कुर्वित्यर्थः । एवं यजमानान् अन्नसमृद्धान् कृत्वानन्तरं हविर्वाट् तैर्देवेभ्यः प्रत्तं हविर्वहन् "दूतः “अभवः देवानां दूतो भवसि । कीदृशस्त्वम् अन्तर्विद्वान् द्यावापृथिव्योर्मध्ये जानन् । किं जानन् । “अध्वनः मार्गान् । कीदृशान् । “देवयानान् । देवा यैर्मार्गैर्यन्ति गच्छन्ति ताञ्जानन्नित्यर्थः। “अतन्द्रः पुनःपुनर्हविर्वहनेऽप्यनलसः ॥ वयुनानि ।' अज गतिक्षेपणयोः । ‘ अजियमिशीङ्भ्यश्च ' ( उ. सू. ३. ३४१) इति कर्मणि उनप्रत्ययः । ‘ अजेर्व्यघञपोः ' (पा. सू. २. ४. ५६ ) इति वीभावः । क्षितीनाम् । क्षियन्ति निवसन्तीति क्षितयो मनुष्याः।' क्तिच्क्तौ च संज्ञायाम्' इति कर्तरि क्तिच् । अन्तोदात्तात् ह्रस्वान्तात् क्षितिशब्दादुत्तरस्य नामः ‘नामन्यतरस्याम्' इत्युदात्तत्वम् । शुरुधः । शुचं रुन्धन्तीति शुरुधः । ‘ क्विप् च' इति क्विप् । पूर्वपदस्यान्त्यलोपः पृषोदरादित्वात् ।।


स्वा॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् ।

वि॒दद्गव्यं॑ स॒रमा॑ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ॥८

सु॒ऽआ॒ध्यः॑ । दि॒वः । आ । स॒प्त । य॒ह्वीः । रा॒यः । दुरः॑ । वि । ऋ॒त॒ऽज्ञाः । अ॒जा॒न॒न् ।

वि॒दत् । गव्य॑म् । स॒रमा॑ । दृ॒ळ्हम् । ऊ॒र्वम् । येन॑ । नु । क॒म् । मानु॑षी । भोज॑ते । विट् ॥८

सुऽआध्यः । दिवः । आ । सप्त । यह्वीः । रायः । दुरः । वि । ऋतऽज्ञाः । अजानन् ।

विदत् । गव्यम् । सरमा । दृळ्हम् । ऊर्वम् । येन । नु । कम् । मानुषी । भोजते । विट् ॥८

“स्वाध्यः शोभनकर्मयुक्ताः "यह्वीः यह्योरत महत्यः “सप्त गङ्गाद्याः सप्त नद्यः “दिवः द्युलोकादागत्य भूम्यां प्रवहन्तीति शेषः । हे अग्ने ईदृग्विधा नद्यस्त्वया स्थापिताः । अग्नौ होमे सति हि तेन तृप्तः सूर्यो वृष्टिं करोति । तस्मिन्नर्थे स्मृतिः पूर्वमुदाहृता । अतो वृष्टिद्वाराग्निरेव नदीः करोतीत्युच्यते । तथा “ऋतज्ञाः ऋतं यज्ञं जानन्तोऽङ्गिरसः “रायः वलनाम्नासुरेणापहृतस्य गोरूपस्य धनस्य “दुरः द्वाराणि गमनमार्गान "अजानन् त्वया ज्ञातवन्तः । त्वत्साध्येन यागेन प्रीत इन्द्रो गवामन्वेषणाय सरमां नाम देवशुनीं प्रेषितवान् । सा च सरमा गवां स्थानमवगत्येन्द्रस्य न्यवेदयत् । इन्द्रश्च तनिङ्गिरसो गाः प्रापयत् । अत एतत्सर्वं त्वमेव कृतवान् । अङ्गिरोभ्यः सकाशात् "गव्यं गवि भवं “दृळ्हं स्थूलम् । बहुलमित्यर्थः । एवंविधं पयोलक्षणम् “ऊर्वं अन्नं “सरमा देवशुनी “विदत् अलभत । “कम् इत्येतत्पादपूरणम् । “येन "नु येन हि गव्येन “मानुषी “विट् मनोः संबन्धिनी प्रजा “भोजते इदानीं भुङ्क्ते तद्गव्यमपि परंपरयाग्निरेव करोति ।। स्वाध्यः । सुआङ्पूर्वात् धीशब्दात् जसि • एरनेकाचः ' इति यणादेशः । यह्वीः ।' वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । गव्यम् । सर्वत्र ‘गोरजादिप्रत्ययप्रसंगे यद्वक्तव्यम् ' इति भावार्थे यत् । ऊर्वम् । उर्वी हिंसार्थः । ऊर्वति क्षुधं हिनस्तीत्यूर्वमन्नम् । पचाद्यच् । भोजते ।' भुज पालनाभ्यवहारयोः' । श्नमि प्राप्ते व्यत्ययेन शप् ॥


आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।

म॒ह्ना म॒हद्भिः॑ पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ॥९

आ । ये । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । त॒स्थुः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् ।

म॒ह्ना । म॒हत्ऽभिः॑ । पृ॒थि॒वी । वि । त॒स्थे॒ । मा॒ता । पु॒त्रैः । अदि॑तिः । धाय॑से । वेरिति॒ वेः ॥९

आ । ये । विश्वा । सुऽअपत्यानि । तस्थुः । कृण्वानासः । अमृतऽत्वाय । गातुम् ।

मह्ना । महत्ऽभिः । पृथिवी । वि । तस्थे । माता । पुत्रैः । अदितिः । धायसे । वेरिति वेः ॥९

“ये आदित्याः "अमृतत्वाय अमरणत्वसिद्धये "गातुं मार्गमुपायं “कृण्वानासः कुर्वाणाः सन्तः "विश्वा विश्वानि सर्वाणि “स्वपत्यानि शोभनान्यपतनहेतुभूतानि चतुर्दशरात्रषट्त्रिंशद्रात्रादित्यानामयनादीनि कर्माणि "आ “तस्थुः आस्थितवन्तः कृतवन्त इत्यर्थः । तथा च तैत्तिरीयकम् -- ’ आदित्या अकामयन्त सुवर्गं लोकमियामेति' इति, ‘त एतँ षट्त्रिंशद्रात्रमपश्यन् तमाहरन् तेनायजन्त' (तै. सं. ७. ४. ६. १) इति च । "महद्भिः अनुष्ठानेन महानुभावैस्तैः “पुत्रैः सहिता “माता जनयित्री “अदितिः अदीना “पृथिवी “धायसे सर्वस्य जगतो धारणाय “मह्ना स्वकीयेन महत्त्वेन “वि “तस्थे विशेषेण तिष्ठति । हे अग्ने यतस्त्वं “वेः आदित्यैरनुष्ठितेषु यागेषु चरुपुरोडाशादीनि हवींष्यभक्षयः । अत एतत्सर्वं जातमित्यर्थः ॥ कृण्वानासः । ‘ कृवि हिंसाकरणयोश्च' । व्यत्ययेनात्मनेपदम् । ‘ धिन्विकृण्व्योर च ' इति उप्रत्ययः; तत्संनियोगेन अकारान्तादेशश्च । तस्यातो लोपे सति स्थानिवद्भावाद्गुणाभावः । शानचश्चित्त्वादन्तोदात्तत्वम् ।' आज्जसेरसुक्' । मह्ना । महिम्नेत्यस्य वर्णलोपश्छान्दसः । धायसे ।' वहिहाधाञ्भ्यश्छन्दसि' इति दधातेर्भावे असुन् । णित् ' इत्यनुवृत्तेः ‘ आतो युक् चिण्कृतोः' इति युक् । वेः । ‘ वी गतिप्रजनकान्त्यशनखादनेषु । लङि सिपि अदादित्वात् शपो लुक् ।' बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । धायसे इत्यस्य वाक्यान्तरगतत्वादस्य निघाताभावः ।।


अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन्दि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् ।

अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीची॑रग्ने॒ अरु॑षीरजानन् ॥१०

अधि॑ । श्रिय॑म् । नि । द॒धुः॒ । चारु॑म् । अ॒स्मि॒न् । दि॒वः । यत् । अ॒क्षी इति॑ । अ॒मृताः॑ । अकृ॑ण्वन् ।

अध॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । न । सृ॒ष्टाः । प्र । नीचीः॑ । अ॒ग्ने॒ । अरु॑षीः । अ॒जा॒न॒न् ॥१०

अधि । श्रियम् । नि । दधुः । चारुम् । अस्मिन् । दिवः । यत् । अक्षी इति । अमृताः । अकृण्वन् ।

अध । क्षरन्ति । सिन्धवः । न । सृष्टाः । प्र । नीचीः । अग्ने । अरुषीः । अजानन् ॥१०

"अस्मिन् अग्नौ “चारु शोभनां “श्रियं परिस्तरणपरिषेचनादिरूपां यज्ञसंपदम् “अधि “नि “दधुः यजमानाः स्थापितवन्तः । निधाय च “यत् यदा "अक्षी यज्ञस्याज्यभागलक्षणे चक्षुषी “अकृण्वन् कुर्वन्ति । चक्षुषी वा एते यज्ञस्य यदाज्यभागौ ' ( तै. सं. २. ६. २. १ ) इति श्रुतेः । तदानीं “दिवः द्युलोकात् "अमृताः अमरणधर्माणिो देवाः यागसमयो जात इत्यवगम्यागच्छन्तीति शेषः । “अध आज्यभागानन्तरं “सृष्टाः अग्नेरुत्पन्नाः “सिन्धवो “न शीघ्रं गच्छन्त्यो नद्य इव “नीचीः नितरां सर्वासु दिक्षु गच्छन्तीः "अरुषीः आरोचमानाः । यद्वा । निर्मलरूपाः । हे “अग्ने एवंभूतास्त्वदीया ज्वालाः “क्षरन्ति संचलन्ति । सर्वासु दिक्षु गच्छन्तीत्यर्थः। आगता देवाश्च “प्र “अजानन् अस्माकं होमायेदृश्यो ज्वाला उत्पन्ना इति हृष्टाः सन्तः प्रकर्षेण जानन्ति ॥ अक्षी । परत्वात् नुमं बाधित्वा ई च द्विवचने' ( पा. सू. ७. १. ७७ ) इति अक्षिशब्दस्य ईकारान्तादेशः । स चोदात्तः । ईत्वे कृते सकृद्गतपरिभाषया ( परिभा. ४० ) पुनर्नुम् न भवति । सवर्णदीर्घः । नीचीः । निपूर्वादञ्चतेः “ ऋत्विक्° ' इत्यादिना क्विन् । “ अनिदिताम् ' इति नलोपः। ‘ अञ्चतेश्चोपसंख्यानम्' इति ङीप् । ' अचः' इति अकारलोपे • चौ' इति दीर्घत्वम् ।' न्यधी च ' (पा. सू. ६. २. ५३ ) इति गतेः प्रकृतिस्वरत्वम् । अरुषीः । अरुषमिति रूपनाम। ‘ ऋहनिभ्यामुषच्' इति अर्तेः उषच् । 'छन्दसीवनिपौ ' इति मत्वर्थीय ईकारः ॥ ॥ १८ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.७२&oldid=207713" इत्यस्माद् पुनः प्राप्तिः