प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.७७

(ऋग्वेद: सूक्तं १.७७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.७६ ऋग्वेदः - मण्डल १
सूक्तं १.७७
गोतमो राहूगणः
सूक्तं १.७८ →
दे. अग्निः। त्रिष्टुप्


कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः ।
यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥१॥
यो अध्वरेषु शंतम ऋतावा होता तमू नमोभिरा कृणुध्वम् ।
अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति ॥२॥
स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः ।
तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥३॥
स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम् ।
तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥४॥
एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः ।
स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान् ॥५॥


सायणभाष्यम्

'कथा' इति पञ्चर्चं चतुर्थं सूक्तं त्रैष्टुभं गोतमस्यार्षमाग्नेयम् । अनुक्रान्तं च-’ कथा ' इति । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः ॥


क॒था दा॑शेमा॒ग्नये॒ कास्मै॑ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः ।

यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत्कृ॒णोति॑ दे॒वान् ॥१

क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । का । अ॒स्मै॒ । दे॒वऽजु॑ष्टा । उ॒च्य॒ते॒ । भा॒मिने॑ । गीः ।

यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । होता॑ । यजि॑ष्ठः । इत् । कृ॒णोति॑ । दे॒वान् ॥१

कथा । दाशेम । अग्नये । का । अस्मै । देवऽजुष्टा । उच्यते । भामिने । गीः ।

यः । मर्त्येषु । अमृतः । ऋतऽवा । होता । यजिष्ठः । इत् । कृणोति । देवान् ॥१

“अस्मै “अग्नये "कथा "दाशेम कथं हवींषि ददाम । अग्नेरनुरूपं यज्ञं कर्तुमशक्ता वयमित्यर्थः । अथवा अस्मै “भामिने तेजस्विनेऽग्नये "देवजुष्टा सर्वैः देवैः सेवितव्या “गीः वाक् स्तुतिरपि “का कीदृशी “उच्यते । तादृशीं स्तुतिमपि कर्तुं न शक्ता इत्यर्थः । “अमृतः मरणरहितः “ऋतावा ऋतवान् सत्यवान् यज्ञवान् वा “होता देवानामाह्वाता होमनिष्पादको वा “यजिष्ठः अतिशयेन यष्टा एवंभूतः “यः अग्निः “मर्त्येषु मरणधर्मसु अस्मासु वर्तमानः सन् "देवान् “इत् “कृणोति हविर्भिर्युक्तान्करोत्येव । तादृशायाग्नये कथा दाशेमेति पूर्वेणान्वयः ॥ कथा । ' था हेतौ च च्छन्दसि ' इति थाप्रत्ययः ।। भामिने । 'भा दीप्तौ ।' अर्तिस्तुसु° ' इत्यादिना मन्प्रत्ययः । ततो मत्वर्थीय इनिः । ऋतावा ‘ छन्दसीवनिपौ' इति मत्वर्थीयो वनिप्। “अन्येषामपि दृश्यते' इति दीर्घत्वम् ।।


यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वम् ।

अ॒ग्निर्यद्वेर्मर्ता॑य दे॒वान्स चा॒ बोधा॑ति॒ मन॑सा यजाति ॥२

यः । अ॒ध्व॒रेषु॑ । शम्ऽत॑मः । ऋ॒तऽवा॑ । होता॑ । तम् । ऊं॒ इति॑ । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् ।

अ॒ग्निः । यत् । वेः । मर्ता॑य । दे॒वान् । सः । च॒ । बोधा॑ति । मन॑सा । य॒जा॒ति॒ ॥२

यः । अध्वरेषु । शम्ऽतमः । ऋतऽवा । होता । तम् । ऊं इति । नमःऽभिः । आ । कृणुध्वम् ।

अग्निः । यत् । वेः । मर्ताय । देवान् । सः । च । बोधाति । मनसा । यजाति ॥२

“यः अग्निः “अध्वरेषु यागेषु “शंतमः अतिशयेन सुखकारी "ऋतावा सत्यवान् यथार्थदर्शीत्यर्थः । "होता देवानामाह्वाता भवति । हे ऋत्विग्यजमाना यूयं “तमु तमेवाग्निं “नमोभिः स्तोत्रैः "आ “कृणुध्वम् अभिमुखीकुरुत । “यत् यदा अयम् “अग्निः “मर्ताय मनुष्याय यजमानार्थं "देवान् "वेः वेति गच्छति तदानीं “सः अग्निर्यष्टव्यान् सर्वान् देवान् “बोधाति “च जानाति च । ज्ञात्वा च "मनसा नमसा तान् "यजाति हविर्भिः पूजयति । अतस्तमेवाग्निम् आ कृणुध्वमिति योज्यम् ॥ वेः । वी गत्यादिषु । 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङ् । तिङा तिङो भवन्ति' इति प्रथमपुरुषैकवचनस्य मध्यमपुरुषैकवचनादेशः । बोधाति । ‘बुध अवगमने'। लेटि आडागमः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । ‘चवायोगे प्रथमा' इति निघातप्रतिषेधः । मनसा। मकारनकारयोः स्थानविपर्ययः ॥


स हि क्रतु॒ः स मर्य॒ः स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः ।

तं मेधे॑षु प्रथ॒मं दे॑व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारीः॑ ॥३

सः । हि । क्रतुः॑ । सः । मर्यः॑ । सः । सा॒धुः । मि॒त्रः । न । भू॒त् । अद्भु॑तस्य । र॒थीः ।

तम् । मेधे॑षु । प्र॒थ॒मम् । दे॒व॒ऽयन्तीः॑ । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । द॒स्मम् । आरीः॑ ॥३

सः । हि । क्रतुः । सः । मर्यः । सः । साधुः । मित्रः । न । भूत् । अद्भुतस्य । रथीः ।

तम् । मेधेषु । प्रथमम् । देवऽयन्तीः । विशः । उप । ब्रुवते । दस्मम् । आरीः ॥३

“स “हि अग्निः “क्रतुः कर्मणां कर्ता । “सः एव “मर्यः मारयिता विश्वस्योपसंहर्ता “साधुः साधयितोत्पादयितापि “सः एव “अद्भुतस्य अभूतस्यालब्धस्य धनस्य “रथीः रंहयिता प्रापयिता “भूत् भवति । तत्र दृष्टान्तः । "मित्रो “न । यथा सखा धनानि प्रापयति तद्वत् । एवंभूतो योऽग्निः “तम् एव “मेधेषु यज्ञेषु “देवयन्तीः देवयन्त्यो देवानात्मन इच्छन्त्यः “विशः प्रजाः “प्रथमम् “उप “ब्रुवते । स्तुतिभिरुपेत्य प्रधानभूतः इति कथयन्ति। कीदृश्यो विशः। "दस्मं दर्शनीयं तमग्निम् “आरीः गच्छन्त्यः भजन्त्यः इत्यर्थः ॥ मर्यः । मृङ् प्राणत्यागे । अस्मात् अन्तर्भावितण्यर्थात् 'छन्दसि निष्टर्क्य° ' इत्यादौ निपातनात् यत् कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्तरि द्रष्टव्यः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । देवयन्तीः ।' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । आरीः । ‘ऋ गतौ'। ‘ जनिघसिभ्यामिण्' (उ. सू. ४. ५६९ ) इति बहुलग्रहणादस्मादपि इण्प्रत्ययः । ‘ कृदिकारादक्तिनः' इति ङीष् । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनाद्युदात्तत्वम्॥


स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् ।

तना॑ च॒ ये म॒घवा॑न॒ः शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षय॑न्त॒ मन्म॑ ॥४

सः । नः॒ । नृ॒णाम् । नृऽत॑मः । रि॒शादाः॑ । अ॒ग्निः । गिरः॑ । अव॑सा । वे॒तु॒ । धी॒तिम् ।

तना॑ । च॒ । ये । म॒घऽवा॑नः । शवि॑ष्ठाः । वाज॑ऽप्रसूताः । इ॒षय॑न्त । मन्म॑ ॥४

सः । नः । नृणाम् । नृऽतमः । रिशादाः । अग्निः । गिरः । अवसा । वेतु । धीतिम् ।

तना । च । ये । मघऽवानः । शविष्ठाः । वाजऽप्रसूताः । इषयन्त । मन्म ॥४

"नृणां यज्ञस्य नेतॄणां मध्ये “नृतमः अतिशयेन नेता “रिशादाः रिशानां शत्रूणामत्ता भक्षयिता। यद्वा । रिशतां हिँसतामसिता निरसिता । एवंविधः “सः “अग्निः “नः अस्माकं “गिरः स्तुतीः “अवसा हविर्लक्षणेनान्नेन युक्तां “धीतिं कर्म च "वेतु कामयताम् । अपि “च "ये यजमानाः “तना । धननामैतत् । विस्तृतेन धनेन “मघवानः धनवन्तः “शविष्ठाः अतिशयेन बलिनश्च सन्तः “वाजप्रसूताः प्रसूतं प्रेरितं वाजो हविर्लक्षणमन्नं यैस्तादृशा भूत्वा “मन्म अग्नेर्मननरूपं स्तोत्रम् “इषयन्त एषयन्ति ऋत्विग्भिः कारयितुमिच्छन्ति । तेषामपि स्तुतिमग्निः कामयतामिति भावः ॥ नृणाम् । ‘ नृ च ' इति उभयथाभावात् दीर्घाभावः । ' नामन्यतरस्याम्' इति नाम उदात्तत्वम् । तना। तनु विस्तारे'। पचाद्यच् । तृतीयैकवचनस्य ‘सुपां सुलुक्' इति आकारः । वृषादेराकृतिगणवादाद्युदात्तत्वम् । शविष्ठाः । शव इति बलनाम । अस्मायामेधा ' इति मत्वर्थीयो विनिः । ततः आतिशायनिकः। इष्ठन् । ‘विन्मतोर्लुक्' इति विनो लुक् । 'टेः' इति टिलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । इषयन्त । ‘ इषु इच्छायाम् । अस्मात् ण्यन्तात् छान्दसो लङ् । संज्ञापूर्वकस्य विधेरनित्यत्वात् णौ लघूपधगुणाभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते ॥


ए॒वाग्निर्गोत॑मेभिरृ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः ।

स ए॑षु द्यु॒म्नं पी॑पय॒त्स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान् ॥५

ए॒व । अ॒ग्निः । गोत॑मेभिः । ऋ॒तऽवा॑ । विप्रे॑भिः । अ॒स्तो॒ष्ट॒ । जा॒तऽवे॑दाः ।

सः । ए॒षु॒ । द्यु॒म्नम् । पी॒प॒य॒त् । सः । वाज॑म् । सः । पु॒ष्टिम् । या॒ति॒ । जोष॑म् । आ । चि॒कि॒त्वान् ॥५

एव । अग्निः । गोतमेभिः । ऋतऽवा । विप्रेभिः । अस्तोष्ट । जातऽवेदाः ।

सः । एषु । द्युम्नम् । पीपयत् । सः । वाजम् । सः । पुष्टिम् । याति । जोषम् । आ । चिकित्वान् ॥५

“ऋतावा ऋतवान् यज्ञवान् "जातवेदाः जातधनो जातप्रज्ञो वा अयम् “अग्निः “विप्रेभिः मेधाविभिः "गौतमेभिः गोतमैर्ऋषिभिरेवमुक्तेन प्रकारेण “अस्तोष्ट स्तुतोऽभूत् । स्तुतश्च “सः अग्निः “एषु गोतमेषु “द्युम्नं द्योतमानं सोमं “पीपयत् अपिबत्। यद्वा । तानृषीन् अपाययत्। तथा “सः अग्निः “वाजं हविर्लक्षणमन्नं पीपयदित्येव । एवं सोमलक्षणं चरुपुरोडाशादिलक्षणं हविश्च स्वीकृत्य “सः अग्निः “जोषम् अस्माभिः कृतं सेवनम् “आ “चिकित्वान् आ समन्तात् जानन् “पुष्टिं “याति पोषं प्राप्नोतु । यद्वा । अस्माकं धनानि पोषं प्रापयतु । गोतमेभिः।' ऋष्यन्धकवृष्णिकुरुभ्यश्च ' (पा. सू. ४. १. ११४ ) इति विहितस्य अणः ‘अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च' (पा. सू. २. ४. ६५) इति बहुषु लुक् । अस्तोष्ट । स्तोतेः कर्मणि लुङि चिणभावश्छान्दसः । पीपयत्। 'पा पाने' ण्यन्तात् लुङि च्लेश्चङादि । जोषम् । 'जुषी प्रीतिसेवनयोः '। भावे घञ् । ञित्वादाद्युदात्तत्वम् ॥ ॥ २५ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.७७&oldid=207718" इत्यस्माद् पुनः प्राप्तिः