ऋग्वेदः सूक्तं १.७९
← सूक्तं १.७८ | ऋग्वेदः - मण्डल १ सूक्तं १.७९ गोतमो राहूगणः |
सूक्तं १.८० → |
दे. १-३ अग्निः मध्यमोग्निर्वा, ४-१२ अग्निः। १-३ त्रिष्टुप्,४-६ उष्णिक्, ७-१२ गायत्री |
हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान् ।
शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥१॥
आ ते सुपर्णा अमिनन्तँ एवैः कृष्णो नोनाव वृषभो यदीदम् ।
शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा ॥२॥
यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः ।
अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥३॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥४॥
स इधानो वसुष्कविरग्निरीळेन्यो गिरा ।
रेवदस्मभ्यं पुर्वणीक दीदिहि ॥५॥
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥६॥
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
विश्वासु धीषु वन्द्य ॥७॥
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
विश्वासु पृत्सु दुष्टरम् ॥८॥
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
मार्डीकं धेहि जीवसे ॥९॥
प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये ।
भरस्व सुम्नयुर्गिरः ॥१०॥
यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः ।
अस्माकमिद्वृधे भव ॥११॥
सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति ।
होता गृणीत उक्थ्यः ॥१२॥
सायणभाष्यम्
‘ हिरण्यकेशः' इति द्वादशर्चं षष्ठं सूक्तम् । रहूगणपुत्रस्य गोतमस्यार्षम् । अत्रानुक्रम्यते ’ हिरण्यकेशो द्वादशाद्यौ तृचौ त्रैष्टुभौष्णिहौ पूर्वोऽग्नये वा मध्यमाय ' इति । पूर्वत्र ‘ गायत्रं तु ' इत्युक्तत्वादिदमपि गायत्रं सूक्तम् । एतावांस्तु विशेषः । आद्यस्तृचस्त्रैष्टुभः। द्वितीयस्त्वौष्णिहः । प्रथमतृचस्य मध्यमस्थानो वैद्युतोऽग्निः शुद्धाग्निर्वा देवता । शिष्टा नवर्चः केवलाग्निदेवताकाः । प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चाद्यस्तृचः । सूत्रितं च--’ हिरण्यकेश इति तिस्रोऽपश्यमस्य महत इति सूक्ते ' ( आश्व. श्रौ. ४. १३) इति । कारीर्यामग्नेर्धामच्छदो हिरण्यकेश इति द्वे ऋचौ याज्यानुवाक्ये । सूत्रितं च - ’ हिरण्यकेशो रजसो विसार इति द्वे त्वं त्या चिदच्युता धामन्ते विश्वं भुवनमधि श्रितमिति वा ' ( आश्व. श्रौ. २. १३ ) इति ।।
हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् ।
शुचि॑भ्राजा उ॒षसो॒ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥१
हिर॑ण्यऽकेशः । रज॑सः । वि॒ऽसा॒रे । अहिः॑ । धुनिः॑ । वातः॑ऽइव । ध्रजी॑मान् ।
शुचि॑ऽभ्राजाः । उ॒षसः॑ । नवे॑दाः । यश॑स्वतीः । अ॒प॒स्युवः॑ । न । स॒त्याः ॥१
हिरण्यऽकेशः । रजसः । विऽसारे । अहिः । धुनिः । वातःऽइव । ध्रजीमान् ।
शुचिऽभ्राजाः । उषसः । नवेदाः । यशस्वतीः । अपस्युवः । न । सत्याः ॥१
“हिरण्यकेशः हितरमणीयाः केशस्थानीया ज्वाला यस्य स तथोक्तः सुवर्णवद्रोचमानज्वालो वा “अहिः आगत्य हन्ता मेघानां “धुनिः तेषां कम्पयिता “वातइव वायुरिव “ध्रजीमान् शीघ्रगतियुक्तः एवंभूतो वैद्युतोऽग्निः “रजसः उदकस्य “विसारे विसरणे मेघान्निर्गमने निमित्तभूते सति “शुचिभ्राजाः शोभनदीप्तिः सन् मेघाज्जलानि निर्गमयितुं जानाति । "उषसः उषोदेवताः “नवेदाः । न विदन्ति इति नवेदाः। मेघादुदकस्य निःसारणमग्निरेव जानाति उषसस्तु न जानन्तीत्यर्थः । अज्ञाने दृष्टान्तः । “यशस्वतीः अन्नयुक्ता अन्नवत्यः “अपस्युवः अपः कर्म आत्मन इच्छन्त्यः “सत्याः अवितथारम्भाः "न एवंभूताः प्रजा इव । अत्र उषसामज्ञानेनाग्निः प्रशस्यते न तु ता निन्द्यन्ते, न हि निन्दा निन्द्यं निन्दितुं अपि तु स्तुत्यं स्तोतुम्' इति न्यायात् ॥ ध्रजीमान् । ध्रज गतौ '। इन्सर्वधातुभ्यः' इति भावे । इन्प्रत्ययः । ततो मतुप् । तस्य पित्त्वादनुदात्तत्वे इनो नित्त्वात् प्रातिपदिकस्याद्युदात्तत्वम् । नवेदाः । नञ्पूर्वात् वेत्तेः पचाद्यच् ।' नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । अपस्युवः । अपस्शब्दात् ‘ सुप आत्मनः क्यच् '। ‘ क्याच्छन्दसि ' इति उप्रत्ययः । ‘ तन्वादीनां छन्दसि बहुलमुपसंख्यानम् । ( पा. सू. ६, ४, ७७, १ ) इति उवङ् ।। ।
आ ते॑ सुप॒र्णा अ॑मिनन्तँ॒ एवैः॑ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् ।
शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा ॥२
आ । ते॒ । सु॒ऽप॒र्णाः । अ॒मि॒न॒न्त॒ । एवैः॑ । कृ॒ष्णः । नो॒ना॒व॒ । वृ॒ष॒भः । यदि॑ । इ॒दम् ।
शि॒वाभिः॑ । न । स्मय॑मानाभिः । आ । अ॒गा॒त् । पत॑न्ति । मिहः॑ । स्त॒नय॑न्ति । अ॒भ्रा ॥२
आ । ते । सुऽपर्णाः । अमिनन्त । एवैः । कृष्णः । नोनाव । वृषभः । यदि । इदम् ।
शिवाभिः । न । स्मयमानाभिः । आ । अगात् । पतन्ति । मिहः । स्तनयन्ति । अभ्रा ॥२
हे अग्ने “ते तव “सुपर्णाः शोभनपतना रश्मयः “एवैः गन्तृभिर्मरुद्भिः सह “अमिनन्त “आ समन्तात् मेघं हिंसन्ति । वर्षणार्थं ताडयन्ति । प्रहृतश्च “कृष्णः कृष्णवर्णः “वृषभः वर्षिता मेघः “नोनाव भृशं शब्दमकरोत् । “यदि यदा “इदं ईदृशं कर्म तदानीं “शिवाभिर्न सुखकारिणीभिः “स्मयमानाभिः हसनवतीभिः कान्ताभिरिव शुभ्रवर्णाभिः फेनयुक्ताभिरद्भिर्विद्युद्भिर्वा सह “आ “अगात् वैद्युताग्निप्रेरितः पर्जन्य आगच्छति । तदनन्तरं “मिहः आपः “पतन्ति दिवः सकाशात् प्रवृष्टा भवन्ति । “अभ्रा अभ्राण्यद्भिः पूर्णा मेघाः “स्तनयन्ति इतस्ततः शब्दं कुर्वन्ति ॥ अमिनन्त । ‘ मीञ् हिंसायाम् । क्रैयादिकः । व्यत्ययेन अन्तादेशः । ईषाअक्षादित्वात् प्रकृतिभावः । ‘ अणोऽप्रगृह्यस्य ' (पा. सू. ८. ४. ५७ ) इति वैकल्पिकमवसाने विधीयमानमनुनासिकत्वं व्यत्ययेनात्र संहितायामपि द्रष्टव्यम् । नोनाव । नौतेर्यङ्लुगन्तात् लिटि • अमन्त्रे' ' (पा. सू. ३. १. ३५) इति निषेधात् आम्प्रत्ययाभावः । स्मयमानाभिः । ‘ स्मिङ् ईषद्धसने '। शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । स्तनयन्ति। ‘ स्तन शब्दे '। चुरादिरदन्तः । पतन्ति स्तनयन्तीत्यनयोः पादादित्वाद्वाक्यादित्वाच्च निघाताभावः ॥
यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः ।
अ॒र्य॒मा मि॒त्रो वरु॑ण॒ः परि॑ज्मा॒ त्वचं॑ पृञ्च॒न्त्युप॑रस्य॒ योनौ॑ ॥३
यत् । ई॒म् । ऋ॒तस्य॑ । पय॑सा । पिया॑नः । नय॑न् । ऋ॒तस्य॑ । प॒थिऽभिः॑ । रजि॑ष्ठैः ।
अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा । त्वच॑म् । पृ॒ञ्च॒न्ति॒ । उप॑रस्य । योनौ॑ ॥३
यत् । ईम् । ऋतस्य । पयसा । पियानः । नयन् । ऋतस्य । पथिऽभिः । रजिष्ठैः ।
अर्यमा । मित्रः । वरुणः । परिऽज्मा । त्वचम् । पृञ्चन्ति । उपरस्य । योनौ ॥३
“यदीं यदायमग्निः “ऋतस्य उदकस्य “पयसा पयोवत्सारभूतेन रसेन “पियानः जगदाप्यायनं कुर्वन् आप्यायितं च जगत् “ऋतस्य उदकस्य संबन्धिभिः “रजिष्ठैः ऋजुतमैः “पथिभिः मार्गैः स्नानपानादिभिः "नयन् प्रापयन् वर्तते तदानीम् “अर्यमा “मित्रो “वरुणः च "परिज्मा परितो गन्ता मरुद्गणश्च “उपरस्य मेघस्य “योनौ वृष्ट्युदकोत्पत्तिस्थाने “त्वचं पृञ्चन्ति वृष्ट्युदकस्याच्छादकं प्रदेशं स्वकीयैरायुधैः संयोजयन्ति उद्घाटयन्तीति यावत् ॥ पियानः । ‘ स्फायी ओप्यायी वृद्धौ' ।' बहुलं छन्दसि' इति शपो लुक् । धातोर्व्यत्ययेन पीभावः । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । रजिष्ठैः । ऋजुशब्दात् इष्टनि ‘ विभाषर्जोश्छन्दसि ' ( पा. सू. ६. ४. १६२ ) इति ऋकारस्य रत्वम् ।' टेः' इति टिलोपः । पृञ्चन्ति ।' पृची संपर्के । रौधादिकः ॥
प्रातरनुवाकस्याग्नेये क्रतौ औष्णिहे छन्दस्याश्विनशस्त्रे च ' अग्ने वाजस्य' इत्याद्यास्तिस्र ऋचः । सूत्रितं च- अग्ने वाजस्येति तिस्रः पुरु त्वा त्वामग्ने ' ( आश्व, श्रौ. ४. १३ ) इति ॥
अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो ।
अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥४
अग्ने॑ । वाज॑स्य । गोऽम॑तः । ईशा॑नः । स॒ह॒सः॒ । य॒हो॒ इति॑ ।
अ॒स्मे इति॑ । धे॒हि॒ । जा॒त॒ऽवे॒दः॒ । महि॑ । श्रवः॑ ॥४
अग्ने । वाजस्य । गोऽमतः । ईशानः । सहसः । यहो इति ।
अस्मे इति । धेहि । जातऽवेदः । महि । श्रवः ॥४
हे “सहसो "यहो बलस्य पुत्र “अग्ने “गोमतः बहुभिर्गोंभिर्युक्तस्य “वाजस्य अन्नस्य “ईशानः ईश्वरस्त्वमसि । अतः “अस्मे अस्मासु हे "जातवेदः जातधन जातानां वेदितर्वाग्ने “महि प्रभूतं “श्रवः अन्नं “धेहि स्थापय ॥ सहसो यहो । पराङ्गवद्भावात् ' आमन्त्रितस्य च ' इति षष्ठ्यामन्त्रितसमुदायो निहन्यते । अस्मे । 'सुपां सुलुक्° ' इति सप्तम्याः शेआदेशः ॥
स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो॑ गि॒रा ।
रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥५
सः । इ॒धा॒नः । वसुः॑ । क॒विः । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा ।
रे॒वत् । अ॒स्मभ्य॑म् । पु॒रु॒ऽअ॒नी॒क॒ । दी॒दि॒हि॒ ॥५
सः । इधानः । वसुः । कविः । अग्निः । ईळेन्यः । गिरा ।
रेवत् । अस्मभ्यम् । पुरुऽअनीक । दीदिहि ॥५
“सः "अग्निः “इधानः दीपनशीलः "वसुः निवासयिता सर्वेषां "कविः क्रान्तदर्शनो मेधावी वा “गिरा स्तोत्ररूपया वाचा "ईळेन्यः स्तोतव्यो भवति । हे “पुर्वणीक । अनीकं मुखम् । पुरुभिर्बह्वीभिरनीकस्थानीयाभिर्ज्वालाभिर्युक्ताग्ने "अस्मभ्यं “रेवत् धनयुक्तमन्नं यथा भवति तथा “दीदिहि दीप्यस्व । इधानः । ञिइन्धी दीप्तौ । ताच्छीलिकः चानश्। 'बहुलं छन्दसि' इति शपो लुक् । ईळेन्यः । ईड स्तुतौ' । औणादिक एन्यप्रत्ययः । रेवत् । ‘रयेर्मती बहुलम्' इति संप्रसारणम्। छन्दसीरः ' इति मतुपो वत्वम् । ‘रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्' ( का. ६. १. १७६. १ ) इति मतुप उदात्तत्वम् । दीदिहि। दीदेतिश्छान्दसो दीप्तिकर्मा ॥
क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑ ।
स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ॥६
क्ष॒पः । रा॒ज॒न् । उ॒त । त्मना॑ । अग्ने॑ । वस्तोः॑ । उ॒त । उ॒षसः॑ ।
सः । ति॒ग्म॒ऽज॒म्भ॒ । र॒क्षसः॑ । द॒ह॒ । प्रति॑ ॥६
क्षपः । राजन् । उत । त्मना । अग्ने । वस्तोः । उत । उषसः ।
सः । तिग्मऽजम्भ । रक्षसः । दह । प्रति ॥६
हे “राजन् राजनशील “अग्ने “क्षपः क्षपय । राक्षसादीन् स्वकीयैः पुरुषैर्बाधस्व । "उत अपि च “त्मना न केवलमन्यैरेव आत्मना च तान् बाधस्व । कदेति चेत् उच्यते। "वस्तोः सर्वाण्यहानि “उत अपि च “उषसः उषःकालोपलक्षिता रात्रीः । अत्यन्तसंयोगे द्वितीया । सर्वेष्वहःसु सर्वासु रात्रिषु चेत्यर्थः । हे “तिग्मजम्भ तीक्ष्णमुखाग्ने “रक्षसः राक्षसानुक्तप्रकारेण क्षपयित्वा “सः एव त्वं “प्रति “दह प्रत्येकं दह । न किंचिद्दग्धव्यमित्युदास्वेत्यर्थः । क्षपः । ‘ क्षप क्षान्त्याम्'। लोडर्थे छान्दसो लङ् । 'छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः । उदात्तनिवृत्तिस्वरेण शप उदात्तत्वम् । त्मना । ' मन्त्रेष्वाङ्यादेरात्मनः' इति आकारलोपः । रक्षसः । ‘ रक्ष पालने । रक्षितव्यमस्मादिति रक्षः । भीमादित्वात् ( पा. सू. ३. ४. ७४ ) अपादाने असिप्रत्ययः । क्षरतेर्वा ण्यन्तात् असिप्रत्यये णिलोपो वर्णविपर्ययश्च । अस्य च रक्षःशब्दस्य असिप्रत्ययान्तत्वात् प्रत्ययस्वर एव शिष्यते ॥ ॥ २७ ।।
प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दसि ‘ अवा नो अग्ने' इत्याद्याः षडृचः । सूत्रितं च-’ अवा नो अग्न इति षळग्निमीळेऽग्निं दूतम् ' ( आश्व. श्रौ. ४. १३) इति । आश्विनशस्त्रे चैताः शंसनीयाः प्रातरनुवाकातिदेशात् ॥
अवा॑ नो अग्न ऊ॒तिभि॑र्गाय॒त्रस्य॒ प्रभ॑र्मणि ।
विश्वा॑सु धी॒षु व॑न्द्य ॥७
अव॑ । नः॒ । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । गा॒य॒त्रस्य॑ । प्रऽभ॑र्मणि ।
विश्वा॑सु । धी॒षु । व॒न्द्य॒ ॥७
अव । नः । अग्ने । ऊतिऽभिः । गायत्रस्य । प्रऽभर्मणि ।
विश्वासु । धीषु । वन्द्य ॥७
“विश्वासु “धीषु सर्वेषु कर्मसु “वन्द्य स्तुत्य हे “अग्ने “गायत्रस्य गायत्रसाम्नो गायत्रीच्छन्दस्कस्य सूक्तस्य वा “प्रभर्मणि प्रभरणे संपादने निमित्तभूते सति “नः अस्मान् “ऊतिभिः त्वदीयैः पालनैः “अव रक्ष ॥ अव ।' द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घत्वम् ।।
आ नो॑ अग्ने र॒यिं भ॑र सत्रा॒साहं॒ वरे॑ण्यम् ।
विश्वा॑सु पृ॒त्सु दु॒ष्टर॑म् ॥८
आ । नः॒ । अ॒ग्ने॒ । र॒यिम् । भ॒र॒ । स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् ।
विश्वा॑सु । पृ॒त्ऽसु । दु॒स्तर॑म् ॥८
आ । नः । अग्ने । रयिम् । भर । सत्राऽसहम् । वरेण्यम् ।
विश्वासु । पृत्ऽसु । दुस्तरम् ॥८
हे “अग्ने “रयिं धनं “नः अस्मभ्यम् “आ “भर प्रयच्छ। कीदृशम् । “सत्रासाहं सत्रा सह युगपदेव दारिद्र्यस्य नाशकं “वरेण्यं सर्वैर्वरणीयं “विश्वासु “पृत्सु सर्वेषु संग्रामेषु “दुष्टरं शत्रुभिस्तरीतुमशक्यम् ॥ सत्रासाहम् । छन्दसि सहः' इति ण्विः । वरेण्यम् । वृञ एण्यः' । पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' इति पृतनाशब्दस्य पृद्भावः । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् ।।
आयुष्कामेष्ट्यां प्रथमस्याज्यभागस्यानुवाक्या 'आ नो अग्ने' इति । सूत्रितं च-आयुष्कामेष्ट्यां जीवातुमन्तावा नो अग्ने सुचेतुना' ( आश्व. श्रौ. २. १०) इति । महापितृयज्ञेऽप्येषैव प्रथमाज्यभागानुवाक्या । सूत्रितं च-’ जीवातुमन्तौ सव्योत्तर्युपस्थाः ' (आश्व. श्रौ. २. १९ ) इति ॥
आ नो॑ अग्ने सुचे॒तुना॑ र॒यिं वि॒श्वायु॑पोषसम् ।
मा॒र्डी॒कं धे॑हि जी॒वसे॑ ॥९
आ । नः॒ । अ॒ग्ने॒ । सु॒ऽचे॒तुना॑ । र॒यिम् । वि॒श्वायु॑ऽपोषसम् ।
मा॒र्डी॒कम् । धे॒हि॒ । जी॒वसे॑ ॥९
आ । नः । अग्ने । सुऽचेतुना । रयिम् । विश्वायुऽपोषसम् ।
मार्डीकम् । धेहि । जीवसे ॥९
हे “अग्ने “नः अस्माकं “जीवसे जीवनाय “सुचेतुना शोभनेन ज्ञानेन युक्तं "रयिं धनम् “आ “धेहि आस्थापय । कीदृशम् । “मार्डीकम् । मृडीकं सुखम् । तद्धेतुभूतम् । “विश्वायुपोषसं सर्वस्मिन्नायुषि देहादेः पोषकम् । यावज्जीवमस्मदुपभोगपर्याप्तमित्यर्थः ॥ सुचेतुना । ‘ चिती संज्ञाने'। औणादिकः । उप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । विश्वायुपोषसम् । विश्वमायुर्यस्मिन् शरीरादौ तद्विश्वायु। ‘बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । तत्पुष्णातीति विश्वायुपोषाः । ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । सकारलोपश्छान्दसः ‘ दीर्घायुत्वाय वर्चसे ' इति यथा ॥
प्र पू॒तास्ति॒ग्मशो॑चिषे॒ वाचो॑ गोतमा॒ग्नये॑ ।
भर॑स्व सुम्न॒युर्गिरः॑ ॥१०
प्र । पू॒ताः । ति॒ग्मऽशो॑चिषे । वाचः॑ । गो॒त॒म॒ । अ॒ग्नये॑ ।
भर॑स्व । सु॒म्न॒ऽयुः । गिरः॑ ॥१०
प्र । पूताः । तिग्मऽशोचिषे । वाचः । गोतम । अग्नये ।
भरस्व । सुम्नऽयुः । गिरः ॥१०
हे “गोतम सूक्तद्रष्टः “सुम्नयुः सुम्नं धनमात्मन इच्छस्त्वं “तिग्मशोचिषे तीक्ष्णज्वालाय “अग्नये “पूताः शुद्धाः “वाचः अग्नेर्गुणान् सम्यगभिदधतीः “गिरः स्तुतीः “प्र “भरस्व प्रकर्षेण संपादय ।। तिग्मशोचिषे । तिज निशाने '। ‘युजिरुचितिजां कुत्वं च ' ( उ. सू. १. १४३ ) इति मक् । तिग्मानि शोचींषि यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुम्नयुः । सुम्नशब्दात् क्यचि न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घयोः प्रतिषेधः । ‘क्याच्छन्दसि' इति उप्रत्ययः ॥
यो नो॑ अग्नेऽभि॒दास॒त्यन्ति॑ दू॒रे प॑दी॒ष्ट सः ।
अ॒स्माक॒मिद्वृ॒धे भ॑व ॥११
यः । नः॒ । अ॒ग्ने॒ । अ॒भि॒ऽदास॑ति । अन्ति॑ । दू॒रे । प॒दी॒ष्ट । सः ।
अ॒स्माक॑म् । इत् । वृ॒धे । भ॒व॒ ॥११
यः । नः । अग्ने । अभिऽदासति । अन्ति । दूरे । पदीष्ट । सः ।
अस्माकम् । इत् । वृधे । भव ॥११
हे “अग्ने "नः अस्मान् “अन्ति अन्तिके समीपे “दूरे विप्रकृष्टदेशे अवस्थितः सन् “यः शत्रुः “अभिदासति उपक्षपयति “सः शत्रुः “पदीष्ट पततु नश्यतु । त्वं च "अस्माकमित् अस्माकमेव “वृधे वर्धनाय “भव ॥ अभिदासति । दसु उपक्षये '। अस्मात् ण्यन्तात् लटि ‘ छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि ' इति णिलोपः । अन्ति। ‘ कादिलोपो बहुलमिति वक्तव्यम्' इति अन्तिकशब्दस्य ककारलोपः । वृधे । “वृधु वृद्धौ'। संपदादिलक्षणो भावे क्विप्। ‘सावेकाचः इति विभक्तेरुदात्तत्वम् ॥
स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां॑सि सेधति ।
होता॑ गृणीत उ॒क्थ्यः॑ ॥१२
स॒ह॒स्र॒ऽअ॒क्षः । विऽच॑र्षणिः । अ॒ग्निः । रक्षां॑सि । से॒ध॒ति॒ ।
होता॑ । गृ॒णी॒ते॒ । उ॒क्थ्यः॑ ॥१२
सहस्रऽअक्षः । विऽचर्षणिः । अग्निः । रक्षांसि । सेधति ।
होता । गृणीते । उक्थ्यः ॥१२
“सहस्राक्षः असंख्यातज्वालः “विचर्षणिः विशेषेण सर्वस्य द्रष्टा अयम् “अग्निः “रक्षांसि “सेधति प्रतिषेधति । यज्ञान्निर्गमयति । स चाग्निः “उक्थ्यः उक्थैः शस्त्रैरस्माभिः स्तूयमानः सन् "होता देवानामाह्वाता भूत्वा “गृणीते तान् स्तौति ॥ सहस्राक्षः । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः' इति षच् समासान्तः । सतिशिष्टत्वात्तस्यैव स्वरः शिष्यते । सेधति । षिधु गत्याम् । अत्र केवलोऽपि सोपसर्गार्थो द्रष्टव्यः । गृणीते । गॄ शब्दे'। ' प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् ॥ ॥ २८॥
टिप्पणी
TS. 3.1. 11. 4
तदाहुर्य आहिताग्निर्यदि हिरण्यं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽग्नये हिरण्यवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये हिरण्यकेशो रजसो विसार आ ते सुपर्णा अमिनन्तँ एवैरिति आहुतिं वाहवनीये जुहुयादग्नये हिरण्यवते स्वाहेति सा तत्र प्रायश्चित्तिः- AB. 7.9.4;
A(^.2.i3.7;
अनस उपस्तम्भने शङ्कौ वा कृष्णाविर्बद्धा भवति ।अब्जा असीति तां प्रोक्षति । तस्यामश्ववद्विज्ञानमुपैति । उत्करे वर्षाहूस्तम्बं प्रतिष्ठाप्योन्नम्भय पृथिवीमिति वर्षाह्वां जुहोति । अपां पूर्णां स्रुचं जुहोतीत्येके । अथैनमाहवनीयेऽनुप्रहरति ।अथास्य धूममनुमन्त्रयते हिरण्यकेशो रजसो विसार इति। - आप.श्रौ.19.27.10.
आश्व.श्रौ. 2.13.7; VHDh.8.36. C/. BrliD.3.120.
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|