ऋग्वेदः सूक्तं १.८३
← सूक्तं १.८२ | ऋग्वेदः - मण्डल १ सूक्तं १.८३ गोतमो राहूगणः |
सूक्तं १.८४ → |
दे. इन्द्रः। जगती। |
अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।
तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥१॥
आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।
प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥२॥
अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।
असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥३॥
आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।
सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥४॥
यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।
आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥५॥
बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।
ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥६॥
सायणभाष्यम्
‘अश्वावति' इति षड़ृचं दशमं सूक्तं गोतमस्यार्षमैन्द्र जागतम् । तथा चानुक्रान्तम् ‘ अश्वावति जागतम् ' इति । अतिरात्रे तृतीये पर्याये ब्राह्मणाच्छंसिशस्त्रे इदं सूक्तम् । सूत्रितं च--- ‘ अश्वावति प्रोग्रां पीतिं वृष्ण इयर्मि सत्यामिति याज्या ' ( आश्व. श्रौ. ६. ४ ) इति ॥
अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि॑न्द्र॒ मर्त्य॒स्तवो॒तिभिः॑ ।
तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे॑तसः ॥१
अश्व॑ऽवति । प्र॒थ॒मः । गोषु॑ । ग॒च्छ॒ति॒ । सु॒प्र॒ऽअ॒वीः । इ॒न्द्र॒ । मर्त्यः॑ । तव॑ । ऊ॒तिऽभिः॑ ।
तम् । इत् । पृ॒ण॒क्षि॒ । वसु॑ना । भवी॑यसा । सिन्धु॑म् । आपः॑ । यथा॑ । अ॒भितः॑ । विऽचे॑तसः ॥१
अश्वऽवति । प्रथमः । गोषु । गच्छति । सुप्रऽअवीः । इन्द्र । मर्त्यः । तव । ऊतिऽभिः ।
तम् । इत् । पृणक्षि । वसुना । भवीयसा । सिन्धुम् । आपः । यथा । अभितः । विऽचेतसः ॥१
हे "इन्द्र यः "मर्त्यः मनुष्यः “तवोतिभिः त्वदीयैः रक्षणैः "सुप्रावीः सुष्ठु प्ररक्षितो भवति स मर्त्यः "अश्वावति बहुभिरश्वैर्युक्ते गृहे वर्तमानः “गोषु प्राप्तव्येषु “प्रथमः "गच्छति । सर्वेभ्यो यजमानेभ्यः पूर्वमेव गोमान् भवतीत्यर्थः । त्वं "तमित् तमेव पुरुषं “भवीयसा बहुतरेण भवितृतमेन वा शतसहस्रादिसंख्यायुक्तेन "वसुना धनेन "पृणक्षि संपृक्तं संपूर्णं करोषि । तत्र दृष्टान्तः । "विचेतसः विशिष्टज्ञानहेतुभूताः “आपः "यथा "अभितः सर्वासु दिक्षु "सिन्धुं समुदं पूरयन्ति तद्वत् ॥ अश्वावति । ' मन्त्रे सोमाश्च° ' इति मतौ दीर्घत्वम् । सुप्रावीः ।“ अवितॄस्तृतन्त्रिभ्य ईः ' (उ.सू.३.४३८) इति अवतेः ईकारप्रत्ययः । ऊतिभिः । ‘ ऊतियूति' इत्यादिना क्तिनः उदात्तत्वम् । पृणक्षि । ‘पृची संपर्क' । रौधादिकः । भवीयसा । बहुशब्दात् ईयसुनि • बहोर्लोपो भू च बहोः । इति बहुशब्दस्य भूभावः ईयसुनः ईकारलोपश्च । अत्र तु छान्दसत्वात् ईकारलोपो न क्रियते भूभावश्च क्रियते । अथवा भवितृशब्दात् ‘तुश्छन्दसि' इति ईयसुन्। “ तुरिष्ठेमेयःसु' इति तृलोपः ॥
अपोनप्त्रीये होतृचमसेऽद्भिः पूर्यमाणे आपो न देवीः' इत्येषानुवक्तव्या । सूत्रितं च---‘आपो न देवीरुप यन्ति होत्रियमिति समाप्य' ( आश्व. श्रौ. ५. १ ) इति । ब्राह्मणं च भवति- ‘ आपो न देवीरुप यन्ति होत्रियमिति होतृचमसे समवनीयमानास्वन्वाह ' ( ऐ. ब्रा. २. २०) इति ॥
आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रजः॑ ।
प्रा॒चैर्दे॒वास॒ः प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒रा इ॑व ॥२
आपः॑ । न । दे॒वीः । उप॑ । य॒न्ति॒ । हो॒त्रिय॑म् । अ॒वः । प॒श्य॒न्ति॒ । विऽत॑तम् । यथा॑ । रजः॑ ।
प्रा॒चैः । दे॒वासः॑ । प्र । न॒य॒न्ति॒ । दे॒व॒ऽयुम् । ब्र॒ह्म॒ऽप्रिय॑म् । जो॒ष॒य॒न्ते॒ । व॒राःऽइ॑व ॥२
आपः । न । देवीः । उप । यन्ति । होत्रियम् । अवः । पश्यन्ति । विऽततम् । यथा । रजः ।
प्राचैः । देवासः । प्र । नयन्ति । देवऽयुम् । ब्रह्मऽप्रियम् । जोषयन्ते । वराःऽइव ॥२
"होत्रियं होतुः स्वभूतं चमसं "देवीः देव्यो द्योतमानाः “आपो "न यथा आपः "उप "यन्ति उपगच्छन्ति तद्वदुपरि वर्तमाना देवा एतमेव चमसम् "अवः अवस्तात् "पश्यन्ति । होतृचमसे अस्माकं सोमाभिषवाय आपः पूरिता इति तेषां दृष्टिरप्यस्मिन् संलग्नाभूत् । तत्र दृष्टान्तः। "विततं विस्तीर्णं "रजः ज्योतिः सूर्यसंबन्धि "यथा निरन्तरमवस्तात् पतति तद्वत् । "देवयुं देवान् कामयमानमेतं चमसं “प्राचैः प्राचीनं यद्वा प्राञ्चनैः प्रगमनैः उत्तरवेद्यभिमुखं होमकाले "प्र “णयन्ति । होमार्थे प्रणीतं “ब्रह्मप्रियं ब्रह्मणा सोमलक्षणेनान्नेन प्रीतं संतृप्तं पूरितमित्यर्थः। "जोषयन्ते सर्वे देवास्तं चमसं सेवन्ते । "वराइव कन्यकाम् । यथा वरा ममेयं भविष्यति ममेयं भविष्यतीति कन्यकां सेवन्ते एवं देवा अपि ममायं सोमो ममायं सोम इत्यस्य पार्श्वे वर्तन्ते इत्यर्थः । एवम् अपोनप्त्रीयविनियोगानुसारेण योजितं मन्त्रस्यानुष्ठेयार्थप्रकाशकत्वात् । यदा तु रात्रिपर्यायेऽस्या विनियोगः तदा त्वेवं व्याख्येयम् । हे इन्द्र देव्य आपो यथा निम्नदेशमुपगच्छन्ति एवं देवास्त्वदीयं स्तोत्रं शुश्रूषमाणाः होत्रियं होतृसंबन्धि धिष्ण्यस्थानमुपगच्छन्ति । उपगत्य च अवस्तात् पश्यन्ति विततं ज्योतिरिव । देवयुं देवानात्मन इच्छन्तमेतं शंसितारमागताः सर्वे देवाः प्राचीनं प्र णयन्ति अग्रतो धारयन्ति । ब्रह्मप्रियं स्तोत्रप्रियं त्वां शंसन्तं वराः कन्यका इव सेवन्ते ।। होत्रियम् । होतृशब्दात् तस्येदमर्थे घप्रत्ययः । अवः । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' इति असिप्रत्ययान्तोऽन्तोदात्तः । प्राचैः । उच्चैर्नीचैरितिवदव्ययम् । यद्वा प्रपूर्वात् अञ्चतेः 'घञर्थे कविधानं । स्थास्नापाव्यधिहनियुध्यर्थम् ' इति परिगणनस्योपलक्षणार्थत्वात् भावे कप्रत्ययः ।“ अनिदिताम् ' इति नलोपः । जोषयन्ते । जुषी प्रीतिसेवनयोः । स्वात्मनः प्रयोज्यत्वात् हेतुमति णिच् ॥
प्रवर्ग्याभिष्टवे' अधि द्वयोः' इत्येषा । ' स्पृष्ट्वोदकम्' इति खण्डे सूत्रितम् - ' अधि द्वयोरदधा उक्थ्यं वचः शुक्रं ते अन्यद्यजतं ते अन्यत् ' ( आश्व. श्रौ. ४. ६ ) इति ॥ हविर्धानप्रवर्तनेऽप्येषा । सूत्रितं च- ‘ यमे इव यतमाने यदैतमधि द्वयोरदधा उक्थ्यं वच इत्यर्धर्च आरमेत् ( आश्व. श्रौ. ४. ९) इति ।
अधि॒ द्वयो॑रदधा उ॒क्थ्यं१॒॑ वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑ ।
असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥३
अधि॑ । द्वयोः॑ । अ॒द॒धाः॒ । उ॒क्थ्य॑म् । वचः॑ । य॒तऽस्रु॑चा । मि॒थु॒ना । या । स॒प॒र्यतः॑ ।
अस॑म्ऽयत्तः । व्र॒ते । ते॒ । क्षे॒ति॒ । पुष्य॑ति । भ॒द्रा । श॒क्तिः । यज॑मानाय । सु॒न्व॒ते ॥३
अधि । द्वयोः । अदधाः । उक्थ्यम् । वचः । यतऽस्रुचा । मिथुना । या । सपर्यतः ।
असम्ऽयत्तः । व्रते । ते । क्षेति । पुष्यति । भद्रा । शक्तिः । यजमानाय । सुन्वते ॥३
हे इन्द्र "द्वयोः हविर्धानयोः “उक्थ्यम् । उक्थं शस्त्रम् । तद्योग्यं "वचः ‘युजे वाम्' इत्यादिमन्त्ररूपं वचनम् "अधि "अदधाः निहितवानसि । ननु हविर्धानयोर्द्वयोः कथमेकमेव वचोऽधिनिधीयते इत्याशङ्क्य ब्राह्मणेनैवं व्याख्यातम् - ‘अधि द्वयोरदधा उक्थ्यं वच इति द्वयोर्ह्येतत्तृतीयं छदिरधिनिधीयत उक्थ्यं वच इति यदाह यज्ञियं वै कर्मोक्थ्यं वचो यज्ञमेवैतेन समर्धयति' (ऐ. ब्रा. १. २९) इति । तत्र यथा हविर्धानद्वये एकमेव तृतीयं छदिरधिनिधीयते एवं स्तोत्रमप्युभयोरेकं युक्तम् । उक्थं नाम यज्ञसंबन्धि शस्त्रं तद्योग्यं वचनमपि यज्ञियं कर्म । तस्य यज्ञरूपयोर्हविर्धानयोर्यज्ञत्वसंपादनाय अधिनिधानात् यज्ञोऽपि समृद्धो भवति । कीदृशयोर्हविर्धानयोः । "यतस्रुचा । यताः संबद्धाः स्रुचो ग्रहचमसादिलक्षणानि पात्राणि ययोस्ते । "मिथुना युगलरूपेण वर्तमाने "या ये हविर्धाने त्वां "सपर्यतः पूजयतस्तयोरित्यर्थः । किंच ईदृग्रूपहविर्धानयुक्तो यजमानः "असंयत्तः शत्रुभिः सह युद्धार्थमनभिगतः सन् "ते "व्रते त्वदीये कर्मणि "क्षेति निवसति “पुष्यति च । प्रजया पशुभिश्च पुष्टो भवति च । "सुन्वते त्वद्देवत्ये यागे सोमाभिषवं कुर्वतो यजमानस्य "भद्रा कल्याणी “शक्तिः उत्कृष्टं बलं भवति। एतत्सर्वं हविर्धानयोक्थ्यस्य वचसोऽधिनिधानेन त्वया कृतमित्यर्थः ॥ यतस्रुचा । ‘ यम उपरमे'। निष्ठायाम् ' अनुदात्तोपदेश ' इत्यादिना अनुनासिकलोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इदमादिषु त्रिषु पदेषु ‘सुपां सुलुक् ' इति विभक्तेः आकारः । सपर्यतः । ‘सपर पूजायाम्'। 'कण्ड्वादिभ्यो यक्' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे तस्यैव स्वरः शिष्यते । क्षेति । ‘क्षि निवासगत्योः'। बहुलं छन्दसि ' इति विकरणस्य लुक् । सुन्वते । “षष्ठ्यर्थे चतुर्थी वक्तव्या' इति चतुर्थी । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥
आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑य॒ः शम्या॒ ये सु॑कृ॒त्यया॑ ।
सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नरः॑ ॥४
आत् । अङ्गि॑राः । प्र॒थ॒मम् । द॒धि॒रे॒ । वयः॑ । इ॒द्धऽअ॑ग्नयः । शम्या॑ । ये । सु॒ऽकृ॒त्यया॑ ।
सर्व॑म् । प॒णेः । सम् । अ॒वि॒न्द॒न्त॒ । भोज॑नम् । अश्व॑ऽवन्तम् । गोऽम॑न्तम् । आ । प॒शुम् । नरः॑ ॥४
आत् । अङ्गिराः । प्रथमम् । दधिरे । वयः । इद्धऽअग्नयः । शम्या । ये । सुऽकृत्यया ।
सर्वम् । पणेः । सम् । अविन्दन्त । भोजनम् । अश्वऽवन्तम् । गोऽमन्तम् । आ । पशुम् । नरः ॥४
यदा पणिभिर्गावोऽपहृतास्तदानीम् "अङ्गिराः अङ्गिरसः "प्रथमं पूर्वमग्रतः “वयः हविर्लक्षणमन्नं “दधिरे इन्द्रार्थं संपादितवन्तः । "आत् अनन्तरं तादृशाः "ये अङ्गिरसः "इद्धाग्नयः प्रज्वलिताग्नियुक्ताः सन्तः "सुकृत्यया शोभनकरणोपेतया “शम्या कर्मणा शोभनेन यागेनेन्द्रमयजन्निति शेषः । ते "नरः यज्ञस्य नेतारोऽङ्गिरसः "पणेः एतन्नाम्नोऽसुरस्य संबन्धि “सर्वं “भोजनं धनं "समविन्दन्त समलभन्त । कीदृशम् । "अश्वावन्तं अश्वैर्युक्तं "गोमन्तं गोभिर्युक्तम् । आकारः समुच्चये । गवाश्वव्यतिरिक्तमन्यत्पशुजातं च समविन्दन्त । अङ्गिराः । ‘ सुपां सुलुक्° ' इति जसः सुः । शम्या । शमी इति कर्मनाम । शाम्यत्यनया क्रियया दोषजातमिति शमी । करणे घञ् । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः ' ( पा. सू. ७. ३. ३४ ) इति वृद्धिप्रतिषेधः । गौरादित्वात् ङीष् । व्यत्ययेनाद्युदात्तत्वम् । सुकृत्यया । शोभनं कृत्यं करणं यस्यां सा तथोक्ता । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥
य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ तत॒ः सूर्यो॑ व्रत॒पा वे॒न आज॑नि ।
आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ॥५
य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । प॒थः । त॒ते॒ । ततः॑ । सूर्यः॑ । व्र॒त॒ऽपाः । वे॒नः । आ । अ॒ज॒नि॒ ।
आ । गाः । आ॒ज॒त् । उ॒शना॑ । का॒व्यः । सचा॑ । य॒मस्य॑ । जा॒तम् । अ॒मृत॑म् । य॒जा॒म॒हे॒ ॥५
यज्ञैः । अथर्वा । प्रथमः । पथः । तते । ततः । सूर्यः । व्रतऽपाः । वेनः । आ । अजनि ।
आ । गाः । आजत् । उशना । काव्यः । सचा । यमस्य । जातम् । अमृतम् । यजामहे ॥५
पणिभिरपहृतासु गोषु "अथर्वा एतत्संज्ञः ऋषिः "यज्ञेः इन्द्रदेवत्यैरनुष्ठितैर्यागैः “पथः गोसंबन्धिनो मार्गान् "प्रथमः “तते तनुते । सर्वेभ्य ऋषिभ्यः पूर्वमेव कृतवानित्यर्थः । "ततः तदनन्तरं “व्रतपाः व्रतानां कर्मणां पालयिता "वेनः कान्तः "सूर्यः सूर्यरूप इन्द्रः "आ "अजनि गवां प्रदर्शनाय आविरभूत् । ततोऽथर्वा ताः "गाः “आ “आजत् आभिमुख्येन प्राप्नोत् । तादृशस्येन्द्रस्य "काव्यः कवेः पुत्रः "उशना भृगुः "सचा असुरनिरसनाय सहायोऽभूत् । "यमस्य असुराणां नियमनार्थं "जातं प्रादुर्भूतम् "अमृतं मरणरहितं तमिन्द्रं "यजामहे हविर्भिः पूजयामः ॥ पथः । शसि ‘भस्य टेर्लोपः इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । तते । तनु विस्तारे'। बहुलं छन्दसि इति विकरणस्य लुक् । अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । अजनि। ‘ जनी प्रादुर्भावे ' । ‘ दीपजनबुध' (पा. सू. ३. १. ६१ ) इत्यादिना कर्तरि लुङि च्लेः चिण् । आजत् । ‘अज गतिक्षेपणयोः ।।
ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि ।
ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॒॑स्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥६
ब॒र्हिः । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वृ॒ज्यते॑ । अ॒र्कः । वा॒ । श्लोक॑म् । आ॒ऽघोष॑ते । दि॒वि ।
ग्रावा॑ । यत्र॑ । वद॑ति । का॒रुः । उ॒क्थ्यः॑ । तस्य॑ । इत् । इन्द्रः॑ । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥६
बर्हिः । वा । यत् । सुऽअपत्याय । वृज्यते । अर्कः । वा । श्लोकम् । आऽघोषते । दिवि ।
ग्रावा । यत्र । वदति । कारुः । उक्थ्यः । तस्य । इत् । इन्द्रः । अभिऽपित्वेषु । रण्यति ॥६
“स्वपत्याय शोभनापतनहेतुभूताय कर्मणे "बर्हिर्वा "यत् यदा “वृज्यते छिद्यते अध्वर्युणा यागार्थमाह्रियते "अर्को “वा स्तोत्रनिष्पादको होता वा “श्लोकं स्तुतिरूपां वाचं "दिवि द्योतमाने यज्ञे यदा "आघोषते उच्चारयति । "यत्र यस्मिन् काले “ग्रावा अभिषवार्थं प्रवृत्तः उपलः "वदति शब्दं करोति । तत्र दृष्टान्तः । "कारुरुक्थ्यः। लुप्तोपममेतत् । उक्थ्यस्य शस्त्रस्य शंसिता कारुः स्तोता यथाभिमतशब्दं करोति तद्वत् । "तस्य पूर्वोक्तस्य सर्वस्य "अभिपित्वेषु अभिप्राप्तिषु "इन्द्रः ”रण्यति रमते । यद्वा । पूर्वोक्तानां बर्हिरादीनामभिप्राप्तिषु सतीष्विन्द्रो रण्यति अस्मदीयो यागो भविष्यतीति हर्षशब्दं करोति ॥ वृज्यते । ‘ वृजी वर्जने' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । निपातैर्यद्यदिहन्त ' इति निघातप्रतिषेधः । आघोषते । घुषिर् विशब्दने '। भौवादिकः । अत्रापि यत्' इत्यस्य निपातस्यानुषङ्गात् निघाताभावः । रण्यति । रमु क्रीडायाम्। व्यत्ययेन श्यन् परस्मैपदं च । अन्त्यविकारश्छान्दसः । यद्वा रण शब्दार्थः । व्यत्ययेन श्यन् ॥ ॥ ४ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|