प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.९०

(ऋग्वेद: सूक्तं १.९० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.८९ ऋग्वेदः - मण्डल १
सूक्तं १.९०
गोतमो राहूगणः
सूक्तं १.९१ →
दे. विश्वेदेवाः। गायत्री्, ९ अनुष्टुप् ।


ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ।
अर्यमा देवैः सजोषाः ॥१॥
ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः ।
व्रता रक्षन्ते विश्वाहा ॥२॥
ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः ।
बाधमाना अप द्विषः ॥३॥
वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः ।
पूषा भगो वन्द्यासः ॥४॥
उत नो धियो गोअग्राः पूषन्विष्णवेवयावः ।
कर्ता नः स्वस्तिमतः ॥५॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥६॥
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
मधु द्यौरस्तु नः पिता ॥७॥
मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः ।
माध्वीर्गावो भवन्तु नः ॥८॥
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥९॥


सायणभाष्यम्

‘ ऋजुनीती ' इति नवर्चं षष्ठं सूक्तं गोतमस्यार्षम् । अत्रानुक्रम्यते-- ऋजुनीती नव गायत्रमन्त्यानुष्टुप् ' इति । पूर्वत्र ‘ वैश्वदेवं तु ' इत्युक्तत्वात् तुह्यादिपरिभाषया इदमपि सूक्तं बहुदेवताकम् । सूक्तविनियोगो लैङ्गिकः । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणस्य ऋजुनीती नः' इत्येषा आरम्भणीया । ‘ चतुर्विंशे ' इति खण्डे सूत्रितम् - ऋजुनीती नो वरुण इन्द्रं वो विश्वतस्परि' (आश्व. श्रौ. ७. २ ) इति । अहर्गणेषु द्वितीयादिष्वहःस्वप्येषारम्भणीया शंसनीया । सूत्रितं च - आरम्भणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव ' ( आश्व. श्रौ. ७. १ ) इति ।।


ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् ।

अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥१

ऋ॒जु॒ऽनी॒ती । नः॒ । वरु॑णः । मि॒त्रः । न॒य॒तु॒ । वि॒द्वान् ।

अ॒र्य॒मा । दे॒वैः । स॒ऽजोषाः॑ ॥१

ऋजुऽनीती । नः । वरुणः । मित्रः । नयतु । विद्वान् ।

अर्यमा । देवैः । सऽजोषाः ॥१

अहरभिमानी देवः “मित्रः, “वरूणः रात्र्यभिमानी। मित्रश्च वरुणश्च “विद्वान् नेतव्यमुत्तमं स्थानं जानन् “नः अस्मान् “ऋजुनीती ऋजुनीत्या ऋजुनयनेन कौटिल्यरहितेन गमनेन “नयतु अभिमतं फलं प्रापयतु । तथा “देवैः अन्यैरिन्द्रादिभिः “सजोषाः समानप्रीतिः “अर्यमा अहोरात्रविभागस्य कर्ता सूर्यश्चास्मानृजुगमनेनाभिमतं स्थानं प्रापयतु ॥ ऋजुनीती । ‘ सुपां सुलुक्°' इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् ।


ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः ।

व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥२

ते । हि । वस्वः॑ । वस॑वानाः । ते । अप्र॑ऽमूराः । महः॑ऽभिः ।

व्र॒ता । र॒क्ष॒न्ते॒ । वि॒श्वाहा॑ ॥२

ते । हि । वस्वः । वसवानाः । ते । अप्रऽमूराः । महःऽभिः ।

व्रता । रक्षन्ते । विश्वाहा ॥२

“ते “हि पूर्वोक्ता मित्रादयः “वस्वः वसुनो धनस्य “वसवानाः वासका आच्छादयितारः सर्वं जगद्धनेनाच्छादयन्तीत्यर्थः । अतः “ते मित्रादयः “अप्रमूराः अप्रमूर्च्छिता अमूढाः प्राज्ञाः सन्तः “महोभिः आत्मीयैस्तेजोभिः “विश्वाहा सर्वाण्यहानि । अत्यन्तसंयोगे द्वितीया । सर्वेष्वप्यहःसु “व्रता व्रतानि जगन्निर्वाहरूपाणि स्वकीयानि कर्माणि “रक्षन्ते पालयन्ति ॥ वस्वः । आगमानुशासनस्य अनित्यत्वात् नुमभावे ‘ जसादिषु च्छन्दसि वावचनम् ' इति : घेर्ङिति' इति गुणस्य विकल्पनादभावे यणादेशः । वसवानाः । ‘ वस आच्छादने । अस्मात् अन्तर्भावितण्यर्थात् लटः शानच् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । वर्णव्यापत्त्या मकारस्य वकारः । अप्रमूराः । ‘ मुर्छा मोहसमुच्छ्राययोः ' । अस्मात् संपदादिलक्षणो भावे क्विप् । राल्लोपः' इति छकारलोपः । प्रकृष्टा मूः प्रमूः । ततो मत्वर्थीयो रः । ‘ रो रि ' ( पा. सू. ८. ३. १४ ) इति रेफलोपः। न प्रमूरा अप्रमूराः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रक्षन्ते । ‘ रक्ष पालने । व्यत्ययेन तङ् ॥


ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः ।

बाध॑माना॒ अप॒ द्विषः॑ ॥३

ते । अ॒स्मभ्य॑म् । शर्म॑ । यं॒स॒न् । अ॒मृताः॑ । मर्त्ये॑भ्यः ।

बाध॑मानाः । अप॑ । द्विषः॑ ॥३

ते । अस्मभ्यम् । शर्म । यंसन् । अमृताः । मर्त्येभ्यः ।

बाधमानाः । अप । द्विषः ॥३

“अमृताः अमरणधर्माणः “ते विश्वे देवाः “मर्त्येभ्यः मरणधर्मभ्यः “अस्मभ्यम् अनुष्ठातृभ्यः “शर्म अमृतलक्षणं सुखं "यंसन् यच्छन्तु प्रयच्छन्तु । किं कुर्वन्तः । “द्विषः अस्मदीयान् पापलक्षणान् शत्रून् “अप “बाधमानाः विनाशं प्रापयन्तः ॥ यंसन् । यम उपरमे '। लेटि अडागमः । सिब्बहुलं लेटि' इति सिप् । अमृताः । मृतं मरणं येषां नास्तीति अमृताः । ‘ नञो जरमरमित्रमृताः । इत्युत्तरपदाद्युदात्तत्वम् ॥


वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑ ।

पू॒षा भगो॒ वन्द्या॑सः ॥४

वि । नः॒ । प॒थः । सु॒वि॒ताय॑ । चि॒यन्तु॑ । इन्द्रः॑ । म॒रुतः॑ ।

पू॒षा । भगः॑ । वन्द्या॑सः ॥४

वि । नः । पथः । सुविताय । चियन्तु । इन्द्रः । मरुतः ।

पूषा । भगः । वन्द्यासः ॥४

“वन्द्यासः सर्वैर्वन्दनीयाः स्तोतव्या नमस्कर्तव्या वा इन्द्रादयो देवाः “नः अस्माकं “पथः मार्गान् “वि “चियन्तु विचिन्वन्तु अशोभनेभ्यो मार्गेभ्यः सकाशात् पृथक्कुर्वन्तु । किमर्थम् । "सुविताय सुष्ठु प्राप्तव्याय स्वर्गादिफलाय ॥ पथः । शसि भस्य टेर्लोपः' इति टिलोपः । उदात्तनिवृत्तिस्वरेण शस उदात्तत्वम् । सुविताय । इण् गतौ ' इत्यस्मात् कर्मणि निष्ठा ।' तन्वादीनां छन्दसि बहुलमुपसंख्यानम् ' इति उवङ्। ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते सूपमानात् कः' इति उत्तरपदान्तोदात्तत्वम् । चियन्तु । चिञ् चयने । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । इयङ् । पादादित्वात् निघाताभावः । वन्द्यासः । ‘ वदि अभिवादनस्तुत्योः'। ऋहलोर्ण्यत् । ‘ ईडवन्दवृशंसदुहां ण्यतः' इति आद्युदात्तत्वम् । आज्जसेरसुक् ।।


अप्तोर्यामे सन्ति चत्वार्यतिरिक्तोक्थानि । तत्र चतुर्थे अच्छावाकातिरिक्तोक्थे । उत नो धियः । इत्येषा अनुरूपतृचस्य वैकल्पिकी तृतीया । सूत्रितं च - उत नो धियो गोअग्रा इति वानुरूपस्योत्तमा ( आश्व. श्रौ. ९. ११ ) इति ।

उ॒त नो॒ धियो॒ गोअ॑ग्रा॒ः पूष॒न्विष्ण॒वेव॑यावः ।

कर्ता॑ नः स्वस्ति॒मतः॑ ॥५

उ॒त । नः॒ । धियः॑ । गोऽअ॑ग्राः । पूष॑न् । विष्णो॒ इति॑ । एव॑ऽयावः ।

कर्त॑ । नः॒ । स्व॒स्ति॒ऽमतः॑ ॥५

उत । नः । धियः । गोऽअग्राः । पूषन् । विष्णो इति । एवऽयावः ।

कर्त । नः । स्वस्तिऽमतः ॥५

हे “पूषन् पोषक देव हे “विष्णो व्यापनशील देव हे “एवयावः । एवैर्गन्तृभिरश्वैर्याति गच्छतीति एवयावा मरुद्गणः । हे मरुद्गण ते सर्वे यूयं “नः अस्माकं “धियः अप्तोर्यामलक्षणानि कर्माणि “गोअग्राः पश्वग्राणि पशुप्रमुखान्यस्मत्सकाशात् भ्रष्टैः पशुभिर्युक्तानि “कर्त कुरुत । अप्तोर्यामकर्मणश्च पशुप्राप्तिहेतुत्वमाम्नायते - ‘ यस्मात्पशवः प्रप्रेव भ्रंशेरन स एतेन यजेत ' ( तै. ब्रा. २. ७. १४. २ ) इति । "उत अपि च “नः अस्मान् “स्वस्तिमतः अविनाशिनः कुरुत ॥ एवयावः । ‘ इण् गतौ । ‘ इण्शीङ्भ्यां वन्' इति वन्प्रत्ययः । अस्मिन्नुपपदे ' या प्रापणे ' इत्यस्मात् ‘ आतो मनिन् ' इति वनिप् । संबुद्धौ ‘ वन उपसंख्यानम् ' ( पा. सू. ८. ३. १. १ ) इति नकारस्य रुत्वम् ॥ ॥ १७ ॥


ऋत्विगाद्यर्थमाहृतं मधुपर्कं • मधु वाताः' इति तृचेन ऋत्विगादिः प्रतिग्रहीतावेक्षेत । तथा च सूत्र्यते- ‘ मधु वाता ऋतायत इति तृचेनावेक्ष्य' ( आश्व. गृ. १. २४. १४ ) इति ।।

मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।

माध्वी॑र्नः स॒न्त्वोष॑धीः ॥६

मधु॑ । वाताः॑ । ऋ॒त॒ऽय॒ते । मधु॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः ।

माध्वीः॑ । नः॒ । स॒न्तु॒ । ओष॑धीः ॥६

मधु । वाताः । ऋतऽयते । मधु । क्षरन्ति । सिन्धवः ।

माध्वीः । नः । सन्तु । ओषधीः ॥६

“ऋतायते ऋतं यज्ञमात्मन इच्छते यजमानाय "वाताः वायवः “मधु माधुर्योपेतं कर्मफलं “क्षरन्ति वर्षन्ति प्रयच्छन्तीत्यर्थः । तथा “सिन्धवः स्यन्दनशीला नद्यः समुद्रा वा “मधु माधुर्योपेतं स्वकीयं रसं क्षरन्ति । एवं “नः अस्मभ्यम् “ओषधीः फलपाकान्ता ओषधयस्ताश्च “माध्वीः माधुर्योपेताः “सन्तु भवन्तु ॥ मधु । अस्मादुत्तरस्य मत्वर्थीयस्य : लुगकारेकाररेफाश्च वक्तव्याः । ( पा. सू. ४, ४. १२८. २ ) इति लुक् । ऋतायते । ऋतमात्मन इच्छति । 'सुप आत्मनः क्यच् । न च्छन्दस्यपुत्रस्य' इति ईत्वदीर्घयोर्निषेधः । अन्येषामपि संहितायां दीर्घत्वम् । क्यजन्तात् लटः शतृ । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । माध्वीः । मधोरञ् च ‘ ( पा. सू. ४. ४. १२९) इति मत्वर्थीयः अञ्प्रत्ययः । ‘ ऋत्व्यवास्त्व्य ' इत्यादौ अञि यणादेशो निपात्यते । ‘ वा छन्दसि । इति पूर्वसवर्णदीर्घत्वम् । ओषधीः । ओषः पाकः आसु धीयते इति ओषधयः । ‘ कर्मण्यधिकरणे च " इति किप्रत्ययः । ‘ कृदिकारादक्तिनः' इति ङीष् । जसि पूर्ववत् पूर्वसवर्णदीर्घः । दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञन्तमाद्युदात्तम् ।।


मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ ।

मधु॒ द्यौर॑स्तु नः पि॒ता ॥७

मधु॑ । नक्त॑म् । उ॒त । उ॒षसः॑ । मधु॑ऽमत् । पार्थि॑वम् । रजः॑ ।

मधु॑ । द्यौः । अ॒स्तु॒ । नः॒ । पि॒ता ॥७

मधु । नक्तम् । उत । उषसः । मधुऽमत् । पार्थिवम् । रजः ।

मधु । द्यौः । अस्तु । नः । पिता ॥७

“नक्तं रात्रिः “नः अस्माकं “मधु मधुमती माधुर्योपेतफलप्रदा भवतु। "उत अपि च “उषसः उषःकालोपलक्षितान्यहानि च मधुमन्ति भवन्तु । “पार्थिवं रजः पृथिव्याः संबन्धी लोकोऽस्माकं “मधुमत् माधुर्यविशिष्टफलयुक्तो भवतु । "पिता वृष्टिप्रदानेन सर्वेषां पालयिता “द्यौः द्युलोकोऽपि “मधु मधुयुक्तः भवतु ॥ पार्थिवम् । ‘ पृथिव्या ञाञौ ' (पा. सू. ४. १. ८५. २ ) इति प्राग्दीव्यतीयः अञ्प्रत्ययः । रजः । रजःशब्दो लोकवाची । “लोका रजांस्युच्यन्ते ' (निरु. ४. १९) इति यास्कः । रजन्त्यस्मिन् जना इति रजः । असुनि रजकरजनरजःसूपसंख्यानम् ' ( का. ६. ४. २४. ४ ) इति रञ्जेर्नलोपः ॥


मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ ।

माध्वी॒र्गावो॑ भवन्तु नः ॥८

मधु॑ऽमान् । नः॒ । वन॒स्पतिः॑ । मधु॑ऽमान् । अ॒स्तु॒ । सूर्यः॑ ।

माध्वीः॑ । गावः॑ । भ॒व॒न्तु॒ । नः॒ ॥८

मधुऽमान् । नः । वनस्पतिः । मधुऽमान् । अस्तु । सूर्यः ।

माध्वीः । गावः । भवन्तु । नः ॥८

“नः अस्माकं “वनस्पतिः वनानां पालयिता यूपाभिमानी देवः “मधुमान् माधुर्योपेतफलवान् “अस्तु । तादृशं फलमस्मभ्यं प्रयच्छत्वित्यर्थः। “सूर्यः सर्वस्य प्रेरकः सविता च "मधुमान् अस्तु । “गावः अग्निहोत्राद्यर्था धेनवश्च “नः अस्माकं “माध्वीः माधुर्योपेतेन पयसा युक्ताः “भवन्तु ॥ वनस्पतिः । वनानां पतिर्वनस्पतिः । पारस्करादित्वात् सुट् । वनपतिशब्दावाद्युदात्तौ ।' उभे वनस्पत्यादिषु युगपत् ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥


शं नो॑ मि॒त्रः शं वरु॑ण॒ः शं नो॑ भवत्वर्य॒मा ।

शं न॒ इन्द्रो॒ बृह॒स्पति॒ः शं नो॒ विष्णु॑रुरुक्र॒मः ॥९

शम् । नः॒ । मि॒त्रः । शम् । वरु॑णः । शम् । नः॒ । भ॒व॒तु॒ । अ॒र्य॒मा ।

शम् । नः॒ । इन्द्रः॑ । बृह॒स्पतिः॑ । शम् । नः॒ । विष्णुः॑ । उ॒रु॒ऽक्र॒मः ॥९

शम् । नः । मित्रः । शम् । वरुणः । शम् । नः । भवतु । अर्यमा ।

शम् । नः । इन्द्रः । बृहस्पतिः । शम् । नः । विष्णुः । उरुऽक्रमः ॥९

अहरभिमानी “मित्रः देवः “नः अस्माकं “शं सुखकरो भवतु । यद्वा । अस्मदीयानामुपद्रवाणां शमयिता भवतु । राज्यभिमानी “वरुणः च “शं सुखकरः “भवतु । “अर्यमा अहोरात्रयोः ख्यापयिता सूर्यश्च “नः अस्माकं "शं सुखकरो भवतु । “बृहस्पतिः बृहतां देवानां पालयिता “इन्द्रः च “नः अस्माकं “शं सुखकरो भवतु । "उरुक्रमः । उरु विस्तीर्णं क्रामति पादौ विक्षिपतीति उरुक्रमः । विष्णुर्हि वामनावतारे पृथिव्यादीन् लोकान् पदत्रयरूपेणाक्रान्तवान् । अतः उरुक्रमः "विष्णुः च “नः अस्माकं “शं सुखकरः उपद्रवाणां शमयिता वा भवतु ॥ उरुक्रमः । ‘ क्रमु पादविक्षेपे । पचाद्यच् । यद्वा । उरून् क्रामतीति उरुक्रमः । कर्मणि अण् । ‘नोदात्तोपदेशस्य मान्तस्य' इति वृद्धिप्रतिषेधः ॥ ॥१८॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९०&oldid=205072" इत्यस्माद् पुनः प्राप्तिः