प्रमुखा विकल्पसूचिः उद्घाट्यताम्
चर्यापादः
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
चर्यापादस्य अध्यायाः

श्रीरस्तु
श्रीपाञ्चरात्रे महोपनिषदि
पाद्मसंहितायां
चतुर्थः चर्यापादः
प्रथमोध्यायः

|| ब्रह्मणा भगवदाराधन विधानप्रश्नः ||
ब्रह्मा:---
कर्षणादि प्रतिष्ठान्तं कर्म यस्य (1) प्रसिद्धये ।
तं समाराधनविधिं श्रोतुमिच्छामि साम्प्रतम् ।। 1.1 ।।
(1.प्रसिध्यते.)
आराधनविधिः कीदृगधिकारी च कीदृशः ।
भगवंस्तदशेषेण ब्रूहि मे भक्तवत्सल ।। 1.2 ।।
|| भगवता स्वाराधनाधिकारि निरूपणम्.||
श्रीभगवान् :---
श्रूयतामभिधास्वामि पृष्टं निरवशेषतः ।
चतुर्णां ब्राह्मणादीनां वर्णानां (2) कमलासन ।। 1.3 ।।
(2.दीक्षया क्रमात्.)
अधिकारोऽनुलोमानामपि नान्यस्य कस्य चित् ।
पूजाविधौ भगवतः परस्य परमात्मनः ।। 1.4 ।।
प्रतिलोमभुवां सूतः प्रथमस्तत्र शस्यते ।
|| एकायनशाखाध्यायिनां मुख्योऽधिकारः ||
आद्यमेकायनं वेदं सद्ब्रह्म प्रतिपादकम् ।। 1.5 ।।
तेनैव संस्कृता विप्रा मुख्य कल्पाधिकारिणः ।
|| अन्येषां ब्राह्मणादीनां दीक्षयानुकल्पाधिकारः ||
अन्येषां ब्रह्माणादीनां वर्णानां दीक्षया क्रमात् ।। 1.6 ।।
त्रयाणां क्षत्रियादीना मनुलोमभुवामपि ।
|| सूतस्य स्वार्थमात्र यजनेऽधिकारः ||
सूतस्य च विशेषेण दीक्षा चात्मपराऽनिशम् ।। 1.7 ।।
|| विप्राणां मुख्यानुकल्पयोरपि परार्थयजनेऽधिकारः ||
परार्थयजनं कुर्युर्वप्रा मुख्यानुकल्पयोः ।
|| दीक्षा हीनाना मनधिकारः ||
नैवाधिकारिणस्तेच (3) दीक्षा संस्कारवर्जिताः ।। 1.8 ।।
(3.नैवाधिकारिणो गौणा)
|| दीक्षया अधिकारलाभः ||
यथैव दीक्षणीयेष्ट्या जायन्ते ब्राह्मणादयः ।
तथैव दीक्षाविधिना जायामाना यथोदिताः ।। 1.9 ।।
पूजाविदौ भगवतः प्रकल्पन्तेऽधिकारिणः ।
ब्रह्मो:---
|| ब्राह्मणादीनां जन्मकर्मणोर्निरूपणप्रश्नः ||
भगवन् ब्राह्मणादीनां जन्म कर्म च भावुकम् ।। 1.10 ।।
विहितं च विवाहं च यच्च यावच्च यादृश्यम् ।
मह्यं जिज्ञासमानाय भक्ताय परमेश्वर ।। 1.11 ।।
तदशेषं यथातत्वमुपदेष्टुं त्वमर्हसि ।
|| भगवता तन्नि रूपणम्.||
श्रीभगवान् :---
सत्वं कजस्तमश्चेति स्त्रेगुण्यं कमलासन ।। 1.12 ।।
तन्मयीं तनुमास्थाय ससर्जाहं पुरा प्रजाः ।
|| सत्वप्रथानू विप्रसर्गः ||
सत्वेऽधिके मुखे विप्रानसृजं विथुनात्मकान् ।। 1.13 ।।
|| रजः प्रधानः क्षत्रियसर्गः ||
रजोगुणेऽतिशयिते बाहुभ्यां क्षत्रियां स्तथा ।
|| गुणसाम्ये वैश्यसर्गः ||
ऊरुभ्यां गुणसाम्येतु असृजं मिथुनं विशाम् ।। 1.14 ।।
|| तमः प्राचुर्ये शूद्रसर्गः ||
आधिक्ये तमसः पर्द्भ्यां शूत्रान् मिथुनरूपिणः ।
|| वर्णेषु पूर्वपूर्वश्श्रेयान् ||
एतेच वर्णाश्श्रेयांसः पूर्वेपूर्वे यथोदिताः ।। 1.15 ।।
|| श्रेयस्त्वे जन्मकर्मणोर्हेतुभावः ||
हेतुभ्यां जन्मकर्मभ्यां श्त्रेष्ठ्यमेषु प्रकल्पते ।
|| द्विजानामाश्रय चतुष्टयम्. ||
त्रयस्तेषु द्विजाः पूर्वे मौञ्जबन्धनकर्मणा ।। 1.16 ।।
चत्वारश्चाश्रमा ब्रह्हन् सर्वएव द्विजन्मनाम् ।
|| प्रथमः ब्रह्मचर्याश्रमः ||
उपनीय गुरोः पार्श्वे व्रतानुष्ठान पूर्वकम् ।। 1.17 ।।
वेदाध्ययनमादौयत्स श्रेयान् प्रथमाश्रमः ।
|| द्वितीयः गृहस्थाश्रमः ||
भार्यासङ्ग्रहणं स्नात्वा प्रजायै तदन न्तरम् ।। 1.18 ।।
तया च धर्मचरणं द्वीतीयश्चाश्रमस्मृतः ।
|| तृतीयः वानप्रस्थाश्रमः ||
गत्वा सभार्योविपिनं यथोक्तेनैव वर्त्मना ।। 1.19 ।।
वने वन्य फलहारो विहितेन्द्रिय निग्रहः ।
वसेत्तृतीयो विज्ञेयश्चाश्रमः कमलासन ।। 1.20 ।।
|| तुरीयस्सन्न्यासाश्रमः ||
पुत्रे दारान्विनिक्षिप्य शिखी मुण्डी त्रिवण्डवान् ।
यद्वैकदण्डनियतो ब्रह्मध्यानपरायणः ।। 1.21 ।।
निवृत्तसर्वकामस्तु वसेत्तुर्याश्रमे द्विजः ।
|| क्षत्रियस्य पूर्वेत्रय आश्रमाः ||
क्षत्रियस्याश्रमाः पूर्वे सन्न्यासाश्रमवर्जिताः ।। 1.22 ।।
|| विशः आद्यैद्वा ||
विहिता विश एकस्य द्वावन्यैनतु पश्चिमौ ।
|| शूद्रस्य द्वितीय एकः ||
एक एव चतुर्थस्य दारसङ्ग्रहणात्मकः ।। 1.23 ।।
|| ब्राह्मणस्य षट्कर्माणि.||
षष्कर्मा ब्राह्मणो ज्ञेयः कर्मणाध्यापनादिना ।
अध्यापनं चाध्ययनं यजनं याजनं तथा ।। 1.24 ।।
दानं प्रतिग्रहश्चेति षट्कर्माण्यग्रजन्मनः ।
|| क्षत्रियस्य त्रीणिकर्माणि.||
दानमध्ययनं यज्ञोवृत्तिस्त्रय्येव भूभुजाम् ।। 1.25 ।।
|| विशामपि त्रीणि शूद्रस्यैकम्.||
विशां च सैव शूद्रस्य शुश्रूषैकैव वर्तना ।
|| विप्रस्य सहजा गुणाः ||
आस्तिक्यमार्जवं शौचं (4) तपश्शान्तिर्दमः क्षमा ।। 1.26 ।।
(4.दमश्शान्तिः)
ज्ञानं विज्ञानमित्येते विप्रस्य सहजा गुणाः ।
||क्षत्रियस्य सहजा गुणाः ||
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।। 1.27 ।।
दानमिश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।
|| विशस्सहजा गुणाः ||
कर्षणं चैव वाणिज्यं गवां रक्षणमेव च ।। 1.28 ।।
स्वाभाविकं विशां कर्म
|| शूद्रस्य सहजो गुणः ||
शुश्रूषा पादजन्मनः ।
|| चतुर्णां वर्णानां दारसङ्ग्रहतारतम्यम्.||
शुद्रा शूद्रस्य भार्यैकासा च स्वाच विशस्म्सृता ।। 1.29 ।।
तेच स्वा च क्षितीशस्य ताश्च स्वा चाग्रजन्मनः ।
|| सजातीय विजातीय प्रजास्वरूपम्.||
स्वासु प्रजास्सजातीया श्चातुर्षर्ण्यमितीरितम् ।। 1.30 ।।
(5) अपरे जारजाती च कुण्डगोलकसंज्ञिते ।
(5.ते च स्वजातिजातश्च कुण्डगोलकसंज्ञिताः.)
|| गुण्डगोलक निरूपणम्.||
जारै रुत्पादिता वर्णास्सवर्णास्वेव भीरुषु ।। 1.31 ।।
सभर्तृकासु कुण्डोसौ गोलको विधवासुतः ।
|| कुण्डगोलकयोरध्यापनादित्रिके अनधिकारः.||
तयोर्विप्रजयोर्नेष्टं त्रयमध्यापनादिकम् ।। 1.32 ।।
||प्रसङ्ग्रादनुलोमविलोम जातिपृत्तिनिरूपणम्.||
|| तत्रानुलोमः ||
(6)सवर्णः क्षत्रियायां तु विप्रेणोढश्चिकित्सकः ।
आयुर्वेदमधीयूत मन्त्रवच्छोपनीय सः ।। 1.33 ।।
(6.सवर्णा क्षत्रिया यत्तेविप्रेणोढाश्चिकित्सकः. अत्र अशुद्धं समीकार्यम्.)
तत्र चौर्येण सम्भूतो ज्योतिर्वेदाभिजीविकः ।
ज्योतिर्विद्यां समभ्यस्ये दुपनीय समन्त्रकम् ।। 1.34 ।।
ब्राह्मणाध्यूढ वैश्यायामम्बष्ठश्शल्य(7)कृन्तकः ।
चौर्यात्कुलालः कुम्भूदि निर्माणं तस्य जीविका ।। 1.35 ।।
(7. कृत्तमः.)
मृण्मयू प्रतिमा चापि कार्या शोस्त्रेक्तवर्त्मना ।
नाभेरूर्ध्वं तु वपवनं पृत्तिरस्य विधीयते ।। 1.36 ।।
ब्राह्मणाध्यूढशूद्रायां जातःपारशवस्म्सृतः ।
अर्चनं सप्तमात्रूणआं पाद्यपादनमेव च ।। 1.37 ।।
तस्य वृत्तिर्निषादस्तु चौर्यात्स्यान्मृगघौतुकः ।
पट्टबन्धोचितौ चोभौ नृपजौ गुण्डगोलकौ ।। 1.38 ।।
क्षत्रियाद्विन्नवैश्यायां गोष्ठी (8) पण्योप जीवनः ।
चौर्येण जातो माहिष्यस्तुरङ्ग्रमवणिग्भवेत् ।। 1.39 ।।
(8.गोस्त्री.)
शूद्रायां क्षत्रियादुग्रो विन्नायां करिबन्धकः ।
चौर्येण शूलिको ज्ञेयश्शूलारोपणवृत्तिकः ।। 1.40 ।।
मणिकारश्शङ्खकारो वणिजौ गुण्डगोलकौ ।
करणो विन्नशूद्रायां वैश्याद्द्यूतादिजीवनः ।। 1.41 ।।
यौर्या (9) त्कटङ्करस्तस्य वृत्तिरेव कटक्रिया ।
मालवश्चाश्वपालश्च शूद्रजावश्वपौ सदा ।। 1.42 ।।
(9. कटकरस्तस्य.)
गवादिपालकोऽम्बष्ठ्यामाभीरो ब्राह्मणाद्भवेत् ।
विलोको वधकृत् क्षत्ता विप्रात्पार शवस्त्रियाम् ।। 1.43 ।।
माहिष्येण करण्यां तु रथकारो रथादिकृत् ।
शिल्पवित्सर्व (10) शिल्पानामाचार्यस्स च उच्यते ।। 1.44 ।।
(10. शिल्पीनाम्.)
|| प्रात्यानां ब्राह्मणादीनां वृत्तिः .||
प्रात्यानां ब्राह्मणादीनां त्रयाणां वृत्तिरुच्यते ।
मारणं मण्डनं क्षेमं समुद्रतरणं तथा ।। 1.45 ।।
|| विलोमनिरूपणम्.||
ब्राह्मण्यां क्षत्रियात्सूतो विवाहात्स्रतिलोमजः ।
सारथ्यं वृत्तिरेतस्य धर्माणां चैव बोधनम् ।। 1.46 ।।
उपवीतोपनयने प्राप्नोत्येव समन्त्रकम् ।
चौर्या त्तत्रैव सूतोऽन्यस्सोन्यसंस्कार कारकः ।। 1.47 ।।
तस्यां वैदेहको वैश्या द्विवाहाद्व्रस्त्रशुद्धिकृत् ।
मागधस्तद्र चौर्येण जङ्घाकरिक वृत्तिकः ।। 1.48 ।।
शूद्राद्ब्राह्मण येषायां विवाहाच्चौर्यतोऽपिवा ।
चण्डालो झुल्लरीकाक्षो मलनिर्ह रणादिकृत् ।। 1.49 ।।
आयोगवस्तन्तुवायो वैश्यादूढ नृपस्त्रियाम् ।
तत्रैव चौर्या दारण्यपुलिन्दो मृगघातुकः ।। 1.50 ।।
शूद्रान्नृपायां विन्नायां पुल्कनो लाक्षमद्यकृत् ।
(11)वैश्येन तत्र चौर्येण जृम्भनृत्तादिवर्तनः ।। 1.51 ।।
(11. शूद्रात्तत्रच.)
वैश्यायां शूद्रविन्नायां तक्षा स्यात्तक्षणादिकृत् ।
सोऽयं कांस्य स्वर्णकृत्स्यात् त्वष्टा च भ्रमिजीवनः ।। 1.52 ।।
नैल्यकृच्च स विज्ञेयो नीलवस्त्रादि चत्रकृत् ।
(12) एवं च जातिपालस्स्या च्चौर्याच्चक्रीतु तैलिकः ।। 1.53 ।।
(12.एनञ्जतिः पलाशस्स्यात्.)
शूद्रात्करण्यां वै जातः कूटकृच्छन दाहकः ।
ब्राह्मणान्नापितोऽम्पष्ठ्यामधोम पनवृत्तिकः ।। 1.54 ।।
प्रतिलोमानुलोमाभ्यां प्रतिलोमानुलोमतः ।
बहवस्सङ्करा जाता यथाभीरादि जातयः ।। 1.55 ।।
प्रकृतानुपयोगात्ते वर्ण्यन्तेन स्वरूपतः ।

इति श्रीपाञ्चकात्रे महोपनिषदि
पाद्म संहितायां चर्यापादे
जातिनिर्णयो नाम प्रथमोऽध्यायः.


***********-------


"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_१&oldid=206965" इत्यस्माद् पुनः प्राप्तिः